परमार्थद्वादशिका
शान्तिं सम्भज नित्यमल्पवचनैर्जल्पक्रमं संहर
तत्संहारगमेन किं कथमिदं कोऽसीति मा चीकॢपः ।
भावाभावविभागभासनतया यद्भात्यभग्नक्रमं
तच्छून्यं शिवधाम वस्तु परमं ब्रह्मात्र कोऽर्थग्रहः ॥ १॥
यद्यतत्त्वपरिहारपूर्वकं तत्त्वमेषि तदतत्त्वमेव हि ।
यद्यतत्त्वमथ तत्त्वमेव वा तत्त्वमेव ननु तत्त्वमीदृशम् ॥ २॥
यद्यद्भाति न भानतः पृथगिदं भेदोऽपि भातीति चेत्
भाने सोऽपि न भाति किं जहि ततस्तद्भङ्गिभङ्गग्रहम् ।
स्वप्ने स्वप्नतया प्रथां गतवती क्रीडैव नो भीतिकृ-
च्छस्त्राघातजलावपातहुतभुङ्निर्घातबन्धादिकम् ॥ ३॥
ज्ञानक्रियाकलनपूर्वकमध्यवस्ये-
द्यद्यद्भवान् कथय कोऽस्य जडाद्विशेषः ।
स्फूर्जन्जडोऽपि न किमद्वयबोधधाम
निस्सीमनित्यनिरवग्रहसत्यरूपम् ॥ ४॥
भावानामवभासकोऽसि यदि तैर्मोहः किमातन्यते
किं ते तद्यदि भान्ति हन्त भवतस्तत्राप्यखण्डं महः ।
नोचेन्नास्ति तदेवमप्युभयथा निर्व्याजनिर्यन्त्रणा-
त्रुट्यद्विभ्रमनित्यतृप्तमहिमा नित्यं प्रबुद्धोऽसि भोः ॥ ५॥
दृष्टिं बहिः प्रहिणु लक्ष्यपथातिरिक्तं
स्याद्भैरवानुकरणं वत वञ्चनेयम् ।
निर्द्वन्द्वबोधगगनस्य न बाह्यमस्ति
नाभ्यन्तरं निरवकाशविकासधाम्नः ॥ ६॥
वासनाप्रसरविभ्रमोदये यद्यदुल्लसति तत्तदीक्ष्यताम् ।
आदिमध्यनिधनेषु तत्र चेत् भासि भासि तव लीयते जगत् ॥ ७॥
मोहो दुःखवितर्कतर्कणघनो हेतुप्रथानन्तर-
प्रोद्यद्विभ्रमशृङ्खलातिबहुलो गन्धर्वपूःसन्निभः ।
द्वैताद्वैतविकल्पनाश्रयपदे चिद्व्योम्नि नाभाति चेत्
कुत्रान्यत्र चकास्तु कास्तु परमा निष्ठाप्यनेकात्मना ॥ ८॥
स्वप्ने तावदसत्यमेव सरणं सौसुप्तधाम्नि प्रथा
नैवास्यास्ति तदुत्तरे निरुपधौ चिद्व्योम्नि कोऽस्य ग्रहः ।
जाग्रत्येव धरावदर्थनिचयः स्याच्चेत् क्षणे कुत्रचित्
ज्ञानेनाथ तदत्ययेऽपृथगिदं तत्रापि का खण्डना ॥ ९॥
ये ये केऽपि प्रकाशा मयि सति परमव्योम्नि लब्धावकाशाः
काशा ह्येतेषु नित्ये महिमनि मयि ते निर्विभागं विभान्ति ।
सोऽहं निर्व्याजनित्यप्रतिहतकलनानन्तसत्यस्वतन्त्र-
ध्वस्तद्वैताऽद्वयारिद्वयमयतिमिरापारबोधप्रकाशः ॥ १०॥
कालः सङ्कलयन्कलाः कलयतु स्रष्टा सृजत्वादरा-
दाज्ञायाः परतन्त्रतामुपगतो मथ्नातु वा मन्मथः ।
क्रीडाडम्बरामम्बराश्रयमिव स्वोल्लेखरेखाक्रमं
देहाद्याश्रयमस्तु वैकृतमहामोहे न पश्यामि किम् ॥ ११॥
कः कोऽत्र भोर्यं कवलीकरोमि
कः कोऽत्र भोर्यं सहसा निहीन्म ।
कः कोऽत्र भोर्यं परबोधधाम-
सञ्चर्वणोन्मत्ततनुः पिबामि ॥ १२॥
भवोत्थभयभङ्गदङ्गदशृगालविद्रावणं
प्रबोधधुरिधीमतामपि सकृद्यदुद्दीपनम् ।
सुधामगहनाटवीविहरणातितृप्त्युद्गमाद्
अभेदकरिबृंहितं व्यधित रम्यदेवो हरिः ॥ १३॥
इत्याचार्याभिनवगुप्तकृता परमार्थद्वादशिका भव्यायास्तुतराम् ॥
Encoded and proofread by Ruma Dewan