॥ नाट्यशास्त्रम् अध्यायः २१ ॥

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ एकविंशोऽध्यायः । आहार्याभिनयं विप्रा व्याख्यास्याम्यनुपूर्वशः । य्स्मात् प्रयोगः सर्वोऽयमाहार्याभिनये स्थितः ॥ १॥ नानावस्था प्रकृतय पूर्वं नैपथ्यसाधिताः । अङ्गादिभिरभिव्यक्तिमुपगच्छन्त्ययत्नतः ॥ २॥ आहार्याभिनयो नाम ज्ञेयो नेपथ्यजो विधिः । तत्र कार्यः प्रयत्नस्तु नाट्यस्य शुभमिच्छता ॥ ३॥ [तस्मिन्यत्नस्तु कर्तव्यो नैपथ्ये सिद्धिमिच्छता । नाट्यस्येह त्वलङ्कारो नैपथ्यं यत्प्रकीर्तितम् ॥] ॥ ४॥ चतुर्विधं तु नेपथ्यं पुस्तोऽलङ्कार एव च । तथाङ्करचना चैव ज्ञेयं सज्जीवमेव च ॥ ५॥ पुस्तस्तु त्रिविधो ज्ञेयो नानारूपप्रमाणतः । सन्धिमो व्याजिमश्चैव वेष्टिमश्च प्रकीर्तितः ॥ ६॥ किलिञ्जचर्मवस्त्राद्यैर्यद्रूपं क्रियते बुधैः । सन्धिमो नाम विज्ञेयः पुस्तो नाटकसंस्श्रयः ॥ ७॥ व्याजिमो नाम विज्ञेअयो यन्त्रेण क्रियते तु यः । वेष्ट्यते चैव यद्रुपं वेष्टिमः स तु संज्ञितः ॥ ८॥ शैलयानविमानानि चर्मवर्मध्वजा नगाः । ये क्रियन्ते हि नाट्ये तु स पुस्त इति संज्ञितः ॥ ९॥ अलङ्कारस्तु विज्ञेयो माल्याभरणवाससाम् । नानाविधः समायोगोऽप्यङ्गोपाङ्गविधिः स्मृतः ॥ १०॥ वेष्टिमं विततं चैव संघात्यं ग्रन्थिमं तथा । प्रालम्बितं तथा चैव माल्यं पञ्चविधं स्मृतम् ॥११॥ चतुर्विधं तु विज्ञेयं नाट्ये ह्याभरणं बुधैः । आवेध्यं बन्धनीयं च क्षेप्यमारोप्यमेव च ॥ १२॥ आवेध्यं कुण्डलादीह यत्स्याच्छ्रवणभूषणम् । आरोप्यं हेमसूत्रादि हाराश्च विविधाश्रयाः ॥ १३॥ श्रोणीसूत्राङ्गदे मुक्ताबन्धनीयानि सर्वदा । प्रक्षेप्य नूपुरं विद्याद्वस्त्राभरणमेव च ॥ १४॥ भूषणानां विकल्पं हि पुरुषस्त्रीसमाश्रयम् । नाविधं प्रवक्ष्यामि देशजातिसमुद्भवम् ॥१५॥ चूडामणिः समुकुटः शिरसो भूषणं स्मृतम् । कुण्डलं मोचकं कीला कर्णाभरणमिष्यते ॥ १६॥ मुक्तावली हर्षकं च सूत्रकं कण्ठभूषणम् । वेतिकाङ्गुलिमुद्रा च स्यादङ्गुलिविभूषणम् ॥१७॥ हस्तली वलयं चैव बाहुनालीविभूषणम् । रुचकश्चूलिका कार्या मणिबन्धविभूषणम् ॥ १८॥ केयूरे अङ्गदे चैव कूर्परोपरिभूषणे । त्रिसरश्चैव हारश्च तथा वक्षोविभूषणम् ॥ १९॥ व्यालम्बमौक्तिको हारो माला चैवाङ्गभूषणम् । तलकं सूत्रकं चैव भवेत्कटिविभूषणम् ॥ २०॥ अयं पुरुषनिर्योगः कार्यस्त्वाभरणाश्रयः । देवानां पार्थिवानां च पुनर्वक्ष्यामि योषिताम् ॥ २१॥ शिखापाशं शिखाव्यालं पिण्डीपत्रं तथैव च । चूडामणिर्मकरिका मुक्ताजालगवाक्षिकम् ॥२२॥ शिरसो भूषणं चैव विचित्रं शीर्षजोलकम् । कण्डकं शिखिपत्रं च वेणीपुच्छः सदोरकः ॥ २३॥ ललाटतिलकं चैव नानाशिल्पप्रयोजितम् । भ्रूगुच्छोपरिगुच्छश्च कुसुमानुकृतिस्तथा ॥ २४॥ कर्णिका कर्णवलयं तथा स्यात्पत्रकर्णिका । कुण्डलं कर्णमुद्रा च कर्णोत्कीलकमेव च ॥ २५॥ नानारत्नविचित्राणि दन्तपत्राणि चैव हि । कर्णयोर्भूषणं ह्येतत्कर्णपूरस्तथैव च ॥ २६॥ तिलकाः पत्रलेखाश्च भवेद्गण्डविभूषणम् । त्रिवणी चैव विज्ञेयं भवेद्वक्षोविभूषणम् ॥ २७॥ नेत्रयोरञ्जनं ज्ञेयमधरस्य च रञ्जनम् । दन्तानां विविधो रागश्चतुर्णां शुक्लतापि वा ॥ २८॥ रागान्तरविकल्पोऽथ शोभनेनाधिकोज्वलः । मुग्धानां सुन्दरीणां च मुक्ताभासितशोभनाः ॥ २९॥ सुरक्ता वापि दन्ता स्युःः पद्मपल्लवरञ्जनाः । अश्मरागोद्द्योतितः स्यादधरः पल्लवप्रभः ॥ ३०॥ विलासश्च भवेत्तासां सविभ्रान्तनिरीक्षितम् । मुक्तावली व्यालपङ्क्तिर्मञ्जरी रत्नमालिका ॥ ३१॥ रत्नावली सूत्रकं च ज्ञेयं कण्ठविभूषणम् । द्विसरस्त्रिसरश्चैव चतुस्सरकमेव च ॥३२॥ तथा शृङ्खलिका चैव भवेत्कण्ठविभूषणम् । अङ्गदं वलयं चैव बाहुमूलविभूषणम् ॥ ३३॥ नानाशिल्पकृताश्चैव हारा वक्षोविभूषणम् । मणिजालावनद्धं च भवेत् स्तनविभूषणम् ॥ ३४॥ खर्जूरकं सोच्छितिकं बाहुनालीविभूषणम् । कलापी कटकं शङ्खो हस्तपत्रं सपूरकम् ॥ ३५॥ मुद्राङ्गुलीयकं चैव ह्यङ्गुलीनां विभूषणम् । मुक्ताजालाढ्यतलकं मेखला काञ्चिकापि वा ॥ ३६॥ रशना च कलापश्च भवेच्छ्रोणीविभूषणम् । एकयष्टिर्भवेत्काञ्ची मेखला त्वष्टयष्टिका ॥ ३७॥ द्विरष्टयष्टि रशना कलापः पञ्चविंशकः । द्वात्रिंशच्च चतुःषष्टिः शतमष्टोत्तरं तथा ॥ ३८॥ मुक्ताहारा भवन्त्येते देवपार्थिवयोषिताम् । नूपुरः किङ्किणीकाश्च घण्टिका रत्नजालकम् ॥३९॥ सघोषे कटके चैव गुल्फोपरिविभूषाणम् । जङ्घयोः पादपत्रं स्यादङ्गुलीष्वङ्गुलीयकम् ॥ ४०॥ अङ्गुष्ठतिलकाश्चैव पादयोश्च विभूषणम् । तथालक्तकरागश्च नानाभक्तिनिवेशितः ॥ ४१॥ अशोकपलावच्छायः स्यात् स्वाभाविक एव च । एतद्विभूषणं नार्या आकेशादानखादपि ॥ ४२॥ यथाभवरसावस्थं विज्ञेयं द्विजसत्तमाः । आगमश्च प्रमाणं च रूपनिर्वर्णनं तथा ॥ ४३॥ विश्वकर्ममतात्कार्यं सुबुद्ध्यापि प्रयोक्तृभिः । न हि शक्यं सुवर्णेन मुक्ताभिर्मणिभिस्तथा ॥ ४४॥ स्वाधीनमिति रुच्यैव कर्तुमङ्गस्य भूषणम् । विभागतोऽभिप्रयुक्तमङ्गशोभाकरं भवेत् ॥ ४५॥ यथा स्थानान्तरगतं भूषणं रत्नसंयुतम् । न तु नाट्यप्रयोगेषु कर्तव्यं भूषणं गुरु ॥ ४६॥ खेदं जनयते तद्धि सव्यायतविचेष्टनात् । गुरुभावावसन्नस्य स्वेदो मूर्छा च जायते ॥ ४७॥ गुर्वाभरणसन्नो हि चेष्टां न कुरुते पुनः । तस्मात्तनुत्वचकृतं सौवर्णं भूषणं भवेत् ॥ ४८॥ रत्नवज्जतुबद्धं वा न खेदजननं भवेत् । स्वेच्छया भूषणविधिर्दिव्यानामुपदिश्यते ॥ ४९॥ यत्नभावविनिष्पन्नं मानुषाणां विभूषणम् । [वेष्टितं विततं चैव संघात्यं ग्रथिमं तथ ॥ ५०॥ लम्बशोभि तथा चैव माल्यं पञ्चविधं स्मृतम् । आच्छादनं बहुविधं नानापत्तनसंभवम् ॥ ५१॥ तज्ज्ञेयं त्रिप्रकारं तु शुद्धं रक्तं विचित्रितम्] । दिव्यानां भूषणविधिर्य एष परिकीर्तितः ॥ ५२॥ मानुषाणां तु कर्तव्यो नानादेशसमाश्रयः । भूषणैश्चापि वेषैश्च नानावस्थासमाश्रयैः ॥ ५३॥ दिव्याङ्गनानां कर्तव्या विभक्तिः स्वस्वभूमिजा । विद्याधरीणां यक्षीणामप्सरोनागयोषिताम् ॥ ५४॥ ऋषिदैवतकन्यानां वेषैर्नानात्वमिष्यते । तथा च सिद्धगन्धर्वराक्षसासुरयोषिताम् ॥ ५५॥ दिव्यानां नरनारीणां तथैव च शिखण्डकम् । शिखापुटशिखण्डं तु मुक्ताभूयिष्ठभूषणम् ॥ ५६॥ विद्याधरीणां कर्तव्यः शुद्धो वेषपरिच्छदः । यक्षिण्योऽप्सरश्चैव कर्या रत्नविभूषणाः ॥ ५७॥ समस्तानां भवेद्वेषो यक्षीणा केवलं शिखा । दिव्यनामिव कर्तव्यं नागस्त्रीणां विभूषणम् ॥ ५८॥ मुक्तामणिलताप्रायाः फणास्तासां तु केवलाः । कार्यं तु मुनिकन्यानामेकवेणीधरं शिरः ॥ ५९॥ न चापि विभूषणविधिस्तासां वेषो वनोचितः । मुक्तामरकतप्रायं मण्डनं सिद्धयोषिताम् ॥ ६०॥ तासां तु चैव कर्तव्यं पीतवस्त्रपरिच्छदम् । पद्मरागमणिप्रायं गन्धर्वीणां विभूषणम् ॥ ६१॥ वीणाहस्तश्च कर्तव्यः कौसुम्भवसनस्तथा । इन्द्रनीलैस्तु कर्तव्यं राक्षसीणां विभूषणम् ॥ ६२॥ सितदंष्ट्रा च कर्तव्या कृष्णवस्त्रपरिच्छदम् । वैडूर्यमुक्ताभरणाः कर्तव्या सुरयोषिताम् ॥ ६३॥ शुकपिञ्छनिभैअर्वस्त्रैः कार्यस्तासां परिच्छदः । पुष्यरागैस्तु मणिभिः क्वचिद्वैडूर्यभूषितैः ॥ ६४॥ दिव्यवानरनारीणां कार्यो नीलपरिच्छदः । एवं शृङ्गारिणः कार्या वेषा दिव्याङ्गनाश्रयाः ॥ ६५॥ अवस्थान्तमासाद्य शुद्धाः कार्याः पुनस्तथा । मानुषीणां तु कर्तव्या नानादेशसमुद्भवाः ॥ ६६॥ वेषाभरणसंयोगान् गदतस्तान्निबोधत । आवन्त्ययुवतीनां तु शिरस्सालककुन्तलम् ॥ ६७॥ गौडीयानामलकप्रायं सशिखापाशवेणिकम् । आभीरयुवतीनां तु द्विवेणीधर एव तु ॥ ६८॥ शिरः परिगमः कार्यो नीलप्रायमथाम्बरम् । तथा पूर्वोतरस्त्रीणां समुन्नद्धशिखण्डकम् ॥ ६९॥ आकेशाच्छादनं तासां देशकर्मणि कीर्तितम् । तथैव दक्षिणस्त्रीणां कार्यमुल्लेख्यसंश्रयम् ॥ ७०॥ कुम्भीबन्धकसंयुक्तं तथावर्तललाटिकम् । [गणिकानां तु कर्तव्यमिच्छाविच्छित्ति मण्डनम्] ॥ ७१॥ देशजातिविधानेन शेषाणामपि कारयेत् । वेषं तथा चाभरणं क्षुरकर्म परिच्छदम् ॥ ७२॥ [आगमं चापि नैपथ्ये नाट्यस्यैवं प्रयोजयेत्] । अदेशयुक्तो वेषो हि न शोभां जनयिष्यति ॥ ७३॥ मेखलोरसि बद्धा तु हास्यं समुपपादयेत् । तथा प्रोषितकान्तासु व्यसनाभिहतासु च ॥ ७४॥ वेषो वै मलिनः कार्य एकवेणीधरं शिरः । विप्रलम्भे तु नार्यास्तु शुद्धो वेषो भवेदिह ॥ ७५॥ नात्याभरणसंयुक्तो न चापि मृजयान्वितः । एवं स्त्रीणां भवेद्वेषो देशावस्थासमुद्भवः ॥ ७६॥ पुरुषाणां पुनश्चैव वेषान्वक्ष्यामि तत्त्वतः । तत्राङ्करचना पूर्वं कर्तव्या नाट्ययोक्तृभिः ॥ ७७॥ ततः परं प्रयोक्तव्या वेषा देशसमुद्भवाः । सितो नीलश्च पीतश्च चतुर्थो रक्त एव च ॥ ७८॥ एते स्वभावजा वर्णा यैः कार्यं त्वङ्गवर्तनम् । संयोगजाः पुनश्चान्ये उपवर्णा भवन्ति हि ॥७९॥ तानहं सम्प्रवक्ष्यामि यथाकार्यं प्रयोक्तृभिः । सितनीलसमायोगे कारण्डव इति स्मृतः ॥ ८०॥ सितपीतसामायोगात्पाण्डुवर्णः प्रकीर्तितः । सितिअरक्तसमायोगे पद्मवर्णः प्रकीर्तितः ॥ ८१॥ पीतनीलसमायोगाद्धरितो नाम जायते । नीलरक्तसमायोगात्कषायो नाम जायते ॥ ८२॥ रक्तपीतसमायोगाद्गौरवर्ण इति स्मृतः । एते संयोगजा वर्णा ह्युपवर्णास्तथापरे ॥ ८३॥ त्रिचतुर्वर्णसंयुक्ता बहवः सम्प्रकीर्तिताः । बलस्थो यो भवेद्वर्णस्तस्य भागो भवेत्ततः ॥ ८४॥ दुर्बलस्य च भागौ द्वौ नीलं मुक्त्वा प्रदापयेत् । नीलस्यैको भवेद्भागश्चत्वारोऽन्ये तु वर्णके ॥ ८५॥ बलवान्सर्ववर्णानां नील एव प्रकीर्तितः । एवं वर्णविधिं ज्ञात्वा नानासंयोगसंश्रयम् ॥ ८६॥ ततः कुर्याद्यथायोगमङ्गानां वर्तनं बुधः । वर्तनच्छादनं रूपं स्ववेषपरिवर्जितम् ॥ ८७॥ नाट्यधर्मप्रवृत्तं तु ज्ञेयं तत्प्रकृतिस्थितम् । स्ववर्णमात्मनश्छाद्यं वर्णकैर्वेषसंश्रयैः ॥ ८८॥ आकृतिस्तस्य कर्तव्या यस्य प्रकृतिरास्थिता । यथा जन्तुः स्वभावं स्वं परित्यज्यान्यदैहिकम् ॥८९॥ तत्स्वभावं हि भजते देहान्तरमुपाश्रितः । वेषेण वर्णकैश्चैव च्छादितः पुरुषस्तथा ॥ ९०॥ परभावं प्रकुरुते यस्य वेषं समाश्रितः । देवदानवगन्धर्वयक्षराक्षसपन्नगाः ॥ ९१॥ प्राणिसंज्ञाः स्मृता ह्येते जीवबन्धाश्च येऽपरे । [स्त्रीभावाः पर्वताः नद्यः समुद्रा वाहनानि च ॥ ९२॥ नानाशस्त्राण्यपि तथा विज्ञेयाः प्राणिसंज्ञया] । शैलप्रासादयन्त्राणि चर्मवर्मध्वजास्तथा ॥ ९३॥ नानाप्रहरणाद्याश्च तेऽप्राणिन इति स्मृताः । अथवा कारणोपेता भवन्त्येते शरीरिणः ॥ ९४॥ वेषभाषाश्रयोपेता नाट्यधर्ममवेक्ष्य तु । वर्णानां तु विधिं ज्ञात्वा वयः प्रकृतिमेव च ॥ ९५॥ कुर्यादङ्गस्य रचनां देशजातिवयःश्रितताम् । देवा गौरास्तु विज्ञेया यक्षाश्चाप्सरस्तथा ॥ ९६॥ रुद्रार्कद्रुहिणस्कन्दास्तपनीयप्रभाः स्मृताः । सोमो बृहस्पतिः शुक्रो वरुणस्तारकागणाः ॥ ९७॥ समुद्रहिमवद्गङ्गाः श्वेता हि स्युर्बलस्तथा । रक्तमङ्गारकं विद्यात् पीतौ बुधहुताशनौ ॥ ९८॥ नारायणो नरश्चैव श्यामो नागश्च वासुकिः । दैत्याश्च दानवाश्चैव राक्षसा गुह्यका नगाः ॥ ९९॥ पिशाचा जलमाकाशमसितानि तु वर्णतः । भवन्ति षट्सु द्वीपेषु पुरुषश्चैव वर्णतः ॥ १००॥ कर्तव्या नाट्ययोगेन निष्टप्तकनकप्रभाः । जाम्बूद्वीपस्य वर्षे तु नानावर्णाश्रया नराः ॥ १०१॥ उत्तरांस्तु कुरुस्त्यक्त्वा ते चापि कनकप्रभाः । भद्राश्वपुरुषाः श्वेताः कर्तव्या वर्णतस्तथा ॥ १०२॥ केतुमाले नरा नीला गौराः शेषेषु कीर्तिताः । नानावर्णाः स्मृता भूता गन्धर्वा यक्षपन्नगाः ॥ १०३॥ विद्याधरास्तथा चैव पितरस्तु समा नराः । पुनश्च भारते वर्षे तांस्तान्वर्णान्निबोधत ॥ १०४॥ राजानः पद्मवर्णास्तु गौराः श्यामास्तथैव च । ये चापि सुखिनो मर्त्या गौरा कार्यास्तु वैः बुधैः ॥ १०५॥ कुकर्मिणो ग्रहग्रस्ताः व्याधितास्तपसि स्थिताः । आयस्तकर्मिणश्चैव ह्यसिताश्च कुजातयः ॥ १०६॥ ऋष्ययश्चैव कर्तव्या नित्यं तु बदरप्रभाः । तपःस्थिताश्च ऋषयो नित्यामेवासिता बुधैः ॥ १०७॥ कारणव्यपदेशेन तथा चात्मेच्छया पुनः । वर्णस्तत्र प्रकर्तव्यो देशजतिवशानुगः ॥ १०८॥ देशं कर्म च जातिं च पृथिव्युद्देशसंश्रयम् । विज्ञाय वर्तना कार्या पुरुषाणां प्रयोगतः ॥ १०९॥ किरातबर्बरान्ध्राश्च द्रविडाः काशिकोसलाः । पुलिन्दा दाक्षिणात्याश्च प्रायेण त्वसिताः स्मृताः ॥ ११०॥ शकाश्च यवनाश्चैव पह्लवा वाह्लिकाश्च ये । प्रायेण गौराः कर्तव्या उत्तरा ये श्रिता दिशम् ॥ १११॥ पाञ्चालाः शौरसेनाश्च माहिषाश्चौड्रमागधाः । अङ्गा वङ्गाः कलिङ्गाश्च श्यामाः कार्यास्तु वर्णतः ॥ ११२॥ ब्राह्मणाः क्षत्रियाश्चैव गौराः कार्यास्तथैव हि । वैश्याः शूद्रास्तथा चैव श्यामाः कार्यास्तु वर्णतः ॥ ११३॥ एवं कृत्वा यथान्यायं मुखाङ्गोपाङ्गवर्तनाम् । श्मश्रुकर्म प्रयुञ्जीत देशकालवयोऽनुगम् ॥११४॥ शुद्धं विचित्रं श्यामं च तथा रोमशमेव च । भवेच्चतुर्विधं श्मश्रु नानावस्थान्तरात्मकम् ॥ ११५॥ शुद्धं तु लिङ्गिनां कार्यं तथामात्यपुरोधसाम् । मध्यस्था ये च पुरुषा ये च दीक्षां समाश्रिताः ॥ ११६॥ दिव्या ये पुरुषाः केचित्सिद्धविद्याधरादयः । पार्थिवाश्च कुमाराश्च ये च राजोपजीविनः ॥ ११७॥ शृङ्गारिणश्च ये मर्त्या यौवनोन्मादिनश्च ये । तेषां विचित्रं कर्तव्यं श्मश्रु नाट्यप्रयोक्तृभिः ॥ ११८॥ अनिस्तीर्णप्रतिज्ञानां दुःखितानां तपस्विनाम् । व्यसनाभिहतानां च श्यामं श्मश्रु प्रयोजयेत् ॥ ११९॥ ऋषीणां तापसानां च ये च दीर्घव्रता नराः । तथा च चीरबद्धानां रोमशं श्मश्रु कीर्तितम् ॥ १२०॥ एवं नानाप्रकारं तु श्मश्रु कार्यं प्रयोक्तृभिः । अत ऊर्ध्वं प्रवक्ष्यामि वेषान्नानाप्रयोगजान् ॥ १२१॥ शुद्धो विचित्रो मलिनस्त्रिविधो वेष उच्यते । तेषां नियोगं वक्ष्यामि यथावदनुपूर्वशः ॥ १२२॥ देवाभिगमने चैव मङ्गले नियमस्थिते । तिथिनक्षत्रयोगे च विवाहकरणे तथा ॥ १२३॥ धर्मप्रवृत्तं यत्कर्म स्त्रियो वा पुरुषस्य वा । वेषस्तेषां भवेच्छुद्धो ये च प्रायत्निका नराः ॥ १२४॥ देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् । नृपाणां कर्कशानां च चित्रो वेष उदाहृतः ॥ १२५॥ वृद्धानां ब्राह्मणानां च श्रेष्ठ्यमात्यपुरोधसाम् । वणिजां काञ्चुकीयानां तथा चैव तपस्विनाम् ॥ १२६॥ विप्रक्षेत्रियवैश्यानां स्थानीया ये च मानवाः । शुद्धो वस्त्रविधिस्तेषां कर्तव्यो नाटकाश्रयः ॥ १२७॥ उन्मत्तानां प्रमत्तानामध्वगानां तथैव च । व्यसनोपहतानां च मलिनो वेष उच्यते ॥ १२८॥ शुद्धरक्तविचित्राणि वासांस्यूर्ध्वाम्बराणि च । योजयेन्नाट्यतत्त्वज्ञो वेषयोः शुद्धचित्रयोः ॥ १२९॥ कुर्याद्वेषे तु मलिने मलिनं तु विचक्षणः । मुनिनिर्ग्रन्थशाक्येषु यतिपाशुपतेषु च ॥ १३०॥ व्रतानुगस्तु कर्तव्यो वेषो लोकस्वभावतः । चीरवल्कलचर्माणि तापसानां तु योजयेत् ॥ १३१॥ परिवाण्मुनिष्क्यानां वासः काषायमिष्यते । नानाचित्राणि वासांसि कुर्यात्पाशुपतेष्वथ ॥ १३२॥ कुजातयश्च ये प्रोक्तास्तेषां चैव यथार्हतः । अन्तःपुरप्रवेशे च विनियुक्ता हि ये नराः ॥ १३३॥ काषायकञ्चुकपटाः कार्यास्तेऽपि यथाविधि । अवस्थानतरतश्चैव नृणां वेषो भवेदथ ॥ १३४॥ वेषः सांग्रामिकश्चैव शूराणां संप्रकीर्तितः । विचित्रशस्त्रकवचो बद्धतूणो धनुर्धरः ॥ १३५॥ चित्रो वेषस्तु कर्तव्यो नृपाणां नित्यमेव च । केवलस्तु भवेच्छुद्धो नक्षत्रोत्पातमङ्गले ॥ १३६॥ एवमेष भवेद्वेषो देशजातिवयोऽनुगः । उत्तमाधममध्यानां स्त्रीणां नृणामथापि च ॥ १३७॥ एवं वस्त्रविधिः कार्यः प्रयोगे नाटकाश्रये । नानावस्थां समासाद्य शुभाशुभकृतस्तथा ॥ १३८॥ तथा प्रतिशिरश्चापि कर्तव्यं नाटकाश्रयम् । दिव्यानां मानुषाणां च देशजातिवयःश्रितम् ॥ १३९॥ पार्श्वागता मस्तकिनस्तथा चैव किरीटिनः । त्रिविधो मुकुटो ज्ञेयो दिव्यपार्थिवसंश्रितः ॥ १४०॥ देवगन्धर्वयक्षाणां पन्नगानां सरक्षसाम् । कर्तव्या नैकविहिअत मुकुटाः पार्श्वमौलयः ॥ १४१॥ उत्तमा ये च दिव्यानां ते च कार्याः किरीटिनः । मध्यमा मौलिनश्चैव कनिष्ठाः षिर्षमौलिनः ॥ १४२॥ नराधिपानां कर्तव्या मस्तके मुकुटा बुधैः । विद्याधराणां च सिद्धानां चारणानां तथैव च ॥ १४३॥ ग्रन्थिमत्केशमुकुटाः कर्तव्यास्तु प्रयोक्तृभिः । राक्षोदानवदैत्यानां पिङ्गकेशेक्षणानि हि ॥ १४४॥ हरिच्छ्श्मश्रूणि च तथा मुकुटास्यानि कारयेत् । उत्तमश्चापि ये तत्र ते कार्याः पार्श्वमौलिनः ॥ १४५॥ कस्मात्तु मुकुटाः सृष्टाः प्रयोगे दिव्य्पार्थिवे । केशानां छेदनं दृष्टं वेदवादे यथाश्रुति ॥ १४६॥ भद्रीकृतस्य वा यज्ञे शिरसश्छादनेच्छया । केशानामप्यदीर्घत्वात्स्मृतं मुकुटधारणम् ॥ १४७॥ सेनापतेः पुनश्चापि युवराजस्य चैव हि । योजयेदर्धमुकुटं महामात्राश्च ये नराः ॥ १४८॥ अमात्यानां कञ्चुकिनां तथा श्रेष्ठिपुरोधसाम् । वेष्टनाबद्धपट्टानि प्रतिशीर्षाणि कारयेत् ॥ १४९॥ पिशाचोन्मत्तभूतानां साधकानां तपस्विनाम् । अनिस्तीर्णप्रतिज्ञानां लम्बकेशं भवेच्छिरः ॥ १५०॥ शाक्यश्रोत्रियनिर्ग्रन्थपरिव्राड्दीक्षितेषु च । शिरोमुण्डं तु कर्तव्यं यज्ञदीक्षान्वितेषु च ॥ १५१॥ तथा व्रतानुगं चैव शेषानां लिङ्गिनां शिरः । मुण्डं वा कुञ्चितं वापि लम्बकेशमथापि वा ॥ १५२॥ धूर्तानां चैव कर्तव्यं ये च रात्र्युपजीविनः । शृङ्गारचित्ताः पुरुषास्तेषां कुञ्चितमूर्धजाः ॥ १५३॥ बालानामपि कर्तव्यं त्रिशिखण्डविभूषितम् । जटामकुटबद्धं च मुनीनां तु भवेच्छिरः ॥ १५४॥ चेटानामपि कर्तव्यं त्रिशिखं मुण्डमेव वा । विदूषकस्य खलतिः स्यात्काकपदमेव वा ॥ १५५॥ शीषाणामर्थयोगेन देशजातिसमाश्रयम् । शिरः प्रयोक्तृभिः कार्यं नानावस्थान्तराश्रयम् ॥ १५६॥ भूषणैर्वर्णकैर्वस्त्रैर्माल्यैश्चैव यथाविधि । एवं नानाप्रकारैस्तु बुद्ध्या वेषान्प्रकल्पयेत् ॥ १५७॥ पूर्वं तु प्रकृतिं स्थाप्य प्रयोगगुणसंभवाम् । स्त्रीणां वा पुरुषाणां वाप्यवस्थां प्राप्य तादृशीम् ॥ १५८॥ सर्वे भावाश्च दिव्यानां कार्या मानुषसंश्रयाः । तेषां चानिमिषत्वादि नैव कार्यं प्रयोक्तृभिः ॥ १५९॥ इह भावरसाश्चैव दृष्टिभिः सम्प्रतिष्ठिताः । दृष्ट्यैव स्थापितो ह्यर्थः पश्चादङ्गैर्विभाव्यते ॥ १६०॥ एवं ज्ञीयाङ्गरचना नानाप्रकृतिसंभवा । सजीव इति यः प्रोक्तस्तस्य वक्ष्यामि लक्षणम् ॥ १६१॥ यः प्राणिनां प्रवेशो वै सजीव इति संज्ञितः । चतुष्पदोऽथ द्विपदस्तथा चैवापदः स्मृतः ॥ १६२॥ उरगानपदान् विद्याद् द्विपदान्खगमानुषान् । ग्राम्या आरण्याः पशवो विज्ञेयाः स्युश्चतुष्पदाः ॥ १६३॥ ये ते तु यद्धसंफेटैरुपरोधैस्तथैव च । नानाप्रहरणोपेताः प्रयोज्या नाटके बुधैः ॥ १६४॥ आयुधानि च कार्याणि पुरुषाणां प्रमाणतः । तान्यहं वर्तयिष्यामि यथापुस्तप्रमाणतः ॥ १६५॥ भिण्डिर्द्वादशतालः स्याद्दश कुन्तो भवेदथ । अष्टौ शतघ्नी शूलं च तोमरः शक्तिरेव वा ॥ १६६॥ अष्टौ ताला धनुर्ज्ञेयमायामोऽस्य द्विहस्तकः । शरो गदा च वज्रा च चतुस्तालं विधीयते ॥ १६७॥ अङ्गुलानि त्वसिः कार्यश्चत्वारिंशत्प्रमाणतः । द्वादशाङ्गुलकं चक्रं ततोऽर्धं प्रास इष्यते ॥ १६८॥ प्रासवत्पट्टसं विद्याद्दण्डश्चैव तु विंशतिः । विंशतिः कणयश्चैव ह्यङ्गुलानि प्रमाणतः ॥ १६९॥ शोडषाङ्गुलविस्तीर्णं सबलं सम्प्रघण्टिकम् । त्रिंशदङ्गुलिमानेन कर्तव्यं खेटकं बुधैः ॥ १७०॥ जर्जरो दण्डकाष्ठं च तथैव प्रतिशीर्षकम् । छत्रं चामरं चैव ध्वजो शृङ्गार एव च ॥ १७१॥ यत्किञ्चिन्मानुषे लोके द्रव्यं पुंसां प्रयोजकम् । यच्चोपकरणं सर्वे नाट्ये तत्सम्प्रकीर्तितम् ॥ १७२॥ यद्यस्य विषयप्राप्तं तेनोह्यं तस्य लक्षणम् । जर्जरे दण्डकाष्ठे च सम्प्रवक्ष्यामि लक्षणम् ॥ १७३॥ माहेन्द्रा वै ध्वजाज़् प्रोक्ता लक्षणैर्विश्वकर्मणा । एषान्यतमं कुर्याज्जर्जरं दारुकर्मतः ॥ १७४॥ अथवा वृक्षयोनिः स्यात्प्ररोहो वापि जर्जरः । वेणुरेव भवेच्छ्रेष्ठस्तस्य वक्ष्यामि लक्षणम् ॥१७५॥ श्वेतभूम्यां तु यो जातः पुष्यनक्षत्रजस्तथा । संग्राह्यो वै भवेद्वेणुर्जर्जरार्थे प्रयत्नतः ॥ १७६॥ प्रमाणमङ्गुलानां तु शतमष्टोत्तर<ं भवेत् । पञ्चपर्वा चतुर्ग्रन्थिस्तालमात्रस्तथैव च ॥ १७७॥ स्थूलग्रन्थिर्न कर्तव्यो न शाखी न च कीटवान् । न कृमिक्षतपर्वा च न हीनश्चान्यवेणुभिः ॥ १७८॥ मधुसर्पिस्सर्षपाक्तं माल्यधूपपुरस्कृतम् । उपास्य विधिवद्वेणुं गृह्णियाज्जर्जरं प्रति ॥ १७९॥ यो विधिर्यः क्रमश्चैव माहेब्द्रे तु ध्वजे स्मृतः । स जर्जरस्य कर्तव्यः पुष्यवेणुसमाश्रयः ॥ १८०॥ भवेद्यो दीर्घपर्वा तु तनुपत्रस्तथैव च । पर्वाग्रतण्डुलश्चैव पुष्यवेणुः स कीर्तितः ॥ १८१॥ विधिरेष मया प्रोक्तो जर्जरस्य प्रमाणतज़्ः । अत ऊर्ध्वं प्रवक्ष्यामि दण्डकाष्ठस्य लक्षणम् ॥ १८२॥ कपित्थबिल्ववंशेभ्यो दण्डकाष्ठं भवेदथ । वक्रं चैव हि कर्तव्यं त्रिभागे लक्षणान्वितम् ॥ १८३॥ कीटैर्नोपहतं यच्च व्याधिना न च पीडितम् । मन्दशाखं भवेद्यच्च दण्डकाष्ठं तु तद्भवेत् ॥१८४॥ यस्त्वेभिर्लक्षणैर्हीनं दण्डकाष्ठं सजर्जरम् । कारयेत्स त्वपचयं महान्तं प्राप्नुयाद्ध्रुवम् ॥ १८५॥ अथ शीर्षविभागार्थं घटी कार्या प्रयत्नतः । स्वप्रमाणविनिर्दिष्टा द्वात्रिंशत्यङ्गुलानि वै ॥ १८६॥ बिल्वमध्येन कर्तव्या घटी सिरसमाश्रया । स्विन्नेन बिल्वकल्केन द्रवेण च समन्विता ॥ १८७॥ भस्मना वा तुषैर्वापि कारयेत्प्रतिशीर्षकम् । संछाद्य तु ततो वस्त्रैर्बिल्वदुग्धैर्घटाश्रयैः ॥ १८८॥ बिल्वकल्केन चीरं तु दिग्ध्वा संयोजयेद्घटीम् । न स्थूलां नानतां तन्वीं दीर्घां नैव च कारयेत्। ॥ १८९॥ तस्यामातपशुष्कायां सुशुष्कायामथापि वा । छेद्यं बुधाः प्रकुर्वन्ति विधिदृष्टेन कर्मणा ॥ १९०॥ सुतीक्ष्णेन तु शस्त्रेण अर्धार्धं प्रविभज्य च । स्वप्रमाणविनिर्दिष्टं ललाटकृतकोणकम् ॥ १९१॥ अर्धाङ्गुलं ललाटं तु कार्यं छेद्यं षडङ्गुलम् । अर्धार्धमङ्गुलं छेद्यं कटयोर्द्व्यङ्गुलं भवेत् ॥ १९२॥ कटान्ते कर्णनालस्य छेद्यं द्व्यधिकमङ्गुलम् । त्र्यङ्गुलं कर्णविवरं तथा स्याच्छेद्यमेव हि ॥ १९३॥ ततश्चैवावटुः कार्या सुसमा द्वादशाङ्गुला । घट्यां ह्येतत्सदा च्छेद्ये विधानं विहितं मया ॥ १९४॥ तस्योपरिगता कार्या मुकुटा बहुशिल्पजाः । नानारत्नप्रतिच्छन्ना बहुरूपोपशोभिताः ॥ १९४॥ तथोपकरणानीह नाट्ययोगकृतानि वै । बहुप्रकारयुक्तानि कुर्वीत प्रकृतिं प्रति ॥ १९६॥ यत्किञ्चिदस्मिन् लोके तु चराचरसमन्विते । विहितं कर्म शिल्पं वा तत्तूपकरणं स्मृतम् ॥१९७॥ यद्यस्य विषयं प्राप्तं तत्तदेवाभिगच्छति । नास्तन्तः पुरुषाणां हि नाट्योपकरणाश्रये ॥ १९८॥ यद्येनोत्पादितं कर्म शिल्पयोगक्रियापि वा । तस्य तेन कृता सृष्टिः प्रमाणं लक्षणं तथा ॥ १९९॥ या काष्ठयन्त्रभूयिष्ठा कृता सृष्टिर्महात्मना । न सास्माकं नाट्ययोगे कस्मात्खेदावहा हि सा ॥ २००॥ यद्द्रव्यं जीवलोके तु नानालक्षणलक्षितम् । तस्यानुकृतिसंस्थानं नाट्यूपकरणं भवेत् ॥ २०१॥ प्रासादगृहयानानि नानाप्रहरणानि च । न शक्यं तानि वै कर्तुं यथोक्तानीह लक्षणैः ॥ २०२॥ लोकधर्मी भवेत्त्वन्या नाट्यधर्मी तथापरा । स्वभावो लोकधर्मी तु विभावो नाट्यमेव हि ॥ २०३॥ आयसं न तु कर्तव्यं न च सारमयं तथा । नाट्योपकरणं तज्ज्ञैर्गुरुखेदकर< भवेत् ॥ २०४॥ काष्ठचर्मसु वस्त्र्षु जतुवेणुदलेषु च । नाट्योपकरणानीह लघुकर्माणि कारयेत् ॥ २०५॥ चर्मवर्मध्वजाः शैलाः प्रासादा देवतागृहाः । हयवारणयानानि विमानानि गृहाणि च ॥ २०६॥ पूर्वं वेणुदलैः कृत्वा कृतीर्भावसमाश्रयाः । ततः सुरङ्गैरच्छाद्य वस्त्रैः सारूप्यमानयेत् ॥ २०७॥ अथवा यदि वस्त्राणामसान्निध्यं भवेदिह । तालीयैर्वा किलिञ्जैर्वा श्लक्ष्णैर्वस्त्रक्रिया भवेत् ॥ २०८॥ तथा प्रहरणानि स्युस्तृणवेणुदलादिभिः । जन्तुभाण्डक्रियाभिश्च नानारूपाणि नाटके ॥ २०९॥ प्रतिपादं प्रतिशिरः प्रतिहस्तं प्रतित्वचम् । तृणैः किलिञ्जैर्भाण्डैर्वा सारूप्याणि तु कारयेत् ॥ २१०॥ यद्यस्य सदृशं रूपं सारूप्यगुणसंभवम् । मृण्मयं तत्तु कृत्स्नं तु नानारूपं तु कारयेत् ॥२११॥ भाण्डवस्त्रमधूच्छिष्टैर्लाक्षयाभ्रदलेन च । नागास्ते विविधाः कार्या ह्यतसीशणबिल्वजैः ॥ २१२॥ नानाकुसुमजातीश्च फलानि विविधानि च । भाण्डवस्त्रमधूच्छिष्टैर्लाक्षया वापि कारयेत् ॥२१३॥ भाण्डवस्त्रमधूच्छिष्टैस्ताम्रपत्रैस्तथैव च । सम्यक्च नीलीरागेणाप्यभ्रपत्रेण चैव हि ॥ २१४॥ रञ्जितेनाभ्रपत्रेण मणीश्चैव प्रकारयेत् । उपाश्रयमथाप्येषं शुल्बवङ्गेन कारयेत् ॥ २१५॥ विविधा मुकुटा दिवा पूर्वं ये गदिता मया । तेऽभ्रपत्रोज्वलाः कार्या मणीव्यालोपशोभिताः ॥ २१६॥ न शास्त्रप्रभवं कर्म तेषां हि समुदाहृतम् । आचार्यबुद्ध्या कर्तव्यमूहापोहप्रयोजितम् ॥ २१७॥ एष मर्त्यक्रियायोगो भविष्यत्कल्पितो मया । कस्मादल्पबलत्वं हि मनुष्येषु भविष्यति ॥ २१८॥ मर्त्यानामपि नो शक्या विभावाः सर्वकाञ्चनाः । नेष्टाः सुवर्णरत्नैस्तु मुकुटा भूषणानि वा ॥ २१९॥ युद्धे नियुद्धे नृत्ते वा वृष्टिव्यापारकर्मणि । गुरुभावावसन्नस्य स्वेदो मूर्छा च जायते ॥ २२०॥ स्वेदमूर्छाक्लमार्तस्य प्रयोगस्तु विनश्यति । प्राणात्ययः कदाचिच्च भवेद्व्यायतचेष्टया ॥ २२१॥ तस्मात्ताम्रमयैः पत्रैरभ्रकै रञ्जितैरपि । भेण्डैरपि मधूच्छिष्टैः कार्याण्याभरणानि तु ॥ २२२॥ एवं लोकोपचारेण स्वबुद्धिविभवेन च । नाट्योपकरणानीह बुधः सम्यक् प्रयोजयेत् ॥ २२३॥ न भेद्यं नैव च च्छेद्यं न प्रहर्तव्यमेव च । रङ्गे प्रहरणैः कार्यं संज्ञामात्रं तु कारयेत् ॥२२४॥ अथवा योगशिक्षाभिर्विद्यामायाकृतेन वा । शस्त्रमोक्षः प्रकर्तव्यो रङ्गमध्ये प्रयोक्तृभिः ॥ २२५॥ एवं नानाप्रकारैस्तु आयुधाभरणानि च । नोक्तानि यानि च मया लोकाद् ग्राह्याणि तान्यपि ॥ २२६॥ आहार्याभिनयो ह्येष मया प्रोक्तः समासतः । अत ऊर्ध्वं प्रवक्ष्यामि सामान्याभिनयं प्रति ॥ २२७॥ इति भारतीये नाट्यशास्त्रे आहार्याभिनयो नामैकविंशोऽध्यायः । Encoded by Padmakar Dadegaonkar dadegaonkar@yahoo.com
% Text title            : naaTyashaastra adhyaaya 21
% File name             : natya21.itx
% itxtitle              : nATyashAstram adhyAyaH 21
% engtitle              : Natya Shastra Chapter 21
% Category              : natyashastra, major_works, bharata
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Sage Bharata
% Language              : Sanskrit
% Subject               : philosophy/hinduism/culture
% Transliterated by     : dpadmakar at hotmail.com
% Proofread by          : dpadmakar at hotmail.com
% Latest update         : October 6, 2001
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.


Sanskrit Documents Home Home Sitemap Sanskrit Links Blog Contributors Support GuestBook FAQ Search

BACK TO TOP