॥ नाट्यशास्त्रम् अध्यायः ४ ॥

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ चतुर्थोऽध्यायः । एवं तु पूजनं कृत्वा मया प्रोक्तः पितामहः । आज्ञापय प्रभो क्षिप्रं कः प्रयोगः प्रयुज्यताम् ॥ १॥ ततोऽस्म्युक्तो भगवता योजयामृतमन्थनम् । एतदुत्साहजननं सुरप्रीतिकरं तथा ॥ २॥ योऽयं समवकारस्तु धर्मकामार्थसाधकः । मया प्राग्ग्रथितो विद्वन्स प्रयोगः प्रयुज्यताम् ॥ ३॥ तस्मिन्समवकारे तु प्रयुक्ते देवदानवाः । हृष्टाः समभवन्सर्वे कर्मभावानुदर्शनात् ॥ ४॥ कस्यचित्वथ कालस्य मामाहाम्बुजसम्भवः नाट्यं सन्दर्शयामोऽद्य त्रिनेत्राय महात्मने ॥ ५॥ ततः सार्धं सुरैर्गत्वा वृषभाङ्कनिवेशनम् । समभ्यर्च्य शिवं पश्चादुवाचेदं पितामहः ॥ ६॥ मया समवाकरस्तु योऽयं सृष्टः सुरोत्तम । श्रवणे दर्शने चास्य प्रसादं कर्तुमर्हसि ॥ ७॥ पश्याम इति देवेशो द्रुहिणं वाक्यमब्रवीत् । ततो मामाह भगवान् सज्जो भव महामते ॥ ८॥ ततो हिमवतः पृष्ठे नानानागसमाकुले । बहुभूतगणाकीर्णे रम्यकन्दरनिर्ज़्हरे ॥ ९॥ पूर्वरङ्गः कृतः पूर्वं तत्रायं द्विजसत्तमाः । तथा त्रिपुरदाहश्च डिमसंज्ञः प्रयोजितः ॥ १०॥ ततो भूतगणा हृष्टाः कर्नभावानुकीर्तनात् । महादेवश्च सुप्रीतः पितामहमथाब्रवीत् ॥ ११॥ अहो नाट्यमिदं सम्यक् त्वया सृष्टं महामते । यशस्यं च शुभार्थं च पुण्यं बुद्धिविवर्धनम् ॥ १२॥ मयापीदं स्मृतं नृत्यं सन्ध्याकालेषु नृत्यता । नानाकरणसंयुक्तैरङ्गहारैर्विभूषितम् ॥ १३॥ पूर्वरङ्गविधावस्मिंस्त्वया सम्यक्प्रयोज्यताम् । वर्धमानकयोगेषु गीतेष्वासारितेषु च ॥ १४॥ महागीतेषु चैवार्थान्सम्यगेवाभिनेष्यसि । यश्चायं पूर्वरङ्गस्तु त्वया शुद्धः प्रयोजितः ॥ १५॥ एभिर्विमिश्रितश्चायं चित्रो नाम भविष्यति । श्रुत्वा महेश्वरवचः प्रत्युक्तस्तु स्वयंभुवा ॥ १६॥ प्रयोगमङ्गहाराणामाचक्ष्व सुरसत्तम । ततस्तण्डुं समाहूय प्रोक्तवान् भुवनेश्वरः ॥ १७॥ प्रयोगमङ्गहाराणामाचक्ष्व भरताय वै । ततो ये तण्डुना प्रोक्तास्त्वङ्गहारा महात्मना॥ १८॥ तान्वः करणसंयुक्तान्व्याख्यास्यामि सरेचकान् । स्थिरहस्तोऽङ्गहारस्तु तथा पर्यस्तकः स्मृतः ॥ १९॥ सूचिविद्धस्तथा चैव ह्यपविद्धस्तथैव च । आक्षिप्तकोऽथ विज्ञेयस्तथा चोद्धट्टितः स्मृतः ॥ २०॥ विष्कम्भश्चैव सम्प्रोक्तस्तथा चैवापराजितः । विष्कम्भापसृतश्चैअव मत्ताक्रीडस्तथैव च ॥ २१॥ स्वस्तिको रेचितश्चैव पार्श्वस्वस्तिक एव च । वृश्चिकापसृतः प्रोक्तो भ्रमरश्च तथापरः ॥ २२॥ मत्तस्खलितकश्चैव मदाद्विलसितस्तथा । गतिमण्डलको ज्ञेयः परिच्छिन्नस्तथैव च ॥ २३॥ परिवृत्तचितोऽथ स्यात्तथा वैशाखरेचितः । परावृत्तोऽथ विज्ञेयस्तथा चैवाप्यलातकः ॥ २४॥ पार्श्वच्छेदोऽथ सम्प्रोक्तो विद्युद्भ्रान्तस्तथैव च । ऊरूद्वृत्तस्तथा चैव स्यादालीढस्तथैव च ॥ २५॥ रेचितश्चापि विज्ञेयस्तथैवाच्छुरितः स्मृतः । आक्षिप्तरेचितश्चैव सम्भ्रान्तश्च तथापरः ॥ २६॥ अपसर्पस्तु विज्ञेयस्तथा चार्धनिकुट्टकः । द्वात्रिंशदेते सम्प्रोक्ता अङ्गहारास्तु नामतः ॥ २७॥ एतेषां तु प्रवक्ष्यामि प्रयोगं करणाश्रयम् । हस्तपादप्रचारश्च यथा योज्यः प्रयोक्तृभिः ॥ २८॥ अङ्गहारेषु वक्ष्यामि करणेषु च वै द्विजाः । सर्वेषामङ्गहाराणां निष्पत्तिः करणैर्यतः ॥ २९॥ तान्यतः सम्प्रवक्ष्यामि नामतः कर्मतस्तथा । हस्तपादसमायोगो नृत्यस्य करणं भवेत् ॥ ३०॥ द्वे नृत्तकरणे चैव भवतो नृत्तमातृका । द्वाभ्यां त्रिभिश्चतुर्भिर्वाप्यङ्गहारस्तु मातृभिः ॥ ३१॥ त्रिभिः कलापकं चैव चतुर्भिः षण्डकं भवेत् । पञ्चैव करणानि स्युः सङ्घातक इति स्मृतः ॥ ३२॥ षड्भिर्वा सप्तभिर्वापि अष्टभिर्नवभिस्तथा । करणैरिह संयुक्ता अङ्गहाराः प्रकीर्ताः ॥ ३३॥ एतेषामेव वक्ष्यामि हस्तपादविकल्पनम् । तलपुष्पपुटं पूर्वं वर्तितं वलितोरु च ॥ ३४॥ अपविद्धं समनखं लीनं स्वस्तिकरेचितम् । मण्डलस्वस्तिकं चैव निकुट्टकमथापि च ॥ ३५॥ तथैवार्धनिकुट्टं च कटिच्छिन्नं तथैव च । अर्धरेचितकं चैव वक्षःस्वस्तिकमेव च ॥ ३६॥ उन्मत्तं स्वस्तिकं चैव पृष्ठस्वस्तिकमेव च । दिक्स्वस्तिकमलातं च तथैव च कटीसमम् ॥ ३७॥ आक्षिप्तरेचितं चैव विक्षिप्ताक्षिप्तकं तथा । अर्धस्वस्तिकमुद्दिष्टमञ्चितं च तथापरम् ॥ ३८॥ भुजङ्गत्रासितं प्रोक्तमूर्ध्वजानु तथैव च । निकुञ्चितं च मत्तल्लि त्वर्धमत्तल्लि चैव हि ॥ ३९॥ स्याद्रेचकनिक्कुट्टं च तथा पादापविद्धकम् । वलितं घूर्णितं चैव ललितं च तथापरम् ॥ ४०॥ दण्डपक्षं तथा चैव भुजङ्गत्रस्तरेचितम् । नूपुरं चैव सम्प्रोक्तं तथा वैशाखरेचितम् ॥ ४१॥ भ्रमरं चतुरं चैव भुजङ्गाञ्चितमेव च । दण्डरेचितकं चैव तथा वृश्चिककुट्टितम् ॥४२॥ कटिभ्रान्तं तथा चैव लतावृश्चिकमेव च । छिन्नं च करणं प्रोक्तं तथा वृश्चिकरेचितम् ॥ ४३॥ वृश्चिकं व्यंसितं चैव तथा पार्श्वनिकुट्टकम् । ललाटतिलकं क्रान्तं कुञ्चितं चक्रमण्डलम् ॥ ४४॥ उरोमण्डलमाक्षिप्तं तथा तलविलासितम् । अर्गलं चाथ विक्षिप्तमावृत्तं दोलपादकम् ॥ ४५॥ विवृत्तं विनिवृत्तं च पार्श्वक्रान्तं निशुम्भितम् । विद्युत्भ्रान्तमतिक्रान्तं विवर्तितकमेव च ॥ ४६॥ गजक्रीडितकं चैव तलसंस्फोटितं तथा । गरुडप्लुतकं चैव गण्डसूचि तथापरम् ॥ ४७॥ परिवृत्तं समुद्दिष्टं पार्श्वजानु तथैव च । गृध्रावलीनकं चैव सन्नतं सूच्यथापि च ॥ ४८॥ अर्धसूचीति करणं सूचिविद्धं तथैव च । अपक्रान्तं च सम्प्रोक्तं मयूरललितं तथा ॥ ४९॥ सर्पितं दण्डपादं च हरिणप्लुतमेव च । प्रेङ्खोलितं नितम्बं च स्खलितं करिहस्तकम् ॥ ५०॥ प्रसर्पितकमुद्दिष्टं सिंहविक्रीडतं तथा । सिंहाकर्षितमुद्वृत्तं तथोपसृतमेव च ॥ ५१॥ तलसंघट्टितं चैव जनितं चावहित्थकम् । निवेशमेलकाक्रीडमूरूद्वृत्तं तथैव च ॥ ५२॥ मदस्खलितकं चैव विष्णुक्रान्तमथापि च । सम्भ्रान्तमथ विष्कम्भमुद्घट्टितमथापि च ॥ ५३॥ वृषभक्रीडितं चैव लोलितं च तथापरम् । नागापसर्पितं चैव शकटास्यं तथैव च ॥ ५४॥ गङ्गावतरणं चैवेत्युक्तमष्टाधिकं शतम् । अष्टोत्तरशतं ह्येतत्करणानां मयोदितम् ॥ ५५॥ नृत्ये युद्धे नियुद्धे च तथ गतिपरिक्रमे । गतिप्रचारे वक्ष्यामि युद्धचारीविकल्पनम् ॥ ५६॥ यत्र तत्रापि संयोज्यमाचार्यैर्नाट्यशक्तिनः । प्रायेण करणे कार्यो वामो वक्षःस्थितः करः ॥ ५७॥ चरणस्यानुगश्चापि दक्षिणस्तु भवेत्करः । हस्तपादप्रचारन्तु कटिपार्श्वोरुसंयुतम् ॥ ५८॥ उरःपृष्ठोदरोपेतं वक्ष्यमाणं निबोधत । यानि स्थानानि याश्चार्यो नृत्यहस्तास्तथैव च ॥ ५९॥ सा मातृकेति विज्ञेया तद्योगात्करणं भवेत् । कटी कर्णसमा यत्र कोर्परांसशिरस्तथा ॥ ६०॥ समुन्नतमुरश्चैव सौष्ठवं नाम तद्भवेत् । वामे पुष्पपुटः पार्श्वे पादोऽग्रतलसञ्चरः ॥ ६१॥ तथा च सन्नतं पार्श्वं तलपुष्पपुटं भवेत् । कुञ्चितौ मणिबन्धे तु व्यावृत्तपरिवर्तितौ ॥ ६२॥ हस्तौ निपतितौ चोर्वोर्वर्तितं करणं तु तत् । शुकतुण्डौ यदा हस्तौ व्यावृत्तपरिवर्तितौ ॥ ६३॥ उरू च वलितौ यस्मिन्वलितोरुकमुच्यते । आवर्त्य शुकतुण्डाख्यमूरुपृष्ठे निपातयेत् ॥ ६४॥ वामहतश्च वक्षःस्थोऽप्यपविद्धं तु तद्भवेत् । श्लिष्टौ समनखौ पदौ करौ चापि प्रलिम्बितौ ॥ ६५॥ देहः स्वाभाविको यत्र भवेत्समनखं तु तत् । पताकाञ्जलि वक्षःस्थं प्रसारितशिरोधरम् ॥ ६६॥ निहञ्चितांसकूटं च तल्लिनं करणं स्मृतम् । स्वस्तिकौ रेचिताविद्धौ विश्लिष्टौ कटिसंश्रितौ ॥ ६७॥ यत्र तत्करणं ज्ञेयं बुधैः स्वस्तिकरेचितम् । स्वस्तिकौ तु करौ कृत्वा प्राङ्गमुखोर्ध्वतलौ समौ ॥ ६८॥ तथा च मण्डलं स्थानं मण्डलस्वस्तिकं तु तत् । निकुट्टितौ यदा हस्तौ स्वबाहुशिरसोऽन्तरे ॥ ६९॥ पादौ निकुट्टितौ चैव ज्ञेयं तत्तु निकुट्टकम् । अञ्चितौ बाहुशिरसि हस्तस्त्वभिमुखाङ्गुलिः ॥ ७०॥ निकुञ्चितार्धयोगेन भवेदर्थनिकुट्टकम् । पर्यायशः कटिश्छिन्ना बाह्वोः शिरसि पल्लवौ ॥ ७१॥ पुनःपुनश्च करणं कटिच्छिनं तु तद्भवेत् । अपविद्धकरः सूच्या पादश्चैव निकुट्टितः ॥ ७२॥ संन्नतं यत्र पार्श्वं च तद्भवेअर्धरेचितम् । स्वस्तिकौ चरणौ यत्र करौ वक्षसि रेचितौ ॥ ७३॥ निकुञ्चितं तथा वक्षो वक्षस्स्वस्तिकमेव तत् । आञ्चितेन तु पादेन रेचितौ तु करौ यदा ॥ ७४॥ उन्मतं करणं तत्तु विज्ञेयं नृत्यकोविदैः । हस्ताभ्यामथ पादाभ्यां भवतः स्वस्तिकौ यदा ॥ ७५॥ तत्स्वस्तिकमिति प्रोक्तं करणं करणार्थिभिः । विक्षिप्ताक्षिप्तबाहुभ्यां स्वस्तिकौ चरणौ यदा ॥ ७६॥ अपक्रान्तार्धसूचिभ्यां तत्पृष्ठस्वस्तिकं भवेत् । पार्श्वयोरग्रतश्चैव यत्र श्लिष्टः करो भवेत् ॥ ७७॥ स्वस्तिकौ हस्तपादाभ्यां तद्दिक्स्वस्तिकमुच्यते । अलातं चरणं कृत्वा व्यंसयेद्दक्षिणं करम् ॥ ७८॥ ऊर्ध्वजानुक्रमं कुर्यादलातकमिति स्मृतम् । स्वस्तिकापसृतः पादः करौ नाभिकटिस्थितौ ॥ ७९॥ पार्श्वमुद्वाहितं चैव करणं तत्कटीसमम् । हस्तौ हृदि भवेद्वामः सव्यश्चाक्षिप्तरेचितः ॥८०॥ रेचितश्चापविद्धश्च तत्स्यादाक्षिप्तरेचितम् । विक्षिप्तं हस्तपादं च तसैवाक्षेपणं पुनः ॥ ८१॥ यत्र तत्करणं ज्ञेयं विक्षिप्ताक्षिप्तप्तकं द्विजाः । स्वस्तिकौ चरणौ कृत्वा करिहस्तं च दक्षिणम् ॥ ८२॥ वक्षस्थाने तथा वाममर्धस्वस्तिकमादिशेत् । व्यावृत्तपरिवृत्तस्तु स एव तु करो यदा ॥ ८३॥ अञ्चितो नासिकाग्रे तु तदञ्चितमुदाहृतम् । कुञ्चितं पादमुत्क्षिप्य त्र्यश्रमूरुं विवर्तयेत् ॥ ८४॥ कटिजानुविवर्ताच्च भुजङ्गत्रासितं भवेत् । कुञ्चितं पादमुत्क्षिप्य जनुस्तनसमं न्यसेत् ॥ ८५॥ प्रयोगवशगौ हस्तावूर्ध्वजानु प्रकीर्तितम् । वृश्चिकं चरणं कृत्वा करं पार्श्वे निकुञ्चयेत् ॥ ८६॥ नासाग्रे दक्षिणं चैव ज्ञेयं तत्तु निकुञ्चितम् । वामदक्षिणपादाभ्यां घूर्णमानोपसर्पणैः ॥८७॥ उद्वेष्टितापविद्धैश्च हस्तैर्मत्तल्ल्युदाहृतम् । स्स्खलितापसृतौ पादौ वामहस्तश्च रेचितः ॥ ८८॥ सव्यहस्तः कटिस्थः स्यादर्धमत्तल्लि तत्स्मृतम् । रेचितो दक्षिणो हस्तः पादः सव्यो निकुट्टितः ॥ ८९॥ दोला चैव भवेद्वामस्तद्रेचितनिकुट्टितम् । कार्यौ नाभितटे हस्तौ प्राङ्मुखौ खटकामुखौ ॥ ९०॥ सूचीविद्धावपक्रान्तौ पादौ पादापविद्धके । अपविद्धो भवेद्धस्तः सूचीपादस्तथैअव च ॥ ९१॥ तथा त्रिकं विवृत्तं च वलितं नाम तद्भवेत् । वर्तिताघूर्णितः सव्यो हस्तो वामश्च दोलितः ॥ ९२॥ स्वस्तिकापसृतः पादः करणं घूर्णितं तु तत् । करिहस्तो भवेद्वामो दक्षिणश्च विवर्तितः ॥ ९३॥ बहुशः कुट्टितः पदो ज्ञेयं तल्ललितं बुधैः । ऊर्ध्वजानुं विधायाथ तस्योपरि लतां न्यसेत् ॥ ९४॥ दण्ड्पक्षं तत्प्रोक्तं कर्णं नृत्यवेदिभिः । भुजङ्गत्रासितं कृत्वा यत्रोभावपि रेचितौ ॥ ९५॥ वामपार्श्वस्थ्तौ हस्तौ भुजङ्गत्रस्तरेचितम् । त्रिकं सुवलितं कृत्वा लतारेचितकौ करौ ॥ ९६॥ नूपुर्श्च तथा पादः करण्E नूपुरे न्यसेत् । रेचितौ हस्तपादौ च कटी ग्रीवा च रेचिता ॥ ९७॥ वैशाखस्थानकेनैतद्भवेवैशाखरेचितम् । आक्षिप्तः स्वस्तिकः पादः करौ चोद्वेष्टितौ तथा ॥ ९८॥ त्रिकस्य वलनाच्चैव ज्ञेयं भ्रमरकं तु तत् । अञ्चितः स्यात्करो वामः सव्यश्चतुर एव तु ॥ ९९॥ दक्षिणः कुट्टितः पादश्चतुरं तत्प्रकीर्तितम् । भुजङ्गत्रासितः पादो दक्षिणो रेचितः करः ॥ १००॥ लताख्यश्च करो वामो भुजङ्गाञ्चितकं भवेत् । विक्षिप्तं हस्तपादं तु समन्ताद्यत्र दण्डवत् ॥ १०१॥ रेच्यते तद्धि करणं ज्ञेयं दण्डकरेचितम् । वृश्चिकं चरणं कृत्वा द्वावप्यथ निकुट्टितौ ॥ १०२॥ विधातव्यौ करौ तत्तु ज्ञेयं वृश्चिककुट्टितम् । सूचिं कृत्वापविद्धं च दक्षिणं चरणं न्यसेत् ॥ १०३॥ रेचिता च कटिर्यत्र कटिभ्रान्तं तदुच्यते । अञ्चितः पृष्ठतः पादः कुञ्चितोर्ध्वतलाङ्गुलिः ॥ १०४॥ लताख्यश्च करो वामस्तल्लतावृश्चिकं भवेत् । अलपद्मः कटीदेशे छिन्ना पर्यायशः कटी ॥ १०५॥ वैशाखस्थानकेनेह तच्छिन्नं करणं भवेत् । वृश्चिकं चरणं कृत्वा स्वस्तिकौ च करवुभौ ॥ १०६॥ रेचितौ विप्रकीर्णौ च करौ वृश्चिकरेचितम् । बाहुशीर्षाञ्चितौ हस्तौ पादः पृष्ठाञ्चितस्तथा ॥ १०७॥ दूरसन्नतपृष्ठं च वृश्चिकं तत्प्रकीर्तितम् । आलीढं स्थानकं यत्र करौ वक्षसि रेचितौ ॥ १०८॥ ऊर्ध्वाधो विप्रकीर्णौ च व्यंसितं करणं तु तत् । हस्तौ तु स्वस्तिकौ पार्श्वे तथा पादो निकुट्टितः ॥ १०९॥ यत्र तत्करणं ज्ञेयं बुधैः पार्श्वनिकुट्टितम् । वृश्चिकं चरणं कृत्वा पादस्याङ्गुष्ठकेन तु ॥ ११०॥ ललाटे तिलकं कुर्याल्ललाटतिलकं तु तत् । पृष्ठतः कुञ्चितं कृत्वा व्यतिक्रान्तक्रमं ततः ॥ १११॥ आक्षिप्तौ च करौ कार्यौ क्रान्तके करणे द्विजाः । आद्यः पादो नतः कार्यः सव्यहस्तश्च कुञ्चितः ॥ ११२॥ उत्तानो वामपार्श्वस्थस्तत्कुञ्चितमुदाहृतम् । प्रलम्बिताभ्यां बाहुभ्यां यद्गात्रेणानतेन च ॥ ११३॥ अभ्यन्तरापविद्धः स्यात्तज्ज्ञेयं चक्रमण्डलम् । स्वस्तिकापसृतौ पादावपविद्धक्रमौ यदा ॥ ११४॥ उरोमण्डलकौ हस्तावुरोमण्डलिकस्तु तत् । आक्षिप्तं हस्तपादं च क्रियते यत्र वेगतः ॥ ११५॥ आक्षिओतं नाम करणं विज्ञेयं तत्द्विजोत्तमाः । ऊर्ध्वाङ्गुलितलः पादः पार्श्वेनोर्ध्वं प्रसारितः ॥ ११६॥ प्रकुर्यादञ्चिततलौ हस्तौ तलविलासिते । पृष्ठतः प्रसृतः पादौ द्वौ तालावर्धमेव च ॥ ११७॥ तस्येव चानुगो हस्तः पुरतस्त्वर्गलं तु तत् । विक्षिप्तं हस्तपादं च पृष्ठतः पार्श्वतोऽपि वा ॥ ११८॥ एकमार्गगतं यत्र तद्विक्षिप्तमुदाहृतम् । प्रसार्य कुञ्चितं पादं पुनरावर्तयेत् द्रुतम् ॥ ११९॥ प्रयोगवशगौ हस्तौ तदावर्तमुदाहृतम् । कुञ्चितं पादमुत्क्षिप्य पार्श्वात्पार्श्वं तु डोलयेत् ॥ १२०॥ प्रयोगवशगौ हस्तौ डोलापादं तदुच्यते । आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तयेत् ॥ १२१॥ रेचितौ च तथा हस्तौ विवृत्ते करणे द्विजाः । सूचीविद्धं विधायाथ त्रिकं तु विनिवर्तयेत् ॥ १२२॥ करौ च रेचितौ कार्यौ विनिवृत्ते द्विजोत्तमः । पार्श्वक्रान्तक्रमं कृत्वा पुरस्तादथ पातयेत् ॥ १२३॥ प्रयोगवशगौ हस्तौ पार्श्वक्रान्तं तदुच्यते । पृष्ठतः कुञ्चितः पादौ वक्षश्चैव समुन्नतम् ॥ १२४॥ तिलके च करः स्थाप्यस्तन्निस्तम्भितमुच्यते । पृष्ठतो वलितं पादं शिरोघृष्टं प्रसारयेत् ॥ १२५॥ सर्वतो मण्डलाविद्धं विद्युद्भ्रान्तं तदुच्यते । अतिक्रान्तक्रमं कृत्वा पुरस्तात्सम्प्रसारयेत् ॥ १२६॥ प्रयोगवशगौ हस्तावतिक्रान्ते प्रकीर्तितौ । आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तितम् ॥ १२७॥ द्वितीयो रेचितो हस्तो विवर्तितकमेव तत् । कर्णेऽञ्चितः करो वामो लताहस्तश्च दक्षिणः ॥ १२८॥ दोलापादस्तथा चैव गजक्रीडितकं भवेत् । द्रुतमुत्क्षिप्य चरणं पुरस्तादथ पातयेत् ॥ १२९॥ तलसंस्फोटितौ हस्तौ तलसंस्फोटिते मतौ । पृष्ठप्रसारितः पादः लतारेचितकौ करौ ॥ १३०॥ समुन्नतं शिरश्चैव गरुडप्लुतकं भवेत् । सूचिपादो नतं पार्श्वमेको वक्षःस्थितः करः ॥ १३१॥ द्वितीयश्चाञ्चितो गण्डे गण्डसूची तदुच्यते , ऊर्ध्वापवेष्टितौ हस्तौ सूचीपादो विवर्तितः ॥ १३२॥ परिवृत्तत्रिकं चैव परिवृत्तं तदुच्यते । एकः समस्थितः पाद ऊरुपृष्ठे स्थितोऽपरः ॥ १३३॥ मुष्टिहस्तश्च वक्षःस्थः पार्श्वजानु तदुच्यते । पृष्ठप्रसारितः पादः किञ्चितञ्चित जानुकः ॥ १३४॥ यत्र प्रसारितो बाहू तत्स्यात् गृध्रावलीनकम् । उत्प्लुत्य चरणौ कार्यावग्रतः स्वस्तिकस्थितौ ॥ १३५॥ सन्नतौ च तथा हस्तौ सन्नतं तदुदाहृतम् । कुञ्चितं पादमुत्क्षिप्य कुर्यादग्रस्थितं भुवि ॥ १३६॥ प्रयोगवशगौ हस्तौ सा सूची परिकीर्तिता । अलपद्मः शिरोहस्तः सूचीपादश्च दक्षिणः ॥ १३७॥ यत्र तत्करणं ज्ञेअयमर्धसूचीति नामतः । पादसूच्या यदा पादो द्वितीयस्तु प्रविध्यते ॥ १३८॥ कटिवक्षःस्थितौ हस्तौ सूचीविधं तदुच्यते । कृत्वोरुवलितं पादमपक्रान्तक्रमं न्यसेत् ॥ १३९॥ प्रयोगवशगौ हस्तवपक्रान्तं तदुच्यते । वृश्चिकं चरणं कृत्वा रेचितौ च तथा करौ ॥ १४०॥ तथा त्रिकं विवृत्तं च मयूरललितं भवेत् । अञ्चितापसृतौ पादौ शिरश्च परिवाहितम् ॥ १४१॥ रेचितौ च तथा हस्तौ तत्सर्पितमुदाहृतम् । नूपुरं चरणं कृत्वा दण्डपादं प्रसारयेत् ॥ १४२॥ क्षिप्राविद्धकरं चैव दण्डपादं तदुच्यते । अतिक्रान्तक्रमं कृत्वा समुत्प्लुत्य निपातयेत् ॥ १४३॥ जङ्घाञ्चितोपरि क्षिप्ता तद्विद्याद्धरिणप्लुतम् । (see the cluster ~NghA. A new ligature may be added to represent this cluster) डोलापादक्रमं कृत्वा समुत्प्लुत्य निपातयेत् ॥१४४॥ परिवृत्तत्रिकं चैव तत्प्रेङ्खोलितमुच्यते । भुजावूर्ध्वविनिष्क्रान्तौ हस्तौ चाभि ( धो ) मुखाङ्गुली ॥ १४५॥ बद्धा चारी तथ चैव नितम्बे करणे भवेत् । दोलापादक्रमं कृत्वा हस्तौ तदनुगावुभौअ ॥ १४६॥ रेचितौ घूर्णितौ वापि स्खलितं करणं भवेत् । एको वक्षःस्थितो हस्तः प्रोद्वेष्टिततलोऽपरः ॥ १४७॥ अञ्चितश्चरणश्चैव प्रयोज्यः करिहस्तके । एकस्तु रेचितो हस्तो लताख्यस्तु तथा परः ॥ १४८॥ प्रसर्पिततलौ पादौ प्रसर्पितकमेव तत् । अलातं च पुरःकृत्वा द्वितीयं च द्रुतक्रमम् ॥ १४९॥ हस्तौ पादानुगौ चापि सिंहविक्रीडिते स्मृतौ । पृष्ठप्रसर्पितः पादस्तथा हस्तौ निकुञ्चितौ ॥ १५०॥ पुनस्तथैव कर्तव्यौ सिंहाकर्ष्तके द्विजाः । आक्षिप्तहस्तमाक्षिप्तदेहमाक्षिप्तपादकम् ॥ १५१॥ अद्वृत्तगात्रमित्येतदुद्वृतां करणं स्मृतम् । आक्षिप्तचरणश्चैको हस्तौ तस्यैव चानुगौ ॥ १५२॥ आनतं च तथ गात्रं तयोपसृतकं भवेत् दोलापादक्रमं कृत्वा तलसङ्घट्टितौ करौ ॥ १५३॥ रेचयेच्च करं वामं तलसङ्घट्टिते सदा । एको वक्षःस्थितो हस्तो द्व्तीयश्च प्रलम्बितः ॥ १५४॥ तलाग्रसंस्थितः पादो जनिते करणे भवेत् । जनितं करणं कृत्वा हस्तौ चाभिमुखाङ्गुली ॥ १५५॥ शनैर्निपतितो चैव ज्ञेयं तदवहित्थकम् । करौ वक्षःस्थितौ कार्यावुरौ निर्भुग्नमेव च ॥ १५६॥ मण्डलस्थानकं चैव निवेशं करणं तु तत् । तलसञ्चरपादाभ्यामुत्प्लुत्य पतनं भवेत् ॥१५७॥ संनतं वलितं गात्रमेलकाक्रीडितं तु तत् । करमावृत्तकरणमूरुपृष्ठेऽञ्चितं न्यसेत् ॥ १५८॥ जङ्घाञ्चिता तथोद्वृत्ता ह्यूरूद्वृत्तं तु तद्भवेत् । करौ प्रलम्बितौ कार्यो शिरश्च परिवाहितम् ॥ १५९॥ पादौ च वलिताविध्दौअ मदस्खलितके द्विजाः । पुरः प्रसारितः पादः कुञ्चितो गगनोन्मुखः ॥ १६०॥ करौ च रेचितौ यत्र विष्णुक्रान्तं तदुच्यते । करमावर्तितं कृत्वा ह्यूरुपृष्ठे निकुञ्चयेत् ॥१६१॥ ऊरुश्चैव तथाविद्धः सम्भ्रान्तं करणं तु तत् । अपविद्धः करः सूच्या पादश्चैव निकुट्टितः ॥ १६२॥ वक्षःस्थश्च करो वामो विष्कम्भे करणे भवेत् । पादावुद्धट्टितौ कार्यौ तलसङ्घट्टितौ करौ ॥ १६३॥ नतश्च पार्श्वं कर्तव्यं बुधैरुद्धट्टिते सदा । प्रयुज्यालातकं पूर्वं हस्तौ चापि हि रेचयेत् ॥ १६४॥ कुञ्चितावञ्चितौ चैव वृषभक्रीडिते सदा । रेचितावञ्चितौ हस्तौ लोलितं वर्तितं शिरः ॥ १६५॥ उभयोःपार्श्वयोर्यत्र तल्लोलितमुदाहृतम् । स्वस्तिकापसृतौ पादौ शिरश्च परिवाहितम्॥ १६६॥ रेचितौ च तथा हस्तौ स्यातां नागापसर्पिते । निषण्णाङ्गस्तु चरणं प्रसार्य तलसञ्चरम् ॥ १६७॥ उद्वाहितमुरः कृत्वा शकटास्यं प्रयोजयेत् । ऊर्ध्वाङ्गुलितलौ पादौ त्रिपताकावधोमुखौ ॥ १६८॥ हस्तौ शिरस्सन्नतं च गङ्गावतरणं त्विति । यानि स्थानानि याश्चार्यो व्यायामे कथितानि तु ॥ १६९॥ पादप्रचारस्त्वेषां तु करणानामयं भवेत् । ये चापि नृत्तहस्तास्तु गदिता नृत्तकर्मणि ॥ १७०॥ तेषां समासतो योगः करणेषु विभाव्यते । प्रायेण करणे कार्यो वामो वक्षःस्थितः करः ॥ १७१॥ चरणश्चानुगश्चापि दक्षिणस्तु भवेत्करः । चार्यश्चैव तु याः प्रोक्ता नृत्तहस्तास्तथैव च ॥ १७२॥ सा मातृकेति विज्ञेया तद्भेदात्करणानि तु । अष्टोत्तरशतं ह्येतत्करणानां मयोदितम् ॥ १७३॥ अतः परं प्रवक्ष्यामि ह्यङ्गहारविकल्पनम् । प्रसार्योत्क्षिप्य च करौ समपादं प्रयोजयेत् ॥ १७४॥ व्यंसितापसृतं सव्यं हस्तमूर्ध्वं प्रसारयेत् । प्रत्यालीढं ततः कुर्यात् तथैव च निकुट्टकम् ॥ १७५॥ ऊरूद्वृत्तं ततः कुर्यादक्षिप्तं स्वस्तिकं ततः । नितम्बं करि हस्तं च कटिच्छिन्नं च योगतः ॥ १७६॥ स्थिरहस्तो भवेदेष त्वङ्गहारो हरप्रियः । तलपुष्पापविद्धे द्वे वर्तितं संनिकुट्टिकम् ॥ १७७॥ ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ १७८॥ एष पर्यस्तको नाम ह्यङ्गहारो हरोद्भवः । अलपल्लवसूचीं च कृत्वा विक्षिप्तमेव च ॥१७९॥ आवर्तितं ततः कुर्यात्तथैअव च निकुट्टकम् । ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च ॥ १८९॥ करिहस्तं कटिच्छिन्नं सूचीविद्धो भवेदयम् । अपविद्धं तु करणं सूचीविद्धं तथैव च ॥ १८१॥ उद्वेष्टितेन हस्तेन त्रिकं तु परिवर्तयेत् । उरोमण्डलकौ हस्तौ कटिच्छिन्नं तथैव च ॥ १८२॥ अपविद्धोऽङ्गहाराश्च विज्ञेयोऽयं प्रयोक्तृभिः । करणं नूपुरं कृत्वा विक्षिप्तालातके पुनः ॥ १८३॥ पुनराक्षिप्तकं कुर्यादुरोमण्डलकं तथा । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ १८४॥ आक्षिप्तकः स विज्ञेयो ह्यङ्गहारः प्रयोक्तृभिः । उद्वेष्टितापविद्धस्तु करः पादो निकुट्टितः ॥ १८५॥ पुनस्तैनैव योगेन वामपार्श्वे भवेदथ । उरोमण्डलकौ हस्तौ नितम्बं करिहस्तकम् ॥ १८६ कर्तव्यं सकटिच्छिन्नं नृत्ये तूद्धट्टिते सदा । पर्यायोद्वेष्टितौ हस्तौ पादौ चैव निकुट्टितौ ॥ १८७॥ कुञ्चितावञ्चितौअ चैव ह्यूरूद्वृत्तं तथैव च । चतुरश्रं करं कृत्वा पादेन च निकुट्टकम् ॥ १८८॥ भुजङ्गत्रासितं चैव करं चोद्विष्टितं पुनः । परिच्छिन्नं च कर्तव्यं त्रिकं भ्रमरकेण तु ॥ १८९॥ करिहस्तं कटिच्छिन्नं विष्कम्भे परिकीर्तितम् । दण्डपादं करं चैव विक्षिप्याक्षिप्य चैव हि ॥ १९०॥ व्यंसितं वामहस्तं च सह पादेन सर्पयेत् । निकुट्टकद्वयं कार्यमाक्षिप्तं मण्डलोरसि ॥ १९१॥ करिहस्तं कटिच्छिन्नं कर्तव्यमपराजिते । कुट्टितं करणं कृत्वा भुजङ्गत्रासितं तथा ॥ १९२॥ रेचितेन तु हस्तेन पताकं हस्तमादिशेत् । आक्षिप्तकं प्रयुञ्जीत ह्युरोमण्डलकं तथा ॥ १९३॥ लताख्यं सकटकच्छिन्नं विष्कम्भापसृते भवेत् । त्रिकं सुवलितं कृत्वा नूपुरं करणं तथा ॥ १९४॥ भुजङ्गत्रासितं सव्यं तथा वैशाखरेचितम् । आक्षिप्तकं ततः कृत्वा परिच्छिन्नं तथैव च ॥ १९५॥ बाह्यभ्रमरकं कुर्यादुरोमण्डलमेव च । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ १९६॥ मत्ताक्रीडो भवेदेष ह्यङ्गहारो हरप्रियः । रेचितं हस्तपादं च कृत्वा वृश्चिकमेव च ॥ १९७॥ पुनस्तेनैव योगेन वृश्चिकं सम्प्रयोजयेत् । निकुट्टकं तथा चैव सव्यासव्यकृतं क्रमात् ॥१९८॥ लताख्यः सकटिच्छेदो भवेत्स्वस्तिकरेचिते । पार्श्वे तु स्वस्तिकं बद्ध्वा कार्यं त्वथ निकुट्टकम् ॥ १९९॥ द्वितीयस्य च पार्श्वस्य विधिः स्याद्यमेव हि । ततश्च करमावर्त्य ह्यूरूपृष्ठे निपातयेत् ॥ २००॥ ऊरूद्वृत्तं ततः कुर्यादाक्षिप्तं पुनरेव हि । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ २०१॥ पार्श्वस्वस्तिक इत्येष ह्यङ्गहारः प्रकीर्तितः । वृश्चिकं करणं कृत्वा लताख्यं हस्तमेव च ॥ २०२॥ तमेव च करं भूयो नासाग्रे सन्निकुञ्चयेत् । तमेवोद्वेष्टितं कृत्वा नितम्बं परिवर्तयेत् ॥ २०३॥ करिहस्तं कटिच्छिन्नं वृश्चिकापसृते भवेत् । कृत्वा नूपुरपादं तु तथाक्षिप्तकमेव च ॥ २०४॥ परिच्छिन्नं च कर्तव्यं सूचीपादं तथैव च । नितम्बं करिहस्तं चाप्युरोमण्डलकं तथा ॥ २०५ ॥ कटीच्छिन्नं ततश्चैव भ्रमरः स तु संज्ञितः । मतल्लिकरणं कृत्वा करमावर्त्य दक्षिणम् ॥ १०६॥ कपोलस्य प्रदेशे तु कार्यं सम्यङ्निकुञ्चितम् अपविद्धं द्रुतं चैव तलसंस्फोटसंयुतम् ॥ २०७॥ करिहस्तं कटिच्छिन्नं मत्तस्खलितके भवेत् । दोलैः करैः प्रचलितैः स्वस्तिकापसृतैः पदैः ॥ २०८॥ अञ्चितैर्वलितैर्हस्तैस्तलसङ्घट्टितैस्तथा । निकुट्टितं च कर्तव्यमूरूद्वृतं तथैव च ॥ २०९॥ करिहस्तं कटिच्छिन्नं मदाद्विलसिते भवेत् । मण्डलं स्थानकं कृत्वा तथा हस्तौ च रेचितौ ॥ २१०॥ उद्घट्टितेन पादेन मत्तल्लिकरणं भवेत् । आक्षिप्तं करणं चैव ह्युरोमण्डलमेव च ॥ २११॥ कटिच्छिन्नं तथा चैव भवेत्तु गतिमण्डले । समपादं प्रयुज्याथ परिच्छिन्नं त्वनन्तरम् ॥ २१२॥ आविद्धेन तु पादेन बाह्यभ्रमरकं तथा । वामसूच्या त्वतिक्रान्तं भुजङ्गत्रासितं तथा ॥ २१३॥ करिहस्तं कटिच्छिन्नं परिच्छिन्ने विधीयते । शिरसस्तूपरि स्थाप्यौ स्वस्तिअकौ विच्युतौ करौ । २१४॥ ततः सव्यं करं चापि गात्रमानम्य रेचयेत् । पुनरुत्थापयेत्तत्र गात्रमुन्नम्य रेचितम् ॥ २१५॥ लताख्यौ च करौ कृत्वा वृश्चिकं सम्प्रयोजयेत् । रेचितं करिहस्तं च भुजङ्गत्रासितं तथा ॥ २१६॥ आक्षिप्तकं प्रयुञ्जीत स्वस्तिकं पादमेव च । पराङ्ग्मुखविधिर्भूय एवमेव भवेदिह ॥ २१७॥ करिहस्तं कटिच्छिन्नं परिवृत्तकरेचिती । रेचितौ सह गात्रेण ह्यपविद्धौ करौ यदा ॥ २१८॥ पुनस्तेनैव देशेन गात्रमुन्नम्य रेचयेत् । कुर्यान्नूपुरपादं च भुजङ्गत्रासितं तथा ॥ २१९॥ रेचितं मण्डलं चैव बाहुशीर्षे निकुञ्चयेत् । ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च ॥ २२०॥ करिहस्तं कटिच्छिन्नं कुर्याद्वैशाखरेचिते । आद्यं तु जनितं कृत्वा पादमेकं प्रसारयेत् ॥२२१॥ तथैवालातकं कुर्यात् त्रिकं तु परिवर्तयेत् । अञ्चितं वामहस्तं च गण्डदेशे निकुट्टयेत् ॥ २२२॥ कटिच्छिन्नं तथा चैव परावृत्ते प्रयोजयेत् । स्वस्तिकं करणं कृत्वा व्यंसितौ च करौ पुनः ॥ २२३॥ अलातकं प्रयुञ्जीत ह्यूर्ध्वजानु निकुञ्चितम् । अर्धसूची च विक्षिप्तमुद्वृत्ताक्षिप्तके तथा ॥ २२४॥ करिहस्तं कटिच्छिन्नमङ्गहारे ह्यलातके । निकुट्य वक्षसि करावूर्ध्वजानु प्रयोजयेत् ॥ २२५॥ आक्षिप्तस्वस्तिकं कृत्वा त्रिकं तु परिवर्तयेत् । उरोमण्डलकौ हस्तौ नितम्बं करिहस्तकम् ॥ २२६॥ कटिच्छिन्नं तथा चैव पार्श्वच्छेदे विधीयते । सूचीवामपदं दध्याद्विद्युद्भ्रान्तं च दक्षिणम् ॥ २२७॥ दक्षिणेन पुनः सूची विद्युद्भ्रान्तं च वामतः । परिच्छिन्नं तथा चैव ह्यतिक्रान्तं च वामकम् ॥ २२८॥ लताख्यं सकटिच्छिन्नं विद्युद्भ्रान्तश्च स स्मृतः । कृत्वा नूपुरपादं तु सव्यवामौ प्रलम्बितौ ॥ २२९॥ करौ पार्श्वे ततस्ताभ्यां विक्षिप्तं सम्प्रयोजयेत् । ताभ्यां सूची तथा चैव त्रिकं तु परिवर्तयेत् ॥ २३०॥ लताख्यं सकटिच्छिन्नं कुर्तादुद्वृत्तके सदा । आलीढव्यंसितौ हस्तौ बाहुशीर्षे निकुट्टयेत् ॥ २३१॥ नूपुरश्चरणो वामस्तथालातश्च दक्षिणः । तेनैवाक्षिप्तकं कुर्यादुरोमण्डलकौ करौ ॥२३२॥ करिहस्तं कटिच्छिन्नमालीढे सम्प्रयोजयेत् । हस्तं तु रेचितं कृत्वा पार्श्वमानस्य रेचयेत् ॥ २३३॥ पुनस्तेनैव योगेन गात्रमानस्य रेचयेत् । रेचितं करणं कार्यमुरोमण्डलमेव च ॥ २३४॥ कटिच्छिन्नं तु कर्तव्यमङ्गहारे तु रेचिते । नूपुरं चरणं कृत्वा त्रिकं तु परिवर्तयेत् ॥२३५॥ व्यंसितेन तु हस्तेन त्रिकमेव विवर्तयेत् । वामं चालातकं कृत्वा सूचीमत्रैव योजयेत् ॥२३६॥ करिहस्तं कटिच्छिन्नं कुर्यादाच्छुरिते सदा । रेचितौ स्वस्तिकौ पादौ रेचितौ स्वस्तिकौ करौ ॥ २३७॥ कृत्वा विश्लेषमेवं तु तेनैव विधिना पुनः । पुनरुत्क्षेपणं चैव रेचितैरेव कारयेत् ॥ २३८॥ उद्वृत्ताक्षिप्तके चैव ह्युरोमण्डलमेव च । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ २३९॥ आक्षिप्तरेचितो ह्येष करणानां विधिः स्मृतः । विक्षिप्त करणं कृत्वा हस्तपादं मुखागमम् ॥ २४०॥ वामसूचिसहकृतं विक्षिपेद्वामकं करम् । वक्षःस्थाने भवेत्सव्यो वलितं त्रिकमेव च ॥ २४१॥ नूपुराक्षिप्तके चैव ह्यर्धस्वस्तिकमेव च । नितम्बं करिहस्तं च ह्युरोमण्डलकं तथा ॥ २४२॥ कटिच्छिन्नं च कर्तव्यं सम्भ्रान्ते नृत्तयोक्तृभिः । अपक्रान्तक्रमं कृत्वा व्यंसितं हस्तमेव च ॥ २४३॥ कुर्यादुद्वेष्टितं चैव ह्यर्धसूचीं तथैव च । विक्षिप्तं सकटिच्छिन्नमुद्वृत्ताक्षिप्तके तथा ॥ २४४॥ करिहस्तं कटिच्छिन्नं कर्तव्यमपसर्पिते । कृत्वा नूपुरपादं च द्रुतमाक्षिप्य च क्रमम् ॥ २४५॥ पादस्य चानुगौ हस्तौ त्रिकं च परिवर्तयेत् । निकुट्य करपादं चाप्युरोमण्डलकं पुनः ॥ २४६॥ करिहस्तं कटिच्छिन्नं कार्यमर्धनिकुट्टके । द्वात्रिंशदेते सम्प्रोक्ता ह्यङ्गहारा द्विजोत्तमाः ॥ २४७॥ चतुरो रेचकांश्चापि गदतो मे निबोधत । पादरेचक एकः स्यात् द्वितीयः कटिरेचकः ॥ २४८॥ कररेचकस्तृतीयस्तु चतुर्थः कण्ठरेचकः । [रेचिताख्यः पृथग्भावे वलने चाभिधीयते ॥ उद्वाहनात्पृथग्भावाच्चलनाच्चापि रेचकः । पार्श्वात्पार्श्वे तु गमनं स्खलितैश्चलितैः पदैः ॥ विविधैश्चैव पादस्य पादरेचक उच्यते । त्रिकस्योद्वर्तनं चैव छटीवलनमेव च ॥ तथाऽपसर्पणं चैव कटिरेचक उच्यते । उद्वर्तनं परिक्षेपो विक्षेपः परिवर्तनम् ॥ विसर्पणं च हस्तस्य हस्तरेचक उच्यते । उद्वाहनं सन्नमनं तथा पार्श्वस्य सन्नतिः ॥ भ्रमणं चापि विज्ञेयो ग्रीवाया रेचको बुधैः । ] रेचकैरङ्गहारैश्च नृत्यन्तं वीक्ष्य शङ्करम् ॥ २४९॥ सुकुमारप्रयोगेण नृत्यन्तीं चैव पार्वतीम् । मृदङ्गभेरीपटहैर्भाण्डडिण्डिमगोमुखैः ॥२५०॥ पणवैर्ददुरैश्चैव सर्वातोद्यैः प्रवादितैः । दक्षयज्ञे विनिहते सन्ध्याकाले महेश्वरः ॥ २५१॥ नानाङ्गहारैः प्रानृत्यल्लयतालवशानुगैअः । पिण्डिबन्धांस्ततो दृष्ट्वा नन्दिभद्रमुखा गणाः ॥ २५२॥ चक्रुस्ते नाम पिण्डीनां बन्धमासां सलक्षणम् । ईश्वरस्येश्वरी पिण्डी नन्दिनश्चापि पट्टसी ॥ २५३॥ चण्डिकाया भवेत्पिण्डी तथा वै सिंहवाहिनी । तार्क्ष्यपिण्डी भवेद्विष्णोः पद्मपिण्डी स्वयंभुवः ॥ २५४॥ शक्रस्यैरावती पिण्डी झषपिण्डी तु मान्मथी । शिखिपिण्डी कुमारस्य रूपपिण्डी भवेच्छ्रियः ॥ २५५॥ धारापिण्डी च जाह्नव्याः पाशपिण्डी यमस्य च ॥ वारुणी च नदीपिण्डी याक्षी स्याद्धनदस्य तु ॥ २५६॥ हलपिण्डी बलस्यापि सर्पपिण्डी तु भोगिनाम् । गाणेश्वरी महापिण्डी दक्षयज्ञविमर्दिनी॥२५७॥ त्रिशूलाकृतिसंस्थाना रौद्री स्यादन्धकद्विषः । एवमन्यास्वपि तथा देवतासु यथाक्रमम् ॥ २५८॥ ध्वजभूताः प्रयोक्तव्याः पिण्डीबन्धाः सुचिह्निताः । रेचका अङ्गहाराश्च पिण्डीबन्धातस्थैव च ॥ २५९॥ सृष्ट्वा भगवता दत्तास्तण्डवे मुनये तदा । तेनापि हि ततः सम्यग्गानभाण्डसमन्वितः ॥ २६०॥ नृत्तप्रयोगः सृष्टो यः स ताण्डव इति स्मृतः । ऋषय ऊचुः - यदा प्राप्त्यर्थमर्थानां तज्ज्ञैरभिनयः कृतः ॥ २६१॥ कस्मानृत्तं कृतं ह्येतत्कं स्वभावमपेक्षते । न गीतकार्थसम्बद्धं न चाप्यर्थस्य भावकम् ॥ २६२॥ कस्मान्नृत्तं कृतं ह्येतद्गीतेष्वासारितेषु च । भरतः - अत्रोच्यते न खल्वर्थं कञ्चिन्नृत्तमपेक्षते ॥ २६३॥ किं तु शोभां प्रजनयेदिति नृत्तं प्रवर्तितम् । प्रायेण सर्वलोकस्य नृत्तमिष्टं स्वभावतः ॥ २६४॥ मङ्गलमिति कृत्वा च नृत्तमेतत्प्रकीर्तितम् । विवाहप्रसवावाहप्रमोदाभ्युअदयादिषु ॥ २६५॥ विनोदकारणं चेति नृत्तमेतत्प्रवर्तितम् । अतश्चैव प्रतिक्षेपाद्भूतसङ्घैः प्रवर्तिताः॥ २६६॥ ये गीतकादौ युज्यन्ते सम्यङ्नृत्तविभागकाः। देवेन चापि सम्प्रोक्तस्तण्डुस्ताण्डवपूर्वकम् ॥ २६७॥ गीतप्रयोगमाश्रित्य नृत्तमेतत्प्रवर्त्यताम् । प्रायेण ताण्डवविधिर्देवस्तुत्याश्रयो भवेत् ॥२६८॥ सुकुमारप्रयोगश्च शृङ्गाररससम्भवः । तस्य तण्डुप्रयुक्तस्य ताण्डवस्य विधिक्रियाम्॥२६९॥ वर्धमानकमासाद्य सम्प्रवक्ष्यमि लक्षणम् । कलानां वृद्धिमासाद्य ह्यक्षराणां च वर्धनात् ॥ २७०॥ लयस्य वर्धनाच्चापि वर्धमानकमुच्यते । कृत्त्वा कुतपविन्यासं यथावद्द्विजसत्तमाः ॥ २७१॥ आसारितप्रयोगस्तु ततः कार्यः प्रयोक्तृभिः । तत्र तूपोहनं कृत्त्वा तन्त्रीगानसमन्वितम् ॥ २७२॥ कार्यः प्रवेशो नर्तक्या भाण्डवाद्यसमन्वितः । विशुद्धकरणायां तु जात्यां वाद्यं प्रयोजयेत् ॥२७३॥ गत्या वाद्यानुसारिण्या तस्याश्चारीं प्रयोजयेत् । वैशाखस्थानकेनेह सर्वरेचकचारिणी ॥ २७४॥ पुष्पाञ्जलिधरा भूत्वा प्रविशेद्रङ्गमण्डपम् । पुष्पाञ्जलिं विसृज्याथ रङ्गपीठं परीत्य च ॥ २७५॥ प्रणम्य देवताभ्यश्च ततोऽभिनयमाचरेत् । यत्राभिनेयं गीतं स्यात्तत्र वाद्यं न योजयेत् ॥ २७६॥ अङ्गहारप्रयोगे तु भाण्डवाद्यं विधीयते । समं रक्तं विभक्तं च स्फुटं शुद्धप्रहारजम् ॥२७७॥ नृत्ताङ्गग्राहि वाद्यज्ञैर्वाद्यं योज्यं तु ताण्डवे । प्रयुज्य गीतवाद्ये तु निष्क्रामेन्नर्तकी ततः ॥ २७८॥ अनेनैव विधानेन प्रविशन्त्यपराः पृथक् । अन्याश्चानुक्रमेणाथ पिण्डीं बध्नन्ति याः स्त्रियः ॥ २७९॥ तावत्पर्यस्तकः कार्यो यावत्पिण्डी न बध्यते । पिण्डीं बद्ध्वा ततः सर्वा निष्क्रामेयुः स्त्रियस्तु ताः ॥ २८०॥ पिण्डीबन्धेषु वाद्यं तु कर्तव्यमिह वादकैअः । पर्यस्तकप्रमाणेन चित्रौघकरणान्वितम् ॥ २८१॥ तत्रोपवाहनं भूयः कार्यं पूर्ववदेव हि । ततश्चासारितं भूयो गायनं तु प्रयोजयेत् ॥ २८२॥ पूर्वेणैव विधानेन प्रविशेच्चापि नर्तकी । गीतकार्थं त्वभिनयेद् द्वितीयासारितस्य तु ॥ २८३॥ तदेव च पुनर्वस्तु नृत्तेनापि प्रदर्शयेत् । आसारिते समाप्ते तु निष्क्रामेन्नर्तकी ततः ॥ २८४॥ पूर्ववत्प्रविशन्त्यन्याः प्रयोगः स्यात्स एव हि । एवं पदे पदे कार्यो विधिरासारितस्य तु ॥ २८५॥ भाण्डवाद्यकृते चैव तथा गानकृतेऽपि च । एका तु प्रथमं योज्या द्वे द्वितीयं तथैव च ॥ २८६॥ तिस्रो वस्तु तृतीयं तु चतस्रस्तु चतुर्थकम् । पिण्डीनां विधयश्चैव चत्वारः सम्प्रकीर्तिताः ॥ २८७॥ पिण्डी शृङ्खलिका चैव लताबन्धोऽथ भेद्यकः । पिण्डीबन्धस्तु पिण्डत्वाद्गुल्मः शृङ्खलिका भवेत् ॥ २८८॥ जालोपनद्धा च लता सनृत्तो भेद्यकः स्मृतः । पिण्डीबन्धः कनिष्ठे तु शृङ्खला तु लयान्तरे ॥ २८९॥ मध्यमे च लताबन्धो ज्येष्ठे चैवाथ भेद्यकः । पिण्डीनां विविधा योनिर्यन्त्रं भद्रासनं तथा ॥ २९०॥ शिक्षायोगस्तथा चैव प्रयोक्तव्यः प्रयोक्तृभिः । एवं प्रयोगः कर्तव्यो वर्धमाने तपोधनाः ॥ २९१॥ गीतानां छन्दकानां च भूयो वक्ष्याम्यहं विधिम् । यानि वस्तुनिबद्धानि यानि चाङ्गिकृतानि तु ॥ २९२॥ गीतानि तेषां वक्ष्यामि प्रयोगं नृत्तवाद्ययोः । तत्रावतरणं कार्यं नर्तक्याः सार्वभाण्डिकम् ॥ २९३॥ क्षेपप्रतिक्षेपकृतं भाण्डोपोहनसंस्कृतम् । प्रथमं त्वभिनेयं स्यद्गीतके सर्ववस्तुकम् ॥ २९४ तदेव च पुनर्वस्तु नृत्तीनापि प्रदर्शेयत् । यो विधिः पूर्वमुक्तस्तु नृत्ताभिनयवादिते ॥ २९५॥ आसारितविधौ स स्याद्गीतानां वस्तुकेष्वपि । एवं वस्तुनिबन्धानां गीतकानां विधिः स्मृतः ॥ २९६॥ शृणुताङ्गनिबद्धानां गीतानामपि लक्षणम् । य एव वस्तुकविधिर्नृत्ताभिनयवादिते ॥ २९७॥ तमेवाङ्गनिबद्धेषु च्छन्दकेष्वपि योजयेत् । वाद्यं गुर्वक्षरकृतं तथाल्पाक्षरमेव च ॥ २९८॥ मुखे सोपोहने कुर्याद्वर्णानां विप्रकर्षतः । यदा गीतिवशादङ्गं भूयो भूयो निवर्तते ॥ २९९॥ तत्राद्यमभिनेयं स्याच्छेषं नृत्तेन योजयेत् । यदा गीतिवशादङ्गं भूयो भूयो निवर्तते ॥ ३००॥ त्रिपाणिलयसंयुक्तं तत्र वाद्यं प्रयोजयेत् । यथा लयस्तथा वाद्यं कर्तव्यमिह वादकैः ॥ ३०१॥ [ ततं चानुगतं चापि ओघं च करणान्वितम् । स्थिरे तत्त्वं (तं) प्रयोक्तव्यं मध्ये चानुगतं भवेत् ॥ भूयश्चौघः प्रयोक्तव्यस्त्वेष वाद्यगतो विधिः । छन्दोगीतकमासाद्य त्वङ्गानि परिवर्तयेत् ॥ एष कार्यो विधिर्नित्यं नृत्ताभिनयवादिते । यानि वस्तुनिबद्धानि तेषामन्ते ग्रहो भवेत् ॥ अङ्गानां तु परावृत्तावादावेव ग्रहो मतः ॥] एवमेष विधिः कार्यो गीतेष्वासारितेष्वपि । देवस्तुत्याश्रयं ह्येतत्सुकुमारं निबोधत ॥ ३०२॥ स्त्रीपुंसयोस्तु संलापो यस्तु कामसमुद्भवः । तज्ज्ञेयं सुकुमारं हि शृङ्गाररससम्भवम् ॥ ३०३॥ यस्यां यस्यामवस्थायां नृत्तं योज्यं प्रयोक्तृभिः । तत्सर्वंं सम्प्रवक्ष्यामि तच्च मे शृणुत द्विजाः ॥ ३०४॥ अङ्गवस्तुनिवृत्तौ तु तथा वर्णनिवृत्तिषु । तथा चाभुदयस्थाने नृत्तं तज्ज्ञः प्रयोजयेत् ॥ ३०५॥ यत्तु संदृश्यते किञ्चिद्दम्पत्योर्मदनाश्रयम् । नृत्तं तत्र प्रयोक्तव्यं प्रहर्षार्थगुणोद्भवम् ॥ ३०६॥ यत्र सन्निहिते कान्ते ऋतुकालादिदर्शनम् । गीतकार्थाभिसंबद्धं नृत्तं तत्रापि चेष्यते ॥ ३०७॥ खण्डिअता विप्रलब्धा वा कलहान्तरितापि वा । यस्मिन्नङ्गे तु युवतिर्न नृत्तं तत्र न योजयेत् ॥३०८॥ सखीप्रवृत्ते संलापे तथाऽसन्निहिते प्रिये । न हि नृत्तं प्रयोक्तव्यं यस्या न प्रोषितः प्रियः ॥ ३०९॥ [ दूत्याश्रयं यदा तु स्यादृतुकालादि दर्शनम् । औत्सुक्यचिन्तासंबद्धं न नृत्तं तत्र योजयेत् ॥] यस्मिन्नङ्गे प्रसादं तु गृह्नीयान्नायिका क्रमात् । ततःप्रभृति नृत्तं तु शेषेष्वङ्गेषु योजयेत् ॥ ३१०॥ देवस्तुत्याश्रयकृतं यदङ्गं तु भवेदथ । माहेश्वरैरङ्गहारैरुद्धतैस्तत्प्रयोजयेत् ॥३११॥ यत्तु शृङ्गारसंबद्धं गानं स्त्रीपुरुषाश्रयम् । देवीकृतैरङ्गहारैर्ललितैस्तत्प्रयोजयेत् ॥ ३१२॥ चतुष्पदा नर्कुटके खञ्जके परिगीतके । विधानं सम्प्रवक्ष्यामि भाण्डवाद्यविधिं प्रति ॥ ३१३॥ खञ्जनर्कुटसंयुक्ता भस्वेद्या तु चतुष्पदा । पादान्ते सन्निपाते तु तस्या भाण्डग्रहो भवेत् ॥ ३१४॥ या ध्रुवा छन्दसा यक्ता समपादा समाक्षरा । तस्याः पादावसाने तु प्रदेशिन्या ग्रहो भवेत् ॥३१५॥ कृत्वैकं परिवर्तं तु गानस्याभिनयस्य च । पुनः पादनिवृत्तिं तु भाण्डवाद्येन योजयेत् ॥३१६॥ अऽङ्गवस्तुनिवृतौ तु वर्णान्तरनिवृत्तिषु । तथोपस्थापने चैव भाण्डवाद्यं प्रयोजयेत् ॥ ३१७॥ येऽपि चान्तरमार्गास्स्युः तन्त्रिवाक्करणैः कृताः । तेषु सूची प्रयोक्तव्या भाण्डेन सह ताण्डवे ॥ ३१८ महेश्वरस्य चरितं य इदं सम्प्रयोजयेत् सर्वपापविशुद्धात्मा शिवलोकं स गच्छति ॥ ३१९॥ एवमेष विधिः सृ(र्दृ)ष्टस्ताण्डवस्य प्रयोगतः । भूयः किं कथ्यतामन्यन्नाट्यवेदविधिं प्रति ॥ ३२०॥ इति भारतीये नाट्यशास्त्रे ताण्डवलक्षणं नाम चतुर्थोऽध्यायः ॥ Encoded by Padmakar Dadegaonkar dadegaonkar@yahoo.com

% Text title            : naaTyashaastra adhyaaya 4
% File name             : natya04.itx
% itxtitle              : nATyashAstram adhyAyaH 04
% engtitle              : Natya Shastra Chapter 4
% Category              : natyashastra, major_works, bharata
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Sage Bharata
% Language              : Sanskrit
% Subject               : philosophy/hinduism/culture
% Transliterated by     : dpadmakar at hotmail.com
% Proofread by          : dpadmakar at hotmail.com
% Latest update         : May 24, 2001
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP