॥ नाट्यशास्त्रम् अध्यायः ३६ नाट्यशापः ॥

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ षट्त्रिंशोऽध्यायः अथात्रेयो वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः । अङ्गिरा गौतमोऽगस्त्यो मनुरायुस्तथात्मवान् ॥ १॥ विश्वामित्रः स्थूलशिराः संवर्तः प्रमतिर्दनुः । उशना बृहस्पतिर्व्यासश्च्यवनः काश्यपो ध्रुवः ॥ २॥ दुर्वासा जामदग्न्यश्च मार्कण्डेयोऽथ गालवः । भरद्वाजश्च रैभ्यश्च यवक्रीतस्तथैव च ॥ ३॥ स्थूलाक्षः शकलाक्षश्च काण्वो मेघातिथिः क्रतुः । नारदः पर्वतश्चैव सुवर्माथैकजो द्विजः ॥ ४॥ नितम्बुर्भुवनः सौम्यः शतानन्दः कृतव्रणः । जामदग्न्यस्तथा रामः कचश्चेत्येवमादयः ॥ ५॥ एवं ते मुनयः श्रुत्वा सर्वज्ञं भरतं ततः । पुनरूचुरिदं वाक्यं कुतूहलपुरोगमम् ॥ ६॥ यस्त्वया गदितो ह्येष नाट्यवेदः पुरातनः । एकचित्तैः स चास्माभिः सम्यक् समुपधारितः ॥ ७॥ एकश्च संशयोऽस्माकं तं नो व्याख्यातुमर्हसि । को वान्यो नाट्यवेदस्य निश्चयं वक्तुमर्हति ॥ ८॥ न वयं परिहासेन न विरोधेन न चेर्ष्यया । पृच्छामो भगवन् नाट्यमुपदेशार्थमेव तु ॥ ९॥ अस्माभिश्च तदा नोक्तं कथाच्छेदो भवेदिति । इदानीं तूपशिक्षार्थं नाट्यगुह्यं निदर्शय ॥ १०॥ लोकस्य चरितं नाट्यमित्यवोचस्त्वमीदृशम् । तेषां तु लोकं गुह्यानां निश्चयं वक्तुमर्हसि ॥ ११॥ देवस्य कस्य चरितं पूर्वरङ्गे द्विजर्षभ । किमर्थं भुज्यते ह्येष प्रयुक्तः किं करोति वा ॥ १२॥ कस्माच्चैव पुनः शौचं सम्यक् चरति सूत्रदृक् । कथमुर्वीतले नाट्यं स्वर्गान्निपतितं विभो ॥ १३॥ कथं तवायं वंशश्च नटसंज्ञः प्रतिष्ठितः । सर्वमेव यथातत्त्वं कथयस्व महामुने ॥ १४॥ तेषं तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच पुनर्वाक्यं गुह्यार्थाभिनयं प्रति ॥ १५॥ ब्रवीमि वः कथां गुह्यां यन्मां पृच्छन् सुव्रताः । पूर्वरङ्गविधानस्य तां च मे सन्निबोधत ॥ १६॥ प्रोक्तवानस्मि यत्पूर्वं शुभं विघ्ननिबर्हणम् । तस्यानुबन्धेन मया पूर्वरङ्गः प्रकीर्तितः ॥ १७॥ शस्त्राणां प्रतिकारार्थं शरीरावरणं यथा । क्रियते हि तथा पापं हुतेनैव प्रशाम्यति ॥ १८॥ एवं जप्यैश्च होमैश्च देवताभ्यर्चनेन च । सर्वातोद्यविधानैश्च तथा गीतस्वनेन च ॥ १९॥ स्तुत्याशीर्वचनैः शान्तैः कर्मभावानुकीर्तनैः । मया पापापहरणैः कृते विघ्ननिबर्हणे ॥ २०॥ स्तुतिगीतादिसंसृष्टैर्देवैरभिहितोऽस्म्यहम् । नितरां परितुष्टाः स्मः प्रयोगेणामुना च ते ॥ २१॥ देवतासुरमानन्द्य यस्माँल्लोकश्च नन्दति । तस्मादयं प्रयोगस्तु नान्दीनामा भविष्यति ॥ २२॥ गीतवाद्यानुनादो हि यत्र काकुस्वनः शुभः । तस्मिन् देशे विपाप्मानो माङ्गल्यं च भविष्यति ॥ २३॥ यावत्तं पूरयेद्देशं ध्वनिर्नाट्यसमाश्रयः । न स्थास्यन्ति हि रक्षांसि तं देशं न विनायकाः ॥ २४॥ आवाहे च विवाहे च यज्ञे नृपतिमङ्गले । नान्दीशब्दमुपश्रुत्य हिंस्रा नश्यन्ति चैव हि ॥ २५॥ पाठ्यं नाट्यं तथा गेयं चित्रवादित्रमेव च । वेदमन्त्रार्थवचनैः समं ह्येतद् भविष्यति ॥ २६॥ श्रुतं मया देवदेवात् तत्त्वतः शङ्कराद्धितम् । स्नानजप्यसहस्रेभ्यः पवित्रं गीतवादितम् ॥ २७॥ यस्मिन्नातोद्यनाट्यस्य गीतपाठ्यध्वनिः शुभः । भविष्यत्यशुभं देशे नैव तस्मिन् कदाचन ॥ २८॥ एवं पूजाधिकारार्थं पूर्वरङ्गः कृतो मया । नानास्तुतिकृतैर्वाक्यैर्देवताभ्यर्चनेन च ॥ २९॥ यतोऽभिवादनं क्लिष्टं शिष्टं तद्रङ्गमण्डले । ततस्तस्य हि तच्छौचं विहितं तु द्विजोत्तमाः ॥ ३०॥ शौचं कृत्वा यतो मन्त्रं पूजनं जर्जरस्य तु । उच्यते पूर्वरङ्गेऽस्मिन् तस्माच्छौचं प्रकीर्तितम् ॥ ३१॥ यथावतारितं चैव नाट्यमेतन्महीतले । वक्तव्यं सर्वमेतद्धि न शक्यं हि निगूहितुम् ॥ ३२॥ ममैते तनयाः सर्वे नाट्यवेदसमन्विताः । सर्वलोकं प्रहसनैः बाधन्ते नाट्यसंश्रयैः ॥ ३३॥ कस्यचित्त्वथ कालस्य शिल्पकं ग्राम्यधर्मकम् । ऋषीणां व्यङ्ग्यकरणं कुर्वद्भिर्गुणसंश्रयम् ॥ ३४॥ अश्राव्यं तद्दुराचारं ग्राम्यधर्मप्रवर्तितम् । निष्ठुरं चाप्रस्तुतं च काव्यं संसदि योजितम् ॥ ३५॥ तच्छ्रुत्वा मुनयः सर्वे भीमरोषप्रकम्पिताः । ऊचुस्तान् भरतान् क्रुद्धा निर्दहन्त इवाग्नयः ॥ ३६॥ मा तावद्भो द्विजा युक्तमिदमस्मद्विडम्बनम् । को नामायं परिभवः किञ्च नास्मासु सम्मतम् ॥ ३७॥ यस्माज्ज्ञानमदोन्मत्ता न वेत्थाविनयाश्रिताः । तस्मादेतद्धि भवतां कुज्ञानं नाशमेष्यति ॥ ३८॥ ऋषीणां ब्राह्मणानां च समवायसमागताः । निराहुता विना होमैः शूद्राचारा भविष्यथ ॥ ३९॥ अपाङ्क्तेयाः कुत्सिताश्चावमा एव भविष्यथ । यश्च वो भविता वंशः सर्वाशौचो भविष्यति ॥ ४०॥ ये च वो वंशजास्तेऽपि भविष्यन्त्यथ नर्तकाः । परोपस्थानवन्तश्च शस्त्रपण्योपजीविनः ॥ ४१॥ शापं दत्तं तथा ज्ञात्वा सुतेभ्यो मे तदा सुराः । सर्वे विमनसो भूत्वा तानृषीन् समुपस्थिताः ॥ ४२॥ याचमानैस्ततः प्रोक्तं देवैः शक्रपुरोगमैः । इदानीं दुःखमुत्पन्नं नाट्यमेतद् विनङ्क्षति ॥ ४३॥ ऋषिभिश्च ततः प्रोक्तं न चैतद्धि विनक्ष्यति । शेषमन्यत्र यद् प्रोक्तं सर्वमेतद् भविष्यति ॥ ४४॥ एतच्छ्रुत्वा तु वचनं मुनीनामुग्रतेजसाम् । विष्ण्णास्ते ततः सर्वे श्रुत्वा मां समुपस्थिताः ॥ ४५॥ प्रोक्तवन्तश्च मां पुत्रास्त्वयाहो नाशिता वयम् । अनेन नाट्यदोषेण शूद्राचारा हि यत् कृताः ॥ ४६॥ मयापि सान्त्वयित्वोक्ता मा क्रोधं व्रजतानघाः । कृतान्तविहितोऽस्माकं नूनमेष विधिः सुताः ॥ ४७॥ मुनीनां हि मृषा वाक्यं भविष्यति कदाचन । निधने च मनो मा भूद् युष्माकमिति सान्त्विताः ॥ ४८॥ जानीध्वं तत्तथा नाट्यं ब्रह्मणा सम्प्रवर्तितम् । शिष्येभ्यश्च तदन्येभ्यः प्रयच्छामः प्रयोगतः ॥ ४९॥ मा वै प्रणश्यतामेतन्नाट्यं दुःखप्रवर्तितम् । महाश्रयं महापुण्यं वेदाङ्गोपाङ्गसम्भवम् ॥ ५०॥ अप्सरोभ्य इदं चैव यथातत्त्वं यथाश्रुतम् । नाट्यं दत्त्वा ततः सर्वे प्रायश्चित्तं चरिष्यथ ॥ ५१॥ । इति भरतीये नाट्यशास्त्रे नाट्यशापो नाम षट्त्रिंशोऽध्यायः । Encoded by Sowmya Krishnapur krsowmya@yahoo at com

% Text title            : naaTyashaastra adhyaaya 36 naaTyashaapaH
% File name             : natya36.itx
% itxtitle              : nATyashAstram adhyAyaH 36 nATyashApaH
% engtitle              : Natya Shastra Chapter 36
% Category              : natyashastra, major_works, bharata
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Sage Bharata
% Language              : Sanskrit
% Subject               : philosophy/hinduism/culture/Dance/Drama
% Transliterated by     : Sowmya Krishnapur krsowmya at yahoo.com
% Proofread by          : Sowmya Krishnapur krsowmya at yahoo.com    are needed for devanaagarii output and formatting.
% Latest update         : January 16, 2007
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP