॥ नाट्यशास्त्रम् अध्यायः १४ ॥

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ चतुर्दशोऽध्यायः यो वागभिनयः प्रोक्तो मया पूर्वं द्विजोत्तमाः । लक्षणं तस्य वक्ष्यामि स्वरव्यञ्जनसम्भवम् ॥ १॥ वाचि यत्नस्तु कर्तव्यो नाट्यस्येयं तनुः स्मृता । अङ्गनेपथ्यसत्त्वानि वाक्यार्थं व्यञ्जयन्ति हि ॥ २॥ वाङ्मयानीह शास्त्राणि वाङ्निष्ठानि तथैव च । तस्माद्वाचः परं नास्ति वाग् हि सर्वस्य कारणम् ॥ ३॥ आगमनामाख्यातनिपातोपसर्गसमासतद्धितैर्युक्तः । सन्धिवचनविभक्त्युपग्रहनियुक्तो वाचिकाभिनयः ॥ ४॥ द्विविधं हि स्मृतं पाठ्यं संस्कृतं प्राकृतं तथा । तयोर्विभागं वक्ष्यामि यथावदनुपूर्वशः ॥ ५॥ व्यञ्जनानि स्वराश्चैव सन्धयोऽथ विभक्तयः । नामाख्यातोपसर्गाश्च निपातास्तद्धितास्तथा ॥ ६॥ एतैरङ्गैः समासैश्च नानाधातुसमाश्रयम् । विज्ञेयं संस्कृतं पाठ्यं प्रयोगञ्च निबोधत ॥ ७॥ अकाराद्याः स्वरा ज्ञेया औकारान्ताश्चतुर्दश । हकारान्तानि कादीनि व्यञ्जनानि विदुर्बुधाः ॥ ८॥ तत्र स्वराश्चतुर्दश - अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ इति स्वरा ज्ञेयाः ॥ कादीनि व्यञ्जनानि यथा - क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व श ष स ह इति व्यञ्जनवर्गः । वर्गे वर्गे समाख्यातौ द्वौ वर्णौ प्रागवस्थितौ । अघोषा इति ये त्वन्ये सघोषाः सम्प्रकीर्तिताः ॥ ९॥ अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलश्च दन्ताश्च नासिकोष्ठौ च तालु च ॥ १०॥ अ कु ह विसर्जनीयाः कण्ठ्याः । इ चु य शास्तालव्याः । ऋ टु र षा मूर्धन्याः । ऌ तु ल सा दन्त्याः । उ पूपध्मानीया ओष्ठ्याः । ^प ^फ इति पफाभ्यां प्राक् अर्धविसर्गसदृशः उपध्मानीयः । ^क ^ख इति कखाभ्यां प्राक् अर्धविसर्गसदृशो जिह्वमूलीयः । ए ऐ कण्ठ्यतालव्यौ । ओ औ कण्ठ्योष्ठ्यौ । वकारो दन्त्योष्ठ्यः । ङ ञ ण न मा अनुनासिकाः । विसर्जनीयः औरस्यः इत्येके । सर्ववर्णानां मुखं स्थानमित्यपरे । द्वौ द्वौ वर्णौ तु वर्गाद्यौ शषसाश्च त्रयोऽपरे । अघोषा घोषवन्तस्तु ततोऽन्ये परिकीर्तिताः ॥ ११॥ एते घोषाघोषाः कण्ठ्योष्ठ्या दन्त्यजिह्वानुनासिक्याः । ऊष्माणस्तालव्याः विसर्जनीयाश्च बोद्धव्याः ॥ १२॥ गघङ जझञ डढण दधन बभम तथैव यरलवा मता घोषाः । कख चछ टठ तथ पफ इति वर्गेष्वघोषाः स्युः ॥ १३॥ कखगघङाः कण्ठस्थास्तालुस्थानास्तु चछजझञाः । टठडढणा मूर्धन्यास्तथदधनाश्चैव दन्तस्थाः ॥ १४॥ पफबभमास्त्वोष्ठ्याः स्युः दन्त्या ऌलसा अहौ च कण्ठस्थौ । तालव्या इचुयशा स्युरृटुरषा मूर्धस्थिता ज्ञेयाः ॥ १५॥ ऌॡ दन्त्यौ ओऔ कण्ठोष्ठ्यौ एऐकारौ च कण्ठतालव्यौ । कण्ठ्यो विसर्जनीयो जिह्वामूलमुद्भवः कखयोः ॥ १६॥ पफयोरोष्ठस्थानं भवेदुकारः स्वरो विवृतः । स्पृष्टाः काद्या मान्ताः शषसहकारास्तथा विवृताः ॥ १७॥ अन्तस्थाः संवृतजाः ङञणनमा नासिकोद्भवा ज्ञेयाः । ऊष्माणश्च शषसहाः यरलववर्णास्तथैव चान्तःस्थाः ॥ १८॥ जिह्वामूलीयः ^कः ^प उपध्मानीयसंज्ञया ज्ञेयः । कचटतपा स्वरिताः स्युः खछठथफा स्युः सदा क्रम्याः ॥ १९॥ कण्ठ्योरस्यान् विद्यात् घझढधभान् पाठ्यसम्प्रयोगे तु । वेद्यो विसर्जनीयो जिह्वास्थाने स्थितो वर्णः ॥ २०॥ एते व्यञ्जनवर्णाः समासतः संज्ञया मया कथिताः । शब्दविषयप्रयोगे स्वराँस्तु भूयः प्रवक्ष्यामि ॥ २१॥ यस्मिन् स्थाने स समो विज्ञेयो यः सवर्णसंज्ञोऽसौ । य इमे स्वराश्चतुर्दश निर्दिष्टास्तत्र वै दश समानाः । पूर्वो ह्रस्वः तेषां परश्च दीर्घोऽवगन्तव्यः ॥ २२॥ इत्थं व्यञ्जनयोगैः स्वरैश्च साख्यातनामपदविहितैः । काव्यनिबन्धाश्च स्युर्धातुनिपातोपसर्गास्तु ॥ २३॥ एभिर्व्यञ्जनवर्गैर्नामाख्यातोपसर्गनिपातैः । तद्धितसन्धिविभक्तिभिरधिष्ठितः शब्द इत्युक्तः ॥ २४॥ पूर्वाचार्यैरुक्तं शब्दानां लक्षणं समासयोगेन । विस्तरशः पुनरेव प्रकरणवशात् सम्प्रवक्ष्यामि ॥ २५॥ अर्थप्रधानं नाम स्यादाख्यातं तु क्रियाकृतम् । द्योतयन्त्युपसर्गास्तु विशेषं भावसंश्रयम् ॥ २६॥ तत्प्राहुः सप्तविधं षट्कारकसंयुतं प्रथितसाध्यम् । निर्देशसम्प्रदानापदानप्रभृतिसंज्ञाभिः ॥ २७॥ नामाख्यातार्थविषयं विशेषं द्योतयन्ति ते । पृथक्तत्रोपसर्गेभ्यो निपाता नियमेऽच्युते ॥ २८॥ सम्प्रत्यतीतकालक्रियादिसंयोजितं प्रथितसाध्यम् । वचनं नागतयुक्तं सुसदृशसंयोजनविभक्तम् ॥ २९॥ पञ्चशतधातुयुक्तं पञ्चगुणं पञ्चविधमिदं वापि । स्वाद्यधिकारगुणैरर्थविशेषैर्विभूषितन्यासम् । प्रातिपदिकार्थलिङ्गैर्युक्तं पञ्चविधमिदं ज्ञेयम् ॥ ३०॥ आख्यातं पाठ्यकृतं ज्ञेयं नानार्थाश्रयविशेषम् । वचनं नामसमेतं पुरुषविभक्तं तदाख्यातम् ॥ ३१॥ प्रातिपदिकार्थयुक्तान्धात्वर्थानुपसृजन्ति ये स्वार्थैः । उपसर्गा ह्युपदिष्टास्तस्मात् संस्कारशास्त्रेऽस्मिन् ॥ ३२॥ प्रातिपदिकार्थयोगाद्धातुच्छन्दोनिरुक्तयुक्त्या च । यस्मान्निपतन्ति पदे तस्मात्प्रोक्ता निपातास्तु ॥ ३३॥ प्रत्ययविभागजनिताः प्रकर्षसंयोगसत्ववचनैश्च । यस्मात्पूरयतेऽर्थान् प्रत्यय उक्तस्ततस्तस्मात् ॥ ३४॥ लोके प्रकृतिप्रत्ययविभागसंयोगसत्ववचनैश्च । तांस्तान् पूरयतेऽर्थांस्तेषु यस्तद्धितस्तस्मात् ॥ ३५॥ एकस्य बहूनां वा धातोर्लिङ्गस्य वा पदानां वा । विभजन्त्यर्थं यस्मात् विभक्तयस्तेन ताः प्रोक्ताः ॥ ३६॥ विशिष्टास्तु स्वरा यत्र व्यञ्जनं वापि योगतः । सन्धीयते पदे यस्मात्तस्मात् सन्धिः प्रकीर्तितः ॥ ३७॥ वर्णपदक्रमसिद्धः पदैकयोगाच्च वर्णयोगाच्च । सन्धीयते च यस्मात्तस्मात् सन्धिः समुद्दिष्टः ॥ ३८॥ लुप्तविभक्तिर्नाम्नामेकार्थं संहरत्समासोऽपि । तत्पुरुषादिकसंज्ञैर्निर्दिष्टः षड्विधो विप्राः ॥ ३९॥ एभिः शब्दविधानैर्विस्तारव्यञ्जनार्थसंयुक्तैः । पदबन्धाः कर्तव्या निबद्धबन्धास्तु चूर्णा वा ॥ ४०॥ विभक्त्यन्तं पदं ज्ञेयं निबद्धं चूर्णमेव च । तत्र चूर्णपदस्येह सन्निबोधत लक्षणम् ॥ ४१॥ अनिबद्धपदं छन्दोविधानानियताक्षरम् । अर्थापेक्ष्यक्षरस्यूतं ज्ञेयं चूर्णपदं बुधैः ॥ ४२॥ निबद्धाक्षरसंयुक्तं यतिच्छेदसमन्वितम् । निबद्धं तु पदं ज्ञेयं प्रमाणनियतात्मकम् ॥ ४३॥ एवं नानार्थसंयुक्तैः पादैर्वर्णविभूषितैः । चतुर्भिस्तु भवेद्युक्तं छन्दो वृत्ताभिधानवत् ॥ ४४॥ षड्विंशतिः स्मृतान्येभिः पादैश्छन्दसि संख्यया । समञ्चार्धसमञ्चैव तथा विषममेव च ॥ ४५॥ छन्दोयुक्तं समासेन त्रिविधं वृत्तमिष्यते । नानावृत्तिविनिष्पन्ना शब्दस्यैषा तनूस्स्मृता ॥ ४६॥ छन्दोहीनो न शब्दोऽस्ति न च्छन्दश्शब्दवर्जितम् । तस्मात्तूभ्यसंयोगो नाट्यस्योद्योतकः स्मृतः ॥ ४७॥ एकाक्षरं भवेदुक्तमत्युक्तं द्व्यक्षरं भवेत् । मध्यं त्र्यक्षरमित्याहुः प्रतिष्ठा चतुरक्षरा ॥ ४८॥ सुप्रतिष्ठा भवेत् पञ्च गायत्री षड् भवेदिह । सप्ताक्षरा भवेदुष्णिगष्टाक्षरानुष्टुबुच्यते ॥ ४९॥ नवाक्षरा तु बृहती पङ्क्तिश्चैव दशाक्षरा । एकादशाक्षरा त्रिष्टुब् जगती द्वादशाक्षरा ॥ ५०॥ त्रयोदशाऽतिजगती शक्वरी तु चतुर्दशा । अतिशक्वरी पञ्चदशा षोडशाष्टिः प्रकीर्तिता ॥ ५१॥ अत्यष्टिः स्यात्सप्तदशा धृतिरष्टादशाक्षरा । एकोनविंशतिर्धृतिः कृतिर्विंशतिरेव च ॥ ५२॥ प्रकृतिश्चैकविंशत्या द्वाविंशत्याकृतिस्तथा । विकृतिः स्यात् त्रयोविंशा चतुर्विंशा च संकृतिः ॥ ५३॥ पञ्चविंशत्यतिकृतिः षड्विंशत्युत्कृतिर्भवेत् । अतोऽधिकाक्षरं छन्दो मालावृत्तं तदिष्यते ॥ ५४॥ छन्दसां तु तथा ह्येते भेदाः प्रस्तारयोगतः । असंख्येयप्रमाणानि वृत्तान्याहुरतो बुधाः ॥ ५५॥ गायत्रीप्रभृतित्त्वेषां प्रमाणं संविधीयते । प्रयोगजानि सर्वाणि प्रायशो न भवन्ति हि ॥ ५६॥ वृत्तानि च चतुष्षष्टिर्गायत्र्यां कीर्तितानि तु । शतं विंशतिरष्टौ च वृत्तान्युष्णिह्यथोच्यते ॥ ५७॥ षट्पञ्चाशच्छते द्वे च वृत्तानामप्यनुष्टुभि । शतानि पञ्च वृतानां बृहत्यां द्वादशैव च ॥ ५८॥ पङ्क्त्यां सहस्रं वृत्तानां चतुर्विंशतिरेव च । त्रैष्टुभे द्वे सहस्रे च चत्वारिंशत्तथाष्ट च ॥ ५९॥ सहस्राण्यपि चत्वारि नवतिश्च षडुत्तरा । जगत्यां समवर्णानां वृत्तानामिह सर्वशः ॥ ६०॥ अष्टौ सहस्राणि शतं द्व्यधिका नवतिः पुनः । जगत्यामतिपूर्वायां वृत्तानां परिमाणतः ॥ ६१॥ शतानि त्रीण्यशीतिश्च सहस्राण्यपि षोडश । वृत्तानि चैव चत्वारि शक्वर्याः परिसंख्यया ॥ ६२॥ द्वात्रिंशच्च सहस्राणि सप्त चैव शतानि च । अष्टौ षष्टिश्च वृत्तानि ह्याश्रयन्त्यतिशक्वरीम् ॥ ६३॥ पञ्चषष्टिसहस्राणि सहस्रार्धञ्च संख्यया । षट्त्रिंशच्चैव वृत्तानि ह्यष्ट्यां निगदितानि च ॥ ६४॥ एकत्रिंशत्सहस्राणि वृत्तानाञ्च द्विसप्ततिः । तथा शतसहस्रञ्च छन्दांस्यत्यष्टिसंज्ञिते ॥ ६५॥ धृत्यामपि हि पिण्डेन वृत्तान्याकल्पितानि तु । तज्ज्ञैः शतसहस्रे द्वे शतमेकं तथैव च ॥ ६६॥ द्विषष्टिश्च सहस्राणि चत्वारिंशच्च योगतः । चत्वारि चैव वृत्तानि समसंख्याश्रयाणि तु ॥ ६७॥ अतिधृत्यां सहस्राणि चतुर्विंशतिरेव च । तथा शतसहस्राणि पञ्च वृत्तशतद्वयम् ॥ ६८॥ अष्टाशीतिश्च वृत्तानि वृत्तज्ञैः कथितानि च । कृतौ शतसहस्राणि दश प्रोक्तानि संख्यया ॥ ६९॥ चत्वारिंशत्तथा चाष्टौ सहस्राणि शतानि च । पञ्चषट्सप्ततिश्चैव वृत्तानां परिमाणतः ॥ ७०॥ तथा शतसहस्राणां प्रकृतौ विंशतिर्भवेत् । सप्त वै गदितास्त्वत्र नवतिश्चैव संख्यया ॥ ७१॥ सहस्राणि शतं चैकं द्विपञ्चाशत्तथैव च । वृत्तानि परिमाणेन वृत्तज्ञैर्गदितानि तु ॥ ७२॥ चत्वारिंशत्तथैकञ्च लक्षाणामथ संख्यया । तथा चेह सहस्राणि नवतिश्चतुरुत्तरा ॥ ७३॥ शतत्रयं समाख्यातं ह्याकृत्यां चतुरुत्तरम् । ज्ञेया शतसहस्राणामशीतिस्त्र्यधिका बुधैः ॥ ७४॥ अष्टाशीति सहस्राणि वृत्तानां षट् शतानि च । अष्टौ चैव तु वृत्तानि विकृत्यां गदितानि तु ॥ ७५॥ तथा शतसहस्राणि सप्तषष्टिश्च सप्ततिः । सप्त चैव सहस्राणि षोडशे द्वे शते तथा ॥ ७६॥ कोटिश्चैवेह वृत्तानि संकृतौ कथितानि वै । कोटित्रयञ्चाभिकृत्यां पञ्चत्रिंशद्भिरन्वितम् ॥ ७७॥ पञ्चाशद्भिः सहस्रैश्च चतुर्भिरधिकैस्तथा । चतुष्टयं शतानाम् च द्वात्रिंशद्भिः समन्वितम् ॥ ७८॥ षट् कोटयस्तथोत्कृत्यां लक्षाणामेकसप्ततिः । चतुष्षष्टिशतान्यष्टौ सहस्राण्यष्ट चैव हि ॥ ७९॥ उक्तादुत्कृतिपर्यन्तवृत्तसंख्यां विचक्षणः । एतेन च विकल्पेन वृत्तेष्वेतेषु निर्दिशेत् ॥ ८०॥ सर्वेषां छन्दसामेवं वृत्तानि कथितानि वै । तिस्रः कोटयो दश तथा सहस्राणां शतानि तु ॥ ८१॥ चत्वारिंशत्तथा द्वे च सहस्राणि दशैव तु । सप्तभिः सहितान्येव सप्त चैव शतानि च ॥ ८२॥ षड्विंशतिरिहान्यानि व्याख्यातानि समासतः । समानि गणनायुक्तिमाश्रित्य कथितानि वै ॥ ८३॥ सर्वेषां छन्दसामेवं त्रिकैर्वृत्तं प्रयोजयेत् । ज्ञेयाश्चाष्टौ त्रिकास्तत्र संज्ञाभिः स्थानमच्छरम् ॥ ८४॥ त्रीण्यक्षराणि विज्ञेयस्त्रिकोऽंशः परिकल्पितः । गुरुलघ्वक्षरकृतः सर्ववृत्तेषु नित्यशः ॥ ८५॥ गुरुपूर्वो भकारः स्यान्मकारे तु गुरुत्रयम् । जकारो गुरुमध्यस्थः सकारोऽन्त्यगुरुस्तथा ॥ ८६॥ लघुमध्यस्थितो रेफस्तकारोऽन्त्यलघुः परः । लघुपूर्वो यकारस्तु नकारे तु लघुत्रयम् ॥ ८७॥ एते ह्यष्टौ त्रिकाः प्राज्ञैर्विज्ञेया ब्रह्मसम्भवाः । लाघवार्थं पुनरमी छन्दोज्ञानमवेक्ष्य च ॥ ८८॥ एभिर्विनिर्गताश्चान्या जातयोऽथ समादयः । अस्वराः सस्वराश्चैव प्रोच्यन्ते वृत्तलक्षणैः ॥ ८९॥ गुर्वेकं गिति विज्ञेयं तथा लघु लिति स्मृतम् । नियतः पदविच्छेदो यतिरित्यभिधीयते ॥ ९०॥ गुरु दीर्घं प्लुतञ्चैव संयोगपरमेव च । सानुस्वारविसर्गं च तथान्त्यञ्च लघु क्वचित् ॥ ९१॥ गायत्र्यां द्वौ त्रिकौ ज्ञेयौ उष्णिक् चैकाधिकाक्षरा । अनुष्टुप् द्व्यधिका चैव बृहत्यां च त्रिकास्त्रयः ॥ ९२॥ एकाक्षराधिका पङ्क्तिस्त्रिष्टुप् च द्व्यधिकाक्षरा । चतुस्त्रिका तु जगती सैकातिजगती पुनः ॥ ९३॥ शक्वरी द्व्यधिका पञ्चत्रिका ज्ञेयातिशक्वरी । एकाधिकाक्षराष्टिश्च द्व्यधिकात्यष्टिरुच्यते ॥ ९४॥ षट्त्रिकास्तु धृतिः प्रोक्ता सैका चातिधृतिस्तथा । कृतिश्च द्व्यधिका प्रोक्ता प्रकृत्यां सप्त वै त्रिकाः ॥ ९५॥ आकृतिस्त्वधिकैकेन द्व्यधिका विकृतिस्तथा । अष्टत्रिकाः संकृतौ स्यात् सैका चाभिकृतिः पुनः ॥ ९६॥ उत्कृतिर्द्व्यधिका चैव विज्ञेया गणमानतः । गुर्वेकं ग इति प्रोक्तं गुरुणी गाविति स्मृतौ । लघ्वेकं ल इति ज्ञेयं लघुनी लाविति स्मृतौ ॥ ९७॥ सम्पद्विरामपादाश्च दैवतस्थानमक्षरम् । वर्णः स्वरो विधिर्वृत्तमिति छन्दोगतो विधिः ॥ ९८॥ नैवातिरिक्तं हीनं वा यत्र सम्पद्यते क्रमः । विधाने च्छन्दसामेष सम्पदित्यभिसंज्ञितः ॥ ९९॥ यत्रार्थस्य समाप्तिः स्यात् स विराम इति स्मृतः । पादश्च पद्यतेर्धातोश्चतुर्भाग इति स्मृतः ॥ १००॥ अग्न्यादिदैवतं प्रोक्तं स्थानं द्विविधमुच्यते । शरीराश्रयसंभूतं दिगाश्रयमथापि च ॥ १०१॥ शारीरं मन्त्रसंभूतं छन्दो गायत्रसंज्ञितम् । क्रुष्टे मध्यं दिनं प्रोक्तं त्रैष्टुभं परिकीर्त्यते ॥ १०२॥ तृतीयसवनञ्चापि शीर्षण्यं जागतं हि यत् । ह्रस्वं दीर्घं प्लुतञ्चैव त्रिविधञ्चाक्षरं स्मृतम् ॥ १०३॥ श्वेतादयस्तथा वर्णा विज्ञेयाश्छन्दसामिह । तारश्चैव हि मन्द्रश्च मध्यमस्त्रिविधः स्वरः ॥ १०४॥ ध्रुवाविधाने चैवास्य सम्प्रवक्ष्यामि लक्षणम् । विधिर्गणकृतश्चैव तथैवार्थकृतो भवेत् ॥ १०५॥ छन्दतो यस्य पादे स्याद्धीनं वाऽधिकमेव वा । अक्षरं निचृदिति प्रोक्तं भूरिक् चेति द्विजोत्तमाः ॥ १०६॥ अक्षराभ्यां सदा द्वाभ्यामधिकं हीनमेव वा । तच्छन्दो नामतो ज्ञेयं स्वराडिति विराडपि ॥ १०७॥ सर्वेषामेव वृत्तानां तज्ज्ञैर्ज्ञेया गणास्त्रयः । दिव्यो दिव्येतरश्चैव दिव्यमानुष एव च ॥ १०८॥ गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च । त्रिष्टुप् च जगती चैव दिव्योऽयं प्रथमो गणः ॥ १०९॥ तथातिजगती चैव शक्वरी चातिशक्वरी । अष्टिरत्यष्टिरपि च धृतिश्चातिधृतिर्गणः ॥ ११०॥ कृतिश्च प्रकृतिश्चैव ह्याकृतिर्विकृतिस्तथा । संकृत्यभिकृती चैव उत्कृतिर्दिव्यमानुषा ॥ १११॥ एतेषां छन्दसां भूयः प्रस्तारविधिसंश्रयम् । लक्षणं सम्प्रवक्ष्यामि नष्टमुद्दिष्टमेव च ॥ ११२॥ प्रस्तारोऽक्षरनिर्दिष्टो मात्रोक्तश्च तथैव हि । द्विकौ ग्लाविति वर्णोक्तौ मिश्रौ चेत्यपि मात्रिकौ ॥ ११३॥ गुरोरधस्तादाद्यस्य प्रस्तारे लघु विन्यसेत् । अग्रतस्तु समादेया गुरवः पृष्ठतस्तथा ॥ ११४॥ प्रथमं गुरुभिर्वर्णैर्लघुभिस्त्ववसानजम् । वृत्तन्तु सर्वछन्दस्सु प्रस्तारविधिरेव तु ॥ ११५॥ गुर्वधस्ताल्लघुं न्यस्य तथा द्विद्वि यथोदितम् । न्यस्येत् प्रस्तारमार्गोऽयमक्षरोक्तस्तु नित्यशः ॥ ११६॥ मात्रासंख्याविनिर्दिष्टो गणो मात्राविकल्पितः । मिश्रौ ग्लाविति विज्ञेयौ पृथक् लक्ष्यविभागतः ॥ ११७॥ मात्रागणो गुरुश्चैव लघुनी चैव लक्षिते । आर्याणां तु चतुर्मात्राप्रस्तारः परिकल्पितः ॥ ११८॥ गीतकप्रभृतीनान्तु पञ्चमात्रो गणः स्मृतः । वैतालीयं पुरस्कृत्य षण्मात्राद्यास्तथैव च ॥ ११९॥ त्र्यक्षरास्तु त्रिका ज्ञेया लघुगुर्वक्षरान्विताः । मात्रागणविभागस्तु गुरुलघ्वक्षराश्रयः ॥ १२०॥ अन्त्याद् द्विगुणिताद्रूपाद् द्विद्विरेकं गुरोर्भवेत् । द्विगुणाञ्च लघोः कृत्वा संख्यां पिण्डेन योजयेत् ॥ १२१॥ आद्यं सर्वगुरु ज्ञेयं वृत्तन्तु समसंज्ञितम् । कोशं तु सर्वलघ्वन्त्यं मिश्ररूपाणि सर्वतः ॥ १२२॥ वृत्तानां तु समानानां संख्यां संयोज्य तावतीम् । राश्यूनामर्धविषमां समासादभिनिर्दिशेत् ॥ १२३॥ एकादिकां तथा संख्यां छन्दसो विनिवेश्य तु । यावत् पूर्णन्तु पूर्वेण पूरयेदुत्तरं गणम् ॥ १२४॥ समानां विषमाणां च संगुणय्य तथा स्फुटम् । राश्यूनामभिजानीयाद्विषमाणां समासतः ॥ १२५॥ एवं कृत्वा तु सर्वेषां परेषां पूर्वपूरणम् । क्रमान्नैधनमेकैकं प्रतिलोमं विसर्जयेत् ॥ १२६॥ सर्वेषां छन्दसामेवं लघ्वक्षरविनिश्चयम् । जानीत समवृत्तानां संख्यां संक्षेपतस्तथा ॥ १२७॥ वृत्तस्य परिमाणन्तु छित्वार्धेन यथाक्रमम् । न्यसेल्लघु यथा सैकमक्षरं गुरु चाप्यथ ॥ १२८॥ एवं विन्यस्य वृत्तानां नष्टोद्दिष्टविभागतः । गुरुलघ्वक्षराणीह सर्वछन्दस्सु दर्शयेत् ॥ १२९॥ इति छन्दांसि यानीह मयोक्तानि द्विजोत्तमाः । वृत्तान्येतेषु नाट्येऽस्मिन् प्रयोज्यानि निबोधत ॥ १३०॥ इति भरतीये नाट्यशास्त्रे वाचिकाभिनये छन्दोविधानं नाम चतुर्दशोऽध्यायः । Encoded by Sowmya Krishnapur krsowmya@yahoo at com

% Text title            : naaTyashaastra adhyaaya 14 vaachikaabhinaye ChandovidhaanaM
% File name             : natya14.itx
% itxtitle              : nATyashAstram adhyAyaH 14
% engtitle              : Natya Shastra Chapter 14
% Category              : natyashastra, major_works, bharata
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Sage Bharata
% Language              : Sanskrit
% Subject               : philosophy/hinduism/culture/Dance/Drama
% Transliterated by     : Sowmya Krishnapur krsowmya at yahoo.com
% Proofread by          : Sowmya Krishnapur krsowmya at yahoo.com
% Latest update         : February 27, 2005
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP