प्रपञ्चसारतन्त्रः
॥ श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतः प्रपञ्चसारतन्त्रः ॥
॥ प्रथमः पटलः ॥
अकचटतपयाद्यैः सप्तभिर्वर्णवर्गै-
रिवरचितमुखबाहापादमध्याख्यहृत्का ।
सकलजगदधीशा शाश्वता विश्वयोनिर्
इवतरतु परिशुद्धिं चेतसः शारदा वः ॥ १.१॥
अथाभवन्ब्रह्महरीश्वराख्याः
पुरा प्रधानात्प्रलयावसाने ।
गुणप्रभिन्ना जगतोऽस्य सृष्टि-
स्थितिक्षयस्पष्टनिविष्टचेष्टाः ॥ १.२॥
स्वनिष्पत्तिं च कृत्यं च ते विचिन्त्य समाविदन् ।
वक्तारमजमव्यक्तमरूपं मायिनं विभुम् ॥ १.३॥
मूत्र्याभासेन दुग्धाब्धौ झषशङ्खसमाकुले ।
मरुत्सङ्घट्टनोत्कीर्णलहरीकणशीतले ॥ १.४॥
उद्यदादित्यकिरणप्रशान्तशिशिरोदये ।
पूर्णचन्द्रकरामर्शप्रतिक्षुब्धजलाशये ॥ १.५॥
अनन्तभोगे विमले फणायुतविराजिते ।
शयितं शार्ङ्गिणं शर्वशौरिपद्मभुवस्तदा ॥ १.६॥
तुष्टुवुर्हृष्टमनसो विष्टरश्रवसं विभुम् ।
सूक्तिभिः स्तुतिभिः प्रीतः स्वमूर्ति स व्यदर्शयत् ॥ १.७॥
नीलोत्पलदलप्रख्यां नीलकुञ्चितमूर्धजाम् ।
अष्टमीचन्द्रविभ्राजल्ललाटामायतभ्रुवम् ॥ १.८॥
रक्तारविन्दनयनामुन्नसीमरुणाधराम् ।
मन्दस्मिताधरमुखीं लसन्मकरकुण्डलाम् ॥ १.९॥
कम्बुग्रीवां पृथुद्व्यंसविसरद्भुजमण्डलाम् ।
अनेकरत्नप्रत्युप्तवलयाङ्गदमुद्रिकाम् ॥ १.१०॥
हारतारावलीराजत्पृथूरोव्योममण्डलाम् ।
कौस्तुभोद्भासितोरस्कां श्रीवत्सद्युतिदीपिताम् ॥ १.११॥
लसदौदरिकाबन्धभास्वरां सम्भृतोदरीम् ।
गम्भीरनाभिं विपुलजघनां पीतवाससम् ॥ १.१२॥
पृथुवृत्तोरुमापूर्णजानुमण्डलबन्धुराम् ।
वृत्तजङ्घां गूढगुल्फां प्रपदाजितकच्छपाम् ॥ १.१३॥
तनुदीर्घाङ्गुलीभास्वन्नखराजिविराजिताम् ।
चक्रस्वस्तिकशङ्खाब्जध्वजाज्र्तिपदद्वयाम् ॥ १.१४॥
तां दृष्ट्वा तरलात्मानो विध्यधोक्षजशङ्कराः ।
अतिष्ठन्नितिकर्तव्यमूढास्तत्राब्रवीदजः ॥ १.१५॥
स्वामिन्प्रसीद विश्वेश के वयं केन भाविताः ।
किम्मूलाः किङ्क्रियाः सर्वमस्मभ्यं वक्तुमर्हसि ॥ १.१६॥
इति पृष्टः परं ज्योतिरुवाच प्रमिताक्षरम् ।
यूयमक्षरसम्भूताः सृष्टिस्थित्यन्तहेतवः ॥ १.१७॥
तैरेव विकृतिं यातास्तेषु वो जायते लयः ।
इति तस्य वचः श्रुत्वा तमपृच्छत्सरोजभूः ॥ १.१८॥
अक्षरं नाम किं नाथ कुतो जातं किमात्मकम् ।
इति पृष्टो हरिस्तेन सरोजोदरयोनिना ॥ १.१९॥
मूलार्णमर्णविकृतीर्विकृतेर्विकृतीरपि ।
तत्प्रभिन्नानि मन्त्राणि प्रयोगांश्च पृथग्विधान् ॥ १.२०॥
वैदिकांस्तान्त्रिकांश्चैव सर्वानित्थमुवाच ह ।
प्रकृतिः पुरुषश्चेति नित्यौ कालश्च सत्तम ॥ १.२१॥
अणोरणीयसी स्थूलत्स्थूला व्याप्तचराचरा ।
आदित्येन्द्वादितेजोमद्यद्यत्तत्तन्मयी विभुः ॥ १.२२॥
न श्वेतरक्तपीतादिवर्णैर्निर्धार्य सोच्यते ।
न गुणेषु न भूतेषु विशेषेण व्यवस्थिता ॥ १.२३॥
अन्तरान्तर्बहिश्चैव देहिनां देहपूरणी ।
स्वसंवेद्यस्वरूपा सा दृश्या देशिकर्दिशतैः ॥ १.२४॥
ययाकाशस्तमो वापि लब्धा या नोपलभ्यते ।
पुन्नपुंसकयोस्तुल्याप्यङ्गनासु विशिष्यते ॥ १.२५॥
प्रधानमिति यामाहुर्या शक्तिरिति कथ्यते ।
या युष्मानपि मां नित्यमवष्टभ्यातिवर्तते ॥ १.२६॥
साहं यूयं तथैवान्यद्यद्वेद्यं तत्तु सा स्मृता ।
प्रलये व्याप्यते तस्यां चराचरमिदं जगत् ॥ १.२७॥
सैव स्वां वेत्ति परमा तस्या नान्योऽस्ति वेदिता ।
सा तु कालात्मना सम्यङ्मयैव ज्ञायते सदा ॥ १.२८॥
लवादिप्रलयान्तोऽयं कालः प्रस्तूयते ह्यज ।
नलिनीपत्नसंहत्यां सूक्ष्मसूच्यभिवेधने ॥ १.२९॥
दले दले तु यः कालः स कालो लववाचकः ।
लवैस्त्रुटिः स्यात्त्रिंशद्भिः कलां तावत्त्रुटिं विदुः ॥ १.३०॥
काष्ठा तावत्कला ज्ञेया तावत्काष्ठो निमेषकः ।
सोऽङ्गुलिस्फोटतुल्यश्च मात्राष्टाभिस्तु तैः स्मृता ॥ १.३१॥
कालेन यावता स्वीयो हस्तः स्वं जानुमण्डलम् ।
पर्येति मात्रा सा तुल्या स्वयैकश्वासमात्रया ॥ १.३२॥
षष्ट्युत्तरैस्तु त्रिशतैर्निश्वासैर्नाडिका स्मृता ।
द्विनाडिका मुहूर्तः स्यात्त्रिंशद्भिस्तैरर्हिनशम् ॥ १.३३॥
त्रिंशद्भिरप्यहोरात्रैर्मासो द्वादशभिस्तु तैः ।
संवत्सरो मानुषोऽयमहोरात्रं दिवौकसाम् ॥ १.३४॥
तथा दिव्यैरहोरात्रैस्त्रिशतैः षष्टिसंयुतैः ।
दिव्यः संवत्सरो ज्ञेयो दिव्यैः संवत्सरैस्तु तैः ॥ १.३५॥
भवेद्वादशसाहस्रैर्भिन्नैरेकं चतुर्युगम् ।
तैः सहस्रैः शतानन्द तवैकं दिनमिष्यते ॥ १.३६॥
तावती तव रात्रिश्च कथिता कालवेदिभिः ।
तथाविधैरहोरात्रैंस्त्रिशद्भिर्मासमृच्छति ॥ १.३७॥
तथाविधैर्द्वादशभिर्मासैरब्दस्तव स्मृतः ।
तथाविधानामब्दानां शतं त्वमपि जीवसि ॥ १.३८॥
तवायुर्मम निःश्वासः कालेनैवं प्रचोद्यते ।
स जानाति विपाकांश्च तस्यां सम्यग्व्यवस्थितान् ॥ १.३९॥
सोऽन्वीक्ष्य त्वादृशामायुः परिपाकं प्रदास्यति ।
प्रकृतेश्च क्वचित्कालो विकृतिं प्रतिपादयेत् ॥ १.४०॥
सा तत्त्वसंज्ञा चिन्मात्रज्योतिषः सन्निधेस्तथा ।
विचिकीर्षुर्घनीभूत्वा क्वचिदभ्येति बिन्दुताम् ॥ १.४१॥
कालेन भिद्यमानस्तु स बिन्दुर्भवति त्रिधा ।
स्थूलसूक्ष्मपरत्वेन तस्य त्रैविध्यमिष्यते ॥ १.४२॥
स बिन्दुनादबीजत्वभेदेन च निगद्यते ।
बिन्दोस्तस्माद्भिद्यमानाद्रवोऽव्यक्तात्मको भवेत् ॥ १.४३॥
स रवः श्रुतिसम्पन्नैः शब्दब्रह्मेति कथ्यते ।
तद्विस्तारप्रकारोऽयं यथा वक्ष्यामि साम्प्रतम् ॥ १.४४॥
अव्यक्तादन्तरुदितविभेदगहनात्मकम् ।
महन्नाम भवेत्तत्त्वं महतोऽहङ्कृतिस्तथा ॥ १.४५॥
भूतादिकवैकारिकतैजसभेदक्रमादहङ्कारात् ।
कालप्रेरितया गुणघोषयुजा शब्दसृष्टिरथ शक्त्या ॥ १.४६॥
शब्दाद्व्योम स्पर्शतस्तेन वायु-
स्ताभ्यां रूपाद्वह्निरेतै रसाच्च ।
आपस्त्वेभिर्गन्धतोऽभूद्धराद्या
भूताः पञ्च स्युर्गुणानां क्रमेण ॥ १.४७॥
खमपि सुषिरचिह्नमीरणः स्या-
च्चलनपरः परिपाकवान्कृशानुः ।
जलमपि रसवद्घना धरा ते
सितशितिपाटलशुभ्रपीतभासः ॥ १.४८॥
वृत्तं व्योम्नो बिन्दुषट्काञ्चितं तद्-
वायोरग्नेः स्वस्तिकोद्यत्त्रिकोणम् ।
अब्जोपेतार्धेन्दुमद्बिम्बमाप्यं
स्याद्यज्ञोद्यच्चातुरश्रं धरायाः ॥ १.४९॥
निवृत्तिसंज्ञा च तथा प्रतिष्ठा
विद्याह्वया शान्तिसशान्त्यतीते ।
स्युः शक्तयः पञ्च धरादिभूत-
प्रोत्थाः क्रमान्नादकलादिभूताः ॥ १.५०॥
पुटयोरुभयोश्च दण्डसंस्था
पृथिवी तोयमधः कृशानुरूध्र्वम् ।
पवनस्त्वथ पाश्र्वगोऽपि मध्ये
गगनं भूतगतिस्तनूद्भवेयम् ॥ १.५१॥
व्योम्नि मरुदत्र दहनस्तत्रापस्तासु संस्थिता पृथिवी ।
सचराचरात्मकानि च तस्यां जातानि सर्वभूतानि ॥ १.५२॥
श्रोत्रत्वगक्षिजिह्वाघ्राणान्यपि चेन्द्रियाणि बुद्धेः स्युः ।
वाक्पाणिपादपायूपस्थानि च कर्मसंज्ञानि तथा ॥ १.५३॥
वचनादाने सगती सविसर्गानन्दकौ च सम्प्रोक्ताः ।
वागाद्यर्थाः समना बुद्धिरहज्ररश्चित्तमपि करणम् ॥ १.५४॥
भूतेन्द्रियेन्द्रियार्थैरुद्दिष्टस्तत्त्वपञ्चविंशतिकः ।
व्यानन्दकैश्च तैरपि तत्त्वचतुर्विंशतिस्तथा प्रोक्ताः ॥ १.५५॥
करणोपेतैरेतैस्तत्त्वान्युक्तानि रहितवचनाद्यैः ।
भूतानीन्द्रियदशकं समनः प्रोक्तो विकारषोडशकः ॥ १.५६॥
अव्यक्तमदहङ्कृतिभूतानि प्रकृतयः स्युरष्टौ च ।
तन्मात्राहङ्काराः समहान्तः प्रकृतिविकृतयः सप्त ॥ १.५७॥
सत्त्वं रजस्तम इति सम्प्रोक्ताश्च त्रयोगुणास्तस्याः ।
तत्सम्बन्धाद्विकृतैर्भेदत्रितयैस्ततं जगत्सकलम् ॥ १.५८॥
देवाः सश्रुतयः स्वराः समरुतो लोकाश्च वैश्वानराः
कालाः शक्तियुतास्त्रिवर्गसहितास्तिस्रस्तथा वृत्तयः ।
नाड्योऽन्यच्च जगत्त्रयेऽत्र नियतं यद्वस्तु सम्बध्यते
विश्वेषां स्थितये चरन्त्यविरतं सूर्येन्दुवैश्वानराः ॥ १.५९॥
एष सर्गः समुत्पन्न इत्थं विश्वं प्रतीयते ।
विश्वप्रतीतौ हि यतः प्रपञ्चस्त्ववगम्यते ॥ १.६०॥
शब्दब्रह्मेति यत्प्रोक्तं तदुद्देशः प्रवत्र्यते ।
अतः परमवाच्यं हि स्वसंवेद्यस्वरूपतः ॥ १.६१॥
शब्दब्रह्मेति शब्दावगम्यमर्थं विदुर्बुधाः ।
स्वतोऽर्थानवबोधत्वात्प्रोक्तो नैतादृशो रवः ॥ १.६२॥
स तु सर्वत्र संस्यूतो जाते भूताकरे पुनः ।
आविर्भवति देहेषु प्राणिनामर्थविस्मृतः ॥ १.६३॥
प्रकृतौ कालनुन्नायां गुणान्तःकरणात्मनि ।
देहश्चतुर्विधो ज्ञेयो जन्तोरुत्पत्तिभेदतः ॥ १.६४॥
औद्भिदः स्वेदजोऽण्डोत्थश्चतुर्थस्तु जरायुजः ।
उद्भिद्य भूमिमुद्गच्छत्यौद्भिदः स्थावरस्तु सः ॥ १.६५॥
निर्दष्टस्कन्धविटपपत्रपुष्पफलादिभिः ।
पञ्चभूतात्मकः सर्वः क्ष्मामधिष्ठाय जायते ॥ १.६६॥
अम्बुयोन्यग्निपवननभसां समवायतः ।
स्वेदजः स्विद्यमानेभ्यो भूवह्न्यद्भ्यः प्रजायते ॥ १.६७॥
यूकमत्कुणकीटाणुस्त्रुट्याद्याः क्षणभङ्गुराः ।
अण्डजो वर्तुलीभूताच्छुक्लशोणितसम्पुटात् ॥ १.६८॥
कालेन भिन्नात्पूर्णात्मा निर्गच्छन्प्रक्रमिष्यति ।
अहिगोधावयोभेदशिंशुमारादिकश्च सः ॥ १.६९॥
जरायुजस्तु ग्राम्यातः क्रियातः स्त्र्यतिसम्भवः ।
स जायते चतुर्विंशत्तत्त्वसंयुक्तदेहवान् ॥ १.७०॥
स्वस्थानतश्च्युताच्छुक्लाद्बिन्दुमादाय मारुतः ।
गर्भाशयं प्रविशति यदा तुल्यं तदापरः ॥ १.७१॥
आर्तवात्परमं बीजमादायास्याश्च मूलतः ।
यदा गर्भाशयं नेष्यत्यथ सम्मिश्रयेन्मरुत् ॥ १.७२॥
मायीयं नाम योषोत्थं पौरुषं कार्मणं मलम् ।
आणवं नाम सम्पृक्तं मिलितं तन्मलद्वयम्।७३॥
सूक्ष्मरूपाणि तत्त्वानि चतुर्विंशन्मलद्वये ।
तत्र युक्तिनयत्याशु ततस्तद्गर्भमारुतः ॥ १.७४॥
सङ्क्षोभ्य संवर्धयति तन्मलं शोणिताधिकम् ।
स्त्री स्याच्छुक्लाधिकं ना स्यात्समभागं नपुंसकम् ॥ १.७५॥
स्वर्गाभिर्मरुदग्न्यद्भिः क्लेद्यते क्वाथ्यते च तत् ।
सान्द्रीभूतं तदह्नैव मातुरङ्गुष्ठसम्मितम् ॥ १.७६॥
आयामि बुद्बुदाकारं परेऽहनि विजृम्भते ।
पक्षेण चतुरश्रं स्यान्मातुर्भुक्तरसात्मवत् ॥ १.७७॥
मिलितादपि तस्मात्तु पृथगेव मलद्वयात् ।
किट्टभूतद्वयं पूर्वं बीजयुग्मं समुन्नमेत् ॥ १.७८॥
ऊध्र्वं तु मरुता नुन्नं तस्मादपि फलद्वयात् ।
उभयात्मिक्यधोवृत्ता नाडी दीर्घा भवदृजुः ॥ १.७९॥
अवाङ्मुखी सा तस्याश्च भवेत्पक्षद्वये द्वयम् ।
नाड्योस्तत्सन्धिबन्धाः स्युः सप्तान्या नाडयो मताः ॥ १.८०॥
ततो या प्रथमा नाडी सा सुषुम्नेति कथ्यते ।
या वामेडेति सा ज्ञेया दक्षिणा पिङ्गला स्मृता ॥ १.८१॥
या वाममुष्कसम्बन्धा सा श्लिष्यन्ती सुषुम्नया ।
दक्षिणं वृक्कमाश्रित्य धनुर्वक्रा हृदि स्थिता ॥ १.८२॥
वामांसजत्र्वन्तरगा दक्षिणां नाडिकामियात् ।
तथा दक्षिणमुष्कोत्था नाडी या वामरन्ध्रगा ॥ १.८३॥
अन्या धमन्यो याः प्रोक्ता गान्धारीहस्तिजिह्विका ।
सपूषालम्बुषा चैव यशस्विन्यपि शङ्खिनी ॥ १.८४॥
कुहूरिति च विद्वद्भिः प्रधाना व्यापिकास्तनौ ।
काचिन्नाडी बहिर्वक्त्रा या मातुर्हृदि बध्यते ॥ १.८५॥
यथा तत्पुष्टिमाप्नोति केदार इव कुल्यया ।
मातुराहाररसजैर्धातुभिः पुष्यते क्रमात् ॥ १.८६॥
क्रमवृद्धौ परञ्ज्योतिष्कला क्षेत्रज्ञतामियात् ।
सक्षेत्रज्ञं मलं तत्तु सभूतं सगुणं पुनः ॥ १.८७॥
सदोषं दूष्यसम्पन्नं जन्तुरित्यभिधीयते ।
फलकोशद्वयं तत्तु व्यक्तं पुंसो न तु स्त्रियः ॥ १.८८॥
नपुंसकस्य किञ्चित्तु व्यक्तिरत्रोपलक्ष्यते ।
मध्यस्थायाः सुषुम्नायाः पर्वपञ्चकसम्भवाः ॥ १.८९॥
शाखोपशाखतां प्राप्ताः सिरालक्षत्रयात्परम् ।
अर्धलक्षमिति प्राहुः शरीरार्थविशारदाः ॥ १.९०॥
तद्भेदांश्च बहूनाहुस्ताभिः सर्वाभिरेव च ।
व्याप्नोति सर्वतो वायुर्येन देहः प्रवत्र्यते ॥ १.९१॥
देहेऽपि मूलाधारे तु समुदेति समीरणः ।
नाडीभ्यामस्तमभ्येति घ्राणतो द्विषडङ्गुले ॥ १.९२॥
अहोरात्रमिनेन्दुभ्यमूध्र्वाधोवृत्तिरुच्यते ।
वामदक्षिणनाडीभ्यां स्यादुदग्दक्षिणायनम् ॥ १.९३॥
अत्रापि चेतनायतोरागतिं बहुधा विदुः ।
रेतःशोणितजं प्राहुरेकेऽन्ये मातुराहृतात् ॥ १.९४॥
आहाराद्रसजं प्राहुः केचित्कर्मफलं विदुः ।
कश्चिदस्य परं धाम्नो व्याप्तिमेव विवक्षति ॥ १.९५॥
कश्चित्कर्मप्रकारज्ञः पितुर्देहात्मनासकृत् ।
सम्बध्य मथनोद्रेकविधिना शुक्लधातुतः ॥ १.९६॥
तत्परन्धाम सौजस्कं सङ्क्रान्तं मारुतेन तु ।
ब्रूते रक्तव्यतिकृताद्दीपाद्दीपान्तरं यथा ॥ १.९७॥
कश्चित्तु भौतिकव्याप्ते जन्मकाले वपुष्यथ ।
कुतश्चिदेत्य जीवात्मा निष्पन्न इति शंसति ॥ १.९८॥
बहुना किं पुनः पुंसः सान्निध्यात्प्रविजृम्भिता ।
प्रकृतिर्गुणसम्भिन्ना त्रिदोषात्मा महीयसी ॥ १.९९॥
पञ्चभूतमयी सप्तधातुभिन्ना च भौतिकैः ।
पञ्चभिश्च गुणैर्युक्ता पञ्चेन्द्रियविचारिणी ॥ १.१००॥
पञ्चेन्द्रियार्थगा भूयः पञ्चबुद्धिप्रभाविनी ।
पञ्चकर्मेन्द्रियगता पञ्चत्वादाप्रवर्तते ॥ १.१०१॥
परेण धाम्ना समनुप्रबद्धा
मनस्तदा सा तु महाप्रभावा ।
यदा तु सङ्कल्पविकल्पकृत्या
यदा पुर्निनश्चिनुते तदा सा ॥ १.१०२॥
स्याद्बुद्धिसंज्ञा च यदा प्रवेत्ति
ज्ञातारमात्मानमहङ्कृतिः स्यात् ।
तदा यदा सा त्वभिलीयतेऽन्त-
श्चित्तं च निर्धारितमर्थमेषा ॥ १.१०३॥
यदा स्वयं व्यञ्जयितुं यतेत
महीयसी सा करणैः क्रमेण ।
तदा तु बिन्दुस्फुटनोद्भवस्य
रवस्य सम्यक्प्रविजृम्भितं स्यात् ॥ १.१०४॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे प्रथमः पटलः ॥
॥ द्वितीयः पटलः ॥
अथ व्यवस्थिते त्वेवं मासात्पक्षाद्दिनादपि ।
मुहूर्तान्नाडिकायाश्च क्षणादपि च वर्धते ॥ २.१॥
जन्तुः षडङ्गी पूर्वे स्याच्छिरः पादौ करावपि ।
अन्तराधिश्चेति पुनः षडङ्गेषु प्रवर्तते ॥ २.२॥
अक्षिनासास्यकर्णभ्रूकपोलचिबुकादिकम् ।
प्रकोष्ठकोर्परांसाद्यं कट्यूरूप्रपदादिकम् ॥ २.३॥
उरः कुक्षिस्तनाद्यं च ततः सर्वाङ्गवान्विभुः ।
कालेन जन्तुर्भवति दोषास्त्वनुगुणा यदि ॥ २.४॥
प्रसूतिसमये सोऽथ जनित्रीं क्लेशयन्मुहुः ।
संवृतास्यसुषुम्नाख्योऽवाङ्मुखोऽनिलचोदितः ॥ २.५॥
तस्यां ग्रहिण्यां शकृतिमग्नवक्त्राक्षिनासिकः ।
पुराकृतानां पापानामयुतं संस्मरन्मुहुः ॥ २.६॥
तस्याः कायाग्निना दग्धः क्लेदैः क्लिन्नाङ्गबन्धनः ।
प्रत्युद्गारपरीतश्च तत्पायुद्वारगोचरः ॥ २.७॥
तदा प्रक्षुभितैः स्वीयवायुभिर्दशतां गतैः ।
सम्पिण्डितशरीरस्तु मोक्षमेव किलेच्छति ॥ २.८॥
प्राणाद्या वायवस्तत्र पूर्वमेव कृतास्पदाः ।
परस्परमपानश्च प्राणश्च प्रतिबध्यते ॥ २.९॥
प्रयात्यूध्र्वं यदा प्राणस्तदापानोप्यधस्तथा ।
यदा समानः कायाग्नि सन्धुक्षयति पाचितुम् ॥ २.१०॥
तदा तत्पाकमुक्तं तु रसमादाय धावति ।
व्यानो जन्तोस्तु तद्देहमापादतलमस्तकम् ॥ २.११॥
उदानः प्राणसहितो निमेषोन्मेषकारकः ।
उद्गारकारको नाग उन्मीलयति कूर्मकः ॥ २.१२॥
क्षुत्कृत्कृकलो देवदत्तो जृम्भणकर्मकृत् ।
धनञ्जयाख्यो देहऽस्मिन्कुर्याद्बहुविधान्रवान् ॥ २.१३॥
स तु लौकिकवायुत्वान्मृतं च न विमुञ्चति ।
इत्यमी मारुताः प्रोक्ता दश देहाधिगामिनः ॥ २.१४॥
वह्नयश्च दशान्ये स्युस्तेषां सप्त तु धातुगाः ।
त्रयस्त्रिदोषगाः प्रोक्ताः स्वेदक्लेदान्त्रगाश्च ते ॥ २.१५॥
त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्लानि धातवः ।
ते दूष्याः कफपित्तेरा दोषास्तत्प्रेरको मरुत् ॥ २.१६॥
समवायी स विश्वात्मा विश्वगो विश्वकर्मकृत् ।
स दोषो वा स वा दूष्यः क्रियातः सम्प्रधार्यते ॥ २.१७॥
बुभुक्षा च पिपासा च शोकमोहौ जरामृती ।
षडूर्मयः प्राणबुद्धिदेहधर्मे व्यवस्थिताः ॥ २.१८॥
मज्जास्थिस्नायवः शुक्लाद्रक्तात्त्वङ्मांसशोणिताः ।
इति षाट्कौशिकं नाम देहे भवति देहिनाम् ॥ २.१९॥
रसादितः क्रमात्पाकः शुक्लान्तेषु तु धातुषु ।
शुक्लपाकात्स्वयं भिद्येदोजो नामाष्टमी दशा ॥ २.२०॥
क्षेत्रज्ञस्य तदोजस्तु केवलाश्रयमिष्यते ।
यथा स्नेहः प्रदीपस्य यथाभ्रम्रशनित्विषः ॥ २.२१॥
बहुद्वारेण कुम्भेन संवृतस्य हविर्भुजः ।
यथा तेजः प्रसरति समीपालोकशक्तिमत् ॥ २.२२॥
तथादेहावृतस्यापि क्षेत्रज्ञस्य महात्विपः ।
इन्द्रियैः सम्प्रवर्तन्ते स्वं स्वमर्थग्रहं प्रति ॥ २.२३॥
नभः श्रोत्रेऽनिलश्चर्मण्यग्निश्चक्षुष्यथो रसः ।
जिह्वायामवनिघ्र्राण इत्थमर्थप्रवर्तनम् ॥ २.२४॥
यदा पित्तं मरुन्नुन्नं विलीनं प्रविलापयेत् ।
धातूंस्तदा क्रमाद्रक्तं लसिकां द्रावयेत्क्षणात् ॥ २.२५॥
द्रुता सा तु लसीकाह्वा रोमकूपैः प्रवर्तते ।
बहिः सर्वत्र कणशस्तदा स्वेदः प्रतीयते ॥ २.२६॥
यदा कफो मरुत्पित्तं नुन्नोमीन प्रवर्तते ।
ऊध्र्वीभूतं दृढो बाष्पं प्रसेकं च प्रवर्तयेत् ॥ २.२७॥
कफात्मिकास्तु विकृतीः कर्णशष्कुलिपूर्विकाः ।
गण्डमालादिका वापि कुर्याज्जन्तोस्तु कर्मजाः ॥ २.२८॥
ग्रहणी नाम सा पात्री प्रसृताञ्जलिसन्निभा ।
अधस्तस्याः प्रधानाग्निः स समानेन नुद्यते ॥ २.२९॥
तस्याधस्तात्त्रिकोणाभं ज्योतिराधारमुत्तमम् ।
विद्यते स्थानमेतद्धि मूलाधारं विदुर्बुधाः ॥ २.३०॥
अथाहृतं षड्रसं वाप्याहारं कण्ठमार्गगम् ।
श्लेष्मणानुगतं तस्य प्रभावान्मधुरीभवेत् ॥ २.३१॥
तत्र स्वाद्वम्ललवणतिक्तोषणकषायकाः ।
षड्रसाः कथिता भूतविकृत्या द्रव्यमाश्रिताः ॥ २.३२॥
तथैवामाशयगतं पश्चात्पित्ताशयं व्रजेत् ।
तदा तस्यानुगमनात्कटुकत्वं प्रपद्यते ॥ २.३३॥
तत्रान्त्रान्तरसंश्लिष्टं पच्यते पित्तवारिणा ।
पच्यमानाद्रसं भिन्नं वायू रक्तादिकां नयेत्।३४॥
तत्र किट्टं पृथग्भिन्नं ग्रहण्यां चिनुतेऽनिलः ।
तच्चीयमानं विण्णाम ग्रहणीं पूरयेन्मुहुः ॥ २.३५॥
सा तेन शकृता पूर्णा वलिता प्रतिमुञ्चति ।
पुरीषं पायुमार्गेण तत्पाकेऽच्छाम्भसा ततः ॥ २.३६॥
अङ्गं स्वेदवदभ्यन्तव्र्याप्तैः सूक्ष्मैः सिरामुखैः ।
वस्तिमापूरयेद्वायुः पूर्णे मुञ्चति धारया ॥ २.३७॥
मूत्राशयो धनुर्वक्रो वस्तिरित्यभिधीयते ।
मूत्रमित्याहुरुदकं वस्तेर्मेहननिर्गतम् ॥ २.३८॥
अपथ्यभाजामनयोर्मार्गयोर्दोषदुष्टयोः ।
प्रमेहमूत्रकृच्छ्रादेग्र्रहण्यादेश्च सम्भवः ॥ २.३९॥
इत्थम्भूतः स जन्तुस्तु जरायुच्छन्नगात्रवान् ।
अपत्यवत्र्म सङ्गम्य सज्यते वायुना मुहुः ॥ २.४०॥
जायतेऽधिकसंविग्नो जृम्भतेऽङ्गैः प्रकम्पितैः ।
मूत्र्योद्बणं न श्वसिति भीत्या च परिरोदिति ॥ २.४१॥
अथ पापकृतां शरीरभाजा-
मुदरान्निष्क्रमितुं महान्प्रयासः ।
नलिनोद्भवधीविचित्रवृत्ता
नितरां कर्मगतिस्तु मानुषाणाम् ॥ २.४२॥
जायते पुनरसौ निजङ्गकै-
र्जृम्भते जनितभीति कम्पते ।
उल्बणं श्वसिति रोदिति ज्वरा-
त्प्रागनेकशतदुःखभावितः ॥ २.४३॥
मूलाधारात्प्रथममुदितो यस्तु भावः पराख्यः
पश्चात्पश्यन्त्यथ हृदयगो बुद्धियुङ्मध्यमाख्यः ।
वक्त्रे वैखर्यथ रुरुदिषोरस्य जन्तोः सुषुम्ना
बद्धस्तस्माद्भवति पवनप्रेरितो वर्णसङ्घः ॥ २.४४॥
स्रोतोमार्गस्याविभक्तत्वहेतो-
स्तत्रार्णानां जायते न प्रकाशः ।
तावद्यावत्कण्ठमूर्धादिभेदो
वर्णव्यक्तिस्थानसंस्था यतोऽतः ॥ २.४५॥
ज्ञातास्मीति यदा भावा मनोऽहङ्कारबुद्धिमान् ।
जातश्चित्पूर्वको जन्तोः स भावः क्रमर्विधतः ॥ २.४६॥
बध्नाति मातापित्रोस्तु पूर्वं बन्धुषु च क्रमात् ।
स पीत्वा बहुशः स्तन्यं मातरं स्तन्यदायिनीम् ॥ २.४७॥
इच्छन्नोदिति तां वीक्ष्य तत्र स्यादितरेतरम् ।
बन्धस्तत्राधिकर्तारमतिस्निग्धमनन्यगम् ॥ २.४८॥
पितरं वीक्ष्य तत्रापि तथा भ्रातरमेव च ।
पितृव्यमातुलादींश्च समुद्वीक्ष्य प्रमोदते ॥ २.४९॥
एवं सम्बन्धसंसारबान्धवो विस्मरिष्यति ।
पूर्वकर्म च गर्भस्थित्युद्भूतक्लेशमेव च ॥ २.५०॥
अथ स्वमुत्तारयितुमाह्वयेज्जननीं मुहुः ।
अवैशद्यान्मुखस्रोतो मार्गस्याविशदाक्षरम् ॥ २.५१।
अप्यव्यक्तं प्रलपति यदा कुण्डलिनी तदा ।
मूलाधाराद्विसरति सुषुम्ना वेष्टनी मुहुः ॥ २.५२॥
त्रिचतुःपञ्चषट्सप्ताष्टमो दशम एव च ।
तथा द्वादशपञ्चाशद्भेदेन गुणयेत्क्रमात् ॥ २.५३॥
यदा त्रिंशोऽथ गुणयेत्तदा त्रिगुणिता विभुः ।
शक्तिः कामाग्निनादात्मा गूढमूर्तिः प्रतीयते ॥ २.५४॥
तदा तां तारमित्याहुरोमात्मेति बहुश्रुताः ।
तामेव शक्तिं ब्रुवते हरेरात्मेति चापरे ॥ २.५५॥
त्रिगुणा सा त्रिदोषा सा त्रिवर्णा सा त्रयी च सा ।
त्रिलोका सा त्रिमूर्तिः सा त्रिरेखा सा विशिष्यते ॥ २.५६॥
एतेषां तारणात्तारः शक्तिस्तद्धृतशक्तितः ।
यदा चतुर्धा गुणिता सूक्ष्मादिस्थानवाचिका ॥ २.५७॥
वाचिका जाग्रदादीनां करणानां च सा तदा ।
यदा सा पञ्चगुणिता पञ्चपञ्चविभेदिनी ॥ २.५८॥
पञ्चानामक्षराणां च वर्णानां मरुतां तथा ।
गुणिता सा यदा षोढा कोशोर्मिरसभेदिनी ॥ २.५९॥
तदा षड्गुणिताख्यस्य यन्त्रस्य च विभेदिनी ।
यदा सा सप्तगुणिता तारहृल्लेखयोस्तदा ॥ २.६०॥
भेदैरहाद्यैः शान्तान्तैर्भिद्यते सप्तभिः पृथक् ।
अकारश्चाप्युकारश्च मकारो बिन्दुरेव च ॥ २.६१॥
नादः शक्तिश्च शान्तश्च तारभेदाः समीरिताः ।
हकाररेफमायाश्च बिन्दुनादौ तथैव च ॥ २.६२॥
शक्तिशान्तौ च सम्प्रोक्ताः शक्तेर्भेदाश्च सप्तधा ।
अङ्गेभ्योऽस्यास्तु सप्तभ्यः सप्तधा भिद्यते जगत् ॥ २.६३॥
लोकाद्रिद्वीपपातालसिन्धुग्रहमुनिस्वरैः ।
धात्वादिभिस्तथान्यैश्च सप्तसङ्ख्याप्रभेदकैः ॥ २.६४॥
यदाष्टधा सा गुणिता तदा प्रकृतिभेदिनी ।
अष्टाक्षरा हि वस्वाशा मातृका मूर्तिभेदिनी ॥ २.६५॥
दशधा गुणिता नाडी मर्माशादिविभेदिनी ।
द्वादशात्मिक्यपि यदा तदा राश्यर्कमूर्तियुक् ॥ २.६६॥
मन्त्रं च द्वादशार्णाख्यमभिधत्ते स्वरानपि ।
तत्सङ्ख्यं च तदा यन्त्रं शक्तेस्तद्गुणितात्मकम् ॥ २.६७॥
पञ्चाशदंशगुणिताथ यदा भवेत्सा
देवी तदात्मविनिवेशितदिव्यभावा ।
सौषुम्नवत्र्मसुषिरोदितनादसङ्गा-
त्पञ्चाशदीरयति पङ्क्तिश एव वर्णान् ॥ २.६८॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे द्वितीयः पटलः ॥
॥ तृतीयः पटलः ॥
अथोभयात्मका वर्णाः स्युरग्नीर्षोमात्मभेदतः ।
त एव स्युस्त्रिधा भूयः सोमेनाग्निविभागशः ॥ ३.१॥
स्वराख्याः षोडश प्रोक्ताः स्पर्शाह्वाः पञ्चविंशतिः ।
व्यापकाश्च दशैते स्युः सोमेनाग्न्यात्मकाः क्रमात् ॥ ३.२॥
एषु स्वरा ह्रस्वदीर्घभेदेन द्विविधा मताः ।
पूर्वो ह्रस्वः परो दीर्घो बिन्दुसर्गान्तिकौ च तौ ॥ ३.३॥
आद्यन्तस्वरषट्कस्य मध्यगं यच्चतुष्टयम् ।
वर्णानामागमधनैस्तन्नपुंसकमीरितम् ॥ ३.४॥
तच्चतुष्कं सुषुम्नास्थे कुर्यात्प्राणेऽयनस्थितिम् ।
दक्षोत्तरस्थे प्राणाख्ये स्यातां दक्षोत्तरायणे ॥ ३.५॥
दक्षः सुव्यवस्थिते ह्रस्वदीर्घाः पञ्चोदयन्ति च ।
भूतभूतकलाभिस्तदुदयः प्रागुदीरितः ॥ ३.६॥
बिन्दुसर्गौ तु यौ प्रोक्तौ तौ सूर्यशशिनौ क्रमात् ।
तयोर्विकारविस्तारः परस्तात्सम्प्रवक्ष्यते ॥ ३.७॥
स्पर्शाख्या अपि ये वर्णाः पञ्चपञ्चविभेदतः ।
भवन्ति पञ्चवर्गास्तदन्त्य आत्मा रविः स्मृतः ॥ ३.८॥
चतुर्विंशतितत्त्वस्थास्तस्माद्वर्णाः परे क्रमात् ।
तेन स्पर्शाह्वयाः सौराः प्राणाग्नीळाम्बुखात्मकाः ॥ ३.९॥
व्यापकाश्च द्विवर्गाः स्युस्तथा पञ्चविभेदतः ।
शशीनाग्न्युत्थिता यस्मात्स्वरस्पृग्व्यापकाक्षराः ॥ ३.१०॥
तत्त्रिभेदसमुद्भूता अष्टत्रिंशत्कलाः स्मृताः ।
स्वरैः सौम्याः स्पर्शयुग्मैः सौरा याद्यैश्च वह्निजाः ॥ ३.११॥
षोडशद्वादशदशसङ्ख्याः स्युः क्रमशः कलाः ।
वर्णेभ्य एव तारस्य पञ्चभेदैस्तु भूतगैः ॥ ३.१२॥
सर्वगाश्च समुत्पन्नाः पञ्चाशत्सङ्ख्यकाः कलाः ।
ताभ्य एव तु तावत्यः शक्तिभिर्विष्णुमूर्तयः ॥ ३.१३॥
तावत्यो मातृभिः सार्धं तेभ्यः स्यू रुद्रमूर्तयः ।
तेभ्य एव तु पञ्चाशत्स्युरोषधय ईरिताः ॥ ३.१४॥
याभिस्तु मन्त्रिणः सिद्धिं प्राप्नुयुर्वाञ्छितार्थदाम् ।
अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः ॥ ३.१५॥
शशिनी चन्द्रिका कान्तिज्र्योत्स्ना श्रीः प्रीतिरङ्गना ।
पूर्णापूर्णामृताकामदायिन्यः सस्वराः कलाः ॥ ३.१६॥
तपिनी तापिनी धूम्रा मरीची ज्वालिनी रुचिः ।
सुषुम्नाभोगदाविश्वाबोधिनीधारिणीक्षमाः ॥ ३.१७॥
कामाद्या वसुदाः सौराः षडान्ता द्वादशेरिताः ।
धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विष्फुलिङ्गिनी ॥ ३.१८॥
सुश्रीः सुरूपा कपिला हव्यकव्यवहे अपि ।
याद्यर्णयुक्ता वह्न्युत्था दश धर्मप्रदाः कलाः ॥ ३.१९॥
सृष्टि ऋद्धिः स्मृतिर्मेधा कान्तिर्लक्ष्मीद्र्युतिः स्थिरा ।
स्थितिः सिद्धिरकारोत्थाः कला दश समीरिताः ॥ ३.२०॥
अकारप्रभवा ब्रह्मजाताः स्युः सृष्टये कलाः ।
जरा च पालिनी शान्तिरैश्वरी रतिकामिके ॥ ३.२१॥
वरदा ह्लादिनी प्रीतिर्दीर्घा चोकारजाः कलाः ।
उकारप्रभवा विष्णुजाताः स्युः स्थितये कलाः ॥ ३.२२॥
तीक्ष्णा रौद्री भया निद्रा तन्द्री क्षुत्क्रोधिनी क्रिया ।
उत्कारी चैव मृत्युश्च मकाराक्षरजाः कलाः ॥ ३.२३॥
मकारप्रभवा रुद्रजाताः संहृतये कलाः ।
बिन्दोरपि चतस्रः स्युः पीतश्वेतारुणाऽसिता ॥ ३.२४॥
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।
इन्धिका दीपिका चैव रेचिका गोचिका परा ॥ ३.२५॥
सूक्ष्मा सूक्ष्मामृता ज्ञानामृता चाप्यायिनी तथा ।
व्यापिनी व्योमरूपा चेत्यनन्ता नादसम्भवाः ॥ ३.२६॥
नादजाः षोडश प्रोक्ता भुक्तिमुक्तिप्रदायकाः ।
केशवनारायणमाधवगोविन्दविष्णवः ॥ ३.२७॥
मधुसूदनसंज्ञश्च सप्तमः स्यात्त्रिविक्रमः ।
वामनः श्रीधरश्चैव हृषीकेशस्त्वनन्तरः ॥ ३.२८॥
पद्मनाभस्तथा दामोदराह्वो वासुदेवयुक् ।
सङ्कर्षणश्च प्रद्युम्नः सानिरुद्धः स्वरोद्भवाः ॥ ३.२९॥
ततश्चक्री गदी शाङ्र्गी खड्गी शङ्खी हली तथा ।
मुसली शूलिसंज्ञश्च भूयः पाशी च साज्रुशी ॥ ३.३०॥
मुकुन्दो नन्दजो नन्दी नरो नरकजिद्धरिः ।
कृष्णः सत्यः सात्वतश्च शौरिः शूरो जनार्दनः ॥ ३.३१॥
भूधरो विश्वमूर्तिश्च वैकुण्ठः पुरुषोत्तमः ।
बली बलानुजो बालो वृषघ्नश्च वृषस्तथा ॥ ३.३२॥
हंसो वराहो विमलो नृसिंहो मूर्तयो हलाम् ।
कीर्तिः कान्तिस्तुष्टिपुष्टी धृतिः क्षान्तिः क्रिया दया ॥ ३.३३॥
मेधा च हर्षा श्रद्धाह्वा लज्जा लक्ष्मीः सरस्वती ।
प्रीती रतिश्च सम्प्रोक्ताः क्रमेण स्वरशक्तयः ॥ ३.३४॥
जया दुर्गा प्रभा सत्या चण्डा वाणी विलासिनी ।
विजया विरजा विश्वा विनदा सुनदा स्मृतिः ॥ ३.३५॥
ऋद्धिः समृद्धिः शुद्धिश्च बुद्धिर्भक्तिर्मतिः क्षमा ।
रमोमा क्लेदिनी क्लिन्ना वसुदा वसुधापरा ॥ ३.३६॥
परा परायणा सूक्ष्मा सन्ध्या प्रज्ञा प्रभा निशा ।
अमोघा विद्युता चेति मूत्र्याद्याः सर्वकामदाः ॥ ३.३७॥
एकपञ्चाशदुद्दिष्टा नमोऽन्ता वर्णपूर्विकाः ।
सधातुप्राणशक्त्यात्मयुक्ता यादिषु मूर्तयः ॥ ३.३८॥
श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिरमरेश्वरः ।
अर्घीशो भारभूतिश्च स्थितीशः स्थाणुको हरः ॥ ३.३९॥
झण्डीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः ।
अक्रूरश्च महासेनः स्युरेताः स्वरमूर्तयः ॥ ३.४०॥
ततः क्रोधीशचण्डीशपञ्चान्तकशिवोत्तमाः ।
तथैकरुद्रकूर्मैकनेत्राह्वचतुराननाः ॥ ३.४१॥
अजेशशर्वसोमेशास्तथा लाङ्गलिदारुकौ ।
अर्धनारीश्वरश्चोमाकान्तश्चाषाढिदण्डिनौ ॥ ३.४२॥
अत्रिर्मीनश्च मेषश्च लोहितश्च शिखी तथा ।
छगलण्डद्विरण्डौ च समहाकालचालिनौ ॥ ३.४३॥
भुजङ्गेशः पिनाकी च खड्गीशश्च बकस्तथा ।
श्वेतो भृगुश्च लकुलिः शिवः संवर्तकः स्मृतः ॥ ३.४४॥
पूर्णोदरी च विरजा तृतीया शाल्मली तथा ।
लोलाक्षी वर्तुलाक्षी च दीर्घघोणा तथैव च ॥ ३.४५॥
सुदीर्घमुखिगोमुख्यौ नवमी दीर्घजिह्विका ।
कुण्डोदर्यूध्र्वकेशी च मुखी विकृतपूर्विका ॥ ३.४६॥
सज्वालोल्कश्रियाविद्यामुख्यः स्युः स्वरशक्तयः ।
महाकालीसरस्वत्यौ सर्वसिद्धिसमन्विता ॥ ३.४७॥
गौरी त्रैलोक्यविद्या च तथा मन्त्रार्णशक्तिका ।
भूतमाता लम्बोदरी द्राविणी नागरी तथा।४८॥
खेचरी मञ्जरी चैव रूपिणी वीरिणी तथा ।
कोदरी पूतना भद्रकालीयोगिन्य एव च ॥ ३.४९॥
शङ्खिनी र्गिजनी कालरात्री कुर्दिन्य एव च ।
कर्पिदनी तथा वङ्काआ जया च सुमुखेश्वरी ॥ ३.५०॥
रेवती माधवी चैव वारुणी वायवी तथा ।
रक्षोऽवधारिणी चान्या तथैव सहजाह्वया ॥ ३.५१॥
लक्ष्मीश्च व्यापिनी मायेत्याख्याता वर्णशक्तयः ।
इत्युक्तस्त्रिविधो न्यासः क्रमात्सर्वसमृद्धिदः ॥ ३.५२॥
चन्दनकुचन्दनागरुकर्पूरोशीररोगजलघुसृणाः ।
तक्कोलजातिमांसीमुरचोरग्रन्धिरोचनापत्राः ॥ ३.५३॥
पिप्पलबिल्वगुहारुणतृणकलवज्रह्वकुम्भिवन्दिन्यः ।
सौदुम्बरीकाष्मरिकास्थिराब्जदरपुष्पिकामयूरशिखाः ॥ ३.५४॥
प्लक्षाग्निमन्थसिह्मीकुशाह्वदर्भाश्च कृष्णदरपुष्पी ।
रोहिणडुण्डुमबृहतीपाटलचित्रातुलस्यपामार्गाः ॥ ३.५५॥
शतमखलताद्विरेफो विष्णुक्रान्ती मुसल्यथाञ्जलिनी ।
दूर्वा श्रीदेविसहे तथैव लक्ष्मी सदाभद्रे ॥ ३.५६॥
आदीनामिति कथिता वर्णानां क्रमवशादथौषधयः ।
गुलिकाकषायभस्मप्रभेदतो निखिलसिद्धिदायिन्यः ॥ ३.५७॥
यथा भवन्ति देहान्तरमी पञ्चाशदक्षराः ।
येन येन प्रकारेण तथा वक्ष्यामि तत्त्वतः ॥ ३.५८॥
समीरितः समीरेण सुषुम्नारन्ध्रनिर्गताः ।
व्यक्तिं प्रयान्ति वदने कण्ठादिस्थानघट्टिताः ॥ ३.५९॥
उच्चैरुन्मार्गगो वायुरुदात्तं कुरुते स्वरम् ।
नीचैर्गतोऽनुदात्तं च तिर्यक् स्वरितविस्तृतिः ॥ ३.६०॥
अर्धैकद्वित्रिसङ्ख्याभिर्मात्राभिर्लिपयः क्रमात् ।
सव्यञ्जना ह्रस्वदीर्घप्लुतसंज्ञा भवन्ति ताः ॥ ३.६१॥
अकारेकारयोर्योगादेकारो वर्ण इष्यते ।
तस्यैवैकारयोगेन स्यादैकाराक्षरस्तथा ॥ ३.६२॥
उकारयोगात्तस्यैव स्यादोकाराह्वयोऽक्षरः ।
तस्यैवौकारयोगेन स्यादौकाराक्षरस्तथा ॥ ३.६३॥
सन्ध्यक्षराः स्युश्चत्वारो मन्त्राः सर्वार्थसाधकाः ।
ऌवर्णर्वर्णयोव्र्यक्तिर्लरोः सम्यक् प्रदृश्यते ॥ ३.६४॥
बिन्दुसर्गात्मनोव्र्यक्तिममसोरजपा वदेत् ।
कण्ठात्तु निःसरन्सर्गः प्रायोऽचामेकतः परः ॥ ३.६५॥
नश्वरः सर्ग एव स्यात्सोष्मा सप्राणकस्तु हः ।
स सर्गः श्लेषितः कण्ठे वायुनाकादिमीरयेत् ॥ ३.६६॥
सर्गस्पर्शनमात्रेण कं खरस्पर्शनात्तु खम् ।
स्तोकगम्भीरसंस्पर्शाद्गघौ ङश्च बहिर्गतः ॥ ३.६७॥
ससर्गस्तालुगः सौष्म्यः श च वर्गं च यं तथा ।
ऋटुरेफषकारांश्च मूर्धगो दन्तगस्तथा ॥ ३.६८॥
ऌतवर्गलसानोष्ठादुपूपध्मानसंज्ञकान् ।
दन्तोष्ठाभ्यां च वं तत्तत्स्थानगोऽर्णान्समीरयेत् ॥ ३.६९॥
ह्रस्वाः पञ्च परे सन्धिविकृताः पञ्चाथ बिन्द्वन्तिकाः
काद्याः प्राणहुताशभूकखमया याद्याश्च शार्णान्तिकाः ।
हान्ताः षक्षळसाः क्रमेण कथिता भूतात्मकास्ते पृथ-
क्तैस्तैः पञ्चभिरेव वर्णदशकैः स्युः स्तम्भनाद्याः क्रिया ॥ ३.७०॥
ऊदद्गादिलळाः कोर्णसौ चतुर्थार्णकावसौवारः ।
दृष्ट्यैव द्वितीयरक्षा वह्नेरद्वन्द्वयोनिकादिवर्षाः ॥ ३.७१॥
मरुतः कपोलबिन्दुकपञ्चमवर्णाः शहौ तथा व्योम्नः ।
मनुषु परेष्वपि मन्त्री करोतु कर्माणि तस्य संसिध्यै ॥ ३.७२॥
स्तम्भनाद्यमथ पार्थिवैरपामक्षरैश्च परिवर्षणादिकम् ।
दाहशोषणसशून्यतादिकान्वह्निवायुवियदुत्थितैश्चरेत् ॥ ३.७३॥
दशभिर्दशभिरमीभिर्नमोऽन्तिकैर्द्वन्द्वशश्च बिन्दुयुतैः ।
योनेर्मध्ये कोणत्रितये मध्ये च संयजेन्मन्त्री ॥ ३.७४॥
पूर्वोक्ताद्विन्दुमात्रात्स्वयमथ रवतन्मात्रतामभ्युपैता-
कारादीन्द्व्यष्टकादीनपि तदनुगतान्पञ्चविंशत्तथैव ।
यादीन्संयुक्तधातूनपि गुणसहितैः पञ्चभूतैश्च ताभि-
स्तन्मात्राभिव्र्यतीत्य प्रकृतिरथ हसंज्ञा भवेद्व्याप्य विश्वम् ॥ ३.७५॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे तृतीयः पटलः ॥
॥ चतुर्थः पटलः ॥
अथ व्यवस्थिते त्वेवमस्य शक्तित्वमिष्यते ।
कृतकृत्यस्य जगति सततं रूढसंस्थितेः ॥ ४.१॥
प्राणात्मकं हकाराख्यं बीजं तेन तदुद्भवाः ।
षडूर्मयः स्यू रेफोत्था गुणाश्चत्वार एव च ॥ ४.२॥
पवनाद्याः पृथिव्यन्ताः स्पर्शाद्यैश्च गुणैः सह ।
करणान्यपि चत्वारि सङ्घातश्चेतनेति च ॥ ४.३॥
ईकारस्य गुणाः प्रोक्ताः षडिति क्रमतो बुधैः ।
ऊकारान्तास्त्वकाराद्याः षड्वर्णाः षड्भ्य एव तु ॥ ४.४॥
प्रभेदेभ्यः समुत्पन्ना हकारस्य महात्मनः ।
ऋकाराद्यास्तु चत्वारो रेफोत्था ऌपराः स्मृताः ॥ ४.५॥
एकारादिविसर्गान्तं वर्णानां षट्कमुद्गतम् ।
ईकारस्य षडङ्गेभ्य इतीदं षोडशांशवत् ॥ ४.६॥
येभ्यः सञ्जज्ञिरींशेभ्यः स्वराः षोडश सर्वगाः ।
तेभ्यो वर्णान्तराः सर्वे ततो मूलमिदं विदुः ॥ ४.७॥
गतो वो बीजतामेष प्राणिष्वेव व्यवस्थितः ।
ब्रह्माण्डं ग्रस्तमेतेन व्याप्तस्थावरजङ्गमम् ॥ ४.८॥
नादः प्राणश्च जीवश्च घोषश्चेत्यादि कथ्यते ।
एष पुंस्त्रीनियमितैर्लिङ्गैश्च सनपुंसकैः ॥ ४.९॥
रेफो मायाबीजमिति त्रिधा समभिधीयते ।
शक्तिः श्रीः सन्नतिः कान्तिर्लक्ष्मीर्मेधा सरस्वती ॥ ४.१०॥
क्षान्तिः पुष्टिः स्मृतिः शान्तिरित्याद्यैः स्वार्थवाचकैः ।
नानाविकारतां प्राप्तैः स्वैः स्वैर्भावैर्विकल्पितैः ॥ ४.११॥
तामेनां कुण्डलीत्येते सन्तो हृदयगां विदुः ।
सा रौति सततं देवी भृङ्गी सङ्गीतकध्वनिः ॥ ४.१२॥
आकृतिं स्वेन भावेन पिण्डितां बहुधा विदुः ।
कुण्डली सर्वथा ज्ञेया सुषुम्नानुगतैव सा ॥ ४.१३॥
चराचरस्य जगतो बीजत्वान्मूलमेव तत् ।
मूलस्य बिन्दुयोगेन शतानन्द त्वदुद्भवः ॥ ४.१४॥
रेफान्वितेकाराकारयोगादुत्पत्तिरेतयोः ।
हङ्काराख्यो भवांस्तेन हरिरित्येष शब्द्यते ॥ ४.१५॥
हरत्वमस्य तेनैव सर्वात्मत्वं ममापि च ।
अस्य बिन्दोः समुद्भूत्या तदन्तो हं स उच्यते ॥ ४.१६॥
स हङ्कारः पुमान्प्रोक्तः स इति प्रकृतिः स्मृता ।
अजपेयं मता शक्तिस्तथा दक्षिणवामगा ॥ ४.१७॥
बिन्दुर्दक्षिणभागस्तु वामभागौ विसर्गकः ।
तेन दक्षिणवामाख्यौ भानौ पुंस्त्रीविशेषितौ ॥ ४.१८॥
बिन्दुः पुरुष इत्युक्तो विसर्गः प्रकृतिर्मता ।
पुम्प्रकृत्यात्मको हंसस्तदात्मकमिदं जगत् ॥ ४.१९॥
पुंरूपं सा विदित्वा स्वं सोऽहम्भावमुपागता ।
स एष परमात्माख्यो मनुरस्य महामनोः ॥ ४.२०॥
सकारं च हकारं च लोपयित्वा प्रयोजयेत् ।
सन्धिं वै पूर्वरूपाख्यं ततोऽसौ प्रणवो भवेत् ॥ ४.२१॥
ताराद्विभक्ताच्चरमांशतः स्यु-
र्भूतानि खादीन्यथ मध्यमांशात् ।
इनादितेजांसि च पूर्वभागा-
च्छब्दाः समस्ताः प्रभवन्ति लोके ॥ ४.२२॥
एवमेषा जगत्सूतिः सवितेत्यभिधीयते ।
यदा तदैति स्वैस्तत्त्वैश्चतुर्विंशतिधा भिदाम् ॥ ४.२३॥
तद्वर्णभिन्ना गायत्री गायकत्राणनाद्भवेत् ।
सप्तग्रहात्मिका प्रोक्ता यदेयं सप्तभेदिनी ॥ ४.२४॥
तदा स्वरेशः सूर्योऽयं कवर्गेशस्तु लोहितः ।
चवर्गप्रभवः काव्यष्टवर्गाद्बुधसम्भवः ॥ ४.२५॥
तवर्गोत्थः सुरगुरुः पवर्गोत्थः शनैश्चरः ।
यवर्गजोऽयं शीतांशुरिति सप्तगुणा त्वियम् ॥ ४.२६॥
यथा स्वरेभ्यो नान्ये स्युर्वर्णाः षड्वर्गभेदिताः ।
तथा सवित्रनुस्यूतं गृहषट्कं न संशयः ॥ ४.२७॥
इति संलीनसूर्यांशे वर्गषट्के तु षड्गुणाः ।
हृल्लेखेयं तथा यन्त्रं स्मर्यते स्मृतिकोविदैः ॥ ४.२८॥
सर्वव्याप्ता हि सा शक्तिः शश्वद्भास्कररूपिणी ।
स्वभासा क्रमते यत्र तत्रास्या स्थितिरिष्यते ॥ ४.२९॥
अस्यास्तु रजसा चैव तमसा च दिवानिशम् ।
सत्त्वावष्टब्धबिन्द्वात्मा मेरुं चरति भास्करः ॥ ४.३०॥
अस्या विकाराद्वर्णेभ्यो जाता द्वादशराशयः ।
लवादिकालोपचितैस्तैः स्याच्चक्रगतिस्त्रिधा ॥ ४.३१॥
ऋक्षराश्यादियुतया चक्रगत्या जगत्स्थितिः ।
वक्ष्यामि चक्ररूपं च प्रबन्धं राशिभिर्यथा ॥ ४.३२॥
अन्तर्बहिर्विभागेन रचयेद्राशिमण्डलम् ।
भूचक्र एष मेषादिः प्रविज्ञेयोऽथ मानुषः ॥ ४.३३॥
आद्यैर्मेषाह्वयो राशिरीकारान्तैः प्रजायते ।
ऋकारान्तैरुकाराद्यैवृषो युग्मं ततस्त्रिभिः ॥ ४.३४॥
एदैतोः कर्कटो राशिरोदौतोः सिंहसम्भवः ।
अमः शवर्गलेभ्यश्च सञ्जाता कन्यका मता ॥ ४.३५॥
षड्भ्यः कचटतेभ्यश्च पयाभ्यां च प्रजज्ञिरे ।
वणिगाद्यास्तु मीनान्ता राशयः शक्तिजृम्भणात् ॥ ४.३६॥
चतुर्भिर्यादिभिः सार्धं स्यात्क्षकारस्तु मीनगः ।
स्यातामर्धाधिके पञ्चनाडिकौ चापकर्कटौ ॥ ४.३७॥
पादाधिका मकरयुक्सिंहवृश्चिकसंज्ञकाः ।
पादोनौ कुम्भवृषभौ वाणिक्कन्ये च पञ्चके ॥ ४.३८॥
त्रिपादोनौ मीनमेषौ सङ्ख्योक्ता राशिसंश्रिता ।
चापनीरजयुक्कन्याः पीताः स्युरुभयास्त्वमी ॥ ४.३९॥
वणिङ्मकरमेषाह्वकुलीरा रक्तरोचिषः ।
चरावशिष्टाश्चत्वारः स्थिराः श्वेताः पृथङ्मताः ॥ ४.४०॥
स्युः कर्कटो वृश्चिकमीनराशी
विप्रा नृपाः सिंहकधन्वमेषाः ।
तुला सकुम्भा मिथुनं च वैश्याः
कन्या वृषोऽथो मकरश्च शूद्राः ॥ ४.४१॥
अङ्गारावजवृश्चिकौ वृषतुले शुक्रस्य युक्कन्यके
बोधै कर्कटकाह्वयो हिमरुचः सिंहस्तथा गोपतेः ।
चापाब्जावपि धैषणौ मकरकुम्भाख्यौ च मान्दौ ग्रहाः
प्रोक्ता राश्यधिपा बलौ च कलशे सोऽयं क्रमो र्दिशतः ॥ ४.४२॥
लग्नो धनभ्रातृबन्धुपुत्रशत्रुकलत्रकाः ।
मरणं धर्मकर्मायव्यया द्वादशराशयः ॥ ४.४३॥
ततस्तदूध्र्वभागस्थो भुवश्चक्रः समस्तथा ।
स तु सिंहादिको यस्मिन्पैतृकी नियता गतिः ॥ ४.४४॥
तदूध्र्वभागसंस्थः स्यात्स्वश्चक्रश्चापि तादृशः ।
स तु चापादिको दैवश्चक्रस्त्रैनाभिकस्त्वयम् ॥ ४.४५॥
धनुस्तु देवलग्नत्वात्समासाल्लग्नमुच्यते ।
वेध्या धनुर्मेषसिंहमकरर्षभकन्यकाः ॥ ४.४६॥
सकुम्भयुग्मवणिजो मीनकर्कटवृश्चिकाः ।
अयं तु राशिवेधः स्यादतो वेधस्तु भात्मकः ॥ ४.४७॥
मूलाश्विनीमघज्येष्ठारेवत्याश्लेषकास्तथा ।
याम्यपूर्वानुपूर्वाहिर्बुध्निपुष्यानुराधकाः ॥ ४.४८॥
स्वातीशतभिषाद्र्रा च श्रोणारोहिणिहस्तकाः ।
पादं पादत्रये बुध्याद्योजयेदर्धमर्धकैः ॥ ४.४९॥
चरस्थिरोभयात्मानश्चातुर्वण्र्यगुणात्मकाः ।
राशिं राश्यधिपास्त्वेवं बुध्युर्वेधविधानतः ॥ ४.५०॥
एभ्य एव तु राशिभ्यो नक्षत्राणां च सम्भवः ।
स चाप्यक्षरभेदेन सप्तविंशतिधा भवेत् ॥ ४.५१॥
आभ्यामश्वयुगेर्जाता भरणी कृत्तिका पुनः ।
लिपित्रयाद्रोहिणी च तत्परस्ताच्चतुष्टयात् ॥ ४.५२॥
एदैतोर्मृगशीर्षाद्र्रे तदन्ताभ्यां पुनर्वसू ।
अमसोः केवलो योगो रेवत्यर्थं पृथग्गतः ॥ ४.५३॥
कतस्तिष्यस्तथाश्लेषा खगयोर्घङयोर्मघाः ।
चतः पूर्वाथ छजयोरुत्तरा झञयोस्तथा ॥ ४.५४॥
हस्तश्चित्रा च टठयोः स्वाती डादक्षरादभूत् ।
विशाखास्तु ढणोद्भूतास्तथा देऽभ्योऽनुराधकाः ॥ ४.५५॥
ज्येष्ठा धकारान्मूलाख्यो नपफेभ्यो बतस्तथा ।
पूर्वाषाढा भतोऽन्या च सञ्जाता श्रवणो मतः ॥ ४.५६॥
श्रविष्ठा चापि यरयोस्तथा शतभिषग्लतः ।
वशयोः प्रोष्ठपात्संज्ञा षसहेभ्यः परा स्मृता ॥ ४.५७॥
ताभ्याममोभ्यां लार्णोऽयं यदा वै सह वत्स्यते ।
तदेन्दुसूर्ययोर्योगादमावास्या प्रतीयते ॥ ४.५८॥
कषतो भुवनं मत्तः कषयोः सङ्गमो भवेत् ।
ततः क्षकारः सञ्जातो नृसिंहस्तस्य देवता ॥ ४.५९॥
स पुनः षसहैः सार्धं परप्रोष्ठपदं गतः ।
कारस्कराख्यामलकोदुम्बरो जम्बुसंज्ञकः ॥ ४.६०॥
खदिरः कृष्णवंशौ च पिप्पलो नागरोहिणौ ।
पलाशः प्लक्षकाम्बष्ठबिल्वार्जुनविकज्र्ताः ॥ ४.६१॥
वकुलः शबरः सर्जो वञ्जुलः पनसार्ककौ ।
शमीकदम्बनिम्बाम्रौ मधूकान्ता दिनाङ्घ्रिपाः ॥ ४.६२॥
आयुष्कामः स्वकं वृक्षं छेदयेन्न कदाचन ।
सेचयेद्वर्धयेच्चापि पूजयेत्प्रणमेदपि ॥ ४.६३॥
तिथिनक्षत्रवारेषु स्वेषु मन्त्रजपो वरः ।
तस्मादेषां दिनादीनां वक्ष्यन्ते देवता अपि ॥ ४.६४॥
अश्वियमानलधाता शशिरुद्रादितिसुरेड्यसर्पाश्च
पित्रर्यमभगदिनकृत्त्वष्टारो मारुतस्तथेन्द्राग्नी ।
मित्रेन्द्रौ नित्र्र+तिर्जाले विश्वे देवा हरिस्तथा वसवः
वारुणोऽजैकपादहिर्बुध्निः पूषा च देवता भानाम् ॥ ४.६५॥
अश्वेभाजभुजङ्गसर्पसरमा मार्जारकाजा बिली
मूषा मूषिकरुद्रयानमहिषी व्याघ्रो यमारोहणम् ।
व्याघ्र्यैणी हरिणी श्ववानपरपशुः शाखामृगी स्त्री हयो
मत्र्यो गौः करिणीति साधु कथिता नक्षत्रयोन्यः क्रमात् ॥ ४.६६॥
एभ्योऽमावास्यान्ता वर्तन्ते प्रतिपदादिकास्तिथयः ।
राशिभ्योऽथ तिथीनामध्यर्धयुगं तु राशिरेकं स्यात् ॥ ४.६७॥
तेन त्रिंशत्तिथयो द्वादशधा वर्णतो भिन्नाः ।
ता एव स्युर्द्विविधाः पुनरपि पूर्वान्त्यपक्षभेदेन ॥ ४.६८॥
पक्षः पञ्चदशाहः स्यात्पूर्वः प्रतिपदादिकः शुक्लः ।
तद्वज्ज्ञेयोऽप्यपरः कृष्णः प्रतिपदादिकः प्रोक्तः ॥ ४.६९॥
संज्ञासाम्ये सत्यपि सौम्यात्तु ह्रासवृद्धितस्तिथयः ।
न समाः पक्षद्वितये त्रिंशद्भेदास्तथा हि सम्प्रोक्ताः ॥ ४.७०॥
अग्न्यश्व्युमा सविघ्ना नागा गुहसवितृमातरो दुर्गा ।
ककुभो धनपतिविष्णू यमहरचन्द्राः क्रमेण तिथ्यधिपाः ॥ ४.७१॥
राशिभ्यः सदिनेभ्यः सतिथिभ्यः शक्तिजृम्भणसमुत्थानात् ।
अक्षरभेदविकारात्करणान्यपि सप्तभेदकान्यभवन् ॥ ४.७२॥
सिंहव्याघ्रवराहाः खरगजवृषकुक्कुटाः प्रतिपदर्धात् ।
अन्त्यां तिथ्यर्धेऽर्धे तिष्ठन्त्याः कृष्णगोश्चतुर्दश्याः ॥ ४.७३॥
एवं सङ्ग्रहराशिक दिनतिथिकरणप्रभेदकाः कथिताः ।
अस्मात्पञ्चविभेदाद्विज्ञेया पञ्चवर्णनिष्पत्तिः ॥ ४.७४॥
वर्णः पीतश्वेतारुणासितश्यामकास्तथा क्वाद्याः ।
इति मूलाक्षरविकृतिं कथितमिदं वर्णविकृतिबाहुल्यम् ॥ ४.७५॥
सचराचरस्य जगतो मूलत्वान्मूलतास्य बीजस्य ॥ ४.७६॥
यां ज्ञात्वा सकलमपास्य कर्मबन्धं
तद्विष्णोः परमपदं प्रयाति लोकः ।
तामेनां त्रिजगति जन्तुजीवभूतां
हृल्लेखां जपत च नित्यमर्चयीत ॥ ४.७७॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे चतुर्थः पटलः ॥
॥ पञ्चमः पटलः ॥
अथ प्रवक्ष्ये विधिवन्मनूनां दीक्षाविधानं जगतो हिताय ।
येनोपलब्धेन समाप्नुवन्ति सिद्धिं परत्रेह च साधकेशाः ॥ ५.१॥
दद्याच्च दिव्यभावं क्षिणुयाद्दुरितान्यतो भवेद्दीक्षा ।
मननात्तत्त्वपदस्य त्रायत इति मन्त्र उच्यते भयतः ॥ ५.२॥
दैवादिकस्याप्यथ मानुषादेः पैत्रादिकस्याप्यथ वत्सरस्य ।
आदिं समारभ्य समग्रसम्पद्यतेन दीक्षाविधिमारभेत ॥ ५.३॥
शुभकर्मणि दीक्षायां मण्टपकरणे गृहादिविधिषु तथा ।
विहितो वास्तुबलिः स्याद्रक्षाविघ्नोपशान्तिसम्पद्भ्यः ॥ ५.४॥
अभवत्पुराथ किलवास्तुपुमानिति विश्रुतो जगदुपद्रवकृत् ।
चतुरश्रसंस्थितिरसौ निहितो निहतः क्षितौ सुरगणैर्दितिजः ॥ ५.५॥
तद्देहसंस्थिता ये देवास्ते विश्रुतास्त्रिपञ्चाशत् ।
मण्डलमध्याद्यच्र्या यथा तथोक्तक्रमेण कथ्यन्ते ॥ ५.६॥
कृत्वावनिं समतलां चतुरश्रसंस्था-
मष्टाष्टकोद्यतपदां च सकोणसूत्राम् ।
तस्या चतुष्पदसमन्वितमध्यकोष्ठे
ब्रह्मातु साधकवरेण समर्चनीयः ॥ ५.७॥
प्राग्याम्यवारुणोदग्दिक्कोष्ठचतुष्पदेषु समभियजेत् ।
आर्याख्यं सविवस्वत्संज्ञं मित्रं महीधरं क्रमशः ॥ ५.८॥
कोणद्वयार्धकोष्ठेष्वच्र्याः सावित्रसवितृशक्राह्वाः ।
सेन्द्रजयरुद्रतज्जयसापश्च तथापवत्सकोऽग्न्याद्याः ॥ ५.९॥
अश्रेः पाश्र्वोत्थपदद्वन्द्वे शर्वं गुहार्यमणौ च तथा ।
जम्भकपिलिपिञ्छाख्यौ चरकिविदार्यौ च पूतनाः प्रोक्ताः ॥ ५.१०॥
अर्घपदाद्यन्तासु च चतसृषु दिक्षु क्रमेण बहिरच्र्याः ।
वासवयमजलशशिनामष्टावष्टौ च मन्त्रिणा विधिना ॥ ५.११॥
ईशानाख्यः स पर्जन्यो जयन्तः शक्रभास्करौ ।
सत्यो वृषान्तरिक्षौ च देवताः प्रागुदीरिताः ॥ ५.१२॥
अग्निः पूषा च वितथो यमश्च ग्रहरक्षकः ।
गन्धर्वो भृङ्गराजश्च मृगो दक्षदिगाश्रिताः ॥ ५.१३॥
नित्र्र+तिदौवारिकश्चैव सुग्रीवो वरुणस्तथा ।
पुष्पदन्तासुरौ शोषरोगौ प्रत्यग्दिगाश्रिताः ॥ ५.१४॥
वायुर्नागश्च मुख्यश्च सोमो भल्लाट एव च ।
अर्गलाख्योऽदितिस्तद्वद्दितिः सौम्यदिगाश्रिताः ॥ ५.१५॥
इतीरितानामपि देवतानां चित्राणि कृत्वा रजसा पदानि ।
पयोऽन्धसा साधुबलिर्विधेयो द्रव्यैश्च वा तन्त्रविशेषसिद्धैः ॥ ५.१६॥
भूयो भूमितले समे विरहिते लोमास्थिलोष्टादिभिः
कर्तव्यं नवसप्तपञ्चकमितैर्हस्तैः परीणाहतः ।
युक्तं द्वारचतुष्ककल्पितपयोभूरुट् चतुस्तोरणं
दर्भस्रक्परिवीतमुज्ज्वलतलं स्यात्संवृतं मण्डपम् ॥ ५.१७॥
सप्ताहतो वा नवरात्रतो वा प्रागेव दीक्षादिवसाद्यथावत् ।
सपालिकापञ्चमुखीशरावचतुष्टये बीजनिवापमुक्तम् ॥ ५.१८॥
अन्यस्मिन्भवने सुसंवृततरे शुद्धे स्थले मण्डलं
कुर्यात्प्राग्वरुणायतं पदचतुष्कोपेतभानूदरम् ।
पीतारक्तसितासितं प्रतिपदं वह्व्यादिशर्वान्तिकं
याम्योदीच्यसमायतं प्रणिगदन्त्यन्ये च तन्मन्त्रिणः ॥ ५.१९॥
वैष्णव्यस्त्वथ पालिका अपि चतुर्विंशाङ्गुलोच्छ्रायकाः
वैरिञ्च्यो घटिकास्तु पञ्चवदना द्व्यष्टाङ्गुलोच्छ्रायकाः ।
शैवाः स्युर्द्विषडङ्गुला अपि शरावाह्वा जलक्षालिताः
सूत्रैश्च प्रकलय्य पङ्क्तिषु च ताः प्रोक्तक्रमाद्विन्यसेत् ॥ ५.२०॥
पृथगपि शालीतण्डुलपूर्णासु सदभबद्धकूर्चासु ।
मृद्वालुकाकरीषैः क्रमेण पूर्णानि तानि पात्राणि ॥ ५.२१॥
शालीकङ्गुश्यामातिलसर्षपमुद्गमाषनिष्पावाः ।
खल्वाढकीसमेता बीजानि विदुः प्ररोहयोग्यानि ॥ ५.२२॥
प्रक्षाल्य तानि निवपेदभिमन्त्र्य मूल-
बीजेन साधकवरस्त्वपि पात्रकेषु ।
विप्राशिषा च विधिवत्प्रतिपाद्यमान-
शङ्खादिमुख्यतरपञ्चमहास्वनैश्च ॥ ५.२३॥
हारिद्राद्भिः सम्यगभ्युक्ष्य वस्त्रै-
राच्छाद्याद्भिः सिञ्चतां पञ्चघोषैः ।
सायम्प्रातः शर्वरीषु प्रदद्या-
दुक्तौद्र्रव्यैस्तद्बलिं साधकेशः ॥ ५.२४॥
भूतपितृयक्षनागब्रह्मशिवा देवताश्च विष्ण्वन्ताः ।
ताभ्यः क्रमेण रात्रिषु सप्तसु वा नवसु बलिर्देयः ॥ ५.२५॥
लाजतिलनक्तरजो दधिसक्त्वन्नानि भूतकूराख्यम् ।
पित्र्यं तिलतण्डुलकं सोडुम्बिकधानलाजकं याक्षम् ॥ ५.२६॥
केरोदसक्तुपिष्टं नागं पद्माक्षतं च वैरिञ्च्यम् ।
अन्नापूपं शैवं गुलोदनं वैष्णवं च दुग्धान्नम् ॥ ५.२७॥
कृसरं च वैष्णवेयं यदि नवरात्रं क्रमेण बलिरुक्तः ।
तारादिकैर्नमोऽन्तैः स्वैः स्वैरपिनामभिश्च बलिमन्त्रः ॥ ५.२८॥
पात्राणि त्रिविधान्यपि परितः पुनरष्टादिक्षु बलिकॢप्तिः ।
बीजारोपणकर्म प्रथितमिदं सार्वकामिकं भवति ॥ ५.२९॥
प्रागेव लक्षणयुतानि च मण्टपेऽस्मि-
न्कुण्डानि कारयतु सम्यगथो दिशासु ।
आखण्डलार्कभववारिपभाधिपानां
दोर्मात्रकाणि विलसद्गुणमेखलानि ॥ ५.३०॥
चतुरश्रमर्धशशिबिम्बविलसितमथ त्रिकोणम् ।
पद्मदलरुचिरवृत्तमिति ब्रुवते सुधाविधिषु कुण्डलक्षणम् ॥ ५.३१॥
विंशद्भिश्चतुरधिकाभिरङ्गुलीभिः
सूत्रेणाप्यथ परिसूत्र्य भूमिभागम् ।
ताभिश्च प्रखनतु तावतीभिरेकां
त्यक्त्वा चाङ्गुलिमपि मेखलाश्च कार्याः ॥ ५.३२॥
सत्त्वपूर्विकगुणान्विताः क्रमाद्-
द्वादशाष्टाचतुरङ्गुलोच्छ्रिताः ।
सर्वतोऽङ्गुलिचतुष्कविस्तृता
मेखलाः सकलसिद्धिदा मताः ॥ ५.३३॥
योनिस्तत्पश्चिमस्यामथ दिशि चतुरश्रस्थलारब्धनाळा
तन्मध्योल्लासि रन्ध्रोपरिपरि वितताश्वत्थपत्रानुकारा ।
उत्सेधायामकाभ्यां प्रकृतिविकृतिसंज्ञाङ्गुलाष्टाङ्गुला स्या-
द्विस्तृत्या द्वादशार्धाङ्गुलमितनमिताग्रा निविष्टेव कुण्डे ॥ ५.३४॥
अथवा दिशि कुण्डमुत्तरस्यां प्रविदध्याच्चतुरश्रमेकमेव ।
गदितैरपि लक्षणैः समेतापघनं दृष्टिमनोहरं च कान्त्या ॥ ५.३५॥
ततो मण्टपमध्ये तु स्थण्डिलं गोमयाम्बुना ।
उपलिप्य यथान्यायं तस्य मध्ये निधापयेत् ॥ ५.३६॥
सूत्रं प्राक् प्रत्यगात्ताग्रं विप्राशीर्वचनैः सह ।
गुणितेनाभितो मत्स्यौ मध्यादारभ्य विन्यसेत् ॥ ५.३७॥
तन्मध्यस्थितयाम्योदगग्रं सूत्रं निधापयेत् ।
ततो मध्यात्सपद्धस्तमानेन च दिशं प्रति ॥ ५.३८॥
सूत्रेषु मकरान्न्यस्येत्स्पष्टानन्योन्यतः समात् ।
सूत्राग्रमकरेभ्यस्तु न्यसेत्कोणेषु मत्स्यकान् ॥ ५.३९॥
कोणमत्स्यस्थिताग्राणि दिक्षु सूत्राणि पातयेत् ।
ततो भवेच्चतुष्कोष्ठं चतुरश्रं च मण्डलम् ॥ ५.४०॥
तत्राग्निमारुतं सूत्रं नैत्र्र+तेशं निपातयेत् ।
प्राग्याम्यवारुणोदीच्यसूत्राग्रमकरेषु च ॥ ५.४१॥
निहिताग्रयुगं सूत्रं चतुष्कं प्रतिपातयेत् ।
कृत एवं भवेयुस्ते कोणकोष्ठेषु मत्स्यकाः ॥ ५.४२॥
एषु प्राग्वारुणात्सूत्रान्याम्योदीच्यां निपातयेत् ।
षट्पञ्चाशत्पदानि स्युरधिकानि शतद्वयात् ॥ ५.४३॥
यदा तदाजो विभजेत्पदानि क्रमशः सुधीः ।
पदैः षोडशभिर्मध्ये पद्मं वृत्तत्रयान्वितम् ॥ ५.४४॥
तैरष्टचत्वारिंशद्भी राशिः स्याद्वीथ्यशीतिभिः ।
सद्वादशैः शतपदैः शोभायुग्द्वारकोणकम् ॥ ५.४५॥
द्वाराणि पदषट्काणि शोभाख्याः स्युश्चतुष्पदाः ।
चतुष्पदाश्चोपशोभाः षट्पदं कोणकं भवेत् ॥ ५.४६॥
वृत्तवीथ्योरारचयेन्मध्ये सूत्रचतुष्टयम् ।
प्राग्याम्यवारुणोदीच्यसूत्राग्रमकरेषु च ॥ ५.४७॥
निहिताग्रयुगं सूत्रं तद्भवेद्राशिमण्डलम् ।
र्किणकायाः केसराणां दलसन्धेर्दलस्य च ॥ ५.४८॥
दलाग्रवृत्तिराशीनां वीथ्याः शोभोपशोभयोः ।
वृत्तानि चतुरश्राणि व्यक्तास्थानानि कल्पयेत् ॥ ५.४९॥
भवेन्मण्डलमध्यार्धे र्किणका चतुरङ्गुला ।
त्र्यङ्गुलाः केसराश्च स्युः सन्धिश्च चतुरङ्गुला ॥ ५.५०॥
तथा दलानां मानं तदग्रद्व्यङ्गुलकं भवेत् ।
अन्तरालं पृथग्वृत्तत्रयस्य द्व्यङ्गुलं भवेत् ॥ ५.५१॥
ततश्च राशिचक्रं स्यात्स्वं स्वं वर्णविभूषितम् ।
राशिमङ्गुलकैः कुर्यात्षड्भिर्नवभिरेव वा ॥ ५.५२॥
द्वात्रिंशदङ्गुलं ह्येतत्परस्तात्तावदिष्यते ।
वृत्तचक्रमुशन्त्येके चतुरश्रं च तद्विदः ॥ ५.५३॥
यदि वा वर्तुलमराः स्युश्च द्वादशराशयः ।
ते स्युः पिपीलिकामध्या मातुलङ्गनिभा अपि ॥ ५.५४॥
चक्रं च चतुरश्रं च त्र्यश्रा द्वादशराशयः ।
भवेयुः पज्र्जदलनिभा वा कथिता बुधैः ॥ ५.५५॥
तद्वही रुचिरान्कुर्याच्चतुरान्कल्पशाखिनः ।
ललितान्रूढकुसुमान्फलपल्लवशोभितान् ॥ ५.५६॥
जलजैः स्थलजैर्वापि सुमनोभिः समन्वितान् ।
हंससारसकारण्डशुकभ्रमरकोकिलैः ॥ ५.५७॥
मयूरचक्रवाकाद्यैरारूढविटपानतान् ।
सर्वर्तुनिष्कृतिकरान्विलोचनमनोहरान् ॥ ५.५८॥
तद्बहिः पार्थिवं कुर्यान्मण्डलं कृष्णकोणकम् ।
मण्डलानि तु तत्त्वज्ञो राश्यन्तान्येव कारयेत् ॥ ५.५९॥
राशेरन्यत्र रचयेत्प्रमोहादन्यमण्डलम् ।
आवाह्य देवतामन्यामर्चयेदन्यदेवताम् ॥ ५.६०॥
उभाभ्यां लभते शापं मन्त्री तरलदुर्मतिः ।
कालात्मकस्य देवस्य राशिव्याप्तिमजानता ॥ ५.६१॥
कृतं समस्तं व्यर्थं स्यादज्ञेन ज्ञानमानिना ।
तस्मात्सर्वप्रयत्नेन राशीन्साधिपतीन्क्रमात् ॥ ५.६२॥
अवगम्यानुरूपाणि मण्डलानि च मान्यधीः ।
उपक्रमेदर्चयितुं होतुं वा सर्वदेवताः ॥ ५.६३॥
रजांसि पञ्चवर्णानि पञ्चद्रव्यात्मकानि च ।
पीतशुक्लारुणशितिश्यामान्येतानि भूतशः ॥ ५.६४॥
हारिद्रं स्याद्रजः पीतं तण्डुलं च सितं भवेत् ।
तथा दोषा रजःक्षारसंयुक्तं रक्तमुच्यते ॥ ५.६५॥
कृष्णं दग्धपुलाकोत्थं श्यामं बिल्वदलादिजम् ।
सितेन रजसा कार्याः सीमा रेखा विपश्चिता ॥ ५.६६॥
अङ्गुलोत्सेधविस्ताराः सर्वमण्डलकर्मसु ।
पीताः स्यात्र्किणका रक्तशुक्लपीताश्च केसराः ॥ ५.६७॥
दलान्यच्छान्यन्तरालं श्यामचूर्णेन पूरयेत् ।
सितरक्तासितैर्वर्णैर्वृत्तत्रयमुदीरितम् ॥ ५.६८॥
नानावर्णविचित्रा स्युश्चित्राकाराश्च वीथयः ।
द्वारशोभोपशोभाश्राः सितरक्तनिशासिताः ॥ ५.६९॥
राशिचक्रावशिष्टानि कोणानि शृणु यानि वै ।
पीठपादानि तानि स्युररुणान्यपि तानि वा ।
तत्तत्पादोक्तवर्णानि तत्तदाकारवन्ति वा ॥ ५.७०॥
अथवारुणानि च दलानि तथा दलसन्धिरप्यसितरुग्भवति ।
असितारुणाच्छरजसा विहितान्यपि वर्तुलानि कथयन्त्यपरे ॥ ५.७१॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे पञ्चमः पटलः ॥
॥ षष्ठः पटलः ॥
अथ पुनराचम्य गुरुः प्राग्वदनो विष्टपरोपविष्टः सन् ।
प्राणायामं सलिपिन्यास कृत्वा न्यसेत्तदृष्यादीन् ॥ ६.१॥
ऋषिर्गुरुत्वाच्छिरसैव धार्यश्छन्दोऽक्षरत्वाद्रसनागत स्यात् ।
धियावगन्तव्यतया सदैव हृदि प्रदिष्टा मनुदेवता च ॥ ६.२॥
ऋषिवर्णादिकौ धातू स्तो गत्या प्रापणेन च ।
यात्याभ्यां यत्स्वरूपं स गुरुः स्यादृषिवाचकः ॥ ६.३॥
इच्छादानार्थकौ धातू स्तश्छदाद्यश्चदादिकः ।
तयोरिच्छां ददातीति छन्दो मन्त्रार्णवाचकम् ॥ ६.४॥
आत्मनो देवताभावप्रधानाद्देवतेति च ।
पदं समस्तमन्त्रेषु विद्वद्भिः समुदीरितम् ॥ ६.५॥
हृदयशिरसोः शिखायां कवचाक्ष्यस्त्रेषु सह चतुर्थीषु ।
नत्याहुत्या च वषड्ढुं वौषट्फट्पदैः षडङ्गविधिः ॥ ६.६॥
हृदयं बुद्धिगम्यत्वात्प्रणामः स्यान्नमःपदम् ।
क्रियते हृदयेनातो बुद्धिगम्यनमस्क्रिया ॥ ६.७॥
तुड्गार्थत्वाच्छिरः स्वे स्वे विषयाहरणे द्विठः ।
शिरोमन्त्रेण चोत्तुङ्गविषयाहृतिरीरिता ॥ ६.८॥
शिखादेशसमुद्दिष्टा वषडित्यङ्गमुच्यते ।
तत्तेजोऽस्य तनुः प्रोक्ता शिखामन्त्रेण मन्त्रिणः ॥ ६.९॥
कचग्रहण इत्यस्माद्धातोः कवचसम्भवः ।
हुन्तेजस्तेजसां देहो गृह्यते कवचं ततः ॥ ६.१०॥
नेत्रदृष्टिः समुद्दिष्टा वौषड् दर्शनमुच्यते ।
दर्शनं दृशि येन स्यात्तत्तेजो नेत्रवाचकम् ॥ ६.११॥
असुत्रसादिकौ धातू स्तः क्षेपचलनार्थकौ ।
ताभ्यामनिष्टमाक्षिप्य चालयेत्फट्पदाग्निना ॥ ६.१२॥
प्रोक्तानीत्यङ्गमन्त्राणि सर्वमन्त्रेषु सूरिभिः ।
पञ्चैव यस्य मन्त्रस्य भवन्त्यङ्गानि मन्त्रिणः ॥ ६.१३॥
सर्वेष्वपि च मन्त्रेषु नेत्रलोपो विधीयते ।
अङ्गुलीषु क्रमादङ्गैरङ्गुष्ठादिषु विन्यसेत् ॥ ६.१४॥
कनिष्ठान्तासु तद्बाह्यतलयोः करयोः सुधीः ।
अस्त्रेण तालत्रितयं कृत्वा तेनैव बन्धयेत् ॥ ६.१५॥
दिशो दश क्रमादङ्गषट्कं वा पञ्चकं न्यसेत् ।
जपारम्भे मनूनां तु सामान्येयं प्रकल्पना ॥ ६.१६॥
शङ्खसुगन्धपुष्पाक्षततोयं वामतः प्रविन्यस्य ।
साङ्गमन्त्रं पूजामूर्तेन्र्यस्येद्गुरूपदेशेन ॥ ६.१७॥
न्यस्येच्च दक्षभागे सुमनःपात्रं तथाभितो दीपान् ।
अन्यत्साधनमखिलं पुरतो गन्धाक्षतादिकं मन्त्री ॥ ६.१८॥
प्रथमं निजसव्यतो यथावत्प्रयजेद्देवमयान्महागुरून्स्वान् ।
गणनाथमन्यतश्च पाशाज्रुशदन्ताभयहस्तमुज्ज्वलाङ्गम् ॥ ६.१९॥
रक्तं धर्मं वृषतनुमथाग्नौ हिंर श्यामवर्णं
ज्ञानं रक्षो दिशि मरुति पीतं च वैराग्यसंज्ञम् ।
भूताकारं द्विरदतनुमैश्वर्यमीशे च कृष्णं
नञ्पूर्वैस्तैर्यजतु दिशि चित्राणि गात्राणि पीठे ॥ ६.२०॥
मध्येऽनन्तं पद्ममिंस्मश्च सूर्यं
सोमं वह्निं तारवर्णैविभक्तैः ।
सत्त्वादींश्च त्रीन्गुणानात्मयुक्ता-
ञ्शक्तिः किञ्जल्केषु मध्ये यजेच्च ॥ ६.२१॥
श्वेता कृष्णा रक्ता पीता श्यामानलोपमा शुक्ला ।
अञ्जनजपासमाने तेजोरूपाश्च शक्तयः प्रोक्ताः ॥ ६.२२॥
विन्यस्य र्किणकोपरि शालीस्तदुपरि च तण्डुलानि तथा ।
तेषामुपरि च दर्भान्पूर्वोपरि कूर्चमक्षतोपेतम् ॥ ६.२३॥
त्रिगुणेन च तन्तुरूपभाजा परितोऽसौ परिवेष्टितं यथावत् ।
लघुनालघुधूपितं च कूर्चो परिकुम्भं निदधातु तारजापी ॥ ६.२४॥
न्यस्य दर्भमयं कूर्चमक्षताद्यायुतं सनवरत्नकं घटे ।
पूरयेत्सह कषादिकान्तगैरक्षरौषधिविपाचितैर्जलैः ॥ ६.२५॥
अथवा दशमूलपुष्पदुग्धाङ्घ्रिपचर्मोत्क्वथितैः कषायतोयैः ।
स्तनजद्रुमचर्मसाधितैर्वा सलिलैः सयतधीः शुभोदकैर्वा ॥ ६.२६॥
शङ्खे कषायोदकपूरिते च विलोड्य सम्यग्विधिना सगन्धम् ।
कलाः समावाह्य विनिक्षिपेत्तत्क्वाथोदकापूर्णमुखे च कुम्भे ॥ ६.२७॥
त्रिविधं गन्धाष्टकमपि शाक्तेयं वैष्णवं च शैवमिति ।
गन्धाष्टकेन शक्तिः स्यात्कलशे मन्त्रिणा कृतेऽनन्ता ॥ ६.२८॥
चन्दनकर्पूरागरुकुज्रुमकपिमांसिरोचनाचोराः ।
गन्धाष्टकमपि शक्तेः सान्निध्यकरं च लोकरञ्जनकृत् ॥ ६.२९॥
चन्दनह्लीबेरागरुकुष्ठासृगुशीरमांसिमुरमपरम् ।
चन्दनकर्पूरागरुदलरुधिरकुशीतरोगजलमपरम् ॥ ६.३०॥
अष्टत्रिंशत्प्रभेदेन याः कलाः प्रागुदीरिताः ।
गुरूपदेशक्रमतस्ता विद्वान्विनियोजयेत् ॥ ६.३१॥
याः पञ्चाशत्कलास्तारपञ्चभेदसमुत्थिताः ।
पञ्चपञ्चकसम्भिन्ना विदुस्तास्तत्त्ववेदिनः ॥ ६.३२॥
सप्तात्मकस्य तारस्य परौ द्वौ तु वरौ यतः ।
ततस्तु शक्तिशान्ताख्यौ न पठ्येते परैः सह ॥ ६.३३॥
प्रथमप्रकृतेर्हंसः प्रतद्विष्णुरनन्तरः ।
त्रियम्बकस्तृतीयः स्याच्चतुर्थस्तत्पदादिकः ॥ ६.३४॥
विष्णुर्योनिमथेत्यादिः पञ्चमः कल्प्यतां मनुः ।
चतुर्नवतिमन्त्रात्मदेवमावाह्य पूर्यताम् ॥ ६.३५॥
अत्र याः पञ्च सम्प्रोक्ता ऋचस्तारस्य पञ्चभिः ।
कलाप्रभेदैश्च मिथो युज्यन्ते ताः पृथक्क्रमात् ॥ ६.३६॥
कुर्यात्प्राणप्रतिष्ठां च तत्र तत्र समाहितः ।
प्राणप्रतिष्ठामन्त्रेण पुनस्तोयं कलात्मकम् ।
उच्चारयन्मूलमन्त्रं कलशे सन्निधापयेत् ॥ ६.३७॥
अश्वत्थचूतपनसस्तबकैः सुत्रामवल्लरीयुक्तैः ।
सुरतरुधिया पिधाय कुम्भमुखं वेष्टयीत वासोभ्याम् ॥ ६.३८॥
पुनस्तोयगतं देव साध्यमन्त्रानुरूपतः ।
सकलीकृत्य च गुरुरुपचारान्समाचरेत् ॥ ६.३९॥
आसनस्वागते साघ्र्यपाद्ये साचमनीयके ।
मधुपर्काचमस्नानवसनाभरणानि च ॥ ६.४०॥
सुगन्धसुमनोधूपदीपनैवेद्यवन्दनान् ।
प्रयोजयेदर्चनायामुपचारांस्तु षोडश ॥ ६.४१॥
अघ्र्यपाद्याचमनकमधुपर्काचमान्यपि ।
गन्धादयो निवेद्यान्ता उपचारा दश क्रमात् ॥ ६.४२॥
गन्धादयो निवेद्यान्ता पूजा पञ्चोपचारिकी ।
सपर्यास्त्रिविधाः प्रोक्तास्तासामेकां समाश्रयेत् ॥ ६.४३॥
गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपाः ।
दूर्वा चेति क्रमादघ्र्यद्रव्याष्टकमुदीरितम् ॥ ६.४४॥
पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्ताभिरुच्यते ।
जातीलवङ्गतक्कोलैर्मतमाचमनीयकम् ॥ ६.४५॥
मधुपर्कं च सक्षौद्रं दधि प्रोक्तं मनीषिभिः ।
शुद्धाभिरद्भिर्विहितं पुनराचमनीयकम् ॥ ६.४६॥
चन्दनागरुकर्पूरपज्र्ं गन्धमिहोच्यते ।
अथवा लघुकाश्मीरपटीरमृगनाभिजम् ॥ ६.४७॥
तुलस्यौ पज्र्जे जात्यौ केतक्यौ करवीरकौ ।
शस्तानि दश पुष्पाणि तथा रक्तोत्पलानि च ॥ ६.४८॥
उत्पलानि च नीलानि कुमुदानि च मालती ।
मल्लिकाकुन्दमन्दारनन्द्यावर्तादिकानि च ॥ ६.४९॥
पलाशपाटलीपार्थपारन्त्यावर्तकानि च ।
चम्पकानि सनागानि रक्तमन्दारकानि च ॥ ६.५०॥
अशोकोद्भवबिल्वाब्जर्किणकारोद्भवानि च ।
सुगन्धीनि सुरूपाणि स्वागमोक्तानि यानि वै ॥ ६.५१॥
मुकुलैः पतितैम्र्लानैर्जीर्णैर्वा जन्तुदूषितैः ।
आघ्रातैरङ्गसंस्पृष्टैरुषितैश्चापि नार्चयेत् ॥ ६.५२॥
सगुग्गुल्वगरूशीरसिताज्यमधुचन्दनैः ।
साराङ्गारविनिक्षिप्तैर्मन्त्री नीचैः प्रधूपयेत् ॥ ६.५३॥
गोर्सिपषा वा तैलेन वत्र्या च लघुगर्भया ।
दीपितं सुरभिं शुद्धं दीपमुच्चैः प्रदापयेत् ॥ ६.५४॥
सुसितेन सुशुद्धेन पायसेन सुर्सिपषा ।
सितोपदंशकदलीदध्याद्यैश्च निवेदयेत् ॥ ६.५५॥
वर्णैर्मनुप्रपुटितैः क्रमशः शतार्धै-
न्र्यासक्रमादभियजेत्सकलासु मन्त्री ।
गन्धादिभिः प्रथमतो मनुदेवतासु
त्रैलोक्यमोहनमिति प्रथितः प्रयोगः ॥ ६.५६॥
हृदयं सशिरस्तथा शिखाथो कवचं चेत्यनलादिकाश्रिषु ।
पुरतो नयनं दिशां क्रमात्स्यात्पुनरस्त्रं च समर्पयेत्क्रमात् ॥ ६.५७॥
हारस्फटिककलायाञ्जनपिङ्गलवह्निरोचिषो ललनाः ।
अभयवरोद्यतहस्ताः प्रधानतनवोऽङ्गदेवताः कथिताः ॥ ६.५८॥
आदावङ्गावरणं सकलविधानेषु पूजनीयं स्यात् ।
अन्ते च लोकपालावृतिरथ कुलिशादिकान्तं वा ॥ ६.५९॥
इन्द्राग्नियमनिशाचरवरुणानिलशशिशिवाहिपतिविधयः ।
जात्यधिपहेतिवाहनपरिवारान्ताः क्रमेण यष्टव्याः ॥ ६.६०॥
पीतः पिङ्गः कृष्णो धूमः शुक्लश्च धूम्रसितशुक्लाः ।
काशारुणाम्बुजाभा लोकेशा वासवादयः प्रोक्ताः ॥ ६.६१॥
वङ्काः सशक्तिदण्डः खड्गः पाशाज्रुशौ गदाशूले ।
रथचरणनलिनसंज्ञे प्रोक्तान्यस्त्राणि लोकपालानाम् ॥ ६.६२॥
पीतहिमजलदगगनाचिरप्रभारक्तकुन्दनीलरुचः ।
करविन्दारुणवर्णाः प्रोक्ताः स्युर्वर्णतोऽपि वङ्काआद्याः ॥ ६.६३॥
कृते निवेद्ये च ततो मण्डलं परितः क्रमात् ।
मङ्गलाज्रुरपत्राणि स्थापनीयानि मन्त्रिणा ॥ ६.६४॥
उपलिप्य कुण्डमत्र स्वचरणयोग्या विलिख्य रेखाश्च ।
अभ्युक्ष्य प्रणवजपेन प्रकल्पयेद्योगविष्टरं मन्त्री ॥ ६.६५॥
अथवा षट्कोणावृतत्रिकोणके गुरुजनोपदेशेन ।
प्राणाग्निहोत्रविधिनाप्यावसीथयाह्वयेऽनलस्थाने ॥ ६.६६॥
तत्राथो सदृतुमतीमथेन्द्रियाभां
स्मृत्वा तां सकलजगन्मयीं च शक्तिम् ।
तद्योनौ मणिभवमारणेयकं वा
तारेण क्षिपतु गृहोत्थमेव वाग्निम् ॥ ६.६७॥
चित्पिङ्गलपदमुक्त्वा हनदहपचयुग्मकानि सर्वज्ञम् ।
आज्ञापयाग्निजाये प्रभाष्य मनुनानलं ज्वलयेत् ॥ ६.६८॥
अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ।
सुवर्णवर्णमनलं समिद्धं विश्वतोमुखम् ॥ ६.६९॥
अनेन ज्वलितं मन्त्रेणोपतिष्ठेद्धुताशनम् ।
ततः प्रविन्यसेद्देहे जिह्वामन्त्रैर्विभावसोः ॥ ६.७०॥
सलिङ्गगुदमूर्धास्यनासानेत्रेषु च क्रमात् ।
सर्वाङ्गेषु च जिह्वाश्च वक्ष्यन्ते त्रिविधात्मकाः ॥ ६.७१॥
हिरण्या गगना रक्ता कृष्णा चैव तु सुप्रभा ।
बहुरूपातिरक्ता च जिह्वाः सप्तेति सात्त्विकाः ॥ ६.७२॥
पद्मरागा सुवर्णा च तृतीया भद्रलोहिता ।
लोहिताख्या तथा श्वेता धूम्रिणी सकरालिका ॥ ६.७३॥
राजस्यः कथिता ह्येताः क्रमात्कल्याणरेतसः ।
विश्वमूर्तिस्फुलिङ्गिन्यौ धूम्रवर्णा मनोजवा ॥ ६.७४॥
लोहिता च करालाख्या काली तामसजिह्विका ।
अनलेरार्घिबिन्द्वन्तसादिवान्ताक्षरान्विताः ॥ ६.७५॥
सात्त्विक्यो दिव्यपूजासु राजस्यः काम्यकर्मसु ।
तामस्यः क्रूरकार्येषु प्रयोक्तव्या विपश्चिता ॥ ६.७६॥
सुराः सपितृगन्धर्वयक्षनागपिशाचिकाः ।
राक्षसाश्च क्रमादग्नेराश्रिता रसनास्वमी ॥ ६.७७॥
जिह्वासु त्रिदशादीनां तत्तत्कार्यसमाप्तये ।
जुहुयाद्वाञ्छितां सिद्धिं दद्युस्ता देवतामयाः ॥ ६.७८॥
स्वनामसदृशाकाराः प्रायो जिह्वा हविर्भुजः ।
मन्त्री प्रविन्यसेद्भूयो वह्नेरङ्गानि वै क्रमात् ॥ ६.७९॥
सहस्रार्चिः स्वस्तिपूर्ण उत्तिष्ठपुरुषस्तथा ।
धूमव्यापी सप्तजिह्वो धनुर्धर इतीरिताः ॥ ६.८०॥
अङ्गमन्त्राः क्रमादष्टमूर्तिश्चाथ प्रविन्यसेत् ।
मूर्धां सपाश्र्वकट्यन्धुकटिपाश्र्वांसकेषु च ॥ ६.८१॥
प्रादक्षिण्येन विन्यस्येद्यथावद्देशिकोत्तमः ।
जातवेदाः सप्तजिह्वो हव्यवाहन एव च ॥ ६.८२॥
अश्वोदरजसज्ञश्च स वैश्वानर एव च ।
कौमारतेजाश्च तथा विश्वेदेवमुखाह्वयौ ॥ ६.८३॥
स्युरष्टमूर्तयो वह्नेरग्नये पदपूर्विकाः ।
प्रणवादिनमोऽन्ताश्च पुनर्दर्भचतुष्टयैः ॥ ६.८४॥
दिक्क्रमात्सम्परिस्तीर्य सम्यग्गन्धादिभिर्यजेत् ।
मध्ये च कोणषट्के च जिह्वाभिः केसरेषु च ॥ ६.८५॥
अङ्गमन्त्रैस्ततो बाह्ये अष्टाभिर्मूर्तिभिः क्रमात् ।
ततोऽग्निमनुनानेन मन्त्री मध्ये च संयजेत् ॥ ६.८६॥
वैश्वानरं जातवेदमुक्त्वा चेहावहेति च ।
लोहिताक्षपदं सर्वकर्माणीति समीरयेत् ।
ब्रूयाच्च साधयेत्यन्ते वह्निजायान्तिको मनुः ॥ ६.८७॥
त्रिणयनमरुणप्ताबद्धमौलिं सुशुक्लां-
शुकमरुणमनेकाकल्पमम्भोजसंस्थम् ।
अभिमतवरशक्तिस्वस्तिकाभीतिहस्तं
नमत कनकमालालङ्कृतांसं कृशानुम् ॥ ६.८८॥
जिह्वा ज्वालारुचः प्रोक्ता वराभययुतानि च ।
अङ्गानि मूर्तयः शक्तिस्वस्तिकोद्यतदोर्द्वयाः ॥ ६.८९॥
संस्कृतेन घृतेनाभिद्योतनोद्योतितेन च ।
व्याहृत्यनन्तरं तेन जुहुयान्मनुना त्रिशः ॥ ६.९०॥
गर्भाधानादिका वह्नेः समुद्वाहावसानिकाः ।
क्रियास्तारेण वै कुर्यादाज्याहुत्यष्टकैः पृथक् ॥ ६.९१॥
जिह्वाङ्गमूर्तिमनुभिरेकावृत्या हुनेत्तथा ।
जिह्वायां मध्यसंस्थायां मन्त्री ज्वालावली तनौ ॥ ६.९२॥
ताराद्यैर्दशभिर्भिएदैः पूर्वैः पूर्वैः समन्वितः ।
मनुना गाणपत्येन हुनेत्पूर्वं दशाहुतीः ॥ ६.९३॥
जुहुयाच्च चतुर्वारं समस्तेनैव तेन तु ।
आज्येन सन्ध्यमनुना पञ्चविंशतिसङ्ख्यकम् ॥ ६.९४॥
जुहुयात्सर्वहोमेषु सुधीरनलतृप्तये ।
तान्त्रिकाणामयं न्यायो हुतानां समुदीरितः ॥ ६.९५॥
पुनः साध्येन मनुना हुनेदष्टसहस्रकम् ।
अथवाष्टशतं र्सिपः संयुक्तेन पयोन्धसा ॥ ६.९६॥
द्रव्यैर्विधानप्रोक्तैर्वा महाव्याहृतिपश्चिमम् ।
पुनः समापयेद्धोमं परिषेकावसानिकम् ॥ ६.९७॥
भूभुर्वःस्वर्भूर्भुवस्वःपूर्वं स्वाहान्तमेव च ।
अग्नये च पृथिव्यै च महते च समन्वितम् ॥ ६.९८॥
वायवे चान्तरिक्षाय महते च समन्वितम् ।
आदित्याय च दिवे च महते च समन्वितम् ॥ ६.९९॥
चन्द्रमसे च दिग्भ्यश्च महते च समन्वितम् ।
महाव्याहृतयस्त्वेताः सर्वशो देवतामयाः ॥ ६.१००॥
ब्रह्मार्पणाख्यमनुना पुनरष्टावथाहुतिः ।
जुहुयान्मन्त्रवर्येण कर्मबन्धविमुक्तये ॥ ६.१०१॥
इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारतः ।
जाग्रत्स्वप्नसुषुप्तीनामन्तेऽवस्थास्वितीरयेत् ॥ ६.१०२॥
ततश्च मनसा वाचा कर्मणेति प्रभाषयेत् ।
हस्ताभ्यां च तथा पद्भ्यामुदरेण तु भाषयेत् ॥ ६.१०३॥
शिश्ना च यत्कृतं प्रोक्त्वा यदुक्तं यत्स्मृतं तथा ।
तत्सर्वमिति सम्भाष्य ब्रह्मार्पणपदं वदेत् ॥ ६.१०४॥
भवत्वन्ते द्विठश्चायं ब्रह्मार्पणमनुर्मतः ।
हुते तु देशिकः पश्चान्मण्डले बलिमारभेत् ॥ ६.१०५॥
नक्षत्राणां सराशीनां सवाराणां यथाक्रमम् ।
दद्याद्बलिं गन्धपुष्पधूपपूर्वकमादरात् ॥ ६.१०६॥
ताराणामश्विनादीनां राशीः पादाधिकद्वयम् ।
मेषादिमुक्त्वा नक्षत्रसंज्ञां पूर्वमनन्तरम् ॥ ६.१०७॥
देवताभ्यः पदं प्रोक्त्वा दिवानक्तपदं तथा ।
चारिभ्यश्चाथ सर्वेभ्यो भूतेभ्यश्च नमो वदेत् ॥ ६.१०८॥
एवं राशो तु सम्पूर्णे तिंस्मस्तद्वत्प्रयोजयेत् ।
तथा राश्यधिपानां च ग्रहाणां तत्र तत्र तु ॥ ६.१०९॥
सप्तानां करणानां च दद्यान्मीनाह्वमेषयोः ।
अन्तराले बलिस्त्वेवं सम्प्रोक्तः कलशात्मकः ॥ ६.११०॥
पुर्निनवेद्यमुद्धृत्य पुरोवत्परिपूज्य च ।
मुखवासादिकं दत्त्वा स्तुत्या तद्युक्तया पुनः ।
स्तुत्वा यथावत्प्रणमेद्भक्तियुक्तस्तु साधकः ॥ ६.१११॥
दोभ्र्यां पदाभ्यां जानुभ्यामुरसा शिरसा दृशा ।
वचसा मनसा चेति प्रणामोऽष्टाङ्ग ईरितः ॥ ६.११२॥
बाहुभ्यां च सजानुभ्यां शिरसा वचसा धिया ।
पञ्चाङ्गकःप्प्रणामः स्यात्पूजासु प्रवराविमौ ॥ ६.११३॥
गुर्वाद्यास्तारादिका यागमन्त्रा
लोकेशान्तास्ते चतुर्थीनमोऽन्ताः ।
पूजायामप्यग्निकार्ये द्विठान्ता
बीजैः पूजा स्याद्विभक्त्या वियुक्तैः ॥ ६.११४॥
वाससी च पुनरङ्गुलिभूषां होमकृत्सु मुखजप्रवरेषु ।
ईश्वरार्पणमिति प्रतिदत्त्वा र्विधतो द्विजमुखेरितवाग्भिः ॥ ६.११५॥
नत्त्वा ततस्तनुभृते परमात्मने स्वं
द्रव्यार्धमेव गुरवे चतुरंशकं वा ।
दत्त्वा दशांशमथवापि च वित्तशाठ्यं
हित्वार्पयेन्निजतनुं तदधीनचेताः ॥ ६.११६॥
अथ पटुरवमुख्यवाद्यघोषै-
रिद्वजमुखनिष्पतदाशिषां रवेण ।
सुनियतमपि सुस्थितं च शिष्यं
कलशजलैरभिषेचयेद्यथावत् ॥ ६.११७॥
यथा पुरा पूरितमक्षरैर्घटैः
सुधामयैः शिष्यतनौ तथैव तैः ।
प्रपूरयन्मन्त्रिवरोऽभिषेचये-
दवाप्तये मूङ्क्षु यथेष्टसम्पदाम् ॥ ६.११८॥
विमले परिधाय वाससी पुनराचम्य गुरुं प्रणम्य च ।
निकटे समुपासतो वदेदथ शिष्यस्य मनुं त्रिशो गुरुः ॥ ६.११९॥
गुरुणा समनुगृहीतं मन्त्रं सद्यो जपेच्छतावृत्त्या ।
गुरुदेवतामनूनामैक्यं सम्भावयन्धिया शिष्यः ॥ ६.१२०॥
मन्त्रे मन्त्रगुरावपि मन्त्री मन्त्रस्य देवतायां च ।
त्रिषु विहितसततभक्तिः प्रेत्येह निजेप्सितं फलं लभते ॥ ६.१२१॥
सङ्क्षेपादिति गदिता हिताय दीक्षा
जप्तृणां प्रवरफलप्रदा चिराय ।
प्राप्यैनां जपविधिरादरेण कार्यो
विद्वद्भिः सहुतविधिं निजेष्टसिद्ध्यै ॥ ६.१२२॥
प्रोक्तेनैवं कलशविधिनैकेन वानेककुम्भै-
र्भक्त्या यो वा सुमतिरभिषिञ्चेन्नरो मन्त्रजापी ।
कामान्प्राप्नोत्ययमिह परत्रापि किं तत्र चित्रं
लोकैश्चिन्त्यो न खलु मणिमन्त्रौषधीनां प्रभावः ॥ ६.१२३॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे षष्ठः पटलः ॥
॥ सप्तमः पटलः ॥
अथाक्षराणामधिदेवतायाः समस्तबोधस्थितिदीपिकायाः ।
अशेषदुःखप्रशमाय नृणां वक्ष्येऽजपादेः प्रवरं विधानम् ॥ ७.१॥
ब्रह्मा स्यादृषिरीरितः सुमतिभिर्गायत्रमुक्तं च त-
च्छन्दस्त्वेऽपि सरस्वती निगदिता तन्त्रेषु तद्देवता ।
आद्यन्तस्वरषट्कलघ्वपरयोरन्तस्थितैः कादिभि-
र्वर्गैर्यान्तगतैः क्रमेण कथितान्यस्याः षडङ्गानि च ॥ ७.२॥
पञ्चाशद्वर्णभेदैः विहितवदनदोः पादयुक् कुक्षिवक्षो-
देशां भास्वत्कपर्दाकलितशशिकलामिन्दुकुन्दावदाताम् ।
अक्षस्रक्कुम्भचिन्तालिखितवरकरां त्रीक्षणां पद्मसंस्था-
मच्छाकल्पामतुच्छस्तनजघनभरां भारतीं तां नमामि ॥ ७.३॥
काननवृत्तद्व्यक्षि श्रुतिनोगण्डोष्ठदन्तमूर्धास्ये ।
दोः पत्सन्ध्यग्रेषु च पाश्र्वद्वयपृष्ठनाभिजठरेषु ॥ ७.४॥
हृद्दोर्मूलापरगलकक्षेषु हृदादिपाणिपादयुगे ।
जठराननयोव्र्यापकसंज्ञा न्यस्येदथाक्षरान्क्रमशः ॥ ७.५॥
सन्दीक्षितो विमलधीर्गुरुणानुशिष्टो
लक्षं न्यसेत्सुनियतः प्रजपेच्च तावत् ।
अन्ते हुतं प्रतिहुनेन्मधुरत्रयाक्तैः
शुद्धैस्तिलैरभिजयेद्दिनशोऽक्षरेशीम् ॥ ७.६॥
व्योमाविः स चतुर्दशस्वरविसर्गार्णस्फुरत्र्किणकं
किञ्जल्कालिखितस्वरं प्रतिदलप्रारब्धवर्गाष्टकम् ।
क्ष्माबिम्बेन च सप्तमार्णवयुजाश्राशासु संवेष्टितं
वर्णाब्जं शिरसि स्मृतं विषगदप्रध्वंसि मृत्युञ्जयम् ॥ ७.७॥
प्रविधाय पद्ममिति पीठमथो कथितक्रमेण विधिनाभियजेत् ।
नवभिश्च शक्तिभिरमुत्र समावरणैः समर्चयतु वर्णतनुम् ॥ ७.८॥
मेधा प्रज्ञा प्रभा विद्या धीर्धृतिस्मृतिबुद्धयः ।
विद्येश्वरीति सम्प्रोक्ता भारत्या नव शक्तयः ॥ ७.९॥
अङ्गान्यादौ तदनु च कलायुग्मशश्चाष्टवर्गा-
न्ब्रह्माण्यादीञ्छतमखमुखानप्यथो लोकपालान् ।
मुख्यैग्र्रन्थैः प्रवरकुसुमैर्धूपदीर्पैनिवेद्यै-
र्वर्णाञ्जापी यजतु दिनशो भारतीं भक्तिनम्रः ॥ ७.१०॥
ब्रह्माणी माहेशी कौमारी वैष्णवी च वाराही ।
इन्द्राणी चामुण्डी समहालक्ष्मीति मातरः प्रोक्ताः ॥ ७.११॥
वर्गस्वरयाद्यंशाः क्रमेण कलधौतरजतताम्राः स्युः ।
इति रचितं रुचकमिदं साधकसर्वार्थदायि सततं स्यात् ॥ ७.१२॥
त्रिवारमम्भः परिजप्तमेतया
पिबेद्दिनादावपि विद्यया सुधीः ।
अनेडमूकोऽपि कवित्वर्गिवतः
परां च कीर्ति लभतेऽर्कमासतः ॥ ७.१३॥
कमलोद्भवौषधिरसेव च या
पयसा च पक्वमथ र्सिपरपि ।
अयुताभिजप्तममुना दिनशो
लिहतां कविर्भवति वत्सरतः ॥ ७.१४॥
वर्णौषध्याश्रिताभिः कलशममलधीरद्भिरापूरयित्वा
प्रातस्तेनाभिषिञ्चेद्दशशतपरिजप्तेन यं वापि मासम् ।
स स्यान्मेधेन्दिरायुःप्रशमकवियशो विश्वसंवादयुक्तो
नारी वन्ध्यापि नानागुणगणनिलयं पुत्रवर्यं प्रसूते ॥ ७.१५॥
आधारोद्यच्छक्तिबिन्दूत्थिताया वक्त्रे मूर्धेन्दुग्रसन्त्याः प्रभायाः ।
क्षाद्यान्तार्णान्पातयेद्वह्निसोमप्रोतान्मन्त्री मुच्यते रोगजातैः ॥ ७.१६॥
विन्यासैरथ सजपैर्हुताशनाद्यै
ध्र्यानैश्च प्रभजति भारतीं नरो यः ।
स श्रीमान्भवति च मङ्क्षु काव्यकर्ता
क्ष्वेलादीञ्जयति जरापमृत्युरोगान् ॥ ७.१७॥
कलाः कलानादभवा वदन्त्यजाः
कचादिवर्णानुभवाष्टतादिकान् ।
पयादिकान्माक्षरजाश्च बिन्दुजाः
क्रमादनन्तावधिकास्तु षादिकान् ॥ ७.१८॥
कुर्यात्कलाभिराभिर्मन्त्री दिनशस्तनौ तथा न्यासम् ।
सान्निध्यकृत्समर्थः प्रतिमाकलशादिषु प्रविज्ञेयः ॥ ७.१९॥
मन्त्रोद्धारविधाने वर्णव्यत्यासकॢप्तिरुद्दिष्टा ।
आभिः श्रीकण्ठादिप्रोक्तैर्वा नामभिः विशेषज्ञैः ॥ ७.२०॥
अष्टाक्षरोक्तमनुवर्यविशिष्टमूर्ति
संस्मृत्य विष्णुमपि मन्त्रितमो यथावत् ।
वर्णैन्र्यसेदपि पुरैव च केशवादि-
मूत्र्या युतैर्वपुषि भक्तिभरावनम्रः ॥ ७.२१॥
रुद्रादीञ्छक्तियुतान्न्यस्येद्याद्यांस्त्वगादिधातुयुगान् ।
श्रीकण्ठादौ विद्वान्वर्णान्प्राग्बीजसंयुतान्वापि ॥ ७.२२॥
सिन्दूरकाञ्चनसमोभयभागमर्ध-
नारीश्वरं गिरिसुताहरभूषचिह्नम् ।
पाशाभयाक्षवलयेष्टदहस्तमेवं
स्मृत्वा न्यसेत्सकलवाञ्छितवस्तुसिद्ध्यै ॥ ७.२३॥
शक्त्या शक्तिश्रीभ्यां शक्तिश्रीक्लीभिरन्वितैर्वर्णैः ।
श्रीशक्तियुगशराद्यैरथवाभिहितः समृद्धये न्यासः ॥ ७.२४॥
अथानया पञ्चविभेदभिन्नया
प्रपञ्चयागस्य विधिः प्रवक्ष्यते ।
कृते तु यस्मिन्निह साधकोत्तमाः
प्रयान्ति निर्वाणपदं तदव्ययम् ॥ ७.२५॥
पूर्वं महागणपतिं स्वविधानसिद्ध-
रूपं च साङ्गमपि सावरणं विचिन्त्य ।
बीजेन संयुतमृचा प्रजपेत माला-
मन्त्रं निजेष्टविधयेऽवहितो यथावत् ॥ ७.२६॥
स चतुश्चत्वारिंशद्वारं बीजं तथैकवारमृचम् ।
प्रजपेच्चतुरावृत्त्या मालापूर्वं मनुं च मन्त्रितमः ॥ ७.२७॥
स मुनिश्छन्दोदैवतमपि साङ्गं मातृकां च विन्यस्येत् ।
प्रागभिहितेन विधिना वारत्रितयं गृहांश्च सप्त तथा ॥ ७.२८॥
वदने च बाहुपादद्वितये जठरे च वक्षसि यथावत् ।
अर्काद्यान्विन्यस्येत्क्रमेण मन्त्री स्वरादिवर्गेशान् ॥ ७.२९॥
तारश्च शक्तिरजपा परमात्मबीजं
वह्नेःप्रिया च गदिता इति पञ्चमन्त्राः ।
एभिस्त्रितीयलिपिभिः कथितः प्रपञ्च-
यागाह्वयो हुतविधिः सकलार्थदायी ॥ ७.३०॥
ब्रह्मा स्यादृषिरस्य च्छन्दः परमान्विता च गायत्री ।
सकलपदार्थसदर्थं परिपूर्णं देवता परञ्ज्योतिः ॥ ७.३१॥
जायाग्नेर्हृदयमथो शिरश्च सोऽहं
हंसात्मा त्वथ च शिखा स्वयं च वर्म ।
ताराख्यं स्वमुदितमीक्षणं तथास्त्रं
प्रोक्तं स्याद्धरिहरवर्णमङ्गमेवम् ॥ ७.३२॥
अत्राकारहकाराद्यावाद्यौ शान्तान्त्यकौ मनू ।
हकारश्चाप्यकारश्च बिन्दुः सर्गी च साक्षरः ॥ ७.३३॥
साकारश्चात्ममन्त्रः षडिन्द्रियात्मक उच्यते ।
सकारौकारहकारा बिन्दुः पञ्चार्णको मनुः ॥ ७.३४॥
करणात्मसमायुक्तः परमात्माह्वयो मनुः ।
स्वाकारैर्हदीर्घाभ्यां वह्निजायामनुर्मतः ।
वागादीन्द्रियसम्भिन्नः सोऽयं पञ्चाक्षरात्मकः ॥ ७.३५॥
ब्रह्मा बृहत्तया स्यात्परमपदेन प्रकाशितः प्रवरः ।
गायकसन्त्राणनतो गायत्रं समुनिनिगदितं छन्दः ॥ ७.३६॥
परमन्यदतिशयं वा ज्योतिस्तेजो निरूपितेऽन्यद्यत् ।
अतिशायि च नितरामिति कथितैवं देवता परञ्ज्योतिः।३७॥
स्वेति स्वर्गः स्वेति चात्मा समुक्तो
हेत्याहुतिर्हेति विद्याद्गतिं च ।
स्वर्गात्मावध्यातता धामशाखा
वह्नेर्जाया यत्र हूयेत सर्वम् ॥ ७.३८॥
स इति परततं परं तु तेज-
स्त्वहमिति मय्युदिते मनोऽस्य यत्र ।
तदिति सकलचित्प्रकाशरूपं
कथितमिदं शिरसेऽपि मन्त्रमेवम् ॥ ७.३९॥
हमिति प्रकाशितोऽहं स इति च सकलप्रकाशनिर्वाणम् ।
अतुलमनुष्णमशीतं यत्तदितीत्थं प्रकाशितेह शिखा ॥ ७.४०॥
प्रतिमथ्य गुणत्रयानुबद्धं सकलं स्थावरजङ्गमाभिपूर्णम् ।
स्वगुरुणैः निजबिन्दुसन्ततात्माखिललोकस्थितिवर्ममन्त्रमुक्तम् ॥ ७.४१॥
आद्यैस्त्रिभेदैस्तपनान्तिकैर्यत्सृजत्यजस्रं जगतोऽस्य भावम् ।
तेजस्तदेतन्मनुवर्यकस्य नेत्रत्रयं सन्त उदाहरन्ति ॥ ७.४२॥
हृज्रराख्या धातुर्हरणार्थे साधकानभीष्टानि ।
संहरतीह यदेतत्तेजोरूपं तदस्त्रमन्त्रं स्यात् ॥ ७.४३॥
यदा लिपिविहीनोऽयं तदात्माष्टक्षरः स्मृतः ।
एतत्सर्वप्रपञ्चस्य मूलमष्टाक्षरं स्मृतम् ॥ ७.४४॥
प्रपञ्चयागस्त्वमुना कृतो न्यासविधिः स्मृतः ।
वर्णैर्देहेऽनले द्रव्यैः कुर्याद्धुतविधिं द्विधा ॥ ७.४५॥
मातृकान्यासवत्सार्थं लिपिनाष्टाक्षरेण तु ।
नित्यं न्यसेत्संयतात्मा पञ्चाशद्वारमुत्तमम् ॥ ७.४६॥
पञ्चज्ञानेन्द्रियाबद्धाः सर्वास्तु लिपयो मताः ।
ताभिरारात्तनं सर्वं तत्तदिन्द्रियगोचरम् ॥ ७.४७॥
स्मर्तव्याशेषलोकान्तर्र्वित यत्तेज ऐश्वरम् ।
ब्रह्माग्नौ जुहुयात्तस्मिन्सदा सर्वत्र र्वितनि ॥ ७.४८॥
ब्रह्मात्मभिर्महामन्त्रैब्र्रह्मविद्भिः समाहितैः ।
ब्रह्माग्नौ ब्रह्महविषा हुतं ब्रह्मार्पणं स्मृतम् ॥ ७.४९॥
एवं वर्णविभेदभिन्नमदृढं मांसान्त्रमज्जावृतं
देहं तत्क्षरमक्षरे सुविशदे सर्वत्र र्वितन्यथ ।
हुत्वा ब्रह्महुताशने विमलधीस्तेजःस्वरूपी स्वयं
भूत्वा सर्वमनुं जपेदभियजेद्ध्यायेत्तथा तर्पयेत् ॥ ७.५०॥
शुद्धश्चापि सबिन्दुकस्त्वथ कलायुक्केशवाद्यस्तथा
श्रीकण्ठादियुतश्च शक्तिकमलामारैस्तथैकैकशः ।
न्यासास्ते दशधा पृथङ् निगदिताः स्युब्र्रह्मयागान्तिकाः
सर्वे साधकसिद्धिसाधनविधौ सङ्कल्पकल्पद्रुमाः ॥ ७.५१॥
प्रपञ्चयागस्तु विशेषतो विपत्प्रपञ्चसंसारविशेषयापकः ।
परश्च नित्यं भजतामयत्नतः परस्य चार्थस्य निवेदकस्तथा ॥ ७.५२॥
द्रव्यैर्यथा यैः क्रियते प्रपञ्च-
यागक्रिया तानि तथैव सम्पत् ।
यास्वप्यवस्थासु च ताश्च कृत्वा
प्राप्नोति यत्तत्कथयामि सर्वम् ॥ ७.५३॥
प्रोक्तक्रमेण विघ्नादिकमपि हुत्वा क्रमेण मन्त्रितमः ।
एकावृत्त्या जुहुयात्प्रपञ्चयागाह्वयं घृतेन ततः ॥ ७.५४॥
अश्वत्थोदुम्बरजाः प्लक्षन्यग्रोधसम्भवाः समिधः ।
तिलसर्षपदौग्धघृतान्यष्ट द्रव्याणि सम्प्रदिष्टानि ॥ ७.५५॥
एतैर्जुहोति नियुताधिकलक्षसङ्ख्यं
मन्त्री ततोऽर्धमथवापि तदर्धकं यः ।
स त्वैहिकीं सकलसिद्धिमवाप्य वाञ्छा-
योग्यां पुनः परतरां च परत्र याति ॥ ७.५६॥
एकद्विकत्रिकचतुष्कशताभिवृत्त्या
तांस्तान्समीक्ष्य विकृतिं प्रजुहोतु मन्त्री ।
क्षुद्रग्रहारिविषमज्वरभूतयक्ष-
रक्षःपिशाचजनिते महति प्रकोपे ॥ ७.५७॥
द्वादशसहस्रमथवा तद्विगुणं वा चतुर्गुणं वाथ ।
जुहुयात्क्षुद्रग्रहरिपुविषमज्वरभूतसम्भवे कोपे ॥ ७.५८॥
अयथाप्रतिपत्तिमन्त्रकाणां प्रजपात्स्यादिह विस्मृतिर्नराणाम् ।
शमयेदचिरात्सहस्रवृत्त्या मतिमान्वस्तुभिरेभिरेव जुह्वन् ॥ ७.५९॥
एतैः सहस्रद्वितयाभिवृत्त्या
जुहोति यस्तु क्रमशो यथाभवत् ।
जयेत्क्षणेनैव स विस्मृतीश्च
सापस्मृतीः शापभवांश्च दोषान् ॥ ७.६०॥
मधुरत्रयावसिक्तैरेतैर्लक्षं जुहोति यो मन्त्री ।
तस्य सुराधिपविभवो महदृद्ध्या तृणलवायते नचिरात् ॥ ७.६१॥
लक्षं तदर्धकं वा मधुरत्रयसंयुतैर्हुनेदेतैः ।
अब्दत्रयादथार्वाक्त्रिभुवनमखिलं वशे कुरुते ॥ ७.६२॥
वश्यादीन्यपि कर्माण्यभिकाङ्क्षन्नेभिरेव सद्द्रव्यैः ।
जुहुयात्कार्ये गुरुतालाघवमभिवीक्ष्य योग्यपरिमाणम् ॥ ७.६३॥
लक्षं तिलानां जुहुयाद्यवानां
शान्त्यै श्रियेऽथो नलिनैश्च तावत् ।
दौग्ध्येन पुष्ट्यै यशसे घृतेन
वश्याय जातीकुसुमैश्च लोणैः ॥ ७.६४॥
शालीतण्डुलचूर्णकैस्त्रिमधुरासिक्तैः स्वसाध्याकृतिं
कृत्वाष्टोध्र्वशताख्यमस्य शितधीः प्राणान्प्रतिष्ठाप्य च ।
न्यासोक्तक्रमतो निशासु जुहुयात्तां सप्तरात्रं नरो
नारीं वा वशमेति मुङ्क्षु विधिना तेनैव लोणेन वा ॥ ७.६५॥
पञ्चाशदौषधिविपाचितपञ्चगव्य-
जाते घृतेन शतवृत्ति हुनेद्घटाग्नौ ।
तावत्प्रजप्य विधिनाभिसमच्र्य सिद्धं
भस्माददीत सकलाभ्युदयावहं तत् ॥ ७.६६॥
अनुदिनमनुलिम्म्पेत्तेन किञ्चित्समद्या-
त्तिलकमपि विदध्यादुत्तमाङ्गे क्षिपेच्च ।
अनुततदुरितापस्मारभूतापमृत्यु-
ग्रहिविषरहितः स्यात्प्रीयते च प्रजाभिः ॥ ७.६७॥
एकादशार्धकणिकां वरकाञ्चनस्य
दद्यात्तदैव गुरवेऽथ सहस्रहोमे ।
अर्धोध्र्वपञ्चकणिका द्विकणा च सार्धा
स्याद्दक्षिणेह कथिता मुनिभिस्त्रिधैव ॥ ७.६८॥
निजेप्सितं दिव्यजनैः सुरद्रुमा-
त्समस्तमेव प्रतिलभ्यते यथा ।
प्रपञ्चयागादपि साधकैस्तथा
करप्रचेयाः सकलार्थसम्पदः ॥ ७.६९॥
अथ हितविधये विदुषां वक्ष्ये प्राणाग्निहोत्रविहितविधिम् ।
बद्ध्वा पद्मासनमृजुकायो मन्त्री विशेत्पुरोवदनः ॥ ७.७०॥
शक्तेः सत्त्वनिबद्धमध्यमथ तन्मायारजोवेष्टितं
प्राग्रक्षोऽनिलदिग्गताश्रजठरं मध्ये च नाभेरधः ।
मध्यप्राग्वरुणेन्द्रयाम्यलसितैः कुण्डैज्र्वलद्वह्निभिः
मूलाधारमनारतं समतलं योगी स्मरेत्सिद्धये ॥ ७.७१॥
मध्येन्द्रवरुणशशियमदिग्गतानि क्रमेण कुण्डानि ।
आवसथजसभ्याहवनीयान्वाहार्यगार्हपत्यानि ॥ ७.७२॥
चिद्रूपात्सकलप्रभाप्रभवकान्मूलप्रकृत्यात्मनः
कल्पार्कात्प्रतिलोमतोऽमृतमयीं ज्योतीरुचाच्छां धिया ।
स्पृष्टामक्षरमालिकां तु जुहुयात्कुण्डेषु तेषु क्रमा-
त्कल्पान्ताग्निशिखास्फुरत्कुहरकेष्वास्रावितां वर्णशः ॥ ७.७३॥
क्षाद्यास्ते सप्तवर्गा मरकतपशुमेदाह्वनीलाभवर्णा
भूयः स्युर्विद्रुमाभाः कुलिशसमरुचः पुष्यवैडूर्यभासः ।
सर्वे ते पञ्चशोभी स्रवदमृतमया व्यापकाः स्पर्शसंज्ञा
मुक्तामाणिक्यरूपाः सुमतिभिरुदिताश्चाष्टशः स्युः स्वराख्यः।७४।
एतानि केतोरमृताकरारेर्मन्दस्य रक्तस्य च भार्गवस्य ।
गुरुज्ञसोमांशुमतां क्रमेण नवानि रत्नानि विदुर्नवानाम् ॥ ७.७५॥
इत्येवं हुतविधिमन्वहं दिनादौ
ये सम्यग्विदधति मन्त्रिणः शतार्घम् ।
ते रत्नैरपि कनकांशुकैः सधान्यैः
सम्पन्नाः सकलजगत्प्रिया भवन्ति ॥ ७.७६॥
अन्त्यशवर्गान्त्यासे वामश्रवणान्यथावसथजाते ।
असितपवर्गचतुर्थां सूक्ष्माः सभ्याह्वये च सश्रोत्राः ॥ ७.७७॥
हलयुतवर्गतृतीयौ पराः सशान्तीश्च पश्चिमे वह्नौ ।
भृगुरेफफादिपञ्चकसद्यातिथिलोचनानि सव्येऽग्नौ ॥ ७.७८॥
मज्जात्वग्वर्गादिकभौतिकभाराह्वयप्रतिष्ठांश्च ।
गार्हपत्ये जुहुयादित्युक्तं होमकर्मवर्णानाम् ॥ ७.७९॥
व्योम्ना मध्ये स्थितेऽग्नावखिलमविरतं शब्दमैन्द्रेऽनिलेन
स्पर्शं स्वेनैव रूपं पुनरपरभवे सौम्यजेऽद्भी रसं च ।
याम्ये गन्धं पृथिव्योभयरुचिरुचिरैरक्षरौघैर्हुनेद्यो
मन्त्री स्यात्सर्ववेद्यप्रतिमथनसमुद्भासितप्रत्यगात्मा ॥ ७.८०॥
सतारशक्त्याद्यजपान्तमेवं हुत्वा महात्माथ शतार्धसङ्ख्यम् ।
विन्यस्य तावच्च तथैव सूत्रमात्राकृतिः नित्यतनुश्च भूयात् ॥ ७.८१॥
कल्पादित्यमुखस्वमूलविलसत्कल्पानलान्तस्फुर-
च्चन्द्रार्कग्रहकालभूतभुवनब्रह्मेशविष्ण्वादिकः ।
अव्यक्तोऽक्षरसंज्ञकोऽमृतमयस्तेजोद्वयोद्यत्प्रभो
नित्यानन्दमयस्त्वनादिनिधनो यः स्यात्स हंसात्मकः ॥ ७.८२॥
अनुदिनममुना भजतां विधिनाहारक्रियासु मन्त्रविदां ।
प्राणाद्याः स्युर्मरुतो गार्हपत्यादिकानि कुण्डानि ॥ ७.८३॥
सप्तम्यन्तां च कुण्डाख्यामाख्यां च मरुतामपि ।
हिरण्या गगना रक्ता कृष्णाभिर्वर्णमीरयेत् ॥ ७.८४॥
ससुप्रभाभिः सहिताः शुचयः पावका इति ।
अग्निं विहृत्य चेत्येवमात्मानमुपचर्य च ॥ ७.८५॥
ऊध्र्वाधस्तिर्यगुध्र्वाधस्तिर्यक्सममथो वदेत् ।
गच्छतूक्त्वा ठयुग्मं च पञ्चाग्नीन्संस्मरेत्ततः ॥ ७.८६॥
हुताहुतिसमुद्दीप्तशिखासंयुक्तरोचिषः ।
गार्हपत्यादिकं भूय उपचर्यान्तमेव च ॥ ७.८७॥
मन्त्रं सर्वमनुक्रम्य जिह्वाः संस्मृत्य सर्वशः ।
बहुरूपां तु सङ्कल्प्य पञ्चानलशिखायुताम् ॥ ७.८८॥
अहं वैश्वानरो भूत्वा जुहोम्यन्नं चतुर्विधम् ।
पचाम्येवं विधानेनेत्यापूर्णं संयतेन्द्रियः ॥ ७.८९॥
तूष्णीं हुत्वा पिधायाद्भिरुपस्पृश्य विधानतः ।
आरभ्य मूलाधारं स्वमामस्तकमनुस्मरेत् ॥ ७.९०॥
क्षेत्रज्ञसंज्ञकममुं प्रकृतिस्थमाद्यं
व्याप्तद्विसप्तभुवनान्तमनन्तमेकम् ।
पञ्चाननाग्निरसनापरिदत्तशुद्ध-
सान्नाय्यर्तिपतमतर्कितमात्मरूपम् ॥ ७.९१॥
सञ्चिन्त्य क्षरितामृताक्षरशतार्धाम्भोऽवसिक्तं हवि-
स्तैर्जप्त्वा कुटिलान्तराधिरधिकं सन्दीप्तपञ्चानलः ।
सायम्प्रातरनेन होमविधिना भोज्यानि नित्यं भज-
न्प्राणी न प्रमदोदरं प्रविशति प्राणाग्निहोत्री पुनः ॥ ७.९२॥
इति तव सषडङ्गवेदशास्त्राद्युपहितसर्वविकारसङ्घमाहुः ।
तनुरियमुदिता विरिञ्चविश्वस्थितिलयसृष्टिकरीह वर्णमाला ॥ ७.९३॥
इति जगदनुषक्तां तामिमां वर्णमालां
न्यसत जपत भक्त्या जुह्वताभ्यर्चयीत ।
निरुपमकवितायुःकीर्तिकान्तीन्दिराप्त्यै
सकलदुरितरोगोच्छित्तये मुक्तये च ॥ ७.९४॥
इतीरिता सकलजगत्प्रभाविनी
क्रमोत्क्रमक्रमगुणितार्णमालिका ।
अभीष्टसाधनविधये च मन्त्रिणां
भवेन्मनुप्रतिपुटिताक्षमालिका ॥ ७.९५॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे सप्तमः पटलः ॥
॥ अष्टमः पटलः ॥
अथ प्रवक्ष्यामि सुदुर्लभास्यै विद्यां विशिष्टां त्रिपुराभिधानाम् ।
धात्रीप्रभेदापि जगत्यवाप्तत्रिंशत्प्रकारा त्रिदशाभिवन्द्या ॥ ८.१॥
त्रिमूर्तिसर्गाच्च पुराभवत्वात्त्रयीमयत्वाच्च पुरैव देव्याः ।
लये त्रिलोक्या अपि पूरणत्वात्प्रायोऽम्बिकायास्त्रिपुरेति नाम ॥ ८.२॥
व्योमेन्दुवह्न्यधरबिन्दुभिरेकमन्य-
द्रक्ताच्छकेन्द्रशिखिभिः सरमार्धचन्द्रैः ।
अन्यद्यु शीतकरपावकमन्वमन्तै-
र्बीजैरमीभिरुदिता त्रिपुरेति विद्या ॥ ८.३॥
वागैश्वर्यातिशयदतया वाग्भवं बीजमुक्तं
त्रैलोक्यक्षोभणवशताकृष्टिदं कामराजम् ।
शाक्तं क्ष्वेलापहरणकविताकारकं मन्त्रमेत-
त्प्रोक्तं धर्मद्रविणसुखमोक्षप्रदं साधकानाम् ॥ ८.४॥
नाभेरथाचरणमाहृदयाच्च नाभिं
मूध्र्नस्तथा हृदयमित्यमुना क्रमेण ।
बीजैस्त्रिभिन्र्यसतु हस्ततले च सव्ये
दक्षाह्वये द्वितीयमप्युभये तृतीयम् ॥ ८.५॥
मूर्धनि गुह्यहृदोरपि नेत्रत्रितये च कर्णयोरास्ये ।
अंसद्वये च पृष्ठे कूर्परयोर्नाभिमण्डले न्यस्येत् ॥ ८.६॥
वाग्भवेन पुनरङ्गुलीष्वथो विन्यसेच्च पुनरुक्तमार्गतः ।
अङ्गषट्कममुना विधाय तद्देवतां विशदधीर्विचिन्तयेत् ॥ ८.७॥
आताम्रार्कायुताभां कलितशशिकलारञ्जितप्तां त्रिणेत्रां
देवीं पूर्णेन्दुवक्त्रां विधृतजपपटीपुस्तकाभीत्यभीष्टाम् ।
पीनोत्तुङ्गस्तनार्तां वलिलसितविलग्नामसृक्पज्र्राज-
न्मुण्डस्रङ्मण्डिताङ्गीमरुणतरदुकूलानुलेपां नमामि ॥ ८.८॥
दीक्षां प्राप्य विशिष्टलक्षणयुजः सत्सम्प्रदायाद्गुरो-
र्लब्ध्वा मन्त्रममुं जपेत्सुनियतस्तत्त्वार्धलक्षावधि ।
स्वाद्वक्तैश्च नवैः पलाशकुसुमैः सम्यक् समिद्धेऽनले
मन्त्री भानुसहस्रकं प्रति हुनेदश्वारिसूनैरपि ॥ ८.९॥
प्राणायामैः पवित्रीकृततनुरथ मन्त्री निजाधारराज-
द्योनिस्थां दिव्यरूपां प्रमुदितमनसाभ्यर्चयित्वोपचारैः ।
आबद्ध्वा योनिमुद्रामपि निजगुदलिङ्गान्तरस्थां प्रदीप्तां
भूयो द्रव्यैः सुशुद्धैररुणरुचिभिरित्यारभेद्बाह्यपूजाम् ॥ ८.१०॥
वामादिशक्तिसहितं परिपूज्य पीठं
तत्र प्रकल्प्य विधिवन्नवयोनिचक्रम् ।
योनौ निधाय कलशं त्वथ मध्यगाथा-
मावाह्य तां भगवतीं प्रयजेत्क्रमेण ॥ ८.११॥
वह्नेः पुरद्वितयवासवयोनिमध्य-
सम्बद्धवह्निवरुणेशसमाश्रिताश्री ।
देव्यर्चनाय विहितं मुनिभिः पुरैव
लोके सुदर्लभमिदं नवयोनिचक्रम् ॥ ८.१२॥
वामा ज्येष्ठा रौद्रिका साम्बिकेच्छा-
ज्ञानाभिख्या सक्रिया कुब्जिकाह्वा ।
बह्वी चान्या स्याद्विषघ्नी च दूत-
र्याह्वा सर्वानन्दका शक्तयः स्युः ॥ ८.१३॥
प्राङ्मध्ययोन्योः पुनरन्तराले सम्पूजयेत्प्राग्गुरुपादपङ्क्तिम् ।
पराभिधानामपराह्वयां च परापराख्यामपि वाग्भवादिम् ॥ ८.१४॥
तेनैव चाङ्गानि विदिग्दिशासु मन्त्री यथोक्तक्रमतः प्रपूज्य ।
तन्मध्ययोनेरभितः शरांश्च सम्पूज्येत्पञ्चममग्रभागे ॥ ८.१५॥
सुभगा भगा भगान्ते र्सिपणी भगमालिनी अनङ्गाह्वा ।
तत्पूर्वकुसुमसंज्ञा तदादिके चाथ मेखलामदने ॥ ८.१६॥
सम्पूज्य योनिषु च मातृगणं सचण्डि-
कान्तर्दलेष्वभियजेदसिताङ्गकाद्यैः ।
तैर्भैरवैः सह सुगन्धसुपुष्पधूप-
दीपादिकैर्भगवतीं प्रवरैः निवैद्यैः ॥ ८.१७॥
असिताङ्गाख्यो रुरुरपि चण्डः क्रोधाह्वयस्तथोन्मत्तः ।
सकपालिभीषणाख्यः संहारश्चाष्टभैरवाः कथिताः ॥ ८.१८॥
इति क्रमाप्त्या विहिताभिषेकः सम्प्रीणयित्वा द्रविणैर्गुरुं च ।
जप्त्वार्चयित्वोक्ततयाथ हुत्वा युञ्जीत योगांश्च गुरूपदिष्टान् ॥ ८.१९॥
अच्छाभः स्वच्छवेषो धरणिमयगृहे वाग्भवं लक्षमेकं
यो जप्यात्तद्दशांशं विहितहुतविधिर्मन्त्रजप्ताञ्जनादिः ।
काव्यैर्नानार्थवृत्तैस्त्रिभुवनमखिलं पूरयेन्मन्त्रजापी
मारात्र्या विह्वलाभिः पुनरयमनिशं सेव्यते सुन्दरीभिः ॥ ८.२०॥
रक्ताकल्पोऽरुणतरदुकूलार्तवालेपनाढ्यो
मौनी भूसद्मनि सुखनिविष्टो जपेल्लक्षमेकम् ।
बीजं मन्त्री रतिपतिमयं प्रोक्तहोमावसाने
योऽसौ लोके स सुरमनुजैः पूज्यते सेव्यते च ॥ ८.२१॥
ससुरासुरसिद्धयक्षविद्याधरगन्धर्वभुजङ्गचारणानाम् ।
प्रमदामदवेगतो विकीर्णाभरणाः स्रस्तुदुकूलकेशजालाः ॥ ८.२२॥
अतिदुःसहमन्मथव्यथाभिः प्रथितान्तःपरितापवेपिताङ्ग्यः ।
घनधर्मजतोयबिन्दुमुक्ताफलसक्तोरुकुचान्तबाहुमूलाः ॥ ८.२३॥
रोमाञ्चकञ्चुकितगात्रलताघनोद्य-
दुत्तुङ्गपीनकुचकुम्भनिपीडिताङ्ग्यः ।
औत्सुक्यभारपृथुवेपथुखेदसन्न-
पादारविन्दचलनस्खलनाभियाताः ॥ ८.२४॥
मारसायकनिपातदारिता रागसागरनिमग्नमूर्तयः ।
श्वासमारुततरङ्गिताधरा बाष्पपूरभरविह्वलेक्षणाः ॥ ८.२५॥
मस्तकारचितदोर्द्वयाञ्जलिप्राभृता हरिणशाबलोचनाः ।
वाञ्छितार्थकरणोद्यताश्च तद्दृष्टिपातमभि सन्नमन्ति ताः ॥ ८.२६॥
धरापवरके तथा जपतु लक्षमन्यं मनुं
सुशुक्लकुसुमांशुकाभरणलेपनाढ्यो वशी ।
अमुष्य वदनादनारततयोच्चरेद्भारती
विचित्रपदपद्धतिर्भवति चास्य लोको वशे ॥ ८.२७॥
पलाशपुष्पैर्मधुरत्रयाक्तैर्होमं विदध्यादयुतावधिं यः ।
सरस्वतीमन्दिरमाशु भूयात्सौभाग्यलक्ष्म्योश्च स मन्त्रजापी ॥ ८.२८॥
राजीकरञ्जाह्वशमीवटोत्थैः समिद्वरैः बिल्वभवैः प्रसूनैः ।
त्रिस्वादुयुक्तैर्हवनक्रियाशु नरेन्द्रनारीनररञ्जनी स्यात् ॥ ८.२९॥
मालतीवकुलजैर्दलैर्दलैश्चन्दनाम्भसि घने निमज्जितैः ।
श्रीकरीकुसुमकैर्हुतक्रिया सैव चासु कविताकरी मता ॥ ८.३०॥
अनुलोमविलोममन्त्रमध्यस्थितसाध्याह्वयुतं प्रजप्य मन्त्री ।
पटुसंयुतया जुहोतु राज्या नरनारीनरपान्वशे विधातुम् ॥ ८.३१॥
मधुरत्रयेण सह विल्वजैः फलै-
र्हवनक्रियाशु जनतानुरञ्जनी ।
अपि सैव साधकसमृद्धिदायिनी
दिनशो विशिष्टकमलाकरी मता ॥ ८.३२॥
खण्डैः सुधालतोत्थैस्त्रिमधुरयुक्तैर्जुहोतु मन्त्रितमः ।
सकलोपद्रवशान्त्यै जरापमृत्युप्रणोदनाय वशी ॥ ८.३३॥
फुल्लैर्बिल्वप्रसूनैस्तदभिनवदलैरुक्तवाराहिपुष्पैः
प्रत्यग्रैर्बन्धुजीवैररुणसरसिजैरुत्पलैः कैरवाह्वैः ।
नन्द्यावर्तैः सकुन्दैर्नृपतरुकुसुमैः पाटलीनागपुष्पैः
स्वाद्वक्तैरिन्दिराप्त्यै जुहुत च दिनशः र्सिपषा पायसेन ॥ ८.३४॥
मूलाधारात्स्फुरन्तीं शिखिपुरपुटवीतां प्रभां विद्युदाभा-
मार्कात्तन्मध्यगेन्दोः स्रवदमृतमुचा धारया मन्त्रमय्या ।
सद्यः सम्पूर्यमाणां त्रिभुवनमखिलं तन्मयत्वेन मन्त्री
ध्यायन्मुच्येत वैरूप्यकदुरितजरारोगदारिद्र्यदोषैः ॥ ८.३५॥
वह्वेर्बिम्बद्वयपरिवृताधारसंस्थं समुद्य-
द्वालार्काभं स्वरगणसमावेष्टितं वाग्भवाख्यम् ।
वाण्या स्वीयाद्वदनकुहरात्सन्ततं निःसरन्त्या
ध्यायेन्मन्त्री प्रततकिरणप्रावृतं दुःखशान्त्यै ॥ ८.३६॥
हृत्पद्मस्थितभानुबिम्बविलसद्योन्यन्तरालोदितं
मध्याह्नार्कसमप्रभं परिवृतं वर्णैः कभाद्यन्तगैः ।
ध्यायेन्मन्थराजबीजमखिलब्रह्माण्डविक्षोभकं
राज्यैश्वर्यविनिन्दिनीमपि रमां दत्त्वा जगद्रञ्जयेत् ॥ ८.३७॥
मूध्र्नोऽथ द्वादशान्तोदितशशधरबिम्बस्थयोनौ स्फुरन्तं
संवीतं व्यापकार्णैर्धवलरुचि मकारस्थितं बीजमन्त्यम् ।
ध्यात्वा सारस्वताच्छामृतजललुलितं दिव्यकाव्यादिकर्ता
नित्यं क्ष्वेलापमृत्युग्रहदुरितविकारान्निहन्त्याशु मन्त्री ॥ ८.३८॥
योनेः परिभ्रमितकुण्डलिरूपिणीं तां
रक्तामृतद्रवमुचा निजतेजसैव ।
व्योमस्थलं सकलमप्यभिपूर्य तस्मि-
न्नावेश्य मङ्क्षु वशयेद्वनिता नरांश्च ॥ ८.३९॥
गुह्यस्थितं वा मदनस्य बीजं
जपारुणं रक्तसुधाः स्रवन्तम् ।
विचिन्त्य तस्मिन्विनिवेश्य साध्यां
वशीकरोत्येव विदग्धलोकम् ॥ ८.४०॥
अन्त्यं बीजमथेन्दुकुन्दधवलं सञ्चिन्त्य चित्ताम्बुजे
तद्भूतां धृतपुस्तकाक्षवलयां देवीं मुहुस्तन्मुखात् ।
उद्यन्तं निखिलाक्षरं निजमुखे नानारसस्रोतसा
निर्यान्तं च निरस्तसंहृतिभयो भूयात्स वाग्वल्लभः ॥ ८.४१॥
सङ्क्षेपतो निगदिता त्रिपुराभिधाना
विद्या सजापहवना सविधानपूजा ।
सोपासना च सकलाभ्युदयप्रसिद्ध्यै
वाणीरमाप्तिविधये जगतो हिताय ॥ ८.४२॥
विद्येशीं त्रिपुरामिति प्रतिजपन्यो वा भवेन्नित्यश-
स्तद्वक्रादथ नूतनार्थविशदा वाणी सदा निःसरेत् ।
सम्पत्त्या नृपनन्दिनी ततयशःपूरा भवेदिन्दिरा
तस्यासौ प्रतियाति सर्वमुनिभिः सम्प्रार्थनीयं पदम् ॥ ८.४३॥
मध्ये वद्यक्षरयोः सदवदवाग्वक्षरा निचन्द्रयुगे ।
प्रोक्ता दशाक्षरीयं कण्वविराजौ च वागृषिप्रभवाः ॥ ८.४४॥
कश्रोत्रनयननासावदनान्धुगुदेषु विन्यसेद्वर्णान् ।
स्वरपुटितैरथ हल्भिः कुर्यादङ्गानि षट् क्रमान्मन्त्री ॥ ८.४५॥
अमलकमलसंस्था लेखिनीपुस्तकोद्य-
त्करयुगलसरोजा कुन्दमन्दारगौरा ।
धृतशशधरखण्डोल्लासिकोटीरचूडा
भवतु भवभयानां भङ्गिनी भारती वः ॥ ८.४६॥
अक्षरलक्षजपान्ते जुहुयात्कमलैः सितैः पयोभ्यक्तैः ।
त्रिमधुरयुतैः सुशुद्धैरयुतं नियतात्मकस्तिलैरथ वा ॥ ८.४७॥
मातृकोक्तविधिनाक्षराम्बुजे शक्तिभिश्च विनियुज्य पूर्ववत् ।
पीठमन्त्रवचसा महेश्वरीं पूजयेत्प्रथममङ्गमन्त्रकैः ॥ ८.४८॥
योगा सत्या विमला ज्ञाना बुद्धिः स्मृतिस्तथा मेधा ।
प्रज्ञेत्याभिर्मातृभिरपि लोकेशैः प्रपूजयेत्क्रमशः ॥ ८.४९॥
इति सिद्धमनुर्मनोजदूरो नचिरादेव कविर्भवेन्मनस्वी ।
जपहोमरतः सदावगच्छेद्वनितां वागधिपेति गौरवेण ॥ ८.५०॥
न्यासान्वितो निशितधीः प्रजपेत्सहस्र-
मह्नो मुखेऽनुदिवसं प्रपिबेत्तदापः ।
तन्मन्त्रिताः पुनरयत्नत एव वाचः
सिद्धिर्भवेदभिमता परिवत्सरेण ॥ ८.५१॥
हृदयद्वयसे स्थितोऽथ तोये
रविबिम्बे प्रतिपद्य वागधीशाम् ।
जपतस्त्रिसहस्रसङ्ख्यमर्वा-
क्कविता मण्डलतो भवेत्प्रभूता ॥ ८.५२।
पलाशबिल्वप्रसवैस्तयोश्च समिद्वरैः स्वादुयुतैश्च होमः ।
कवित्वसौभाग्यकरः समृद्धलक्ष्मीप्रदो रञ्जनकृच्चिराय ॥ ८.५३॥
चतुरङ्गुलजैः समित्प्रसूनैर्जुहुयाद्यो मधुरत्रयावसिक्तैः ।
मनुजः समवाप्य धीविलासानचिरात्काव्यकृतां भवेत्पुरोगः ॥ ८.५४॥
सुविमलनखदन्तपाणिपादो
मुदितमनाः परदूषणेषु मौनी ।
हरिहरकमलोद्भवाङ्घ्रिभक्तो
भवति चिराय सरस्वतीनिवासः ॥ ८.५५॥
आद्यन्तप्रणवगशक्तिमध्यसंस्था
वाग्भूयो भवति सरस्वतीचडेन्ता ।
नत्यन्तो मनुरयमीशसङ्ख्यवर्णः
सम्प्रोक्तो भुवि भजमानपारिजातः ॥ ८.५६॥
सुषुम्नाग्रे भूरयुगमध्ये नवके तथैव रन्ध्राणाम् ।
विन्यस्य मन्त्रवर्णान्कुर्यादङ्गानि षट्क्रमाद्वाचा ॥ ८.५७॥
हंसारूढा हरहसितहारेन्दुकुन्दावदाता
वाणी मन्दस्मितयुतमुखी मौलिबद्धेन्दुलेखा ।
विद्या वीणामृतमयघटाक्षस्रगादीप्तहस्ता
शुभ्राब्जस्था भवदभिमतप्राप्तये भारती स्यात् ॥ ८.५८॥
दिनकरलक्षं प्रजपेन्मन्त्रमिमं संयतेन्द्रियो मन्त्री ।
द्वादशसहस्रकमथो सितसरसिजनागचम्पकैर्जुहुयात् ॥ ८.५९॥
पूजायां पाश्र्वयुगे ससंस्कृता प्राकृता च वाग्देव्याः ।
केवलवाङ्मयरूपा सम्पूज्याङ्गैश्च शक्तिभिस्तदनु ॥ ८.६०॥
प्रज्ञा मेधा श्रुतिरपि शक्तिः स्मृत्याह्वया च वागीशी ।
सुमतिः स्वस्तिरिहाभिर्मातृभिराशेश्वरैः क्रमात्प्रयजेत् ॥ ८.६१॥
इति निगदितो वागीश्वर्याः सहोमजपार्चना-
विधिरनुदिनं मन्त्री त्वेनां भजन्परिमुच्यते ।
सकलदुरितैर्मेधालक्ष्मीयशोभिरवाप्यते
परमपरमां भक्तिं प्राप्योभयत्र च मोदते ॥ ८.६२॥
इति मातृकाविभेदान्प्रभजन्मन्त्रत्रयं च मन्त्रितमः ।
प्रजपेदेनां स्तुतिमपि दिनशो वाग्देव्यनुग्रहाय बुधः ॥ ८.६३॥
(वागीश्वरस्तुतिः)
अमलकमलाधिवासिनि मनसो वैमल्यदायिनि मनोज्ञे ।
सुन्दरगात्रि सुशीले तव चरणाम्भोरुहं नमामि सदा ॥ ८.६४॥
अचलात्मजा च दुर्गा कमला त्रिपुरेति भेदिता जगति ।
या सा त्वमेव वाचामीश्वरि सर्वात्मना प्रसीद मम ॥ ८.६५॥
त्वच्चरणाम्भोरुहयोः प्रणामहीनः पुर्निद्वजातिरपि ।
भूयादनेडमूकस्त्वद्भक्तो भवति देवि सर्वज्ञः ॥ ८.६६॥
मूलाधारमुखोद्गतबिसतन्तुनिभप्रभाप्रभावतया ।
विधृतलिपिव्राताहितमुखकरचरणादिके प्रसीद मम ॥ ८.६७॥
वर्णतनोऽमृतवर्णे नियतमनिर्र्विणतेऽपि योगीन्द्रैः ।
निर्णीतिकरणदूरे वर्णयितुं देवि देहि सामथ्र्यम् ॥ ८.६८॥
ससुरासुरमौलिलसन्मणिप्रभादीपिताङ्घ्रियुगनलिने ।
सकलागमस्वरूपे सर्वेश्वरि सन्निधिं विधेहि मयि ॥ ८.६९॥
पुस्तकजपवटहस्ते वरदाभयचिह्नचारुबाहुलते ।
कर्पूरामलदेहे वागीश्वरि शोधयाशु मम चेतः ॥ ८.७०॥
क्षौमाम्बरपरिधाने मुक्तामणिभूषणे मुदावासे ।
स्मितचन्द्रिकाविकासितमुखेन्दुबिम्बेऽम्बिके प्रसीद मम ॥ ८.७१॥
विद्यारूपेऽविद्यानाशिनि विद्योतितेऽन्तरात्मविदाम् ।
गद्यैः सपद्यजातैराद्यैर्मुनिभिः स्तुते प्रसीद मम ॥ ८.७२॥
त्रिमुखि त्रयीस्वरूपे त्रिपुरे त्रिदशाभिवन्दिताङ्घ्रियुगे ।
त्रीक्षणविलसितवक्त्रे त्रिमूर्तिमूलात्मिके प्रसीद मम ॥ ८.७३॥
वेदात्मिके निरुक्तज्योतिव्र्याकरणकल्पशिक्षाभिः ।
सच्छन्दोभिः सन्ततकॢप्तषडङ्गेन्द्रिये प्रसीद मम ॥ ८.७४॥
त्वच्चरणसरसिजन्मस्थितिमहितधियां न लिप्यते दोषः ।
भगवति भक्तिमतस्त्वयि परमां परमेश्वरि प्रसीद मम ॥ ८.७५॥
बोधात्मिके बुधानां हृदयाम्बुजचारुरङ्गनटनपरे ।
भगवति भवभङ्गकरीं भक्तिं भद्रार्थदे प्रसीद मम ॥ ८.२६॥
वागीशीस्तवमिति यो जपार्चनाहवनवृत्तिषु प्रजपेत् ।
स तु विमलचित्तवृत्तिर्देहापदि नित्यशुद्धमेति पदम् ॥ ८.७७॥
(इति वागीश्वरस्तुतिः)
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे अष्टमः पटलः ॥
॥ नवमः पटलः ॥
अथाभिवक्ष्ये सकलप्रपञ्चमूलात्मिकायाः प्रकृतेर्यथावत् ।
मन्त्रं तु साङ्गं सहुताभिषेकजपार्चनाद्यं सकलार्थसिद्ध्यै ॥ ९.१॥
घनवत्र्मकृष्णगतिशान्तिबिन्दुभिः
कथितः परः प्रकृतिवाचको मनुः ।
दुरितापहोऽर्थसुखधर्ममोक्षदो
भजतामशेषजनरञ्जनक्षमः ॥ ९.२॥
शक्तिः स्यादृषिरस्य तु गायत्री चोदिता मनोश्छन्दः ।
बोधस्वरूपवाची संवित्प्रोक्ता च देवता गुरुभिः ॥ ९.३॥
नेत्रकरणर्तुदिनकरभुवनविकारस्वराग्निबिन्दुयुजा ।
व्योम्नाङ्गषट्ककॢप्तिर्जातिविभिन्नेन चापि सम्प्रोक्ता ॥ ९.४॥
अग्नीन्दुयोगविकृता लिपयो हि सृष्टा-
स्ताभिः प्रलोमपठिताभिरिदं शरीरम् ।
भूतात्मकं त्वगसृगादियुतं समस्तं
संव्यापयेन्निशितधीर्विधिना यथावत् ॥ ९.५॥
अन्त्यावूष्मस्वमून्वादिषु खलिपिषु तांस्तांश्चतुर्वर्गवर्णे-
ष्वेतानस्यम्यदस्तद्दति तदपि परेषु स्वरेषु क्रमेण ।
संहृत्य स्थानयुक्तं क्षपित सकलदेहो ललाटस्थितान्तः-
प्राप्तिव्याप्तद्विसप्तादिकभुवनतलो यातु मद्भावमेव ॥ ९.६॥
मूलाधारात्स्फुरिततटिदाभा प्रभा सूक्ष्मरूपो-
द्गच्छन्त्यामस्तकमणुतरा तेजसां मूलभूता ।
सौषुम्नाध्वाचरणनिपुणा सा सवित्रानुबद्धा
ध्याता सद्योऽमृतमथ रवेः स्रावयेत्सार्धसोमात् ॥ ९.७॥
शिरसि निपतिता या बिन्दुधारा सुधाया
भवति लिपिमयी सा ताभिरङ्गं मुखाद्यम् ।
विरचयतु समस्तं पातितान्तश्च तेज-
स्यनल इव घृतस्योद्दीपयेदात्मतेजः ॥ ९.८॥
संहृत्य चोत्पाद्य शरीरमेवं तेजोमर्यं व्याप्तसमस्तलोकम् ।
सङ्कल्प्य शक्त्यात्मकमात्मरूपं तच्चिह्नमात्मन्यपि सन्दधीत ॥ ९.९॥
उद्यद्भास्वत्समाभां विजितनवजपामिन्दुखण्डावनद्ध-
द्योतन्मौलिं त्रिणेत्रां विविधमणिलसत्कुण्डलां पद्मगां च ।
हारग्रैवेयकाञ्चीगुणमणिवलयाद्यैर्विचित्राम्बराढ्या-
मम्बां पाशाज्रुशेष्टाभयकरकमलामम्बिकां तां नमामि ॥ ९.१०॥
धातू द्वौ स्तो रक्षणव्यापकार्थौ पाद्योऽशाद्यस्तत्प्रभावात्तयोश्च ।
सर्वं संरक्ष्याथ सर्वात्मना यो व्याप्नोत्यंशं स्यादसौ पाशवाची ॥ ९.११॥
अं स्यादात्मा कुर्धरा कुस्तनुर्वा
भागार्थः स्याच्छोऽथ वा वृत्तिवाची ।
भूश्चेद्भूतान्यन्यथा चेच्छरीरा-
ण्याकृष्यात्मन्याहरेदज्रुशाख्यः ॥ ९.१२॥
स्मृते यथा संसृतिचक्रचङ्क्रमोद्भवाद्धनापायसमुत्थितादपि ।
वियोजयत्यात्मतनुं नरं भयात्तथाभयस्याभयसंज्ञिता विभोः ॥ ९.१३॥
मुख्यार्थवाची वरशब्द उक्तः स्याद्वाञ्छितार्थश्च वराभिधानम् ।
मुख्यं त्वभीष्टं स्मृतिमात्रकेण ददाति योऽसौ वरदोऽवगम्यः ॥ ९.१४॥
दीक्षाकॢप्त्यै पुरोक्ते रचयतु विधिवन्मण्डलं मण्डपे त-
द्व्यक्तं युक्तं च कान्त्या त्रिगुणितविलसत्र्किणकं वर्णकीर्णम् ।
आपीतं केसरेष्वारचितहरिहराणैश्च मध्ये समायै-
स्तैरग्रे माययाढ्यं कमलमथ बहिः प्रोक्तचिह्नैरुपेतम् ॥ ९.१५॥
शक्त्याविः साध्यमिन्द्रानिलनिऋतिगबीजाभिबद्धं पुरोऽग्रे-
स्तत्कोणोल्लासिमायं हरिहरविलसद्गण्डमेभिः समायैः ।
वर्णैश्चावेष्टितं तत्त्रिगुणितमिति विख्यातमेतत्सुयन्त्रं
स्यादायुष्यं च वश्यं धनकरममितश्रीपदं कीर्त्तिदं च ॥ ९.१६॥
हृल्लेखाख्यां गगनां रक्तां च करालिकां महोच्छुष्माम् ।
मूर्धनि वदने गुह्ये पदयोन्र्यस्येत्तदङ्गैश्च ॥ ९.१७॥
गायत्रीं न्यसतु गले स्तनेऽथ सव्ये
सावित्रीं पुनरपरे सरस्वतीं च ।
सव्येंसे सरसिजसम्भवं मुकुन्दं
हृद्देशे पुनरपरांसके शिवं च ॥ ९.१८॥
अलिकांसपाश्र्वकुक्षिषु पाश्र्वांसापरगलहृत्सु च क्रमशः ।
ब्रह्माण्याद्या विधिवन्न्स्तव्या मातरोऽष्ट मन्त्रितमैः ॥ ९.१९॥
सजया विजया च तथाजिताह्वया चापराजिता नित्या ।
तदनु विलासिनिदोग्ध्र्यौ साघोरा मङ्गला नव प्रोक्ताः ॥ ९.२०॥
एवं सम्पूज्य पीठं तदनु नव घटान्पञ्चवा र्किणकायां
पत्राग्रेषु न्यसेत्काञ्चनरजतताम्रोद्भवान्मार्त्तिकान्वा ।
एकं वा र्किणकायां सुमतिरथ विनिक्षिप्य कुम्भं यथाव-
त्सम्पूर्यावाहयेत्त्रिष्वपि विधिषु पुनर्वक्ष्यमाणक्रमेण ॥ ९.२१॥
मधुनाथ महारवैश्च साकं
विधिना मध्यगतं प्रपूर्य कुम्भम् ।
अभिवाह्य कलाः प्रवेष्टयीत
प्रवराभ्यामथ तन्नवांशुकाभ्याम् ॥ ९.२२॥
ऐन्द्रं घृतेन यमदिक्प्रभवं च दध्ना
क्षीरेण वारुणमथो तिलजेन सौम्यम् ।
क्षीरद्रुचर्मदशमूलकपुष्पसिद्ध-
क्वाथेन कोणनिलयानपि पूरयेच्च ॥ ९.२३॥
मूत्रेणैन्द्रं गोमयेनापि याम्यं
क्षीरेणाप्यं सौम्यजं चैव दध्ना ।
मध्यप्रोक्तं र्सिपषा पञ्च कुम्भा-
न्संस्थाप्यापः पूरणीयाः क्रमेण ॥ ९.२४॥
गोमूत्रगोमयोदकपयोदधिधृतांशकाः क्रमात्प्रोक्ताः ।
एकार्धधातुसत्त्वाद्येके सर्वाणि वा समानि स्युः ॥ ९.२५॥
तारभवाभिरथग्र्भिः क्रमेण संयोजयेच्च गव्यानि ।
आत्माष्टाक्षरमन्त्रैरथ वा योज्यानि पञ्चभिः पञ्च ॥ ९.२६॥
यद्येककलशकॢप्तौ विधिरपि पञ्चाशदोषधिक्वाथैः ।
पूरयतु पञ्चभिर्वा गव्यैस्तोयात्मकेऽष्टगन्धाप्तिः ॥ ९.२७॥
अत्रोत्तरस्यां दिशि पज्र्जे च पलाशचर्मोत्क्वथितैः पयोभिः ।
सम्पूरणीयः कलशो यथावत्सुवर्णवस्त्रादियुतः सुशुद्धः ॥ ९.२८॥
द्वारेषु मण्डपस्य द्वौ द्वौ कलशौ सुशुद्धजलपूर्णौ ।
संस्थाप्य च वसनाद्यैः प्रवेष्टयित्वाभिपूजनीयाः स्युः ॥ ९.२९॥
ऊध्र्वेन्द्रयाम्यसौम्यप्रत्यक्षु च भूतवर्णकाः क्रमशः ।
हृल्लेखाद्यास्तदनु च पूर्ववदङ्गानि पूजनीयानि ॥ ९.३०॥
गायत्रीं शतमखजे निशाचरोत्थे
सावित्रीं पवनगते सरस्वतीं च ।
ब्रह्माणं हुतभुजि वारुणे च विष्णुं
बीजेऽग्रे समभियजेदथेशमैशे ॥ ९.३१॥
रक्ता रक्ताकल्पा चतुर्मुखी कुण्डिकाक्षमालेऽब्जे ।
दधती प्राग्बीजस्य गायत्री तादृशोऽग्निगो ब्रह्मा ॥ ९.३२॥
अरिदरगदाब्जहस्ता किरीटकेयूरहारसम्भिन्ना ।
निशिचरबीजसमुत्था सावित्री वरुणगस्तथा विष्णुः ॥ ९.३३॥
टज्रक्षाल्यभयवरान्धती च त्रीक्षणेन्दुकलितजटा ।
वाणी वायव्यस्था विशदाकल्पा तथेश्वरस्त्वैशे ॥ ९.३४॥
ब्रह्माण्याद्यास्तद्बहिरनन्तरं वासवादिकाशेशाः ।
पूज्याः पूर्वोक्तैरुपचारैः सम्यङ्निजेष्टाप्त्यै ॥ ९.३५॥
यदि नवकलशास्तेष्वथ सम्पूज्या मातरोऽष्टदिक्क्रमशः ।
हृल्लेखाद्याः पूज्या मध्यादिषु पञ्च चेद्भवन्ति घटाः ॥ ९.३६॥
प्रथमं घृतजं ततः कषायं
दधि पश्चात्क्वथितं पयः कषायम् ।
अथ तैलकषायकामधूत्थं
द्विजवृक्षोत्क्वथितं ततोऽभिषिञ्चेत् ॥ ९.३७॥
द्वारगकुम्भघृतैरथ सलिलैः पुनरन्तरासेकम् ।
कुर्यान्मुखकरचरणक्षालनमपि साचमादिकं मन्त्री ॥ ९.३८॥
विधिवत्कृताभिषेको द्वात्रिंशल्लक्षमथ जपेन्मन्त्रम् ।
निजकरदत्ताघ्र्यामृतजलपोषितभानुमत्प्रभोऽनुदिनम् ॥ ९.३९॥
भूत्वा शक्तिः स्वयमथ दिनेशेन्दुवैश्वानराणा-
मैक्यं कुर्वन्प्रणवमनुना शक्तिबीजेन भूयः ।
आकृष्यान्तर्बहिरपि समाधाय बुद्ध्यैव तेजो
जप्यान्मन्त्री ज्वलनहुतशिष्टान्नभुक्प्रोक्तसङ्ख्यम् ॥ ९.४०॥
अथ तु हविष्यप्राशी नक्ताशी वा जपेन्मनुं त्वेवम् ।
परिपूर्णायां नियमितजपसङ्ख्यायां समारभेद्धोमम् ॥ ९.४१॥
जपाद्दशांशं जुहुयादथाष्टद्रव्यैर्गुडक्षौद्रघृतावसिक्तैः ।
वर्णौषधीसिद्धजलाभिषेकं कृत्वा द्विजानभ्यवहारयेच्च ॥ ९.४२॥
ततोऽस्य प्रत्ययास्त्वेवं जायन्ते जपतोऽमुना ।
अधिष्ठितं निश्यदीपं निस्तमिस्रं गृहं भवेत् ॥ ९.४३॥
ततः कृत्वा जपह्रासं समुपासीत शक्तितः ।
युक्तात्मा नित्यत्योगेन प्रागुक्तविधिनार्चयेत् ॥ ९.४४॥
अश्वत्थविप्राङ्घ्रिपबिल्वनाम्नां तर्कारिकप्लक्षकसेव्यकानाम् ।
प्रसारिणीकाष्मरिरोहिणानामुदुम्बरीपाटलडुण्डुकानाम् ॥ ९.४५॥
पलं पलार्धं त्वथ कषमर्धं तेषां तु भागः कथितः क्रमेण ।
एतैः श्रितेनाथ जलेन वासौ सम्पूरणीयः कलशो यथावत् ॥ ९.४६॥
प्रत्यब्दसेकाद्भफ़िवता शतायुर्मेधेन्दिरावात्रहितश्च रोगैः ।
मासेषु जन्मस्वभिषेकतः स्यादुर्वीपतिर्मङ्क्षु महापृथिव्याः ॥ ९.४७॥
अर्काभस्तेजसासौ भवति नलिनजा सन्ततं किङ्करी स्या-
द्रोगा नश्यन्ति दृष्ट्वा तमथ च धनधान्याकुलं तत्समीपम् ।
देवानित्यं नमोऽस्मै विदधति फणिनो नैव दंशन्ति पुत्राः
सम्पन्नाः स्युः सपुत्रास्तनुविपदि परं धाम विष्णोः स भूयात्।४८।
शक्तिप्रग्रस्तसाध्यं हरशरकलमायावृतं वह्निगेह-
द्वन्द्वाश्रिप्राप्तमायं प्रतिविवरलसच्छक्तिबद्धं बहिश्च ।
कोणोद्यद्दण्डदण्डि त्रिलिपि हरिहराबद्धगण्डं विलोमा-
र्णावीतं कोर्युगाष्टोदरनरहरिचिन्तात्मकं षड्गुणाख्यम् ॥ ९.४९॥
षडङ्गुलप्रमाणेन वर्तुलं कर्तुरालिखेत् ।
षडङ्गुलावकाशेन तद्बहिश्च प्रवर्तयेत् ॥ ९.५०॥
वर्तुलं तावता भूयस्तद्बहिश्च तृतीयकम् ।
मध्यवर्तुलमध्ये तु हृल्लेखाबीजमालिखेत् ॥ ९.५१॥
द्वितीयवतुलाश्लिष्टमीषच्छिलष्टषडश्रकम् ।
पुटितं मण्डलं वह्नेरस्पृशन्मध्यवर्तुलम् ॥ ९.५२॥
इन्द्राग्निरक्षोवरुणवाय्वीशान्ताश्रकं लिखेत् ।
षट्सु कोणान्तरालेषु हृल्लेखाषट्कमालिखेत् ॥ ९.५३॥
एकैकान्तरितास्तास्तु सम्बध्युरितरेतरम् ।
शिखाभिरान्तराभिस्तु बाह्याबाह्याभिरान्तराः ॥ ९.५४॥
मध्यवर्तुलसंस्थाया हृल्लेखायाः कपोलयोः ।
अधरे साध्यनामार्णं साधकस्योत्तरे लिखेत् ॥ ९.५५॥
अन्तराग्निश्रियोः कर्म साधकांशे समालिखेत् ।
हरमायाः पञ्चकृत्वः स्युर्बहिर्गर्भवर्तुलम् ॥ ९.५६॥
तद्बहिः शरमायाश्च कलमायाश्च तद्बहिः ।
लिखेन्मायां बिन्दुमतीं वह्नेः कोणेषु षट्स्वपि ॥ ९.५७॥
वह्नेः कोणत्रये श्रीमत्पक्षीये त्रितयं लिखेत् ।
शक्तिश्रीकामबीजानां सदण्डं साधकार्णवत् ॥ ९.५८॥
वह्निस्तु वह्निपक्षीये तान्येवादण्डवन्ति च ।
संसाध्य नामवर्णानि स्पष्टनिष्टानभाञ्जि च ॥ ९.५९॥
बाह्यरेखामन्तरा स्युर्वर्णाः क्रमगताः शुभाः ।
तद्बहिः प्रतिलोमाश्च ताः स्युर्लेखकपाटवात् ॥ ९.६०॥
ततो विर्दिभतं भूमेर्मण्डलद्वयमालिखेत् ।
महादिक्स्थनृसिंहार्णं चिन्तारत्नाश्रिताश्रकम् ॥ ९.६१॥
बहिः षोडशशूलाज्र्ं शोभनं व्यक्तवर्णवत् ।
एतद्यन्त्रं समालिख्य पद्मारचयेत्ततः ॥ ९.६२॥
रुचिरद्वादशदलं षट्त्रिंशत्केसरोज्ज्वलम् ।
पूर्वोक्तलक्षणोपेतं शुभं दृष्टिमनोहरम् ॥ ९.६३॥
अभ्यच्र्य पीठं नवशक्तिकान्त-
मङ्गानि बीजेषु च षट्सु भूयः ।
गायत्रिसावित्रिसरस्वतीश्च
यजेदथ श्रीरतिपुष्टिसंज्ञाः ॥ ९.६४॥
ब्रह्माणमथ च विष्णुं महेश्वरं धनदमदनगणनाथान् ।
अभ्यर्चयेच्च षट्स्वपि वह्नेः कोणेषु तद्बहिः क्रमशः ॥ ९.६५॥
रक्तामनङ्गकुसुमां कुसुमातुरां च
नित्यामनङ्गमदनां मदनातुरां च ।
गौरीं तथैव गगनां गगनस्य रेखां
पद्मां भवप्रमथिनीं शशिशेखरां च ॥ ९.६६॥
एता द्विषट् प्रतिदलं प्रतिपूज्य शक्ती-
स्तद्बाह्यतो यजतु मातृगणं क्रमेण ।
इन्द्रादिकान्बहिरतश्च तदायुधानि
सम्पूज्य पूर्वविधिनामुमथाभिषिञ्चेत् ॥ ९.६७॥
योऽमुमर्चयति मुख्यविधानं सिद्धशक्तिरपि सञ्जपहोमैः ।
स श्रियो निलयनं त्रिदशानां वन्द्यतां व्रजति विष्णुसमानः ॥ ९.६८॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे नवमः पटलः ॥
॥ दशमः पटलः ॥
अथ वक्ष्ये सङ्ग्रहतो द्वादशगुणिताख्यमद्य यन्त्रवरम् ।
सम्पूज्य येन शक्तिं भुक्तेर्मुक्तेव्र्रजेन्नरोऽनुभवम् ॥ १०.१॥
व्याहृत्यावीतशक्तिज्वलनपुरयुगद्वन्द्वसन्ध्युत्थशक्त्या-
वीतं कोणात्तदुर्बीजकमनु च कपोलात्तगायत्रिमन्त्रम् ।
आग्नेयावीतमर्णैर्वृतमनुविगतैर्भूपुराभ्यां च रन्ध्रे
क्षौं चिन्तारत्नकं द्वादशगुणितमिदं यन्त्रमिष्टार्थदायि ॥ १०.२॥
पूर्वोक्तमानक्लृप्त्या मन्त्री त्रितयं विलिख्य वृत्तानाम् ।
विलिखेदन्तर्वर्तुलमनुशक्तिं स्पष्टबिन्दुनिष्ठानाम् ॥ १०.३॥
द्वादशमध्यमवर्तुलरेखा बहिरालिखेच्च शक्तीनाम् ।
हरियमवरुणधनाधिपदिक्षु द्वे द्वे च ताः क्रमेण स्युः ॥ १०.४॥
ईशाग्निऋतिमरुतां दिक्ष्वेकैकं विलिख्य भूयश्च ।
बीजान्तरालनिर्गतशूलाज्र्तिकोणषट्कयुगमग्नेः ॥ १०.५॥
मण्डलयुगयुगलं स्यादस्पृशदान्तरितवर्तुलं विशदम् ।
शक्तिं प्रवेष्टयेच्च प्रतिलोमव्याहृतीभिरन्तःस्थाम् ॥ १०.६॥
रविकोणेषु दुरन्तां मायां विलिखेदथाग्रबिन्दुमतीम् ।
एकैकान्तरितास्ताः परस्परं शक्तयश्च सम्बध्युः ॥ १०.७॥
गायत्रीं प्रतिलोमतः प्रविलिखेदग्नेः कपोलं बहि-
र्द्वे द्वे चैव लिपी बहिश्च रचयेद्भूयस्तथा त्रिष्टुभम् ।
वर्णान्प्रानुगतांश्च भूपुरयुगे सिंहाख्यचिन्तामणिं
लिख्याद्यन्त्रमशेषदुःखशमनायोक्तं पुरा देशिकैः ॥ १०.८॥
बहिरपि षोडशपत्रं वृत्तविचित्रं च राशिवीथियुतम् ।
रचयेन्मण्डलमेवं पुनर्यथोक्तं निधापयेत्कलशम् ॥ १०.९॥
आदावङ्गावरणमनु हृल्लेखिकाद्याश्चतस्रो
ब्रह्माण्याद्याः षोडशविकृतिद्वन्द्वसङ्ख्याक्रमेण ।
सार्धं भूयश्चतसृभिरथो षष्टिभिर्लोकपालै-
र्वङ्काआद्यैरष्टममपि समभ्यर्चयेद्भक्तिनम्रः ॥ १०.१०॥
कराली विकराली च उमा देवी सरस्वती ।
दुर्र्गा शची उषा लक्ष्मीः श्रुतिः स्मृतिधृती तथा ॥ १०.११॥
श्रद्धा मेधा मतिः कान्तिरार्या षोडश शक्तयः ।
विद्याह्रीपुष्टयः प्रज्ञा सिनीवाली कुहूस्तथा ॥ १०.१२॥
रुद्रवीर्या प्रभानन्दा पोषणी ऋद्धिदा शुभा ।
कालरात्री महारात्री भद्रकाली कपालिनी ॥ १०.१३॥
विकृतिर्दण्डिमुण्डिन्यौ सेन्दुखण्डा शिखण्डिनी ।
निशुम्भशुम्भमथनी महिषासुरर्मिदनी ॥ १०.१४॥
इन्द्राणी चैव रुद्राणी शङ्करार्धशरीरिणी ।
नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ॥ १०.१५॥
अम्बिका ह्लादिनी चैव द्वात्रिंशच्छक्तयो मताः ।
पिङ्गलाक्षी विशालाक्षी समृद्धिर्वृद्धिरेव च ॥ १०.१६॥
श्रद्धा स्वाहा स्वधाख्या च मायाभिख्या वसुन्धरा ।
त्रिलोकधात्री गायत्री सावित्री त्रिदशेश्वरी ॥ १०.१७॥
सुरूपा बहुरूपा च स्कन्दमाताच्युतप्रिया ।
विमला सामला चैव अरुणी वारुणी तथा ॥ १०.१८॥
प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च ।
सन्ध्या माता सती हंसा र्मिदका वङ्किआका परा ॥ १०.१९॥
देवतामा भगवती देवकी कमलासना ।
त्रिमुखीसप्तमुख्यौ च सुरासुरविर्मिदनी ॥ १०.२०॥
सलम्बोष्ठ्यूध्र्वकेश्यौ च बहुशिश्ना वृकोदरी ।
रथरेखाह्वया चैव शशिरेखा तथापरा ॥ १०.२१॥
पुनर्गगनवेगाख्या वेगा च पवनादिका ।
भूयो भुवनवेगाख्या तथैव मदनातुरा ॥ १०.२२॥
अनङ्गानङ्गमदना भूयश्चानङ्गमेखला ।
अनङ्गकुसुमा विश्वरूपासुरभयङ्करी ॥ १०.२३॥
अक्षोभ्यासत्यवादिन्यौ वङ्कारूपा शुचिव्रता ।
वरदा चैव वागीशी चतुःषष्टिः प्रकीर्तिताः ॥ १०.२४॥
इष्ट्वा यथोक्तमिति तं कलशं निजं वा
पुत्रं तथाप्तमपि शिष्यमथाभिषिञ्चेत् ।
आस्तिक्ययुक्तमथ सत्यरतं वदान्यं
विप्रप्रियं कुलकरं च नृपोत्तमं वा ॥ १०.२५॥
विधानमेतत्सकलार्थसिद्धिकरं परं पावनमिन्दिराढ्यम् ।
आयुष्करं वश्यकरं रिपूणां प्रध्वंसनं मुक्तिफलप्रदं च ॥ १०.२६॥
पाशाज्रुशमध्यगया शक्त्याथ जपार्चनाहुतादियुतम् ।
वक्ष्ये यन्त्रविधानं त्रैलोक्यप्राभृतायमानमिदम् ॥ १०.२७॥
अष्टाशात्तार्गलाविर्हगलयवरगाच्यपूर्वपाश्चात्त्यषट्कं
कोष्ठोद्यत्साङ्गसाष्टाक्षरयुगयुगलाष्टाक्षराख्यं बहिश्च ।
मायोपेतात्मयुग्मस्वरमिलितलसत्केसरं साष्टपत्रं
पद्यं तन्मध्यर्वितत्रितयपरिलसत्पाशशक्त्यज्रुशार्णम् ॥ १०.२८॥
पाशाज्रुशावृतमनुप्रतिलोमगैश्च
वर्णैः सरोजपुटितेन घटेन चापि ।
आवीतमिष्टफलभद्रघटं तदेत-
द्यन्त्रोत्तमं भुवि घटार्गलनामधेयम् ॥ १०.२९॥
प्राक्प्रत्यगर्गले हलमथ पुनराग्नेयमारुते च हयम् ।
दक्षोत्तरे हवार्णं नैत्र्र+तशैवे हरं द्विपङ्क्तिं लिखेत् ॥ १०.३०॥
विलिखेच्च र्किणकायां पाशाज्रुशसाध्यसंयुतां शक्तिम् ।
अभ्यन्तराष्टकोष्ठेष्वङ्गान्यवशेषितेषु चाष्टार्णौ ॥ १०.३१॥
कोष्ठेषु षोडशस्वथ षोडशवर्णं तथा मनुं मन्त्री ।
पद्मस्य केसरेष्वथ युगस्वरात्मान्वितां तथा मायाम् ॥ १०.३२॥
एकैकेषु दलेषु त्रिशस्त्रिशः र्किणकागतान्वर्णान्र् ।
पाशाज्रुशबीजाभ्यां प्रवेष्टयेद्बाह्यतश्च नलिनस्य ॥ १०.३३॥
अनुलोमविलोमगतैः प्रवेष्टयेदक्षरैश्च तद्बाह्ये ।
तदनु घटेन सरोजस्थितेन तद्वक्त्रकेऽम्बुजं च लिखेत् ॥ १०.३४॥
बिन्द्वन्तिका प्रतिष्ठा सन्दिष्टा पाशबीजमिति मुनिभिः ।
निजभूर्दहनाप्यायिनिशशधरखण्डान्वितोऽज्रुशो भवति ॥ १०.३५॥
पाशश्रीशक्तिस्वरमन्मथशक्तीन्दिराज्रुशाश्चेति ।
एकं कामिनिरञ्जिनि ठद्वयमपरं त्विहाष्टवर्णं स्यात् ॥ १०.३६॥
अथ गौरि रुद्रदयिते योगेश्वरि सकवचास्त्रठद्वितयैः ।
बीजादिकमिदमुक्तं शाक्तेयं षोडशाक्षरं मन्त्रम् ॥ १०.३७॥
इति कृतदलसुविभूषितमतिरुचिरं लोकनयनचित्तहरम् ।
कृतोज्ज्वलं मण्डलमपि पीठाद्यं पुरेव परिपूज्य ॥ १०.३८॥
पूर्वप्रोक्तैः क्वाथैरेकेनापूर्य पूरयेत्कलशम् ।
हृल्लेखाद्यङ्गाख्यौ मात्रसुरेशादिकौ च कुलिशादिम् ॥ १०.३९॥
एवं सम्पूज्य देवीं कलशमनुशुभैर्गन्धपुष्पादिकैस्ता-
न्दध्याज्यक्षौद्रसिक्तैस्त्रिशतमथ पृथग्दुग्धवीरुत्समिद्भिः ।
हुत्वा दत्वा सुवर्णांशुकपशुधरणीर्दक्षिणार्थं द्विजेभ्यः
सम्पूज्याचार्यवर्यं वसुभिरमलधीः संयतात्माभिषिञ्चेत् ॥ १०.४०॥
इति कृतकलशोऽयं सिच्यते येन पुंसा
स भवति कविरेनं नित्यमालिङ्गति श्रीः ।
धनदिनरजनीशैस्तुल्यतेजा महिम्ना
निरुपमचरितोऽसौ देहिनां स्यात्पुरोगः ॥ १०.४१॥
जपेच्चतुर्विंशतिलक्षमेवं सुयन्त्रितो मन्त्रवरं यथावत् ।
हविष्यभोजी परिपूर्णसङ्ख्ये जपे पुनर्होमविधिर्विधेयः ॥ १०.४२॥
पयोद्रुमाणां च समित्सहस्रषट्कैर्दधिक्षौद्रघृतावसिक्तैः ।
तिलैश्च तावज्जुहुयात्पयोक्तैर्द्विजोत्तमानभ्यवहारयेच्च ॥ १०.४३॥
गुरुमपि परिपूज्य काञ्चनाद्यै-
र्जपति च मन्त्रमथो सहस्रमात्रम् ।
भजति च दिनशोऽमुमर्चनायां
विधिविहितं विधिमादरेण भूयः ॥ १०.४४॥
सङ्क्षेपतो निगदितो विधिरर्चनायाः
शक्तेरमुं भजतु संसृतिमोचनाय ।
कान्त्यै श्रियै च यशसे जनरञ्जनाय
सिद्ध्यै प्रसिद्धमहसोऽस्य परस्य धाम्नः ॥ १०.४५॥
गजमृगमदकाश्मीरैर्मन्त्रितमः सुरभिरोचनोपेतैः ।
विलिखेदलक्तकरसालुलितैर्यन्त्राणि सकलकार्यार्थी ॥ १०.४६॥
राज्या पटुसंयुतया सपाशशक्त्यज्रुशेन मन्त्रेण ।
स्वाद्वक्तयाभिजुह्वन्निश्युर्वीशांस्तथोर्वशीं वशयेत् ॥ १०.४७॥
एभिर्विधानैर्भुवनेश्वरीं तां समर्चयित्वाथ जपंश्च मन्त्री ।
स्तुत्यानयाभिष्टुवतां समग्र प्रीत्यै समस्तार्तिविभञ्जिकायाः ॥ १०.४८॥
(भुवनेश्वरीस्तुतिः)
प्रसीद प्रपञ्चस्वरूपे प्रधाने
प्रकृत्यात्मिके प्राणिनां प्राणसंज्ञे ।
प्रणोतुं प्रभो प्रारभे प्राञ्जलिस्त्वां
प्रकृत्याप्रतक्र्ये प्रकामप्रवृत्ते ॥ १०.४९॥
स्तुतिर्वाक्यबद्धा पदात्मैव वाक्यं
पदं त्वक्षरात्माक्षरस्त्वं महेशि ।
ध्रुवं त्वां त्वमेवाक्षरैस्त्वन्मयैस्तो-
ष्यसि त्वन्मयी वाक्प्रवृत्तिर्यतः स्यात् ॥ १०.५०॥
अजाधोक्षजत्रीक्षणाश्चापि रूपं
परं नाभिजानन्ति मायामयं ते ।
स्तुवन्तीशि तां त्वाममी स्थूलरूपां
तदेतावदम्बेह युक्तं ममापि ॥ १०.५१॥
नमस्ते समस्तेशि बिन्दुस्वरूपे
नमस्ते रवत्वेन तत्त्वाभिधाने ।
नमस्ते महत्त्वं प्रपन्ने प्रधाने
नमस्ते त्वहङ्कारतत्त्वस्वरूपे ॥ १०.५२॥
नमः शब्दरूपे नमो व्योमरूपे
नमः स्पर्शरूपे नमो वायुरूपे ।
नमो रूपतेजोरसाम्भःस्वरूपे
नमस्तेऽस्तु गन्धात्मिके भूस्वरूपे ॥ १०.५३॥
नमः श्रोत्रचर्माक्षिजिह्वाख्यनासा-
सवाक्पाणिपत्यायुसोपस्थरूपे ।
मनोबुद्ध्यहङ्कारचित्तस्वरूपे
विरूपे नमस्ते विभो विश्वरूपे ॥ १०.५४॥
रवित्वेन भूत्वान्तरात्मा दधासि
प्रजाश्चन्द्रमस्त्वेन पुष्णासि भूयः ।
दहस्यग्निमूर्ति वहन्त्याहृतं वा
महादेवि तेजस्त्रयं त्वत्त एव ॥ १०.५५॥
चतुर्वक्त्रयुक्ता लसद्धंसवाहा
रजः संश्रिता ब्रह्मसंज्ञां दधाना ।
जगत्सृष्टिकार्यं जगन्मातृभूते
परं तत्पदं ध्यायसीशि त्वमेव ॥ १०.५६॥
विराजत्किरीटा लसच्चक्रशङ्खा
वहन्ती च नारायणाख्यां जगत्सु ।
गुणं सत्त्वमास्थाय विश्वस्थितिं यः
करोतीह सोंशोऽपि देवि त्वमेव ॥ १०.५७॥
जटाबद्धचन्द्राहिगङ्गा त्रिणेत्रा
जगत्संहरन्ती च कल्पावसाने ।
तमः संश्रिता रुद्रसंज्ञां दधाना
वहन्ती परश्वक्षमाले विभासि ॥ १०.५८॥
सचिन्ताक्षमाला सुधाकुम्भलेखा-
धरा त्रीक्षणार्धेन्दुराजत्कपर्दा ।
सुशुक्लांशुकाकल्पदेहा सरस्व-
त्यपि त्वन्मयैवेशि वाचामधीशा ॥ १०.५९॥
लसच्चक्रशङ्खा चलत्खड्गभीमा
नदिन्त्सहवाहा ज्वलत्तुङ्गमौलिः ।
द्रवद्दैत्यवर्गा स्तुवत्सिद्धसङ्घा
त्वमेवेशि दुर्गा विसर्गाविहीने ॥ १०.६०॥
पुरारातिदेहार्धभागो भवानी
गिरीन्द्रात्मजात्वेन यैषा विभासि ।
महायोगिवन्द्यां महेशासुनाथा
महेश्यम्बिका तत्त्वतस्त्वन्मयैव ॥ १०.६१॥
लसत्कौस्तुभोद्भासिते व्योमनीले
वसन्ती च वक्षःस्थले कैटभारेः ।
जगद्वल्लभां सर्वलोकैकनाथां
श्रियं तां महादेव्यहं त्वामवैमि ॥ १०.६२॥
अजाद्रीगुहाब्जाक्षपोत्रीन्द्रकाणां
महाभैरवस्यापि चिह्नं वहन्त्यः ।
विभो मातरः सप्ततद्रूपरूपाः
स्फुरन्त्यस्त्वदंशा महादेवि ताश्च ॥ १०.६३॥
समुद्यद्दिवाकृत्सहस्रप्रभासा
सदा सन्तताशेषविश्वावकाशे ।
लसन्मौलिबद्धेन्दुरेखे सपाशा-
ज्रुशाभीत्यभीष्टात्तहस्ते नमस्ते ॥ १०.६४॥
प्रभाकीर्त्तिकान्तीन्दिरारात्रिसन्ध्या-
क्रियाशातमिस्राक्षुधाबुद्धिमेधाः ।
स्तुतिर्वाङ् मतिः सन्नतिः श्रीश्च शक्ति-
स्त्वमेवेशि येऽन्ये च शक्तिप्रभेदाः।६५॥
हरे बिन्दुनादैः सशक्त्याख्यशान्तै-
र्नमस्तेऽस्तु भेदैः प्रभिन्नैरभिन्ने ।
सदा सप्तपाताललोकाचलाब्धि-
ग्रहद्वीपधातुस्वरादिस्वरूपे ॥ १०.६६॥
नमस्ते नमस्ते समस्तस्वरूपे
समस्तेषु वस्तुष्वनुस्यूतशक्ते ।
अतिस्थूलसूक्ष्मस्वरूपे महेशि
स्मृते बोधरूपेऽप्यबोधस्वरूपे ॥ १०.६७॥
मनोवृत्तिरस्तु स्मृतिस्ते समस्ता
तथा वाक्प्रवृत्तिः स्तुतिः स्यान्महेशि ।
शरीरप्रवृत्तिः प्रणामक्रिया स्या-
त्प्रसीद क्षमस्व प्रभो सन्ततं मे ॥ १०.६८॥
(इति भुवनेश्वरस्तुतिः)
हृल्लेखाजपविधिमर्चनाविशेषा-
नेतांस्तां स्तुतिमपि नित्यमादरेण ।
योऽभ्यस्येत्स खलु परां श्रियं च गत्वा
शुद्धं तद्व्रजति पदं परस्य धाम्नः ॥ १०.६९॥
इति हृल्लेखाविहितो विधिरुक्तः सङ्ग्रहेण सकलोऽयम् ।
अस्मिन्निष्णातमना मन्त्री योगी स एव भोगी च ॥ १०.७०॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे दशमः पटलः ॥
-ङङङङङङङङङङङ-
॥ एकादशः पटलः ॥
अथ श्रियो मन्त्रविधिः समासतो
जगद्धिताय प्रतिवक्ष्यतेऽधुना ।
सहाङ्गभेदैः सजपार्चनाहुत-
क्रमैः समभ्युद्धरणाय दुर्गतेः ॥ ११.१॥
वियत्तुरीयस्तु विलोमतोऽनल-
प्रदीपितो वामविलोचनाञ्चितः ।
सचन्द्रखण्डः कथितो रमामनु-
र्मनोरथावाप्तिमहासुरद्रुमः ॥ ११.२॥
ऋषिर्भृगुश्छन्दसि चोदिता निचृत्समीरिता श्रीरपि देवता पुनः ।
दृगक्षिकर्णेनमनुस्वरानलान्वितेन चास्थ्ना विहितं षडङ्गकम् ॥ ११.३॥
भूयाद्भूयो द्विपद्माभयवरदकरा तप्तकार्तस्वराभा
शुभ्राभ्राभेभयुग्मद्वयधृतकरकुम्भाद्भिरासिच्यमाना ।
रत्नौघाबद्धमौलिर्विमलतरदुकूलार्तवालेपनाढ्या
पद्माक्षी पद्मनाभोरसि कृतवसतिः पद्मगा श्रीः श्रिये वः ॥ ११.४॥
सन्दीक्षितोऽथ गुरुणा मनुवर्यमेनं
सम्यग्जपेन्निशितधीर्दिनननाथलक्षम् ।
अभ्यर्चयन्नहरहः श्रियमादरेण
मन्त्री सुशुद्धचरितो रहितो वधूभिः ॥ ११.५॥
जपावसाने दिनकृत्सहस्रसङ्ख्यैः सरोजैर्मधुरत्रयाक्तैः ।
हुनेत्तिलैर्वा विधिनाथ बैल्वैः समिद्वरर्मन्त्रिवरस्त्रिभिर्वा ॥ ११.६॥
रुचिराष्टपत्रमथ वारिरुहं गुणवृत्तराशिचतुरश्रयुतम् ।
प्रविधाय पीठमपि तत्र यजेन्नवशक्तिभिः सह रमां तु ततः ॥ ११.७॥
विभूतिरुन्नतिः कान्तिर्हृष्टिः कीर्त्तिश्च सन्नतिः ।
पुष्टिराकृष्टित्र्र+द्धिश्च रमाया नव शक्तयः ॥ ११.८॥
आवाह्यसम्यक्कलशे यथावत्समर्चनीया विधिना रमासौ ।
जप्त्वा यथाशक्ति पुनर्गुरुस्तु संसेचयेत्संयतमात्मशिष्यम् ॥ ११.९॥
अङ्गैः प्रथमावृतिरपि मूर्तीभचतुष्कनिधियुगैरपरा ।
शक्त्यष्टकेन चान्या चरमा ककुबीश्वरैः समभ्यच्र्या ॥ ११.१०॥
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ।
दमकः शललश्चैव गुग्गुलश्च कुरण्डकः ॥ ११.११॥
बलाकी विमला चैव कमला वनमालिका ।
विभीषिका द्राविका च शाङ्करी वसुमालिका ॥ ११.१२॥
अयनैव च पूर्वसेवया परितुष्टा कमला प्रसीदति ।
धनधान्यसमृद्धिसङ्कुलामचिरादेव च मन्त्रिणे श्रियम् ॥ ११.१३॥
अम्भस्युरोजद्वयसे हि तिष्ठंस्त्रिलक्षमेनं प्रजपेच्च मन्त्री ।
श्रियं विचिन्त्यार्कगतां यथावद्दरिद्रताया भवति प्रमुक्तः ॥ ११.१४॥
वसतावुपविश्य कैटभारेः कमलावृक्षतलेऽथ वा त्रिलक्षम् ।
जपतोऽपि भवेच्च काङ्क्षितार्थादधिकं वत्सरतो वसुप्रपञ्चः ॥ ११.१५॥
जुहुयादशोकदहने सघृतैरपि तण्डुलैः सकलवश्यतमम् ।
खदिरानले त्रिमधुरैरपि तैर्धनदं च राजकुलवश्यमपि ॥ ११.१६॥
रसमधुरनलिनानां लक्षहोमादलक्ष्मी-
परिगतमपि जन्तुं प्राप्नुयाच्छ्रीः समग्रा ।
घनविभवसमृद्ध्या नित्यमाह्लादयन्ती
त्यजति न करुणाद्र्रा तस्य सा सन्ततिं च ॥ ११.१७॥
बिल्वं श्रीसूक्तजापी निजभुवि मुखजो वर्धयित्वास्य पूर्वं
पत्रैस्त्रिस्वादुयुक्तैः कुसुमफलसमिद्भिस्ततस्कन्धभैदैः ।
तन्मूलैर्मण्डलात्प्राक्सुनियतचरितोऽसौ हुतान्निर्मलात्मा
रूपं पश्येद्रमायाः कथमपि न पुनस्तत्कुले स्यादलक्ष्मीः ॥ ११.१८॥
हृदयेकमलवर्णतः परस्ता-
दमृतनन्तयुगं ततश्च सिन्यै ।
हुतवहदयितेत्यसौ रमायाः
प्रवरधनार्थिभिरर्थितो हि मन्त्रः ॥ ११.१९॥
दक्षोऽस्य स्यादृषिश्छन्दसि सुमतिभिरुक्तो विराड्देवता च
श्रीदेवीपद्मिनीभ्यां हृदयकशिरसी विष्णुपत्न्या शिखा च ।
मेदोरेफाह्वदार्णैरपि च कमलरूपाक्षरैवर्मसास्रां
ताराद्याभिर्नमोन्ताभिरिति निगदितं जातियुक्ताभिरङ्गम् ॥ ११.२०॥
पद्मस्था पद्मनेत्रा कमलयुगवराभीतियुग्दोःसरोजा
देहोत्थाभिः प्रभाभिस्त्रिभुवनमखिलं भासुरा भासयन्ती ।
मुक्ताहाराभिरामोन्नतकुचकलशा रत्नमञ्जीरकाञ्ची-
ग्रैवेयोम्र्यङ्गदाढ्या धृतमणिमकुटा श्रेयसे श्रीर्भवेदः ॥ ११.२१॥
ध्यात्वैवं श्रियमपि पूर्वकॢप्तपीठे
पद्मादौ प्रथममथर्चयेत्तदङ्गैः ।
अष्टाभिर्दलमनुशक्तिभिस्तदन्ते
लोकेशैरिति विधिनार्चयेत्समृद्ध्यै ॥ ११.२२॥
दीक्षातो जपतु रमारमेशभक्तो
लक्षणां दशकममुं मनुं नियत्या ।
स श्रीमान्बहुधनधान्यसङ्कुलः स-
न्मेधावी भवति च वत्सरेण मन्त्री ॥ ११.२३॥
इति मन्त्रजपादृतधीर्मधुरत्रितयैरयुतं जुहुयात्कमलैः ।
परिशुद्धमना नचिरात्स पुनर्लभते निजवाञ्छितमर्थचयम् ॥ ११.२४॥
समुद्रगायामवतीर्य नद्यां स्वकण्ठमात्रे पयसि स्थितः सन् ।
त्रिलक्षजाप्याढ्यतमोऽब्दमात्रान्मन्त्री भवेन्नात्र विचारणीयम् ॥ ११.२५॥
नन्द्यावर्तैर्जुहुत भगभेऽभ्यच्र्य लक्ष्मीं सहस्रं
तावद्बैल्वैस्त्रिमधुरयुतैर्वा फलैः पौर्णमास्याम् ।
पञ्चम्यां वा सितसरसिजैः शुक्रवारेऽच्छपुष्पै-
रन्यैर्मासं प्रतिहुतविधिर्वत्सरैः स्याद्धनाढ्यः ॥ ११.२६॥
ताररमामायाश्रीः कमले कमलालये प्रसीदयुगम् ।
बीजानि तानि पुनरपि समहालक्ष्मीहृदिन्दिरामन्त्रः ॥ ११.२७॥
त्रिभिस्तु वर्णैर्हृदयं शिरोभिः
स्यात्पञ्चभिश्चाथ शिखा त्रिवर्णा ।
त्रिभिस्तथा वर्म चतुर्भिरस्त्रं
पृथक् त्रिबीजापुटितैस्तदङ्गम् ॥ ११.२८॥
हस्तोद्यद्वसुपात्रपज्र्जयुगादर्शा स्फुरन्नूपुर-
ग्रैवेयाङ्गदहारकज्र्णमहामौलिज्वलत्कुण्डला ।
पद्मस्था परिचारिकापरिवृता शुक्लाङ्गरागांशुका
देवी दिव्यगणानता भवदघप्रध्वंसिनी स्याद्रमा ॥ ११.२९॥
लक्षं जपेन्मनुमिमं मधुरत्रयाक्तै-
र्बैल्वैः फलैः प्रतिहुनेदयुतं तदन्ते ।
आराधयेदनुदिनं प्रतिवक्ष्यमाण-
मार्गेण दुर्गतिभयाद्रहितो भवेत्सः ॥ ११.३०॥
श्रीधरश्च हृषीकेशो वैकुण्ठो विश्वरूपकः ।
वासुदेवादयश्चाङ्गावरणात्समनन्तरम् ॥ ११.३१॥
भारतीपार्वतीचान्द्रीशचीभिरपि संयुता ।
दमकादिस्तृतीयानुरागाद्यैश्च चतुथ्र्यपि ॥ ११.३२॥
अनुरागो विसंवादो विजयो वल्लभो मदः ।
हर्षो बलश्च तेजश्चेत्यष्टौ बाणा महाश्रियः ॥ ११.३३॥
अनन्तब्रह्मपर्यन्तैः पञ्चमीन्द्रादिभिर्मता ।
चक्रपद्मान्तिकैः षष्ठीवङ्काआद्यैरावृतिः श्रियः ॥ ११.३४॥
सम्पूज्यैवं श्रियमनुदिनं यो जपेन्मन्त्रमेनं
प्रोक्तां सङ्ख्यां सहुतविधिमप्युच्छ्रितां प्राप्य लक्ष्मीम् ।
द्वित्रादर्वाग्भवति पशुपुत्रादिभोगैः समृद्धो
वर्षाद्देहापदि च पदमभ्येति नित्यं स विष्णोः ॥ ११.३५॥
श्रीमन्त्रेष्विति गदितेषु भक्तियुक्तः
श्रीसूक्तान्यपि च जपेद्यजेद्धुनेच्च ।
सूक्ते तु प्रथमतरे स्वयं मुनिः स्या-
दन्येषां मुनय इमे भवन्ति भूयः ॥ ११.३६॥
आनन्दः कर्दमश्चैव चिल्कीतश्चेन्दिरासुतः ।
ऋचामथो तदन्यासामृषयः समुदीरिताः ॥ ११.३७॥
आद्ये सूक्तत्रये च्छन्दोऽनुष्टुप्कांसे बृहत्यपि ।
तदन्त्ययोस्त्रिष्टुबाख्यां परस्तादष्टके पुनः ॥ ११.३८॥
अनुष्टुबन्त्ये प्रस्तारपङ्क्तिश्छन्दांसि वै क्रमात् ।
श्र्यग्नी स्यातां देवते च न्यासाङ्गविधिरुच्यते ॥ ११.३९॥
मूर्धाक्षिकर्णनासामुखगलदोर्हृदयनाभिगुह्येषु ।
पायूरुजानुजङ्घाचरणेषु न्यसतु सूक्तकैः क्रमशः ॥ ११.४०॥
सहिरण्मयी च चन्द्रारजतहिरण्यस्रजे हिरण्याख्या ।
अङ्गानि जातियुञ्ज्यथ हिरण्यवर्णाह्वया तथास्त्रं स्यात् ॥ ११.४१॥
अरुणकमलसंस्था तद्रजःपुञ्जवर्णा
करकमलधृतेष्टाभीतियुग्माम्बुजा च ।
मणिमकुटविचित्रालङ्कृताकल्पाजातै-
र्भवतु भुवनमाता सन्ततं श्रीः श्रिये वः ॥ ११.४२॥
प्रारभ्याच्छां प्रतिपदमथ प्राप्तदीक्षो वियुक्त-
स्तन्वङ्गीभिस्तनुविमलवासाः सुधौतद्विजाद्यः ।
एकादश्यामपि परिसमाप्यार्कसाहस्रिकान्तं
जापं मन्त्री प्रयजतु रमां प्राक्तनप्रोक्तपीठे ॥ ११.४३॥
पद्मा सपद्मवर्णा पद्मस्थाद्र्रा च तर्पयन्त्यभिधा ।
तृप्ता ज्वलन्त्यभिख्या स्वर्णप्राकारसंज्ञका चेति ॥ ११.४४॥
मध्ये दिशाधिपाङ्गावृत्योरेतास्ततश्च वङ्काआदीन् ।
प्रयजेच्चतुरावरणं निगदितमिति सूक्तकल्पितविधानम् ॥ ११.४५॥
अन्नघृताभ्यां जुहुयादर्चास्वष्टोत्तरं शतं मन्त्री ।
आवाहनासनाघ्र्यकपाद्याचमनमधुपर्कसेकानि ॥ ११.४६॥
वासोभूषणगन्धान्सुमनोयुतधूपदीपभोज्यानि ।
सोद्वासनानि कुर्याद्भक्तियुतः पञ्चदशभिरथ मनुभिः ॥ ११.४७॥
व्यस्तैरपि च समस्तैः पूजायां संयतात्मकः सिद्ध्यै ।
पक्वैर्बिल्वसमिद्भिः पयोन्धसा र्सिपषा क्रमाज्जुहुयात् ॥ ११.४८॥
एकैकं त्रित्रिशतं द्वादश्यां भोजयीत विप्रांश्च ।
मन्दारकुन्दकुमुदकनन्द्यावर्ताह्वमालतीजात्यः ॥ ११.४९॥
कह्लारपद्मरक्तोत्पलकेतकचम्पकादयो ग्राह्याः ।
परिषिञ्चेत्त्रिशो नित्यं सूक्तैस्तैः स्नानकर्मणि ॥ ११.५०॥
आदित्याभिमुखो जप्यात्तावत्तावच्च तर्पयेत् ।
अर्चयेद्विधिना तेन दिनशो जुहुयात्त्रिशः ॥ ११.५१॥
एवं करोति षण्मासं योऽसौ स्यादिन्दिरापतिः ।
उद्बुद्धमात्रे नलिने नवनीतं विनिक्षिपेत् ॥ ११.५२॥
सर्किणके सकिञ्जल्कोदरे पत्रान्तरालके ।
पुनः पद्मं तदुद्धृत्य समिद्धे तु हुताशने ॥ ११.५३॥
जुहुयादन्त्ययाथर्चा शतमष्टोत्तरं जपेत् ।
चत्वारिंशच्छुक्रवारैर्महाश्रीस्तस्य जायते ॥ ११.५४॥
कांसोऽस्मीत्यनया सम्यगेकादश घृताहुतीः ।
षण्मासं जुह्वतो नित्यं भूयात्प्रायो महेन्दिरा ॥ ११.५५॥
सूक्तैरेतैर्जुहुत जपताभ्यर्चयीतावगाहे-
त्सिञ्चेद्वक्त्रे दिनमनु तथा संयतस्तर्पयीत ।
संशुद्धात्मा विविधधनधान्याकुलाभ्यन्तरोऽसौ
मन्त्री सर्वैर्भुवि बहुमतः श्रीमतां स्यात्पुरोगः ॥ ११.५६॥
श्रीलक्ष्मीर्वरदा विष्णुपत्नी च सवसुप्रदा ।
हिरण्यरूपा सस्वर्णमालिनी रजतस्रजा ॥ ११.५७॥
ससुवर्णप्रभा स्वर्णप्राकारा पद्मवासिनी ।
पद्महस्ता पद्मपूर्वप्रिया मुक्तापदादिका ॥ ११.५८॥
अलङ्कारा तथा सूर्या चन्द्रा बिल्वप्रियेश्वरी ।
भुक्तिः प्रपूर्वा मुक्तिश्च विभूत्यृद्धिसमृद्धयः ॥ ११.५९॥
तुष्टिः पुष्टिश्च धनदा तथान्या तु धनेश्वरी ।
श्रद्धा सभोगीनी भोगदात्री धातृविधातृके ॥ ११.६०॥
द्वात्रिंशदेताः श्रीदेव्या ये मन्त्राः समुदीरिताः ।
तारादिका नमोन्ताश्च तैरर्चासु बलिं हरेत् ।
तर्पयेच्च महादेवीं दिनादौ मन्त्रवित्तमः ॥ ११.६१॥
नाभ्यक्तोऽद्यान्न नग्नः सलिलमवतरेन्न स्वपेद्वाशुचिः स-
न्नाभ्यज्यान्नैव चाद्यात्तिलरुहलवणे केवले नैव दोषम् ।
वक्त्रे लिम्पेद्वदेन्नानृतमपि मलिनः स्यान्न बिम्बाम्बुजन्म-
द्रोणान्नो धारयेत्के भुवमपि न वृथैवालिखेदिन्दिरार्थी ॥ ११.६२॥
सुविमलचरितः स्याच्छुद्धमाल्यानुलेपा-
भरणवसनदेहो मुख्यगन्धोत्तमाङ्गः ।
सुविशदनखदन्तः शुद्धधीर्विष्णुभक्तो
विमलरुचिरशय्यः स्याच्चिरायेन्दिरार्थी ॥ ११.६३॥
दुष्टां कष्टान्ववायां कलहकलुषितां मार्गदृष्टामनिष्टा-
मन्यासक्तामसक्तामतिविपुलकृशाङ्गीमतिह्रस्वदीर्घाम् ।
रोगार्तां भोगलोलां प्रतिपुरुषचलां राजकान्तामकान्तां
काकाक्षीमेकचारां ग्रहकुसुमयुतां च स्पृशेदिन्दिरार्थी ॥ ११.६४॥
शान्तः शश्वत्स्मितमधुरपूर्वाभिभाषी दयाद्र्रो
देवाचार्यातिथिदहनपूजारतः पुण्यशीलः ।
नित्यस्नायी नियमनिरतः प्रत्यगाशामुखाशी
मन्त्री वर्णाश्रमदृढरतिः स्याच्चिरायेन्दिरार्थी ॥ ११.६५॥
श्रीमन्त्रभक्तः श्रितविष्णुदीक्षः
श्रीसूक्तजापी शितधीः सुशीलः ।
स्वदारतुष्टो मितभाषणाशी
लोकप्रियः स्याच्चिरमिन्दिरार्थी ॥ ११.६६॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे एकादशः पटलः ॥
॥ द्वादशः पटलः ॥
अथ रमाभुवनेशिमनोभवैस्त्रिपुटसंज्ञकमन्त्रमुदीरितम् ।
सकलवर्गफलाप्तियशस्करं जगति रञ्जनकृत्कविताकरम् ॥ १२.१॥
बीजैस्त्रिभिर्द्विरुक्तैः कुर्यादङ्गानि साधकः सिद्ध्यै ।
पूर्वतरेरितयोर्वा द्वयोरथैकं तदङ्गयोः प्रभजेत् ॥ १२.२॥
नवकनकभासुरोर्वीविरचितमणिकुट्टिमे सकल्पतरौ ।
रत्नवरबद्धसिंहासननिहितसरोरुहे समासीनाम् ॥ १२.३॥
आबद्धरत्नमकुटां मणिकुण्डलोद्य
त्केयूरकोर्भिरशनाह्वयनूपुराढ्याम् ।
ध्यायेद्धृताब्जयुगपाशकशाज्रुरेक्षु-
चापां सपुष्पविशिखां नवहेमवर्णाम् ॥ १२.४॥
चामरमुकुरसमुद्गकताम्बूलकरज्र्वाहिनीभिश्च ।
दूतीभिः समभिवृतां पश्यन्तीं साधकं प्रसन्नदृशा ॥ १२.५॥
योगेश्वरीमिति विचिन्त्य जपेच्च मन्त्र-
मादित्यलक्षमथ मन्त्रितमो जपान्ते ।
श्रीराजवृक्षसमिधां सजपार्तवानां
तावत्सहस्रसमितं मधुरैर्जुहोतु ॥ १२.६॥
अङ्गैर्लक्ष्मीहरिगिरिसुताशर्वरत्यङ्गजातैः
षट्कोणस्थैर्निधियुगयुतैस्तद्बहिर्मातृभिश्च ।
योषिद्रूपैर्बहिरपि यजेल्लोकपालैस्तदेत-
त्प्रोक्तं देव्या अपि सुरगणैः पूजनीयं विधानम् ॥ १२.७॥
लक्ष्मीगौरीमनसिशयबीजानि कृत्वा कलायां
तां वा बिन्दौ तमपि गगने तच्च सिन्दूरवर्णम् ।
स्मृत्वा बुद्ध्या भुवनमखिलं तन्मयत्वेन मन्त्री
देवान्वश्यानपि वितनुते किं पुनर्मत्र्यजातीन् ॥ १२.८॥
य इमं भजते मनुं मनस्वी विधिना वा पुनरर्चयेद्विधानम् ।
स तु सम्यगवाप्य दृष्टभोगान्परतस्तत्पदमैशमेति धाम ॥ १२.९॥
सहृदयभगवत्यै दान्तरण्यै धरार्णाः
सणिधरशिवधार्णारे द्विठान्ता ध्रुवाद्याः ।
गदितमिति धराया मन्त्रमुत्कृष्टधात्री-
सुखसुतधनधान्यप्राप्तिदं कीर्त्तिदं च ॥ १२.१०॥
ऋषिरपि वराह उक्तश्छन्दो निचृदस्य देवता धरणी ।
मनुनामुनैव च पदैः षोढा भिन्नेन निगदितोऽङ्गविधिः ॥ १२.११॥
मुख्याम्भोजे निविष्टारुणचरणतला श्यामलाङ्गी मनोज्ञा
चञ्चच्छाल्यग्रचुम्बच्छुकलसितकरो प्राप्तनीलोत्पला च ।
रत्नाकल्पाभिरामा मणिमयमकुटा चित्रवस्त्रा प्रसन्ना
दिश्याद्विश्वम्भरा वः सततमभिमतं वल्लभा कैटभारैः ॥ १२.१२॥
लक्षायता च सदशांशहुतावसाना
प्रोक्ता धराहृदयमन्त्रजपक्रिया स्यात् ।
र्सिपष्मता सुविमलेन पयोन्धसास्य
होमो विधिः सकलसिद्धिकरः किलायम् ॥ १२.१३॥
पीठे विष्णोः पूजयेत्पूर्वमन्त्रै-
र्भूवह्न्यम्बुप्राणसंज्ञैश्च भूतैः ।
शान्त्यन्ताभिः शक्तिभिः साकमाशा-
पालैः पृथ्वीं संयतात्मोपचारैः ॥ १२.१४॥
पुष्पैः प्रियङ्गोर्मधुरत्रयाक्तै-
नीलोत्पलैर्वापि तथारुणैस्तैः ।
सहस्रमानं प्रतिजुह्वतः स्या-
द्गौर्गोमती सस्यकुलाकुला च ॥ १२.१५॥
पिङ्गलां पृथुलशालिञ्जरीं
यो जुहोति मधुरत्रयोक्षिताम् ।
नित्यशः शतमथास्य मण्डला-
द्धस्तगा भवति विस्तृता मही ॥ १२.१६॥
भृगोस्तु वारे निजसाध्यभूभृ-
द्विलोलिताम्भःपरिपक्वमन्धः ।
पयोघृताक्तं जुहुयात्सहस्रं
दुग्धेन वा तेन दिनावतारे ॥ १२.१७॥
षण्मासादनुभृगुवारमेष होमः
सम्पन्नान्समुपनयेद्धराप्रदेशान् ।
पुत्रान्वा पशुमहिषेष्टजुष्टपुष्टा-
मिष्टामप्यनुदिनमिन्दिरां समग्राम् ॥ १२.१८॥
सङ्क्षेपतो हृदयमन्त्रविधिर्धरायाः
प्रोक्तो हिताय जगतां रहितक्षमाणाम् ।
एनं भजन्निति धराकमलासमृद्धः
स्यादत्र सिद्धिमपरत्र परां प्रयाति ॥ १२.१९॥
अथ पुरुषार्थचतुष्टयसिद्धिकरी मन्त्रजापनिरतानाम् ।
त्वरिताख्येयं विद्या निगद्यते जपहुतार्चनाविधिभिः ॥ १२.२०॥
भक्तियुतानां त्वरया सिद्धिकरी चेति मन्त्रिणां सततम् ।
देव्यास्त्वरिताख्या स्यात्त्वरितं क्ष्वेलग्रहादिहरणतया ॥ १२.२१॥
वर्मद्ध्र्ये च तदन्त्यः शिवयुक्चरमेऽङ्गनाद्युसाधिलवम् ।
अन्त्यः स योनिरस्त्रान्तिकः सतारो मनुर्दशार्णयुतः ॥ १२.२२॥
तारान्तेऽस्त्रादावपि मायाबीजं प्रयोजयेन्मन्त्री ।
तेन हि काङ्क्षितसिद्धिर्भूयादचिरेण मन्त्रविदाम् ॥ १२.२३॥
कूर्मादिभ्यां द्वाभ्यां द्वाभ्यामपि पूर्वपूर्वहीनाभ्याम् ।
कुर्यात्सप्तभिरर्णैरङ्गानि च षट् क्रमेण मन्त्रज्ञः ॥ १२.२४॥
कालिकगलहृन्नाभिकगुह्योरुषु जानुजङ्घयोः पदयोः ।
देहे न्यासं कुर्यान्मन्त्रेण व्यापकं समस्तेन ॥ १२.२५॥
श्यामतनुमरुणपज्र्जचरणतलां वृषलनागमञ्जीराम् ।
स्वर्णांशुकपरिधानां वैश्याहिद्वन्द्वमेखलाकलिताम् ॥ १२.२६॥
तनुमध्यलतां पृथुलस्तनयुगलां करविराजदभयवराम् ।
शिखिपिञ्छनालवलयां गुञ्जाफलगुणितभूषणारुणिताम् ॥ १२.२७॥
नृपफणिकेयूरां तां गलविलसद्विविधमणियुताभरणाम् ।
द्विजनागविहितकुण्डलमण्डितगण्डद्वयीमुकुरशोभाम् ॥ १२.२८॥
शोणतराधरपल्लवविद्रुममणिभासुरां प्रसन्नां च ।
पूर्णशशिबिम्बवदनामरुणायतलोचनत्रयीनलिनाम् ॥ १२.२९॥
कुञ्चितकुन्तलविलसन्मकुटाघटिताहिवैरिपिञ्छयुताम् ।
कैरातीं वनकुसुमोज्ज्वलां मयूरातपत्रकेतनिकाम् ॥ १२.३०॥
सुरुचिरसिंहासनगां विभ्रमसमुदायमन्दिरां तरुणीम् ।
तामेनां त्वरिताख्यां ध्यात्वा कुयौज्जपार्चनाहोमान् ॥ १२.३१॥
दीक्षां प्राप्य गुरोरथ लक्षं जप्याद्दशांशकं जुहुयात् ।
बिल्वसमिद्भिस्त्रिमधुरयुक्ताभिः साधकः सुसंयतधीः ॥ १२.३२॥
अष्टहरिविधृतसिंहासने समावाह्य सरसिजे देवीम् ।
अङ्गैः सह प्रणीतां गायत्रीं पूजयेद्दिशां क्रमतः ॥ १२.३३॥
हुज्रराख्या खेचरि चण्डेसच्छेदनी तथा क्षपणी ।
भूयः स्त्रियाह्वया हुङ्कारीसक्षेमकारिकाः पूज्याः ॥ १२.३४॥
सश्रीबीजा लोकेशायुधभूषान्विता दलाग्रेषु ।
फट्कारी चाप्यग्रे शरासशरधारिणी च तद्बाह्ये ॥ १२.३५॥
सस्वर्णवेत्रयष्ट्यौ द्वाःस्थे पूज्ये पुनर्जयाविजये ।
कृष्णो बर्बरकेशो लगुडधरः किङ्करश्च तत्पुरतः ॥ १२.३६॥
अरुणैश्चन्दनकुसुमैर्वनजैरपि धूपदीपनैवेद्यैः ।
प्रवरैश्च नृत्तगीतैः समर्चयेद्भक्तिभारनम्रतनुः ॥ १२.३७॥
जपहुतपूजाभेदैरिति सिद्धे मन्त्रजापिनो मन्त्रे ।
नारीनरनरपतयः कुर्वन्तिसदा नमस्क्रियामस्मै ॥ १२.३८॥
विद्याधर्यो यक्ष्यः ससुरासुरसिद्धचारणप्रमदाः ।
अप्सरसश्च विशिष्टाः साधकसक्तेन चेतसाकुलिताः ॥ १२.३९॥
स्मरशरविह्वलिताङ्ग्यो रोमाञ्चितगात्रवल्लरीललिताः ।
घनघर्मबिन्दुमौक्तिकविलत्कुचगण्डमण्डलद्वितयाः ॥ १२.४०॥
विस्पष्टजघनवक्षोरुहदोर्मूलाः स्खलत्पदन्यासाः ।
मुकुलितनयनसरोजाः प्रस्पन्दितदशनवसनसम्भिन्नाः ॥ १२.४१॥
श्लथमानांशुकचिकुरा मदविवशस्खलितमन्दभाषिण्यः ।
मृदुतरमस्तकविरचितनत्यञ्जलयः प्रसादकाङ्क्षिण्यः ॥ १२.४२॥
वीक्षस्व देहि वाचं परिरम्भणपरमसौख्यमस्माकम् ।
एहि सुरोद्यानादिषु रंस्यामः स्वेच्छया निरातज्र्म् ॥ १२.४३॥
इत्यादि वाणिनीभिर्विलोभ्यमानो यदा न विक्रियते ।
मन्त्री तदेत्य वाञ्छितमखिलं तस्मै ददाति सा देवी ॥ १२.४४॥
योनिं कुण्डस्यान्तः प्रकल्प्य तत्रानलं समाधाय ।
सम्पूज्य पूर्वविधिना जुहुयात्सर्वार्थसिद्धये मन्त्री ॥ १२.४५॥
इक्षुशकलैः समृद्ध्यै दूर्वाभिः स्वायुषे श्रिये धान्यैः ।
धान्याय यवैः पुष्ट्यै गोधूमैत्र्र+द्धये तिलैर्जुहुयात् ॥ १२.४६॥
जम्बूभिः स्वर्णाप्त्यै राजीभिः शत्रुशान्तयेऽक्षतकैः ।
अक्षयसिद्ध्यै वकुलैः कीत्त्र्यै कुन्दैर्महोदयाय तथा ॥ १२.४७॥
अरुणोत्पलैश्च पुष्ट्यै मधूकजैरिष्टसिद्धयेऽशोकैः ।
पुत्राप्त्यै पाटलजैः स्त्रीसिद्ध्यै निम्बजैश्च विद्विष्ट्यै ॥ १२.४८॥
नीलोत्पलकैस्तुष्ट्यै चम्पकजैः कनकसिद्धये पद्मैः ।
सह किंशुकैश्च सर्वोपद्रवशान्त्यै स साधको जुहुयात् ॥ १२.४९॥
हुतसङ्ख्यासाहस्री नियुता वाथायुतान्तिकी भवति ।
यावत्सङ्ख्यो होमस्तावज्जप्यश्च मन्त्रिणा मन्त्रः ॥ १२.५०॥
अनुमन्त्रितैश्च वारिभिरासेकः क्ष्वेलशान्तिकृद्भवति ।
तज्जप्तयष्टिघातो मन्त्रितचुलुकोदकाहतिश्च तथा ॥ १२.५१॥
तत्कर्णरन्ध्रजापात्सद्यो नश्युर्विषग्रहादिरुजः ।
तद्यन्त्रस्थापनमपि विषभूतादिप्रशान्तिकृद्भवति ॥ १२.५२॥
आख्यां मध्ये सतारे मनुमथ शतसंयुक्तविंशत्पुटेषु
प्रादक्षिण्येन शर्वादिकमनुविलिखेद्वादशावृत्ति मन्त्री ।
विंशद्वन्द्वाष्टशूलाकलितविरचितं यन्त्रमेतत्सुजप्तं
बद्धं क्ष्वेलग्रहार्ति हरति विजयलक्ष्मीप्रदं कीर्त्तिदं च ॥ १२.५३॥
आख्यां मध्यगतानले लिखतु दिक्पङ्क्तिष्वथ स्युः सहूं
क्ष्रूं च्रूं छ्रूं करणद्विषष्टिपदके शैवादि कालीमनुम् ।
नैत्र्र+त्यादि तथा क्रमाक्रमवृतं बाह्येऽनलैरावृतं
प्रोक्तं निग्रहचक्रमन्तकपुरप्राप्तिप्रदं वैरिणाम् ॥ १२.५४॥
कालीमाररमालीका लीनमोक्षक्षमोनली ।
मामोदेततदेमोमा रक्षतत्वत्वतक्षरः ॥ १२.५५॥
यमापाटटपामाय माटमोटटमोटया ।
वामो भूरिरिभूमोवा टररीस्त्वस्त्वरीरट ॥ १२.५६॥
वह्नेर्विण्णिम्बनिर्यासकविषमषिभिः सीसपट्टेंशुके वा
शावे पाषाणके वा विलिखतु मतिमान्काकपत्रेण यन्त्रम् ।
वल्मीके चत्वरे वा क्षततरुविवरे वा निदध्यादराति-
र्मृत्युं प्राप्नोति भूयादवयवविकलो व्याधितः पातितो वा ॥ १२.५७॥
चक्रे चाष्टाष्टपदे कालीशिवयातुधानखण्डाद्यम् ।
यमदहनानिलवीतं विलिख्य विषदण्डिमर्कटीलिप्तम् ॥ १२.५८॥
जप्तमधोमुखमेतद्यत्र तु देशे विनिक्षिपेन्मन्त्री ।
तत्रोपद्रवमखिलं दिनशः सर्वात्मना भवति ॥ १२.५९॥
खण्डेष्वेकाशीतिषु मध्येन्दुगसाध्यं
जुंसः पूर्वं दिक्स्थचतुष्पङ्क्तिषु शैखम् ।
लिख्याल्लक्ष्मीं शिष्टचतुःषष्ठिषु विद्वा-
नीशाद्यं कन्यादि च बाह्ये त्वरिताख्याम् ॥ १२.६०॥
दिग्दिक्संस्थामस्त्रपदाभिर्वषडन्तां
मेदोमालावेष्टितबिम्बं घटवीतम् ।
पद्मस्थं तत्पज्र्जराजद्वदनान्तं
प्रोक्तं चक्रं सम्यगिहानुग्रहसंज्ञम् ॥ १२.६१॥
श्रीसामायायामासाश्री सानोयाज्ञेज्ञेयानोसा ।
मायालीलालीयामा याज्ञेलालीलीलाज्ञेया ॥ १२.६२॥
लाक्षाभिः कुज्रुमैर्वा विलिखतु धवले वांशुके स्वर्णपट्टे
लेखिन्या स्वर्णमय्या दृढमपि गुलिकीकृत्य सन्धारयेद्यः ।
कृत्याभ्यो मृत्युतो वा ग्रहविषदुरितेभ्यो विमुक्तः स धन्यो
जीवेत्स्वैः पुत्रपौत्रैरपरिमितमहासम्पदा दीर्घकालम् ॥ १२.६३॥
चतुःषष्ट्यंशे वा क्रमविदथ लक्ष्मीमनुममुं
शिवाद्यं नैत्र्र+त्यादिकमपि चतुर्णामृतवृतम् ।
बहिः स्वच्छे पट्टे कनकविहिते पूर्वविधिना
लिखित्वा जप्त्वा निक्षिपतु शितधीर्यत्र तदिदम् ॥ १२.६४॥
चक्रमनुग्रहसंज्ञं मन्त्री देशेऽत्र सम्पदो विरतम् ।
शुभतरफलदायिन्यो भवन्ति सस्र्यिद्धकालवृष्ट्याद्याः ॥ १२.६५॥
हुङ्कारे साध्यसंज्ञां विलिखतु तदधः र्किणकायां च शिष्टा-
नष्टौ वर्णान्दलेष्वारचयतु हरमायां त्रिशो वेष्टयित्वा ।
कुम्भस्थं यन्त्रमेतत्सरसिजपुटितं सर्वरक्षाप्रसिद्ध्यै
कॢप्तं सर्वोपसर्गप्रशमनफलदं श्रीकरं वश्यकारि ॥ १२.६६॥
इति निगदितकॢप्त्या पूजयेत्तोतलायां
मनुमनुदिनमेनं मानयन्मानवो यः ।
स तु जगति समग्रां सम्पदं प्राप्य देहा-
पदि मुदिततरात्मा युक्तधीर्मुक्तिमेति ॥ १२.६७॥
स्मरदीर्घैधरकाग्न्योन्दीर्घाभ्यक्ष्वेलदद्रलान्तशिवाः ।
अभितः शक्तिनिरुद्धो द्वादशवर्णोऽयमीरितो मन्त्रः ॥ १२.६८॥
द्वाभ्यां वा चैकेन द्वाभ्यां द्वाभ्यां तथा पुनर्द्वाभ्याम् ।
मन्त्राक्षरैर्विदध्यादङ्गविधिं जातिसंयुतैर्मन्त्री ॥ १२.६९॥
इन्दुकलाकलितोज्ज्वलमौलिर्मारमदाकुलितायुगनेत्रा ।
शोणितसिन्धुतरङ्गितपोतद्योतितभानुदलाम्बुजसंस्था ॥ १२.७०॥
दोर्धृतदाडिमसायकपाशा साज्रुशचापकपालसमेता ।
शोणदुकूलविलेपनमाल्या शोणतरा भवतोऽवतु देवी ॥ १२.७१॥
स्मृत्वा नित्यां देवीमेवं प्रजपेन्मनुं शतसहस्रम् ।
अयुतं जुहुयादन्ते नृपतरुसमिधां घृतेन वा सिद्ध्यै ॥ १२.७२॥
शाक्त पीठे पूज्या देवी कुसुमानुलेपनैररुणैः ।
स्वयमप्यलङ्कृताङ्गः सधूपदीपैर्निवेद्यताम्बूलैः ॥ १२.७३॥
हृल्लेखा क्लेदनी नन्दा क्षोभणी मदनातुरा ।
निरञ्जना रागवती तथान्या मदनावती ॥ १२.७४॥
मेखला द्राविणी चैव भूयोऽन्या वेगवत्यपि ।
सस्मारा द्वादश प्रोक्ताः शक्तयः पत्रसंस्थिताः ॥ १२.७५॥
अङ्गैः शक्तिभिराभिर्मातृभिराशाधिपैः क्रमात्पूज्या ।
भक्तिभरानतवपुषा भवभयभङ्गाय मन्त्रिणाहरहः ॥ १२.७६॥
दारिद्र्यरोगदुःखैर्दौर्भाग्यजरापमृत्युदोषैश्च ।
अस्पृष्टो निरपायो जीवति मन्त्रं भजन्नमुं मनुजः ॥ १२.७७॥
इतीरिता लोकहिताय वङ्का-
प्रस्तारिणी मन्दिरमिन्दिरायाः ।
या सर्वनारीनरराजवर्ग-
सम्मोहनी मोहनबाणभूता ॥ १२.७८॥
निद्रयोरन्तरा त्यक्लिन्नै मदाः स्युश्च वेशिरः ।
मायादिकस्तया वर्णद्वन्द्वैश्चाङ्गविधिः स्मृतः ॥ १२.७९॥
रक्तारक्तांशुककुसुमविलेपादिका सेन्दुमौलिः
स्विद्यद्वक्त्रा मदविवशसमाघूर्णितत्रीक्षणा च ।
दोःसत्पाशाज्रुशयुतकपालाभया पद्मसंस्था
देवी पायादमितफलदा नित्यशः पार्वती वः ॥ १२.८०॥
दीक्षितः प्रजपेल्लक्षं मनुमेनं हुनेत्ततः ।
मधूकपुष्पैः स्वाद्वक्तैरयुतं हविषा तथा ॥ १२.८१॥
पीठीं पूर्ववदभ्यच्र्य तत्रावाह्यापि पूजयेत् ।
अङ्गैश्च शक्तिभिर्लोकपालैर्देवीं समाहितः ॥ १२.८२॥
नित्या निरञ्जना क्लिन्ना क्लेदिनी मदनातुरा ।
मदद्रवा द्राविणी च द्रविणा शक्तयो मताः ॥ १२.८३॥
प्रजपेत्यप्रमदां विचिन्त्य यां वा
शयनस्थो मनुवित्सहस्रमानम् ।
निशि मारशिलीमुखाहताङ्गी
नचिरात्सा मदविह्वला समेति ॥ १२.८४॥
नित्याभिः सदृशतरा न सन्ति लोके
लक्ष्मीदा जगदनुरञ्जनाश्च मन्त्राः ।
तस्मात्ताञ्शुभमतयो भजन्तु नित्यं
जापार्चाहुतसमुपासनाविशेषैः ॥ १२.८५॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे द्वादशः पटलः ॥
॥ त्रयोदशः पटलः ॥
अथ वक्ष्यामि दुर्गाया मन्त्रान्साङ्गान्सदेवतान् ।
सजपार्चाहुतविधीन्प्रीत्यर्थं मन्त्रजापिनाम् ॥ १३.१॥
तारो मायामरेशोऽत्रिपीठो बिन्दुसमन्वितः ।
स एव च विसर्गान्तो गायै नत्यन्तिको मनुः ॥ १३.२॥
दुर्गास्य देवता च्छन्दो गायत्रं नारदो मुनिः ।
तारो माया च दुर्गायै ह्रामाद्यन्ताङ्गकल्पना ॥ १३.३॥
शङ्खारिचापशरभिन्नकरां त्रिणेत्रां
तिग्मेतरांशुकलया विलसत्किरीटाम् ।
सिंहस्थितां ससुरसिद्धनुतां च दुर्गां
दूर्वानिभां दुरितवर्गहरीं नमामि ॥ १३.४॥
कृताभिषेकदीक्षस्तु वसुलक्षं जपेन्मनुम् ।
तदन्ते जुहुयात्र्सिपःसंयुक्तेन पयोन्धसा ॥ १३.५॥
अष्टसाहस्रसङ्ख्यैस्तु तिलैर्वा मधुराप्लुतैः ।
पीठार्चायां प्रयष्टव्याः क्रमात्तच्छक्तयो नव ॥ १३.६॥
प्रभा माया जया सूक्ष्मा विशुद्धा नन्दिनी तथा ।
सुप्रभा विजया सर्वसिद्धिदा नवमी तथा ॥ १३.७॥
अच्र्या ह्रस्वत्रयक्लीबरहितैश्च स्वरैरिमाः ।
तारान्ते वङ्कामाभाष्य नखदंष्ट्रायुधानि च ॥ १३.८॥
महासिंहाय चेत्युक्त्वा वर्मास्त्रनतयः क्रमात् ।
सिंहमन्त्रोऽयमित्येवं सम्प्रोक्ता पीठकल्पना ॥ १३.९॥
अङ्गैः स्यादावृतिः पूर्वा द्वितीया शक्तिभिः स्मृता ।
अष्टायुधैस्तृतीया स्याल्लोकपालैश्चतुथ्र्यपि ॥ १३.१०॥
तदायुधैः पञ्चमी च दुर्गायजनमीदृशम् ।
जया च विजया कीर्त्तिः प्रीतिश्चाथ प्रभाह्वया ॥ १३.११॥
श्रद्धा मेधा श्रुतिरपि शक्तयः स्वाक्षरादिकाः ।
चक्रशङ्खगदाखड्गपाशाज्रुशशरा धनुः ॥ १३.१२॥
क्रमादष्टायुधाः प्रोक्ता दौर्गा दुर्गतिहारिणः ।
इत्थं दुर्गामनौ जापहुतार्चाभिः प्रसाधिते ॥ १३.१३॥
मन्त्रीन्दिरावान्भवति दीर्घायुर्दुरिताञ्जयेत् ।
यान्यानिच्छति कामान्स्वांस्तांस्तान्प्राप्नोति यत्नतः ॥ १३.१४॥
विधाय विधिनानेन कलशं चाभिषेचयेत् ।
यमसौ भूतवेतालपिशाचाद्यैर्विमुच्यते ।
राजाभिषिक्तो विधिना सपत्नानमुना यजेत् ॥ १३.१५॥
अमुना विधिना कृताभिषेका ललना पुत्रमवाप्नुयाद्विनीतम् ।
हवनात्तिलसर्षपैः सहस्रद्वितयैराशु भवेच्च गर्भरक्षा ॥ १३.१६॥
अनयैव जपाभिषेकहोम-
क्रियया स्यादनुरञ्जनं जनानाम् ।
भजतां सकलार्थसाधनार्थं
मुनिवर्यैः परिकल्पितोऽयमादौ ॥ १३.१७॥
उत्तिष्ठपदं प्रथमं पुरुषि ततः किम्पदं स्वपिषियुक्तम् ।
भयमपि मेऽन्ते समुपस्थितमित्युच्चार्य यदिपदं प्रवदेत् ॥ १३.१८॥
शक्यमशक्यं वोक्त्वा तन्मे भगवति निगद्य शमयपदम् ।
प्रोक्त्वा ठद्वितययुतं सप्तत्रिंशाक्षरो मनुः प्रोक्तः ॥ १३.१९॥
आरण्यकोऽत्यनुष्टुब्वनदुर्गाख्याः क्रमेण भगवत्याः ।
ऋष्यादिकाः स्वमनुना विहितान्यङ्गानि वाक्यभिन्नेन ॥ १३.२०॥
षड्भिश्चतुर्भिरष्टभिरष्टार्णैः षड्भिरपि च पञ्चार्णैः ।
जातियुतैश्च विदध्यादङ्गानि च षट् क्रमेण विशदमतिः ॥ १३.२१॥
पद्वयसन्धिगुदान्ध्वाधारोदरपाश्र्वहृत्स्तनेषु गले ।
दोःसन्धिवदनानासाकपोलदृक्कर्णयुग्भ्रुके न्यस्येत् ॥ १३.२२॥
हेमप्रख्यामिन्दुखण्डात्तमौलिं
शङ्खारिष्टाभीतिहस्तां त्रिणेत्राम् ।
हेमाब्जस्थां पीतवस्त्रां प्रसन्नां
देवीं दुर्गां दिव्यरूपां नमामि ॥ १३.२३॥
अरिशङ्खकृपाणखेटबाणान्सधनुःशूलकर्तिजनीर्दधाना ।
भवतां महिषोत्तमाङ्गसंस्था नवदूर्वासदृशी श्रियेऽस्तु दुर्गा ॥ १३.२४॥
चक्रदरखड्गखेटकशरकार्मुकशूलसंज्ञककपालैः ।
ऋष्टिमुसलकुन्तनन्दकवलयगदाभिण्डिपालशक्त्याख्यैः ॥ १३.२५॥
उद्यद्विकृतिभुजाढ्या महिषाङ्गे सजलजलदसङ्काशा ।
सिंहस्था वाग्निनिभा पद्मस्था वाथ मरकतप्रख्या ॥ १३.२६॥
व्याघ्रत्वक्परिधाना सर्वाभरणान्विता त्रिणेत्रा च ।
अहिकलितनीलकुञ्चितकुन्तलविलसत्किरीटशशिशकला ॥ १३.२७॥
सर्पमयवलयनूपुरकाञ्चीकेयूरहारसम्पन्ना ।
सुरदितिजाभयभयदा ध्येया कात्यायनी प्रयोगविधौ ॥ १३.२८॥
संयतचित्तो लक्षचतुष्कं जप्त्वा हुनेद्दशांशेन ।
व्रीहितिलाज्यहविर्भिः सम्यक्सञ्चिन्त्य भगवतीमनले ॥ १३.२९॥
पीठे पूर्वप्रोक्ते पूज्याङ्गैः शक्तिभिस्तथाष्टाभिः ।
अष्टायुधैश्च मातृभिराशेशैः क्रमश एव दुर्गेयम् ॥ १३.३०॥
आर्या दुर्गा भद्रा सभद्रकाली तथाम्बिकाख्या च ।
क्षेम्या सवेदगर्भा क्षेमकरी चेति शक्तयः प्रोक्ताः ॥ १३.३१॥
अरिदरकृपाणखेटकबाणधनुःशूलसंयुतकपालाः ।
अष्टायुधाः क्रमोक्ताः पूर्वविधानवदथोदितं शेषम् ॥ १३.३२॥
इत्थं जपार्चनाहुतसिद्धमनोर्मन्त्रिणः प्रयोगविधिः ।
विहितो जपः प्रतिदिनं निजरक्षायै शतं सहस्रं वा ॥ १३.३३॥
उद्दिश्य यद्यदेनं मनुं जपेदथ सहस्रमयुतं वा ।
तत्तन्मन्त्री लभ्येदचिरात्तदनुग्रहादसाध्यमपि ॥ १३.३४॥
स्नात्वार्काभिमुखः सन्नाभिद्वयसेऽम्भसि स्थितो मन्त्री ।
अष्टोध्र्वशतं प्रजपेन्निजवाञ्छितसिद्धये च लक्ष्म्यै च ॥ १३.३५॥
ध्यात्वा त्रिशूलहस्तां ज्वरसर्पग्रहविपत्सु जन्तूनाम् ।
संस्पृश्य शिरसि जप्यात्तज्जन्योपद्रवं शमयेत् ॥ १३.३६॥
अयुतं तिलैर्वनोत्थै राजीभिर्वा हुनेत्समिद्भिर्वा ।
मायूरिकीभिरचिरात्सोऽपस्मारादिकांश्च नाशयति ॥ १३.३७॥
जुहुयाद्रोहिणसमिधामयुतं मन्त्री पुनः सशुङ्गानाम् ।
सर्वापदां विमुक्त्यै सर्वसमृद्ध्यै ग्रहादिशान्त्यै च ॥ १३.३८॥
आर्कैः समित्सहस्रैः प्रतिजुहुयादर्कवारमारभ्य ।
दशदिनतोऽर्वाग्वाञ्छितसिद्धिर्देव्याः प्रसादतो भवति ॥ १३.३९॥
शुद्धैः सारैरिध्मैस्त्रिदिनं वा सप्तरात्रकं वापि ।
प्रतिशकलं प्रतिजुहुयान्मनुना निजवाञ्छिताप्तये मन्त्री ॥ १३.४०॥
विशिखानां त्रिंशत्कं पुरो निधायाथ तीक्ष्णतैलेन ।
जुहुयात्सहस्रकं वायुतमपि सङ्ख्यासु पूरितासु पुनः ॥ १३.४१॥
सम्पातिततैलेन च शरान्समभ्यज्य पूर्ववज्जप्यात् ।
तानथ शूरो धन्वी शुद्धाचारः प्रवेधयेद्बाणान् ॥ १३.४२॥
प्रतिसेनाया मध्ये सा धावति सद्य एव सम्भ्रान्ता ।
भूयो गुरुं धनैरपि धान्यैः परिपूजयेच्च कारयिता ॥ १३.४३॥
अष्टोत्तरशतजप्तं यच्छिरसि प्रक्षिपेच्चिताभस्म ।
स तु विद्विष्टो लोकैर्देशाद्देशान्तरं परिभ्रमति ॥ १३.४४॥
कारस्करस्य पत्रैरष्टसहस्रैर्निपातितैर्मरुता ।
जुहुयात्सपादपांसुभिरुच्चाटकरं भवेद्रिपोः सद्यः ॥ १३.४५॥
सेनां संस्तम्भयितुं विषतरुसुमनःसहस्रकं जुहुयात् ।
तावद्भिस्तत्पत्रैर्जुहुयान्मन्त्री च तां निवर्तयितुम् ॥ १३.४६॥
विषतरुमयीं च शत्रोः प्रतिकृतिमसकृत्प्रतिष्ठितप्राणाम् ।
छित्त्वा च्छित्त्वा काकोलूकवसाक्तैः सहस्रमष्टौ च ॥ १३.४७॥
असितचतुर्दश्यां तद्गात्रैर्जुहुयादरण्यकेऽर्धनिशि ।
त्रिचतुर्दशीप्रयोगादर्वाङ् म्रियते रिपुर्न सन्देहः ॥ १३.४८॥
स्ववसारक्तोपेतैर्जुहुयात्पत्रैरुलूकवायसयोः ।
म्रियतेऽरातिर्मत्तस्तून्मत्तसमित्सहस्रहोमेन ॥ १३.४९॥
संस्थापितानिलां तां प्रतिकृतिमुष्णोदके विनिक्षिप्य ।
प्रजपेदुन्मादः स्याच्छत्रोर्दुग्धाभिषेकतः शान्तिः ॥ १३.५०॥
रविबिम्बगतामरुणां करयुगपरिकॢप्तशूलतर्जनिकाम् ।
ध्यात्वायुतं प्रजप्यान्मारयितुं सद्य एव रिपुनिवहम् ॥ १३.५१॥
असिखेटकरार्कस्था क्रुद्धा मारयति सैव जपविधिना ।
सिंहस्था बाणधनुष्करा समुच्चाटयेदरीनचिरात् ॥ १३.५२॥
विषतरुसमिदयुतहुतादथ करिणो रोगिणो भवन्त्यचिरात् ।
तत्पर्णैश्च विनाशस्तेषामुच्चाटनं च तत्पुष्पैः ॥ १३.५३॥
आनित्यसमिद्धोमाद्रोगा नश्यन्ति दन्तिनामचिरात् ।
तत्पुष्पैर्मुधराक्तैर्होमाच्च वशीभवन्ति मातङ्गाः ॥ १३.५४॥
त्रिमधुरयुतैरनित्यकपत्रैर्मत्ता भवन्ति ते सद्यः ।
रक्षाकरस्तु करिणां तज्जापितपञ्चगव्यलेपः स्यात् ॥ १३.५५॥
आज्यतिलराज्यनित्यकदुग्धोदकपञ्चगव्यतण्डुलकैः ।
सघृतैश्च प्रत्येकं सहस्रहवनं गजाश्वर्धनकृत ॥ १३.५६॥
द्विजभूरुहं महान्तं छित्त्वा निर्भिद्य पञ्चधा भूयः ।
आशाक्रमेण पञ्चायुधा विधेयाश्च साधुशिल्पविदा ॥ १३.५७॥
शङ्खः सनन्दकोऽरिः शाङ्र्गः कौमोदकी दिशाक्रमतः ।
पञ्चेति पञ्चगव्ये निधाय जप्याच्च पञ्चसाहस्रम् ॥ १३.५८॥
तावद्धृतेन जुहुयात्तेष्वथ सम्पात्य साधु सम्पातम् ।
पुनरपि तावज्जप्त्वा मध्याद्यवटेषु पञ्चगव्ययुतम् ॥ १३.५९॥
संस्थाप्य समीकृत्य च बलिं हरेत्तत्र तत्र तन्मन्त्रैः ।
पुरराष्ट्रग्रामाणां कार्या रक्षैवमेव मन्त्रविदा ॥ १३.६०॥
यस्मिन्देशे विहिता रक्षेयं तत्र वर्धते महालक्ष्मीः ।
धनधान्यसमृद्धिः स्याद्रिपुचोराद्याश्च नैव बाधन्ते ॥ १३.६१॥
पद्मोत्पलकुमुदहुतैर्नृपपत्नीब्राह्मणान्वशीकुरुते ।
कह्लारलोणहोमैर्विट्छूद्राञ्जातिभिस्तथा ग्रामम् ॥ १३.६२॥
अथवारिदरगदाम्बुजकरं मुकुन्दं विचिन्त्य रविबिम्बे ।
व्यत्यस्तपुरुषभगवतिपदं मनुं जपतु सर्वसिद्धिकरम् ॥ १३.६३॥
साध्याख्याक्षरर्गिभतं मनुममुं पत्रे लिखित्वा च त-
च्चक्रीहस्तमृदा कृतप्रतिकृतेर्विन्यस्य मन्त्री हृदि ।
सप्ताहं त्वथ पुत्तलीमभिमुखे संस्थाप्य सन्ध्यात्रये
जप्यादष्टशतं चिराय वशतां गच्छत्यसौ निश्चयः ॥ १३.६४॥
व्रीहीणां जुहुयान्नरोऽष्टशतकं संवत्सराद्ब्रीहिमा-
न्गोदुग्धैः पशुमान्धृतैः कनकवान्दध्ना च सर्र्विद्धमान् ।
अन्नैरन्नसमृद्धिमांश्च मधुभिः स्याद्रत्नवान्दूर्वया-
प्यायुष्मान्प्रतिपद्धुतेन महतीं सद्यः श्रियं प्राप्नुयात् ॥ १३.६५॥
छान्तं मरुत्तुरीयवर्णयुतं सवाद्यं
संवीपस्य शूलिनिपदं च सदुष्टशब्दम् ।
पञ्चान्तकं सदहनं परिभाष्य हान्तं
हुम्फड्द्विठान्तमिति शूलिनिमन्त्रमेतत् ॥ १३.६६॥
ऋषिर्दीर्घतमाश्छन्दः ककुब्दुर्गा च देवता ।
दुर्गा हृद्वरदा शीर्षं शिखा स्याद्विन्ध्यवासिनी ॥ १३.६७॥
वर्म चासुरर्मिदन्या युद्धपूर्वप्रिये तथा ।
त्रासयद्वितयं चास्त्रं देवसिद्धसुपूजिते ॥ १३.६८॥
नन्दिन्यन्ते रक्षयुगं महायोगेश्वरीति च ।
शूलिन्याद्यं तु पञ्चाङ्गं हुम्फडन्तमितीरितम् ।
अङ्गकर्मैव रक्षाकृत्प्रोक्तं ग्रहनिवारणम् ॥ १३.६९॥
बिभ्राणा शूलबाणास्यरिसदरगदाचापपाशान्कराब्जै-
र्मेघश्यामा किरीटोल्लिखितजलधरा भीषणा भूषणाढ्या ।
सिंहस्कन्धाधिरूढा चतसृभिरसिखेटाआन्विताभिः परीता
कन्याभिर्भिन्नदैत्या भवतु भवभयध्वंसिनी शूलिनी वः ॥ १३.७०॥
एवं विचिन्त्य पुनरक्षरलक्षमेनं
मन्त्री जपेत्प्रतिजुहोतु दशांशतोऽन्ते ।
आज्येन साज्यहविषा प्रयजेच्च देवी-
मङ्गाष्टशक्तिनिजहेतिदिशाधिनाथैः ॥ १३.७१॥
दुर्गा च वरदा विन्ध्यवासिन्यसुरर्मिदनी ।
युद्धप्रिया देवसिद्धपूजिता नन्दिनी तथा ॥ १३.७२॥
महायोगेश्वरी चाष्टशक्तयः समुदीरिताः ।
रथाङ्गशङ्खासिगदाबाणकार्मुकसंज्ञिताः ॥ १३.७३॥
सशूलपाशा यष्टव्या दिक्क्रमादष्ट हेतयः ।
दीक्षाजपहुतार्चाभिः सिद्धिः कर्म समाचरेत् ।
आमयोन्मादभूतापस्मारक्ष्वेलशमादिकम् ॥ १३.७४॥
उद्घूर्णैः प्रहरणकैरुदीर्णवेगैः
शूलाद्यैर्निजमथ शूलिनीं विचिन्त्य ।
आविश्य क्षणमिव जप्यमानमन्त्र-
स्यावृत्त्या द्रुतमपयान्ति भूतसङ्घाः ॥ १३.७५॥
अन्तराथ पुनरात्मरोगिणामम्बिकामपि निजायुधाकुलाम् ।
संविचिन्त्य जपतोऽरिमुद्रया विद्रवन्त्यवशविग्रहा ग्रहाः ॥ १३.७६॥
अहिमूषिकवृश्चिकादिजं वा बहुपात्कुक्कुरलूतिकोद्भवं वा ।
विषमाशु विनाशयेन्नराणां प्रतिपत्त्यैव च विन्ध्यवासिनी सा ॥ १३.७७॥
आधाय बाणे निशितेऽथ देवीं क्षेमङ्करीं मन्त्रमिमं जपित्वा ।
तद्वेधनादेव विपक्षसेना दिशो दशाधावति नष्टसंज्ञा ॥ १३.७८॥
आत्मानमार्यां प्रतिपद्य शूल-
पाशान्वितां वैरिबलं प्रविश्य ।
मन्त्रं जपन्नाशु परायुधानि
गृह्णाति मुष्णाति च बोधमेषाम् ॥ १३.७९॥
तिलसिद्धार्थैर्जुहुयाल्लक्षं मन्त्री सपत्नामयुतम् ।
स तु रोगाभिहतात्मा मृतिमेति न तत्र सन्देहः ॥ १३.८०॥
त्रिमधुरयुक्तैश्च तिलैरष्टसहस्रं जुहोति योऽनुदिनम् ।
अप्रतिहतास्य शक्तिर्भूयात्प्रागेव वत्सरतः ॥ १३.८१॥
र्सिपषाष्टशतहोमतोऽमुना वाञ्छितं सकलमब्दतो भवेत् ।
दूर्वया त्रिकयुजेप्सितं लभेत्सम्यगष्टशतसङ्ख्यया हुतात् ॥ १३.८२॥
क्षुरिकाकृपाणनखरा मन्त्रेणानेन साधु सञ्जप्ताः ।
सम्पाताज्यसुसिक्ता अप्रतिहतशक्तयो भवन्ति युधि ॥ १३.८३॥
गोमयविहिताङ्गुलिकां जुहुयाच्छतमष्टपूर्वकं मन्त्री ।
दिवसैः सप्तभिरिष्टौ द्विष्टौ च मिथो वियोगिनौ भवतः ॥ १३.८४॥
अस्पृष्टकुं गोमयमन्तरिक्षे सङ्गृह्य जप्त्वा त्रिसहस्रमानम् ।
धियासतां वै निखनेन्नराणां संस्तम्भनं द्वारि चमूमुखे च ॥ १३.८५॥
पानीयान्धःपाणिमार्यां प्रसन्नां
ध्यात्वा ग्रामं वा पुरं वापि गच्छन् ।
जप्त्वा मन्त्रं तर्पयित्वा प्रविष्टो
मृष्टं भोज्यं प्राप्नुयाद्भृत्यवर्गैः ॥ १३.८६॥
आर्कैर्मन्त्री त्रिमधुरयुतैरर्कसाहस्रमिध्मै-
राश्वत्थैर्वा त्वतिविशदचेतास्तिलैर्वा जुहोतु ।
यानुद्दिश्यावहितमनसा तन्मये सम्यगग्नौ
ते वश्याः स्युर्विधुरितधियो नात्र कार्यो विचारः ॥ १३.८७॥
कुर्यात्प्रयोगानपि दावदुर्गाकल्पोदितान्वै मनुनामुना च ।
मन्त्री जपार्चाहुतितर्पणाद्यान्नाल्पो हि मन्वोरनयोर्विशेषः ॥ १३.८८॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे त्रयोदशः पटलः ॥
॥ चतुर्दशः पटलः ॥
अथ कथिष्ये मन्त्रं चतुरक्षरसंज्ञकं समासेन ।
प्रणवो भुवनाधीशो दण्डिखमस्यादिको विसर्गान्तः ॥ १४.१॥
ऋषिरस्याजश्छन्दो गायत्रं देवता च भुवनेशी ।
अङ्गानि षट् क्रमेण प्रोक्तानि प्रणवशक्तिबीजाभ्याम् ॥ १४.२॥
भास्वद्रत्नौघमौलिस्फुरदमृतरुचो रञ्जयच्चारु रेखां
सम्यक्सन्तप्तकार्तस्वरकमलनजपाभासुराभिः प्रभाभिः ।
विश्वाकाशावकाशं ज्वलयदशिशिरं धर्तृ पाशाज्रुशेष्टा-
भीतीनां भङ्गितुङ्गस्तनमवतु जगन्मातुरार्कं वपुर्वः ॥ १४.३॥
सन्दीक्षितोऽथ प्रजपेच्च मन्त्रं मन्त्री पुनर्लक्षचतुष्कमेनम् ।
पुष्पैस्तदन्ते द्विजवृक्षजातैः स्वादुप्लुतैर्वा जुहुयात्सरोजैः ॥ १४.४॥
मनोरथार्कात्मतया त्वनेन प्रवत्र्यतेऽघ्र्येपहिता प्रपूजा ।
समे सुमृष्टे रचयेद्विविक्ते शुद्धे तले स्थण्डिलमङ्गणस्य ॥ १४.५॥
प्रजयेदथ प्रभूतां विमलां साराह्वयां समाराध्याम् ।
परमसुखामग्न्यादिष्वश्रिषु मध्ये च पीठकॢप्तेः प्राक् ॥ १४.६॥
ह्रस्वत्रयक्लीबवियोजिताभिः क्रमात्कृशान्विन्दुयुताभिरज्भिः ।
सहाभिपूज्या नव शक्तयः स्युः प्रोद्योतनाः प्राज्यतरप्रभावाः ॥ १४.७॥
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा ।
अमोघा विद्युता चैव नवमी सर्वतोमुखी ॥ १४.८॥
ब्रह्माविष्णुशिवात्मकं समीर्य सौराय योगपीठाय ।
प्रोक्त्वेति नतिमपि पुनः समापयेत्पीठमन्त्रमहिमरुचेः ॥ १४.९॥
आवाह्य हाल्र्लेखिकमर्कमघ्र्यपाद्याचमाद्यैर्मधुपर्कयुक्तैः ।
प्रपूजयेदावरणैः समस्तसम्पत्त्यवाप्त्यै तदधीनचेताः ॥ १४.१०॥
हृल्लेखाद्याः पञ्च च यष्ट्वाङ्गैस्तदनु मातृभिः पश्चात् ।
ओङ्काराद्यैराशापालैरभ्यर्चयेत्क्रमान्मन्त्री ॥ १४.११॥
प्रतिपूज्य शक्तिमिति तत्र पुरः
प्रणिधाय ताम्ररचितं चषकम् ।
प्रजपन्मनुं प्रतिगतक्रमतः
प्रतिपूरयेत्सुविमलैः सलिलैः ॥ १४.१२॥
अक्षतकुशयवदूर्वातिलसर्षपकुसुमचन्दनोपेतैः ।
प्रस्थग्राह्यच्छिद्रं स्वैक्यं सम्भावयन्समाहितधीः ॥ १४.१३॥
इष्ट्वा दिनेशमथ पीठगतं तथैव
व्योमस्थितं परिवृतावरणं विलोक्य ।
अष्टोत्तरं शतमथ प्रजपेन्मनुं तं
पूर्वोत्तरं निजकरेण पिधाय पात्रम् ॥ १४.१४॥
भूयोऽभ्यच्र्य सुधामयं जलमथो तद्गन्धपुष्पादिभि-
र्जानुभ्यामवनिं गतश्चषकमप्यामस्तकं प्रोद्धरन् ।
दद्यान्मण्डलबद्धदृष्टिहृदयो भक्त्याघ्र्यमोजोबल-
ज्योतिर्दीप्तियशोधृतिस्मृतिकरं लक्ष्मीप्रदं भास्वते ॥ १४.१५॥
अथ कृतपुष्पाञ्जलिरपि पुनरष्टशतं जपेन्मनुं मन्त्री ।
यावद्रश्मिषु भानोव्र्याप्नोत्यम्भः सुधामयं तदपि ॥ १४.१६॥
अमृतमयजलावसिक्तगात्रो दिनपतिरप्यमृतत्वमातनोति ।
धनविभवसुदारमित्रपुत्रं पशुगणजुष्टमनन्तभोगयोगि ॥ १४.१७॥
तस्मादिनाय दिनशो ददताद्दिनादौ
दैन्यापनोदितनवे दिनवल्लभाय ।
अघ्र्यं समग्रविभवस्त्वथ वार्कवारे
पारं स गच्छति भवाह्वयवारिराशेः ॥ १४.१८॥
अनुदिनमर्चयितव्यः पुंसा विधिनामुनाथ वा रवये ।
दद्यादघ्र्यद्वयमपि कुर्याद्वा वाञ्छितार्थसमवाप्त्यै ॥ १४.१९॥
एकीकृत्य समस्तवस्त्वनुगतानादित्यचन्द्रानला-
न्वेदाद्येन गुणात्मकेन सगुणानाकृष्य हृल्लेखया ।
सर्वं तत्प्रतिमथ्य तावपि समावष्टभ्य हंसात्मना
नित्यं शुद्धमनन्यमक्षरपदं मन्त्रंई भवेद्योगतः ॥ १४.२०॥
अथ वदाम्यजपामनुमुत्तमं सकलसंसृतियापनसाधनम् ।
दुरितरोगविषापहरं नृणामिह परत्र च वाञ्छितसिद्धिदम् ॥ १४.२१॥
विष्णुपदं ससुधाकरखण्डं चन्द्रयुगावधिकं वतुरीयम् ।
क्षेत्रविदो मनुरेष समुक्तो यं प्रजपत्यपि सन्ततमात्मा ॥ १४.२२॥
ऋष्याद्या ब्रह्मदैव्यादिगायत्रीपरमात्मकः ।
हंसाक्लीबकलादीर्घयुजाङ्गानि समाचरेत् ॥ १४.२३॥
अरुणकनकवर्णं पद्मसंस्थं च गोरी-
हरनियमितचिह्नं सौम्य तानूनपातम् ।
भवतु भवदभीष्टावाप्तये पाशटज्र-
भयवरदविचित्रं रूपमर्धाम्बिकेशम् ॥ १४.२४॥
प्रजपेद्वादशलक्षं मनुमिमाज्यान्वितैश्च दौग्धान्नैः ।
तावत्सहस्रमानं जुहुयात्सौरे समर्चनापीठे ॥ १४.२५॥
निक्षिप्य कलमस्मिन्पूर्वोक्तानामपामथैकेन ।
आपूर्य चोपचर्य च विद्वानङ्गैः प्रपूजयेत्पूर्वम् ॥ १४.२६॥
ऋतवसुरनरसंज्ञास्तथर्तवो बद्रिपूर्विकाजान्ताः ।
आशोपाशास्थेयास्ततो दिशापास्ततश्च वङ्काआद्याः ॥ १४.२७॥
इति परिपूज्य च कलशं
पुनरभिषिच्याथ नियमितोऽघ्र्यमपि ।
दद्यादिनाय चैहिक-
पारत्रिकसिद्धये चिरं मन्त्री ॥ १४.२८॥
इन्दुद्वयोदितसुधारसपूर्णसार्ण-
सम्बद्धबिन्दुसुसमेधितमादिबीजम् ।
सञ्चिन्त्य यो मनुमिमं भजते मनस्वी
स्वात्मैक्यतोऽथ दुरितैः परिमुच्यतेऽसौ ॥ १४.२९॥
व्योमानुगेन च सुधाम्बुमुचा सुदामा
प्रद्योतमानसविनिःसृतशीतरुग्भ्याम् ।
आबाधिता दहनचन्द्रलसन्महोभ्यां
रोगापमृत्युविषदाहरुजः प्रयान्ति ॥ १४.३०॥
हंसाण्डाकाररूपं स्रुतपरमसुधं मूर्ध्नि चन्द्रं ज्वलन्तं
नीत्वा सौषुम्नमार्गं निशितमतिरथ व्याप्तदेहोपगात्रम् ।
स्मृत्वा सञ्जप्य मन्त्रं पलितविषशिरोरुग्ज्वरोन्मादभूता-
पस्मारादींश्च मन्त्री हरति दुरितदौर्भाग्यदारिद्र्यदोषैः ॥ १४.३१॥
विधाय लिपिपज्र्जं मनुयुतोल्लसत्र्किणकं
निधाय घटमत्र पूरयतु वारिणा तन्मुखम् ।
विधाय शशिनात्ममन्त्रयुतवामदोष्णा पुनः
सुधायितरसैः स्वसाध्यमभिषेचयेत्तज्जलैः ॥ १४.३२॥
नारी नरो वा विधिनाभिषिक्तो
मन्त्रेण तेनेति विषद्वयोढैः ।
रोगैस्तदाधिप्रभवैर्वियुक्त-
श्चिराय जीवेत्करणैः सुशुद्धैः ॥ १४.३३॥
करेण तेनैव जलाभिपूर्णं प्रजप्य मन्त्री करकं पिधाय ।
सुधायितैस्तैर्विषिणं निषिञ्चेद्विषं निहन्यादपि कालकूटम् ॥ १४.३४॥
गदितं निजपाणितलं विषिणः
शिरसि प्रविधाय जलैः शितधीः ।
अचिरात्प्रतिमोचयते विषतो
मतिमानथ तक्षकदष्टमपि ॥ १४.३५॥
इत्यजपामन्त्रविधिः सम्प्रोक्तः सङ्ग्रहेण मन्त्रिवराः ।
यं प्राप्य सकलवसुसुखधर्मयशोभुक्तिमुक्तिभाजः स्युः ॥ १४.३६॥
अरुणा शिखिदीर्घयुता हृल्लेखा श्वेत्तया युतानन्ता ।
प्रोक्तः प्रयाजनानां तिलकस्तु यथार्थवाचको मन्त्रः ॥ १४.३७॥
गुहयादाचरणतलं कण्ठादागुह्यमागलं कान्तान् ।
विन्यस्य मन्त्रबीजान्क्रमेण मन्त्री करोतु चाङ्गानि ॥ १४.३८॥
मन्त्रस्य मध्यमनुना दीर्घयुजाङ्गानि चेह कथितानि ।
ध्यायेत्पुनरहिमकरं मन्त्री निजवाञ्छितार्थलाभाय ॥ १४.३९॥
अरुणसरोरुहसंस्थस्त्रिदृगरुणोऽरुणसरोजयुगलधरः ।
कलिताभयवरदो द्युतिबिम्बोऽमितभूषणस्त्विनोऽवतु वः ॥ १४.४०॥
कृतसन्दीक्षो मन्त्री दिनकरलक्षं जपेन्मनुं जुहुयात् ।
तावत्सहस्रमन्नैः सघृतैर्मधुराप्लुतैस्तिलैरथ वा ॥ १४.४१॥
प्रागभिहितेन विधिना पीठाद्यं प्रतिविधाय तत्र पुनः ।
विन्यस्य कलशमस्मिन्प्रपूजयेत्तरणिमपि च सावरणम् ॥ १४.४२॥
अङ्गैः प्रथमावरणं ग्रहैर्द्वितीयं तृतीयमाशेशैः ।
मुख्यतरगन्धसुमनोधूपाद्यैरात्तभक्तिनम्रमनाः ॥ १४.४३॥
प्रागादिदिशासंस्थाः शशिबुधगुरुभार्गवाः क्रमेण स्युः ।
आग्नेयादिष्वश्रिषु धरणिजमन्दाहिकेतवः पूज्याः ॥ १४.४४॥
शुभ्रसितपीतशुक्ला रक्तासितधूम्रकृष्णकाः क्रमशः ।
चन्द्राद्याः केत्वन्ता वामोरुन्यस्तवामकरलसिताः ॥ १४.४५॥
अपरकराभयमुद्राविकृतमुखोऽहिः कराहिताञ्जलियुक् ।
दंष्ट्रोग्रास्यो मन्दः सुवर्णसदृशांशुकादिभूषश्च ॥ १४.४६॥
सम्पूज्यैवं विधिना विधिवद्गोरोचनादिभिद्र्रव्यैः ।
दद्यादघ्र्यं रवये मन्त्री निजवाञ्छितार्थलाभाय ॥ १४.४७॥
गोरोचनास्रतिलवैणवराजिरक्त-
शीताख्यशालिकरवीरजपाकुशाग्रान् ।
श्यामाकतण्डुलयुतांश्च यथाप्रलाभा-
न्संयोज्य भक्तिभरतोऽघ्र्यविधिर्विधेयः ॥ १४.४८॥
कृत्वा मण्डलमष्टपत्रलसितं तत्र्किणकायां तथा
पत्राग्रेषु निधाय कुम्भनवकं तत्पूरयित्वा जलैः ।
आवाह्य क्रमशो ग्रहान्नव समाराध्याभिषेकक्रियां
कुर्याद्यो ग्रहवैकृतादि विलयं यान्त्यस्य लक्ष्मीर्भवेत् ॥ १४.४९॥
गृहपरिमितमिष्ट्वा पूर्वकॢप्त्या दिनेशं
प्रतिजुहुत निजक्र्षे वैकृते वा ग्रहाणाम् ।
शुभमतिरुपरागे चन्द्रभान्वोः स्वभे वा
रिपुनृपजभये वा घोररूपे गदे वा ॥ १४.५०॥
अर्कद्विजाङ्घ्रिपमयूरकपिप्पलाश्च
सोदुम्बराः खदिरशम्यभिधाः सदूर्वाः ।
दर्भाह्वयाश्च समिधोऽष्टशतं क्रमेण
सव्याहृतीनि घृतहव्यघृतानि होमः ॥ १४.५१॥
सोमादीनां दिशि दिशि समाधाय वह्निं यथाव-
द्धोमे सम्यक्कृतवति मुदं यान्ति सर्वे ग्रहाश्च ।
युद्धे सम्यग्जयमपि रुजः शान्तिमायुश्च दीर्घं
कृत्वा शान्तिं व्रजति पुनेरकत्र वा सर्वहोमः ॥ १४.५२॥
अमुना विधिना हुतार्चनाद्यैः
प्रभजेद्यो दिनशो नरो दिनेशम् ।
मणिभिः स धनैश्च धान्यवर्यैः
परिपूर्णावसथो भवेच्चिराय ॥ १४.५३॥
त्यद्यन्त आर्यसूर्यर्णा मेधारेचिकया गुणः ।
व्यत्ययोऽष्टाक्षरः प्रोक्तः सौरः सर्वार्थसाधकः ॥ १४.५४॥
देवभाग ऋषिः प्रोक्तो गायत्री च्छन्द उच्यते ।
आदित्यो देवता चास्य कथ्यन्तेऽङ्गान्यतो मनोः ॥ १४.५५॥
सत्यब्रह्माविष्णुरुद्रैः साग्निभिः सर्वसंयुतैः ।
तेजोज्वालामणिं हुम्फट्स्वाहान्तैरङ्गमाचरेत् ॥ १४.५६॥
आदित्यं रविभानू भास्करसूर्यौ न्यसेत्स्वरैर्लघुभिः ।
सशिरोमुखहृद्गुह्यकचरणेषु क्रमश एव मन्त्रितमः ॥ १४.५७॥
सशिरोमुखगलहृदयोदरनाभिशिवाङघ्रिषु प्रविन्यस्येत् ।
प्रणवाद्यैरष्टार्णैः क्रमेण सोऽयं तदक्षरन्यासः ॥ १४.५८॥
अरुणोरुणपज्र्जे निषण्णः कमलेऽभीतिवरौ करैर्दधानः ।
स्वरुचाहितमण्डलस्त्रिणेत्रो रविराकल्पशताकुलोऽवताद्वः ॥ १४.५९॥
सन्दीक्षितस्तु मन्त्री मन्त्रं प्रजपेत्तु वर्णलक्षं तम् ।
जुहुयात्त्रिमधुरसिक्तैर्दुग्धतरुसमिद्वरैर्वसुसहस्रम् ॥ १४.६०॥
अथ वा सघृतैरन्नैः समर्चयेन्नित्यशोऽघ्र्यमपि दद्यात् ।
पूर्वोक्त एव पीठे कुम्भं प्रणिधाय साधु सम्पूर्य ॥ १४.६१॥
शुद्धाद्भिररुणवासोयुगेन संवेष्ट्य पूजयेत्क्रमशः ।
अङ्गावृतैः परस्तादादित्याद्यैरुषादिशक्तियुतैः ॥ १४.६२॥
मातृभिररुणान्ताभिग्र्रहैः सुरैश्चान्तसूर्यपरिषद्भिः ।
सोषा सप्रज्ञा च प्रभा च सन्ध्या च शक्तयः प्रोक्ताः ॥ १४.६३॥
सम्पूज्यैवं दिनेशं पटुमतिरथ जप्त्वा च हुत्वाभिषेकं
कृत्वा दत्तेन सङ्ख्यां वसुमपि गुरवे सांशुकं भोजयेच्च ।
विप्रानादित्यसङ्ख्यानिति विदितमनुं नित्यशोऽघ्र्यं च दद्या-
द्वारे वा भास्करीये शुभतरचरितो वल्लभाय ग्रहाणाम् ॥ १४.६४॥
इतीह दिनकृन्मनुं भजति नित्यशो भक्तिमा-
न्य एष निचितेन्दिरो भवति नीरुजो वत्सरात् ।
समस्तदुरितापमृत्युरिपुभूतपीडादिका-
नपास्य सुसुखी च जीवति परं च भूयात्पदम् ॥ १४.६५॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे चतुर्दशः पटलः ॥
॥ पञ्चदशः पटलः ॥
अथ चन्द्रमनुं वक्ष्ये सजपार्चाहुतादिकम् ।
हिताय मन्त्रिणां साघ्र्यविधानं च समासतः ॥ १५.१॥
भृगुः ससद्यः सार्धेन्दुर्बिन्दुहीनः पुनश्च सः ।
विषानन्तौ मान्तनती मन्त्रोऽयं सोमदैवतः ॥ १५.२॥
दीर्घभाजा स्वबीजेन कुर्यादङ्गानि वै क्रमात् ।
विचिन्तयेत्पुनर्मन्त्री यथावन्मन्त्रदेवताम् ॥ १५.३॥
अमलकमलसंस्थः सुप्रसन्नाननेन्दु-
र्वरदकुमुदहस्तश्चारुहारादिभूषः ।
स्फटिकरजतवर्णो वाञ्छितप्राप्तये वो
भवतु भवदभीष्टोद्योतिताज्र्ः शशाज्र्ः ॥ १५.४॥
दीक्षितः प्रजपेन्मन्त्री रसलक्षं मनुं वशी ।
पञ्चमीदशमीपञ्चदशीषु तु विशेषतः ॥ १५.५॥
अयुतं प्रजपेन्मन्त्री सायाह्नेऽभ्यच्र्य भाधिपम् ।
पयोन्नेनहुनेद्भूयः सघृतेन सहस्रकम् ॥ १५.६॥
सर्सिपषा पायसेन षट्सहस्रं हुनेत्ततः ।
पीठकॢप्तौ तु सोमान्तं परिपूज्यार्चयेद्विधुम् ॥ १५.७॥
केसरेष्वङ्गपूजा स्याच्छक्तीस्तद्बहिरर्चयेत् ।
रोहिणीं कृत्तिकाख्यां च रेवतीं भरणीं तथा ॥ १५.८॥
रात्रिमाद्र्राह्वयां ज्योत्स्नां कलां च क्रमतोऽर्चयेत् ।
दलाग्रेषु ग्रहानष्टौ दिशानाथाननन्तरम् ॥ १५.९॥
सुसितैर्गन्धकुसुमैः पात्रै रूप्यमयैस्तथा ।
शक्तयः फुल्लकुन्दाभास्तारहारविभूषणाः ॥ १५.१०॥
सितमाल्याम्बरालेपा रचिताञ्जलयो मताः ।
इति सिद्धमनुर्मन्त्री शशिनं मूर्ध्नि चिन्तयेत् ॥ १५.११॥
त्रिसहस्रं जपेद्रात्रौ मासान्मृत्युञ्जयो भवेत् ।
हृदयाम्भोजसंस्थं तं भावयन्प्रजपन्मनुम् ॥ १५.१२॥
राज्यैश्वर्यं वत्सरेण प्राप्नुयादप्यकिञ्चनः ।
आहाराचारनिरतो जपेल्लक्षचतुष्टयम् ॥ १५.१३॥
असंशयतरं तेन निधानमुपलभ्यते ।
घोरा ज्वरा गराः शीर्षरोगाः कृत्याश्च कामिलाः ॥ १५.१४॥
तन्मन्त्रायुतजापेन नश्यन्ति सकलापदः ।
नित्यशः प्रजपेन्मन्त्रं पूर्णासु विजितेन्द्रियः ॥ १५.१५॥
जपेन्मनुं यथाशक्ति लक्ष्मीसौभाग्यसिद्धये ।
त्रितयं मण्डलानां तु कृत्वा पाश्चात्त्यपौर्विकम् ॥ १५.१६॥
आसीनः पश्चिमे मध्ये संस्थे द्रव्याणि विन्यसेत् ।
पूर्वस्मिन्पज्र्जोपेते पूर्ववत्सोममर्चयेत् ॥ १५.१७॥
राकायामुदये राज्ञो निजकार्यं विचिन्तयेत् ।
संस्थाप्य राजतं तत्र चषकं परिपूरयेत् ॥ १५.१८॥
गव्येन शुद्धपयसा स्पृष्टपात्रो जपेन्मनुम् ।
अष्टोत्तरशतावृत्त्या दद्यादघ्र्यमथेन्दवे ॥ १५.१९॥
विद्यामन्त्रेण मन्त्रज्ञो यथावत्तद्गतात्मना ।
विद्याविद्यापदे प्रोक्त्वा मालिनीति च चन्द्रिणी ॥ १५.२०॥
चन्द्रमुख्यनिजायां च निगदेत्प्रणवादिकम् ।
प्रतिमासं च षण्मासात्सिद्धिमेष्यति काङ्क्षितम् ॥ १५.२१॥
इष्टाय दीयते कन्या कन्यां विन्देन्निजेप्सिताम् ।
अमितां श्रियमाप्नोति कान्तिं पुत्रान्यशः पशून् ।
सोमाघ्र्यदाता लभते दीर्घमायुश्च विन्दति ॥ १५.२२॥
इति सोममन्त्रसिद्धिं प्रणिगदितः सङ्ग्रहेण मन्त्रविदाम् ।
उपकृतयेऽमितलक्ष्म्यै मेधायै प्रेत्य चेह सम्पत्त्यै ॥ १५.२३॥
अथाग्निमन्त्रान्सकलार्थसिद्धि-
करान्प्रवक्ष्ये जगतो हिताय ।
सष्र्यादिकॢप्तीनपि साङ्गभेदा-
न्सार्चाविशेषान्सजपादिकांश्च ॥ १५.२४॥
वियतो दशमोर्ऽइघसर्गयुक्तो भुवसर्गौ भृगुलान्तषोडशाचः ।
हुतभुग्दयिता ध्रुवादिकोऽयं मनुरुक्तः सुसमृद्धिदः कृशानोः ॥ १५.२५॥
भृगुरपि तदृषिश्छन्दो गायत्री देवताग्निरुद्दिष्टः ।
प्राक्प्रोक्तान्यङ्गानि विशः समुक्तैश्च मन्त्रवाक्यैर्वा ॥ १५.२६॥
शक्तिस्वस्तिकपाशान्साज्रुशवरदाभयान्दधात्त्रिमुखः ।
मकुटादिविविधभूषोऽवताच्चिरं पावकः प्रसन्नो वः ॥ १५.२७॥
जपेदिमं मनुमृतुलक्षमादरा-
द्दशांशतः प्रतिजुहुयात्पयोन्धसा ।
सर्सिपषाप्यसिततरैश्च षाष्टिकैः
समर्चयेदथ विधिवद्विभावसुम् ॥ १५.२८॥
पीता श्वेतारुणा कृष्णा धूम्रा तीव्रा स्फुलिङ्गिनी ।
रुचिरा कालिनी चेति कृशानोर्नव शक्तयः ॥ १५.२९॥
पीठे तनूनपातः प्रागङ्गैरष्टमूर्तिभिस्तदनु ।
भूयश्च शतमखाद्यैर्विधिनाथ हिरण्यरेतसं प्रयजेत् ॥ १५.३०॥
आज्यैरष्टाध्र्वशतं प्रतिपदमारभ्य मन्त्रविद्दिनशः ।
चतुरो मासाञ्जुहुयाल्लक्ष्मीरत्यायता भवेत्तस्य ॥ १५.३१॥
शुद्धाभिः शालीभिर्दिनमनुजुहुयात्तथाब्दमात्रेण ।
शालीशालि गृहं स्याद्गोमहिषाद्यैश्च सङ्कुलं तस्य ॥ १५.३२॥
शुद्धान्नैर्घृतसिक्तैः प्रतिदिनमग्नौ समेधिते जुहुयात् ।
अन्नसमृद्धिर्महती स्यादस्य निकेतनेऽब्दमात्रेण ॥ १५.३३॥
जुहुयात्तिलैः सुशुद्धैः षण्मासाज्जायते महालक्ष्मीः ।
कुमुदैः कह्लारैरपि जातीकुसुमैश्च जायते सिद्धिः ॥ १५.३४॥
पालाशैः पुनरिध्मकैः सरसिजैर्बिल्वैश्च रक्तोत्पलै-
र्दुग्धोर्वीरुहसम्भवैः खदिरजैव्र्याघातवृक्षोद्भवैः ।
दूर्वाख्यैश्च शमीविकज्र्तभवैरष्टोध्र्वयुक्तं शतं
नित्यं वा जुहुयात्प्रतिप्रतिपदं मन्त्री महासिद्धये ॥ १५.३५॥
तारं व्याहृतयश्चाग्निर्जातवेद इहावह ।
सर्वकर्माणि चेत्युक्त्वा साधयाग्निवधूर्मनः ॥ १५.३६॥
ऋष्याद्याः पूर्वोक्ता मन्त्रेणाङ्गानि वर्णभिन्नेन ।
भूतर्तुकरणसेन्द्रियगुणयुग्मैर्जातिभेदितैस्तदपि ॥ १५.३७॥
अथ वा शक्तिस्वस्तिकदर्भाक्षस्रक्स्रुवस्रुगभयवरान् ।
दधदमिताकल्पो यो वसुरवतात्कनकमालिकालसितः ॥ १५.३८॥
वत्सरादेश्चतुर्दश्यां दिनादावेव दीक्षितः ।
मन्त्रं द्वादशसाहस्रं जपेत्सम्यगुपोषितः ॥ १५.३९॥
अर्चयेदङ्गमूर्तीश्च लोकेशकुलिशादिभिः ।
समिदाद्यममावास्यां परिशोध्य यथाविधि ॥ १५.४०॥
ब्राह्मणान्भोजयित्वा च स्वयं भुक्त्वा समाहितः ।
परेऽह्नि प्रतिपद्येतैर्जुहुयार्दिचतेऽनले ॥ १५.४१॥
मन्त्री वटसमिद्व्रीहितिलराजिहविर्घृतैः ।
अष्टोत्तरशतावृत्त्या हुनेदेकैकशः क्रमात् ॥ १५.४२॥
दशाहमेवं कृत्वा तु पुनरेकादशीतिथौ ।
शक्त्या प्रतप्र्य विप्रांश्च प्रदद्याद्गुरुदक्षिणाम् ॥ १५.४३॥
सुवर्णवासोधान्यानि शोणां गां च सतर्णकाम् ।
पुनरष्टोत्तरं मन्त्री सहस्रं दिनशो जपेत् ॥ १५.४४॥
विधिनेति विधातुरग्निपूजामचिरेणैव भवेन्महासमृद्धिः ।
धनधान्यसुवर्णरत्नपूर्णा धरणी गोवृषपुत्रमित्रकीर्णा ॥ १५.४५॥
प्रजपेदथ वा सहस्रसङ्ख्यं
दिनशो वत्सरतो भवेन्महाश्रीः ।
जुहुयात्प्रतिवासरं शताख्यं
हविषाब्देन भवेन्महासमृद्धिः ॥ १५.४६॥
पालाशैः कुसुमैर्हुनेद्दधिघृतक्षौद्राप्लुतैर्मण्डलं
नित्यं साष्टशतं तथैव करवीरोत्थैः समृद्ध्यै हुनेत् ।
षण्मासं कपिलाघृतेन दिनशोऽप्यष्टौ सहस्रं तथा
होतव्यं लभते स राजसदृशीं लक्ष्मीं यशो वा महत् ॥ १५.४७॥
उत्पूर्वात्तिष्ठशब्दात्पुरुषहरिपदे पिङ्गलान्ते निगद्य
प्रोच्याथो लोहिताक्षं पुनरपि च वदेद्देहि मेदान्क्रमेण ।
भूयो ब्रूयात्तथा दापय शशियुगलार्णांश्चतुर्विंशदर्णः
प्रोक्तो मन्त्रोऽखिलेष्टप्रतरणसुरसद्माङ्घ्रिपः स्यात्कृशानोः ॥ १५.४८॥
ऋष्याद्याः स्युः पूर्ववदृतृभूतदिशात्रिकरणयुगलार्णैः ।
मूलमनुनाथ कुर्यादङ्गानि क्रमश एव मन्त्रितमः ॥ १५.४९॥
हैमाश्वत्थसुरद्रुमोदरभुवो निर्यान्तमश्वाकृतिं
वर्षन्तं धनधान्यरत्ननिचयान्रन्ध्रैः स्वकैः सन्ततम् ।
ज्वालापल्लवितस्वरोमविवरं भक्तार्तिसम्भेदनं
वन्दे धर्मसुखार्थमोक्षसुखदं दिव्याकृतिं पावकम् ॥ १५.५०॥
जप्याच्च लक्षमानं मन्त्री सन्दीक्षितोऽथ मनुमेनम् ।
जुहुयाच्च तदवसाने घृतसिक्तैः पायसैर्दशांशेन ॥ १५.५१॥
अङ्गैर्हुतवहमूर्तिभिराशेशैः संयजेत्तदस्रैश्च ।
पावकमिति मन्त्रितमो गन्धाद्यैरनुदिनं तदुपहारैः ॥ १५.५२॥
दिनावतारे मनुमेनमन्वहं जपेत्सहस्रं नियमेन मन्त्रवित् ।
अधृष्यतायै यशसे श्रिये रुजां विमुक्तये युक्तमतिस्थायुषे ॥ १५.५३॥
शालीतण्डुलकैः सितैश्च पयसा कृत्वा हविः पावकं
गन्धाद्यैः परिपूज्य तेन हविषा संंंवत्र्य पिण्डं महत् ।
आज्यालोलितमेकमेव जुहुयाज्जप्त्वा मनुं मन्त्रवि-
त्साष्टोध्र्वं प्रतिपद्यथो शतमतः स्यादिन्दिरा वत्सरात् ॥ १५.५४॥
अष्टोत्तरं शतमथो मृगमुद्रयैव
मन्त्री प्रतिप्रतिपदं जुहुयात्पयोन्नैः ।
साज्यैर्भवेन्न खलु तत्र विचारणीयं
संवत्सरात्स च निकेतनमिन्दिरायाः ॥ १५.५५॥
अष्टोध्र्वशतं हविषा मन्त्रेणानेन नित्यशो जहुयात् ।
षण्मासादाढ्यतमो भवति नरो नात्र सन्देहः ॥ १५.५६॥
शालीभिः शुद्धाभिः प्रतिदिनमष्टोत्तरं शतं जुहुयात् ।
धनधान्यसमृद्धः स्यान्मन्त्री संवत्सरार्धमात्रेण ॥ १५.५७॥
आज्यैरयुतं जुहुयात्प्रतिमासं प्रतिपदं समारभ्य ।
अतिमहती लक्ष्मीः स्यादस्य तु षण्मासतो न सन्देहः ॥ १५.५८॥
अरुणैः पुनरुत्पलैः शतं यो
मधुराक्तैः प्रजुहोति वत्सरार्धम् ।
मनुनाप्यमुना दशाधिकं स
पलभेन्मङ्क्षु महत्तरां च लक्ष्मीम् ॥ १५.५९॥
जातीपलाशकरवीरजपाख्यबिल्व-
व्याघातकेसरकुरण्डभवैः प्रसूनैः ।
एकैकशः शतमथो मधुरत्रयाक्तै-
र्जुह्वत्प्रतिप्रतिपदं श्रियमेति वर्षात् ॥ १५.६०॥
खण्डैश्च सप्तदिनमप्यमृतालतोत्थै-
र्मन्त्री हुनेद्गुणसहस्रमथो पयोक्तैः ।
सम्यक्समच्र्य दहनं नचिरेण जन्तु-
श्चातुर्थिकादिविषमज्वरतो वियुञ्ज्यात् ॥ १५.६१॥
क्षीरद्रुमत्वगभिपक्वजलैर्यथाव-
त्सम्पूर्य कुम्भमभिपूज्य कृशानुमत्र ।
जप्त्वा मनुं पुनरमुं त्रिसहस्रमानं
सेकक्रिया ज्वरहरी ग्रहवैकृतघ्नी ॥ १५.६२॥
पयसि हृदयदघ्ने भानुमालोक्य तिष्ठ-
न्प्रजपतु च सहस्रं नित्यशो मन्त्रमेनम् ।
स दुरितमपमृत्युं रोगजातांश्च हित्वा
व्रजति नियतसौख्यं वत्सराद्दीर्घमायुः ॥ १५.६३॥
मनुनामुनाष्टशतजप्तमथ प्रपिबेज्जलं ज्वलनदीपनकृत् ।
गुरु भुक्तमप्युदरगं त्वमुना परिजापितं पचति कुक्ष्यनलः ॥ १५.६४॥
हुनेदरुणपज्र्जैस्त्रिमधुराप्लुतैर्नित्यशः
सहस्रमृतुमासतः पृथुतरा रमा जायते ।
प्रतिप्रतिपदं हुनेदिति बुधो धिया वत्सरा-
द्विनष्टवसुरप्यसौ भवति चेन्दिरामन्दिरम् ॥ १५.६५॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे पञ्चदशः पटलः ॥
॥ षोडशः पटलः ॥
अथ सङ्ग्रहेण कथयामि मनुमपि महागणेशितुः ।
यमवहितधियः समुपास्य सिद्धिमधिकां प्रपेदिरे ॥ १६.१॥
तारश्रीशक्तिमारावनिगणपतिबीजानि दण्डीनि चोक्त्वा
पश्चाद्विघ्नं चतुथ्र्या वरवरदमथो सर्वयुक्तं जनं च ।
आभाष्य क्ष्वेलमेन्तं वशमिति च तथैवानयेति द्विठान्तः
प्रोक्तोऽयं गाणपत्यो मनुरखिलविभूतिप्रदः कल्पशाखी ॥ १६.२॥
ऋषिरपि गणकोऽस्य स्याच्छन्दोनिचृदन्विता च गायत्री ।
सकलसुरासुरवन्दितचरणयुगो देवता महागणपः ॥ १६.३॥
प्रणवादिबीजपीठस्थितेन दीर्घस्वरान्वितेन सता ।
अङ्गानि षड्विदध्यान्मन्त्री विघ्नेश्वरस्य बीजेन ॥ १६.४॥
मन्दाराद्यैः कल्पकवृक्षविशेषैर्विशिष्टतरफलदैः ।
शिशिरितचतुराशेऽन्तर्बालातपचन्द्रिकाकुले च तले ॥ १६.५॥
ऐक्षवजलनिधिलहरीकणजालकवाहिना च गन्धवहेन ।
संसेविते च सुरतरुसुमनःश्रितमधुपपक्षचलनपरेण ॥ १६.६॥
रत्नमये मणिवङ्काप्रवालफलपुष्पपल्लवस्य सतः ।
महतोऽधस्तादृतुभिर्युगपत्संसेवितस्य कल्पतरोः ॥ १६.७॥
सिंहमुखपादपीठगलिपिमयपद्मे त्रिषट्कोणोल्लसिते ।
आसीनस्त्वेकरदो बृह्दुदरो दशभुजोऽरुणतनुश्च गजवदनः ॥ १६.८॥
बीजापूरगदेक्षुकार्मुकरुजाचक्राब्जपाशोत्पल-
व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः ।
ध्येयो वल्लभया सपद्मकरयाश्लिष्टो ज्वलद्भूषया
विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नो विशिष्टार्थदः ॥ १६.९॥
करपुष्करधृतकलशस्रुतमणिमुक्ताप्रवालवर्षेण ।
अविरतधारां विकिरन्परितः साधकसमग्रसम्पत्त्यै ॥ १६.१०॥
मदजललोलुपमधुकरमालां निजकर्णतालताडनया ।
निर्वासयन्मुहुर्मुहुरमरैरसुरैश्च सेवितो युगपत् ॥ १६.११॥
अग्रेऽथ बिल्वमभितश्च रमारमेशौ
तद्दक्षिणे वटजुषौ गिरिजावृषाज्रै ।
पृष्ठेऽथ पिप्पलजुषौ रतिपुष्पबाणौ
सव्ये प्रियङ्गुमभितश्च महीवराहौ ॥ १६.१२॥
ध्येयौ च पद्मयुगचक्रदरैः पुरोक्तौ
पाशाज्रुशाख्यपरशुत्रिशिखैरथान्यौ ।
युग्मोत्पलेक्षुमयचापधरौ तृतीया-
वन्यौ शुकाह्वकलमाग्रगदारथाङ्गैः ॥ १६.१३॥
ध्येयाः षट्कोणाश्रिषुपरितः पाशाज्रुशाभयेष्टकराः ।
सप्रमदा गणपतयो रक्ताकाराः प्रभिन्नमदविवशाः ॥ १६.१४॥
अग्राश्रावामोदः प्रमोदसुमुखौ च तदभितोऽश्रियुगे ।
पृष्ठे च दुर्मुखाख्यस्त्वमुमभितो विघ्नविघ्नकर्तारौ ॥ १६.१५॥
सव्यापसव्यभागे तस्य ध्येयौ च शङ्खपद्मनिधी ।
मौक्तिकमाणिक्याभौ वर्षन्तौ धारया धनानि सदा ॥ १६.१६॥
सिद्धिसमृद्धी चान्या कान्तिर्मदनावती मदद्रवया ।
द्राविणिवसुधाराख्ये वसुमत्यपि विघ्ननिधियुगप्रमदाः ॥ १६.१७॥
ध्यात्वैवं विघ्नपतिं चत्वारिंशत्सहस्रसंयुक्तम् ।
प्रजपेल्लक्षचतुष्कं चतुःसहस्रं च दीक्षितो मन्त्री ॥ १६.१८॥
दिनशः स चतुश्चत्वारिंशत्सङ्ख्यं प्रतर्पयेद्विघ्नम् ।
उक्तजपान्ते मन्त्री जुहुयाच्च दशांंशतोऽष्टभिद्र्रव्यैः ॥ १६.१९॥
मोदकपृथुका लाजाः ससक्तवः सेक्षुनालिकेरतिलाः ।
कदलीफलसहितानीत्यष्ट द्रव्याणि सम्प्रदिष्टनि ॥ १६.२०॥
अनुदिनमर्चयितव्यो जपता मनुमपि च मन्त्रिणा गणपः ।
प्राक्प्रोक्तपद्मपीठे सशक्तिके साधिका मनौ विधिना ॥ १६.२१॥
तीव्रा ज्वालिनिनन्दे सभोगदा कामरूपिणी चोग्रा ।
तेजोवती च नित्या सम्प्रोक्ता विघ्ननाशिनी नवमी ॥ १६.२२॥
सर्वयुतं शक्तिपदं प्रोक्त्वा कमलासनाय नम इति च ।
आसनमन्त्रः प्रोक्तो नवशक्त्यन्ते समर्चयेदमुना ॥ १६.२३॥
आद्या मिथुनैरावृतिरपरा सनिधिभिरपि च षड्विघ्नैः ।
अङ्गैरन्या मातृभिरपरेन्द्राद्यैश्च पञ्चमी पूज्या ॥ १६.२४॥
दीक्षाभिषेकयुक्तः प्रजपेत्सम्पूजयेदिति गणेशम् ।
अभिधीयतेऽस्य च पुनर्गुर्वादेशेन मन्त्रिणो दीक्षा ॥ १६.२५॥
मध्ये च दिग्दलानां चतुष्टयाग्रे प्रविन्यसेत्कलशान् ।
क्षीरद्रुबिल्वरोहिणपिप्पलफलिनीत्वगुद्भवैः क्वथितैः ॥ १६.२६॥
सम्पूजयेद्यथावत्क्रमात्समावाह्य गणपमिथुनानि ।
अभ्यच्र्य चोपचारैर्हुत्वा विधिवत्पुनः समभिषिञ्चेत् ॥ १६.२७॥
इति जपहुतार्चनाद्यैः सिद्धो मन्त्रेण कर्म कुर्वीत ।
अष्टद्रव्यैर्वान्यैर्हुनेच्च तत्तत्प्रयोजनावाप्त्यै ॥ १६.२८॥
स्वर्णाप्त्यै मधुना च गव्यपयसा गोसिद्धये र्सिपषा
लक्ष्म्यै शर्करया जुहोतु यशसे दघ्ना च सर्वद्र्धये ।
अन्नैरन्नसमृद्धये च सतिलैद्र्रव्याप्तये तण्डुलै-
र्लाजाभिर्यशसे कुसुम्भकुसुमैः साश्वारिजैर्वाससे ॥ १६.२९॥
पद्मैर्भूपतिमुत्पलैर्नृपवधूं तन्मन्त्रिणः कैरवै-
रश्वत्थादिसमिद्भिरग्रजमुखान्वर्णान्वधूः पिष्टजैः ।
पुत्तल्यादिभिरन्वहं च वशयेज्जुह्वन्ननावृष्टये
लोणैर्वृष्टिसमृद्धये च जुहुयान्मन्त्री पुनर्वेतसैः ॥ १६.३०॥
मन्त्रेणाथ पुरामुनैव चतुरावृत्त्या समातप्र्य च
श्रीशक्तिस्मरभूविनायकरतीर्नाम्नैव बीजादिकम् ।
आमोदादिनिधिद्वयं च सचतुःपूर्वं चतुर्वारकं
मन्त्री तर्पणतत्परोऽभिलषितं सम्प्राप्नुयान्मण्डलात् ॥ १६.३१॥
अथ गजलिप्सुर्नृपतिर्गजवनमध्ये प्रसाधयेद्वारि ।
तन्निकटे तु विशालं चतुरश्रं कारयेच्च गृहवर्यम् ॥ १६.३२॥
परिवीतदृढावरणं तच्च चतुर्दारतोरणोल्लसितम् ।
तस्मिन्मण्डपवर्ये चतुरश्रामुन्नतां स्थलीं कृत्वा ॥ १६.३३॥
उत्तरभागे तस्याः कुण्डं रचयेद्यथा पुरा तत्र ।
चापजहरिभवमानुषचक्रप्रोक्तानथाक्षरान्मन्त्री ॥ १६.३४॥
ऊध्र्वादिमेखलासु क्रमेण विलिखेन्निजेष्टसमवाप्त्यै ।
सम्प्रोक्तलक्षणयुतं प्रविरचयेन्मण्डलं स्थलीमध्ये ॥ १६.३५॥
आवाह्य विघ्नेश्वरमर्चयित्वा
प्रागुक्तया तत्र विधानकॢप्त्या ।
निवेदयित्वा सह भक्ष्यलैह्यैः
प्राज्यैश्च साज्यैरपि भोज्यजातैः ॥ १६.३६॥
आधाय वैश्वानरमत्र कुण्डे समच्र्य मन्त्रैः क्रमशः कृशानोः ।
तैरेव पूर्वं जुहुयाद्घृतेन मन्त्री समृद्ध्या च ततस्त्रिवारम् ॥ १६.३७॥
तारेण लक्ष्म्यद्रिसुतास्मरक्ष्माविघ्नेशबीजैः क्रमशोऽनुबद्धैः ।
पदत्रयेणापि च मन्त्रराजं विभज्य मन्त्री नवधा जुहोतु ॥ १६.३८॥
पुनः समस्तेन च मन्त्रवर्णसङ्ख्यं प्रजुह्वन्नपि र्सिपषैव ।
पूर्वप्रदिष्टैर्जुहुयादथाष्टद्रव्यैः प्रसिक्तैर्मधुरत्रयेण ॥ १६.३९॥
सचतुश्चत्वारिंशत्सहस्रसङ्ख्यैश्चतुःशतैः श्रुतिभिः ।
दशकचतुष्कैर्हुत्वा चत्वारिंशद्भिरन्तरेण दिनैः ॥ १६.४०॥
करिकलभाः करिणीभिः सम्पात्यन्तेऽवटेऽत्र गणपतिना ।
प्रतिदिनमभ्यवहार्य च विप्रान्संर्विधतस्तदाशीर्भिः ॥ १६.४१॥
तेषां मातङ्गानां दद्यात्पञ्चांशदक्षिणां गुरवे ।
तद्विक्रीतं वसु वा प्रसादितायाथ तद्दशांशं वा ॥ १६.४२॥
मिथुनानां गणपानां निध्योश्च तथाङ्गमातृलोकेशानाम् ।
मन्त्री घृतेन हुत्वाभ्यच्र्य च होमं समापयेत्सम्यक् ॥ १६.४३॥
पुनरुद्धृत्य निवेद्यादिकं समभ्यच्र्य गणपतिं सावरणम् ।
उद्वास्य स्वे हृदये विहरेदित्यर्चना क्रमोद्दिष्टा ॥ १६.४४॥
प्रोक्तस्त्वेवं दशभुजमनुः सङ्ग्रहेणात्र भक्तो
दीक्षां प्राप्तो विधिवदभिजप्त्वाथ हुत्वार्चयित्वा ।
नुत्वा नत्वा दिनमनु तथा तर्पयित्वा स्वकामा-
ल्लँब्ध्वा चान्ते व्रजति मुनिभिः प्रार्थनीयं पदं तत् ॥ १६.४५॥
स्मृतिपीठः पिनाकी सानुग्रहो बिन्दुसंयुतः ।
बीजमेतद्भुवः प्रोक्तं संस्तम्भनकरं परम् ॥ १६.४६॥
चतुरीयो विलोमेन तारादिर्बिन्दुसंयुतः ।
वैघ्नो मन्त्रो हृदन्तोऽर्चाविधौ होमे द्विठान्तकः ॥ १६.४७॥
गणकः स्यादृषिश्छन्दो निचृद्विघ्नश्च देवता ।
बीजेन दीर्घयुक्तेन दण्डिनाङ्गक्रियेरिता ॥ १६.४८॥
रक्तो रक्ताङ्गरागांशुककुसुमयुतस्तुन्दिलश्चन्द्रमौलि-
र्नेत्रैर्युक्तस्त्रिभिर्वामनकरचरणो बीजपूरात्तनासः ।
हस्ताग्राकॢप्तपाशाज्रुशरदवरदो नागयज्ञाभिभूषो
देवः पद्मासनो वो नवतु नतसुरो भूतये विघ्नराजः ॥ १६.४९॥
दीक्षितः प्रजपेल्लक्षचतुष्कं प्राक्समीरितैः ।
जुहुयादष्टभिद्र्रव्यैर्यथापूर्वं दशांशतः ॥ १६.५०॥
पीठे तीव्रादिभिः पद्मर्किणकायां विनायकम् ।
आवाह्य पूजयेद्दिक्षु चतुष्र्वपि यजेत्पुनः ॥ १६.५१॥
गणाधिपगणेशौ च गणनायकमेव च ।
गणक्रीडं र्किणकायामङ्गैः किञ्जल्कसंस्थितैः ॥ १६.५२॥
वक्रतुण्डैकदंष्ट्रौ च महोदरगजाननौ ।
लम्बोदरश्च विकटो विघ्नराड्धूमवर्णकौ ॥ १६.५३॥
समर्चयेन्मातृवर्गं बाह्ये लोकेश्वरानपि ।
इति प्रोक्ता सङ्ग्रहेण गाणेशीयं समर्चना ॥ १६.५४॥
नारिकेलान्वितैर्मन्त्री सक्तुलाजतिलैर्हुनेत् ।
आरभ्याच्छां प्रतिपदं चतुथ्र्यन्तं चतुःशतम् ॥ १६.५५॥
दिनशः सर्ववश्यं स्यात्सर्वकामप्रदं नृणाम् ।
तिलतण्डुलकैर्लक्ष्मीवश्यकृच्च यशस्करम् ॥ १६.५६॥
मधुरत्रयसिक्ताभिर्लाजाभिः सप्तवासरम् ।
जुहुयात्कन्यकार्थी वा कन्यका वा वरार्थिनी ॥ १६.५७॥
चतुथ्र्यां नालिकेरैस्तु होमः सद्यः श्रियावहः ।
हविषा घृतसिक्तेन सर्वकार्यार्थदो हुतः ॥ १६.५८॥
दध्यन्नलोणमुद्राभिहुनेन्निशि चतुर्दिनम् ।
इष्टार्थसिद्ध्यै मतिमान्सद्यः संवादसिद्धये ॥ १६.५९॥
ईदृशं गणपं ध्यात्वा मन्त्री तोयैः सुधामयैः ।
दिनादौ दिनशस्तस्य तर्पयेन्मस्तके सुधीः ॥ १६.६०॥
चत्वारिंशच्चतुःपूर्वं तत्पूर्वं वा चतुःशतम् ।
चत्वारिंशद्दिनात्तस्य काङ्क्षिता सिद्धिरेष्यति ॥ १६.६१॥
नवनीते नवे लिख्यादनुलोमविलोमकम् ।
उदरस्थितसाध्याख्यं तद्बीजं तत्प्रतिष्ठितम् ॥ १६.६२॥
समीरणं प्रतिष्ठाप्य जप्त्वाष्टशतसङ्ख्यकम् ।
तूष्णीं प्रभक्षयेदेतत्सप्तरात्राद्वशीकरम् ॥ १६.६३॥
अन्त्यासनोऽथ सूक्ष्मो लोहितगोऽग्निः पुनः स एव स्यात् ।
सादान्तेनायार्णौ नत्यन्तो मनुरयं स्वबीजाद्यः ॥ १६.६४॥
ऋषिदेवते तु पूर्वे च्छन्दस्तु विराडमुष्य सम्प्रोक्ता ।
बीजेन दीर्घभाजा कथितोऽङ्गविधिः क्रमेण बिन्दुमता ॥ १६.६५॥
धृतपाशाज्रुशकल्पकलतिकास्वरदश्च बीजपूरयुतः ।
शशिशकलकलितमौलिस्त्रिलोचनोऽरुणतनुश्च गजवदनः ॥ १६.६६॥
भासुरभूषणदीप्तो बृहदुदरः पद्मविष्टरो ललितः ।
ध्येयोऽनायतदोःपदसरसिरुहः सम्पदे सदा मनुजैः ॥ १६.६७॥
दीक्षायुक्तः प्रजपेल्लक्षं मनुमेनमथ तिलैरयुतम् ।
त्रिमधुरसिक्तैर्जुहुयात्पूर्वोक्तैर्वाथ वाष्टभिद्र्रव्यैः ॥ १६.६८॥
विघ्नविनायकवीराः सशूलवरदेभवक्त्रकैकरदाः ।
लम्बोदरश्च मातङ्गावृत्योरन्तरा च लोकेशाः ॥ १६.६९॥
पूज्याः सितघृतपायसहवनात्सञ्जायते महालक्ष्मीः ।
केवलघृतहुतमुदितो विघ्नः सद्यो वशीकरोति जगत् ॥ १६.७०॥
एकमपि नालिकेरं सचर्मलोष्टेन्धनं हुनेन्मन्त्री ।
दिनशश्चत्वारिंशद्दिनतः स तु वाञ्छितार्थमभ्येति ॥ १६.७१॥
सह पृथुकसक्तुलाजैस्तिलैरभीष्टार्थसिद्धये जुहुयात् ।
सापूपनालिकेरेक्षुककदलीभिस्तथा सुमधुराभिः ॥ १६.७२॥
अष्टभिरेतैर्विहितो होमः सर्वार्थसाधको भवति ।
दिनशः सघृतान्नहुतो गृहयात्रायापको गृहस्थानाम् ॥ १६.७३॥
अन्वहमन्वहमादौ गणपं सन्तर्पयेच्चतुःपूर्वम् ।
चत्वारिंशद्वारैः शुद्धजलैरिन्दिराप्तये मन्त्री ॥ १६.७४॥
समहागणपतियुत्तैरीवघ्नाद्यैर्दशभिराह्वयैर्दिनशः ।
तर्पणपूजाहुतविधिरपि वाञ्छितसिद्धिदायको भवति ॥ १६.७५॥
बिम्बादम्बुदवत्समेत्य सवितुः सोपानकै राजतै-
स्तोयं तोयजविष्टरं ध्रतलतादन्तं सपाशाज्रुशम् ।
नासां साध्यनृके निधाय सुधया तद्रन्ध्रनिर्यातया
सिञ्चन्तं वपुरन्वहं गणपतिं स्मृत्वामृतैस्तर्पयेत् ॥ १६.७६॥
प्राग्भाषितानपि विधीन्विधिवद्विदध्या-
न्मन्त्री विशेषविदथान्वहमादरेण ।
एकत्र वा गणपतौ मनुजाः स्वरुच्या
नामानुरूपमनुमेनममी भजन्तु ॥ १६.७७॥
इति जपहुतपूजातर्पणैर्विघ्नराजं
प्रभजति मनुजो यस्तस्य शुद्धिर्विशाला ।
भवति सधनधान्या पुत्रमित्रादियुक्ता
विगतसकलविघ्ना विश्वसंवादिनी च ॥ १६.७८॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे षोडशोः पटलः ॥
॥ सप्तदशः पटलः ॥
अथ मन्मथमन्त्रविधिं विधिना
कथयामि सहोमविधिं सजपम् ।
मथनस्य पुरामपि मोहकरं
व्यथिताखिलसिद्धसुरादिगणम् ॥ १७.१॥
अजकलाप्रथमावनिशान्तिभिर्युतसुधाकरखण्डविकासिभिः ।
निगदितो मनुरेष मनोभुवः सकलधर्मयशोर्थसुखावहः ॥ १७.२॥
ऋष्यादिकाश्च सम्मोहनगायत्रीमनोभवाः प्रोक्ताः ।
बीजेन दीर्घभाजा कथितान्यङ्गान्यमुष्य जातियुजा ॥ १७.३॥
अरुणमरुणवासोमाल्यदामाङ्गरागं
स्वकरकलितपाशं साज्रुशास्त्रेषुचापम् ।
मणिमयमकुटाद्यैर्दीप्तमाकल्पजातै-
ररुणनलिनसंस्थं चिन्तयेदङ्गयोनिम् ॥ १७.४॥
तरणिलक्षममुं मनुमादरात्समभिजप्य हुनेच्च दशांशकैः ।
तदनु किंशुकजैः प्रसवैः शुभैस्त्रिमधुराद्र्रतरैर्निजसिद्धये ॥ १७.५॥
मोहिनी क्षोभिणी त्रासी स्तम्भिन्यार्किषणी तथा ।
द्राविणीह्लादिनीक्लिन्नाक्लेदिन्यः स्मरशक्तयः ॥ १७.६॥
आशान्तिद्वयवामश्रुतिसर्गैद्र्रयुगकलबलैश्च ससैः ।
शोषणमोहनसन्दीपनतापनमादनान्यजेत्क्रमशः ॥ १७.७॥
अनङ्गरूपा सानङ्गमदनानङ्गमन्मथा ।
अनङ्गकुसुमानङ्गकुसुमातुरसंज्ञका ॥ १७.८॥
अनङ्गशिशिरानङ्गमेखलानङ्गदीपिका ।
अङ्गाशापालयोर्मध्ये बाणानङ्गावृतीर्यजेत् ॥ १७.९॥
आलिख्यात्र्किणकायामनलपुरपुटे मारबीजं ससाध्यं
तद्रन्ध्रेष्वङ्गषट्कं बहिरपि गुणशो मारणाय त्रिवर्णान् ।
मालामन्त्रं दलाग्रेष्वपि गुहमुखशः पार्थिवाश्रिष्वनङ्गं
कुर्याद्यन्त्रं तदेतद्भुवनमपि वशे का कथा मानवेषु ॥ १७.१०॥
प्रोक्त्वाथ कामदेवाय विद्महे तदनु पुष्पबाणाय ।
तथा च धीमह्यन्ते तन्नोऽनङ्गः प्रचोदयाद्गायत्री ॥ १७.११॥
नत्यन्ते कामदेवाय प्रोक्त्वा सर्वजनं वदेत् ।
प्रियायेति तथा सर्वजनसम्मोहनाय च ॥ १७.१२॥
वीप्सयित्वा ज्वलपदं प्रज्वलं च प्रभाषयेत् ।
पुनः सर्वजनस्येति हृदयं मम चेत्यथ ॥ १७.१३॥
वशमुक्त्वा कुरुं वीप्स्य कथयेद्वह्निवल्लभाम् ।
प्रोक्तो मदनमन्त्रोऽष्टचत्वारिंशद्भिरक्षरैः ॥ १७.१४॥
इति यन्त्रकॢप्तकलशो बहुशः कतमं नरं न परिमोहयति ।
प्रमदावनीश्वरसभानगरादिकमीश्वरीनपि वशे कुरुते ॥ १७.१५॥
वक्ष्ये विधानमन्यन्मनोभवस्याथ मोहनं जगतः ।
येनार्चितः स देवो वाञ्छितमखिलं करोति मन्त्रविदाम् ॥ १७.१६॥
अमृतोद्भवो मकरकेतनश्च सङ्कल्पजाह्वयाक्षरूपौ ।
इक्षुधनुर्धरपुष्पशराख्यावङ्गानि वह्निजायान्तानि ॥ १७.१७॥
अरुणतरवसनमाल्यानुलेपनाभरणमिषुशरासधरम् ।
न्यस्तशरबीजदेहो ध्यायेदात्मानमङ्गजं रुचिरम् ॥ १७.१८॥
अङ्गबाणावृतेरूध्र्वं पूज्याः षोडश शक्तयः ।
युवतिर्विप्रलम्भा च ज्योत्स्ना सुभ्रूर्मदद्रवा ॥ १७.१९॥
सुरता वारुणी लोला कान्तिः सौदामिनी तथा ।
कामच्छत्रा चन्द्रलेखा शुकी च मदनाह्वया ॥ १७.२०॥
योनिर्मायावती चेति शक्तयः स्युर्मनोभुवः ।
शोको मोहो विलासश्च विभ्रमो मदनातुरः ॥ १७.२१॥
अपत्रपो युवा कामी चूतपुष्पो रतिप्रियः ।
ग्रीष्मस्तपान्त ऊर्जश्च हेमन्तः शिशिरो मदः ॥ १७.२२॥
चतुथ्र्यामावृतौ पूज्याः स्युर्मारपरिचारकाः ।
परभृत्सारसौ चैव शुकमेघाह्वयौ तथा ॥ १७.२३॥
अपाङ्गभ्रूविलासौ द्वौ हावभावौ स्मरप्रियाः ।
माधवी मालती चैव हरिणाक्षी मदोत्कटा ।
एताश्चामरहस्ताः स्युः पूज्याः कोणेषु संस्थिताः ॥ १७.२४॥
हृल्लेखया स्व नाम्ना च शक्त्यादीनां समर्चनम् ।
इन्द्राद्यैः सप्तमी पूज्या स्मरार्चाविधिरीदृशः ॥ १७.२५॥
मदनविधानमितीत्थं प्रोक्तं योऽनेन पूजयेद्विधिना ।
स तु सकललोकपूज्यो भवेन्मनोज्ञश्च मन्दिरं लक्ष्म्याः ॥ १७.२६॥
विलसदहङ्कारतनुर्मनःशिवो विभ्रमास्पदीभूतः ।
बुद्धिशरीरां नारीं नरः सदा चित्तयोनिमभिगच्छेत् ॥ १७.२७॥
इति मदनयोगरत्या यो रमयेन्नित्यशो निजां वनिताम् ।
स तु भुक्तिमुक्तिकामी वनिताजनहृदयमोहनो भवति ॥ १७.२८॥
आत्मानं मदनं ध्यायेदाशुशुक्षणिरूपिणम् ।
तद्बीजाग्रं शिवज्वालातनुं तन्वीतनुं तथा ॥ १७.२९॥
सुधामयीं च तद्योनिं नवनीतमयं स्मरेत् ।
सङ्गच्छेच्च शिवज्वालालीढं तद्धृदयादिकम् ॥ १७.३०॥
आलिङ्गेदग्निसंस्पर्शद्रुततद्रूपकामृतम् ।
रसनाशिखया कर्षेत्तद्दन्तवसनामृतम् ॥ १७.३१॥
कुसुमास्त्रधिया बाह्ये स्पृशेत्कररुहैरपि ।
हानिं न कुर्याज्जीवस्य मन्त्री विशदमानसः ॥ १७.३२॥
रतावथोऽधोमध्योध्र्वक्रमेणैवं समाहितम् ।
निजप्रियां भजेदेवं सा मारशरविह्वला ।
छायेवानपगा तस्य भवेदेवं भवान्तरे ॥ १७.३३॥
साध्याख्या कामवर्णैः प्रतिपुटितलसत्र्किणकं पत्रराज-
त्तार्रित्वक्पक्षजाष्टादशसमिदृतुगण्डान्तगान्ताक्षराढ्यम् ।
आशाशूलाज्र्तिं तद्विपतिरिपुदले सम्यगालिख्य सेरं
मारं जप्त्वास्य यामाशयति वशगता भा भवेत्सद्य एव ॥ १७.३४॥
हंसारूढो मदनस्त्रैलोक्यक्षोभको भवेदाशु ।
द्युयुतो रञ्जनकृत्स्याज्जीवोपेतस्तथायुषे शस्तः ॥ १७.३५॥
तारयुजा त्वमुनाग्नौ हुत्वा सम्पातितेन चाज्येन ।
सम्भोजयेत्पतिं स्वं वनिता स नितान्तरञ्जितो भवति ॥ १७.३६॥
दध्यक्ताभिर्जुहुयाल्लाजाभिः कन्यकां समाकाङ्क्षन् ।
कन्यापि वरं लभते विधिना नित्यानुरक्तममुनैव ॥ १७.३७॥
अभिनवैः सुमनोभिरशोकजैर्दधितिलैर्विहिता हवनक्रिया ।
परमवश्यकरी परिकाङ्क्षितामपि लभेदचिरादिव कन्यकाम् ॥ १७.३८॥
अभीष्टदायी स्मरणादपि स्मर-
स्तथा जपादर्चनया विशेषतः ।
प्रसादतोऽस्याखिललोकर्वितन-
श्चिराय वश्याश्च भवन्ति मन्त्रिणः ॥ १७.३९॥
कृङा मध्यगताः ष्णायगोव्यर्णा यल्लमध्यगाः ।
गोपीजनवकाराः स्युर्भायस्वाहास्मरादिकाः ॥ १७.४०॥
ऋषिस्तु नारदोऽस्य स्याद्गायत्रं छन्द इष्यते ।
मन्त्रस्य देवता कृष्णस्तदङ्गविधिरुच्यते ॥ १७.४१॥
मूलमन्त्रचतुर्वर्णचतुष्केण द्विकेन च ।
प्रोक्तान्यङ्गानि भूयोऽमुं चिन्तयेद्देवकीसुतम् ॥ १७.४२॥
अव्यान्मीलत्कलापद्युतिरहिरिपुपिञ्छोल्लसत्केशजालो
गोपीनेत्रोत्पलाराधितललितवपुर्गोपगोबृन्दवीतः ।
श्रीमद्वक्त्रारविन्दप्रतिहसितशशाज्रकृतिः पीतवासा
देवोऽसौ वेणुवाद्यक्षपितजनधृतिर्देवकीनन्दनो वः ॥ १७.४३॥
अयुतद्वितयावधिर्जपः स्यादरुणैरम्बुरुहैर्हृतो दशांशैः ।
मुरजिद्विहिते तु पीठवर्ये दिनशो नन्दसुतः समर्चनीयः ॥ १७.४४॥
अङ्गाशेड्वङ्काआद्यैः परिवृत्य च पायसेन सुसितेन ।
हैयङ्गवीनकदलीफलदधिभिः प्रीणयेच्च गोविन्दम् ॥ १७.४५॥
जुहुयाद्दुग्धहविर्भिविमलैः र्सिपःसितोपलोपेतैः ।
इष्टं तुष्टो लक्ष्मीं समावहेत्सद्य एव गोविन्दः ॥ १७.४६॥
बालं नीलाम्बुदाभं नवमणिविलसत्किज्र्णिईजालनद्ध-
श्रोणीजङ्घान्तयुग्मं विपुलरुरुनखप्रोल्लसत्कण्ठभूषम् ।
फुल्लाम्भोजाभवक्त्रं हतशकटपतत्पूतनाद्यं प्रसन्नं
गोविन्दं वन्दितेन्द्राद्यमरवरमजं पूजयेद्वासरादौ ॥ १७.४७॥
वन्द्यं देवैर्मुकुन्दं विकसितकरवन्दाभमिन्दीवराक्षं
गोपीगोबृन्दवीतं जितरिपुनिवहं कुन्दमन्दारहासम् ।
नीलग्रीवाग्रपिञ्छाकलनसुविलसत्कुन्तलं भानुमन्तं
देवं पीताम्बराढ्यं यजतु च दिनशो मध्यमेऽह्नो रमायै ॥ १७.४८॥
विक्रान्त्या ध्वस्तवैरिव्रजमजितमपास्तावनीभारमाद्यै-
रावीतं नारदाद्यैर्मुनिभिरनुदिनं तत्त्वनिर्णीतिहेतोः ।
सायाह्ने निर्मलं तं निरुपममजरं पूजयेन्नीलभासं
मन्त्री विश्वोदयस्थित्यपहरणपरं मुक्तिदं वासुदेवम् ॥ १७.४९॥
त्रिकालमेवं प्रविचिन्त्य शार्ङ्गिणं
प्रपूजयेद्यो मनुजो महामनः ।
स धर्ममर्थं सुसुखं श्रियं परा-
मवाप्य देहापदि मुक्तिमाप्नुयात् ॥ १७.५०॥
ग्रामं गच्छन्नगरमपि वा मन्त्रजापी मनुष्यो
देवेशं तं मुखमनु मुहुस्तर्पयेद्दुग्धबुद्ध्या ।
शुद्धैस्तोयैः स तु बहुरसोपेतमाहारजातं
दद्यान्नित्यं प्रचुरधनधान्यांशुकाद्यैर्मुकुन्दः ॥ १७.५१॥
भिक्षावृत्तिर्दिनमनु तमेवं विचिन्त्यात्मरूपं
गोपस्त्रीभ्यो मुहुरपहरन्तं मनोभिः सहैव ।
लीलावृत्त्या ललितललितैश्चेष्टितैर्दुग्धर्सिप-
र्दध्याद्यं वा स पुनरमितामेति भिक्षां गृहेभ्यः ॥ १७.५२॥
ध्यानी मन्त्री मन्त्रजापी च नित्यं यद्यद्वाञ्छन्यत्र यत्र प्रयाति ।
तत्तत्प्राप्त्वा तत्र तत्र प्रकामं प्रीतः क्रीडेद्देववन्मानुषेषु ॥ १७.५३॥
एवं देवं पूजयन्मन्त्रमेनं
जप्यान्मन्त्री सर्वलोकप्रियः स्यात् ।
इष्टान्कामान्प्राप्य सम्पन्नवृत्ति-
रिनत्यं शुद्धं तत्परं धाम भूयात् ॥ १७.५४॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे सप्तदशः पटलः ॥
॥ अष्टादशः पटलः ॥
अथ प्रणवसंज्ञकं प्रतिवदामि मन्त्रं परं
सजापमपि सार्चनं सहुतकॢप्ति सोपासनम् ।
अशेषदुरितापहं विविधकामकल्पद्रुमं
विमुक्तिफलसिद्धिदं विमलयोगिसंसेवितम् ॥ १८.१॥
आद्यस्वरः समेतोऽमरेण सधसप्तमश्च बिन्दुयुतः ।
प्रोक्तः स्यात्प्रणवमनुस्त्रिमात्रिकः सर्वमन्त्रसमवायी ॥ १८.२॥
मन्त्रस्यास्य मुनिः प्रजापतिरथ च्छन्दश्च देव्यादिका
गायत्री गदिता जगत्सु परमात्माख्यस्तथा देवता ।
अक्लीबैर्युगमध्यगध्रुवयुतैरङ्गानि कुर्यात्स्वरै-
र्मन्त्री जातियुतैश्च सत्यरहितैर्वा व्याहृतीभिः क्रमात् ॥ १८.३॥
विष्णुं भास्वत्किरीटाङ्गदवलयुगाकल्पहारोदराङ्घ्रि-
श्रोणीरूपं सवक्षोमणिमकरमहाकुण्डलामण्डिताङ्गम् ।
हस्तोद्यच्चक्रशङ्खाम्बुजगदममलं पीतकौशेयमाशा-
विद्योतद्भासमुद्यद्दिनकरसदृशं पद्मसंस्थं नमामि ॥ १८.४॥
दीक्षितो मनुमिमं शतलक्षं सञ्जपेत्प्रतिहुनेच्च दशांशम् ।
पायसैर्घृतयुतैश्च तदन्ते विप्रभूरुहभवाः समिधो वा ॥ १८.५॥
र्सिपःपायसशालीतिलसमिदाद्यैरनेन यो जुहुयात् ।
ऐहिकपारत्रिकमपि स तु लभते वाञ्छितं फलं नचिरात् ॥ १८.६॥
अभ्यच्र्य वैष्णवमथो विधिनैव पीठ-
मावाह्य तत्र सकलार्थकरं मुकुन्दम् ।
अङ्गैः समूर्तियुगशक्तियुगैः सुरेन्द्र-
वङ्काआदिकैर्यजतु मन्त्रिवरः क्रमेण ॥ १८.७॥
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ।
स्फटिकस्वर्णदूर्वेन्द्रनीलाभा वर्णतो मताः ॥ १८.८॥
चतुर्भुजाश्चक्रशङ्खगदापज्र्जधारिणः ।
किरीटकेयूरिणश्च पीताम्बरधरा अपि ॥ १८.९॥
सशान्तिश्रीसरस्वत्यौ रतिश्चाश्रिदलाश्रिताः ।
अच्छपद्मरजोदुग्धदूर्वावर्णाः स्वलङ्कृताः ॥ १८.१०॥
आत्मान्तरात्मपरमज्ञानात्मानस्तु मूर्तयः ।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिश्च शक्तयः ॥ १८.११॥
ज्वलज्ज्वालासमाभाः स्युरात्माद्या मूर्तिशक्तयः ।
इति पञ्चावरणकं विधानं प्रणवोद्भवम् ॥ १८.१२॥
इत्थं मन्त्री तारममुं जापहुतार्चा-
भेदैरङ्गीकृत्य च योगानपि युञ्ज्यात् ।
यैः संलब्ध्वा चेह समग्रां श्रियमन्ते
शुद्धं विष्णोर्धाम परं प्राप्स्यति योगी ॥ १८.१३॥
करपादमुखादिविहीनमनारतदृश्यमनन्यगमात्मपदम् ।
यमिहात्मनि पश्यति तत्त्वविदस्तमिमं किल योगमिति ब्रुवते ॥ १८.१४॥
योगाप्तिदूषणपरं त्वथ कामकोप-
लोभप्रमोहमदमत्सरतेति षट्कम् ।
वैरं जयेत्सपदि योगविदेनमङ्गै-
र्योगस्य धीरमतिरष्टभिरिष्टदैश्च ॥ १८.१५॥
यमनियमासनपवनायामाः प्रत्याहृतिश्च धारणया ।
ध्यानं चापि समाधिः प्रोक्तान्यङ्गानि योगयोग्यानि ॥ १८.१६॥
सत्यमहिंसा समता धृतिरस्तेयं क्षमार्जवं च तथा ।
वैराग्यमिति यमः स्यात्स्वाध्यायतपोऽर्चनाव्रतानि तथा ॥ १८.१७॥
सन्तोषश्च सशौचो नियमः स्यादासनं च पञ्चविधम् ।
पद्मस्वस्तिकभद्रकवङ्काकवीराह्वयं क्रमात्तदपि ॥ १८.१८॥
रेचकपूरककुम्भकभेदात्त्रिविधः प्रभञ्जनायामः ।
मुञ्चेद्दक्षिणयानिलमथानयेद्वामया च मध्यमया ॥ १८.१९॥
संस्थापयेच्च नाड्येत्येवं प्रोक्तानि रेचकादीनि ।
षोडशतद्विगुणचतुःषष्टिकमात्राणि तानि च क्रमशः ॥ १८.२०॥
चित्तात्मैक्यधृतस्य प्राणस्य स्थानसंहृतिः स्थानात् ।
प्रत्याहारो ज्ञेयश्चैतन्ययुतस्य सम्यगनिलस्य ॥ १८.२१॥
स्थानस्थापनकर्म प्रोक्ता स्याद्धारणेति तत्त्वज्ञैः ।
यो मनसि देवताया भावः स्यात्तस्य मन्त्रिणः सम्यक् ॥ १८.२२॥
संस्थापयेच्च तत्रेत्येवं ध्यानं वदन्ति तत्त्वविदः ।
सत्तामात्रं नित्यं शुद्धमपि निरञ्जनं च यत्प्रोक्तम् ॥ १८.२३॥
तत्प्रविचिन्त्य स तिंस्मश्चित्तलयः स्यात्समाधिरुद्दिष्टः ।
अष्टाङ्गैरिति कथितैः पुनराशु निगृह्यतेऽरिरात्मविदा ॥ १८.२४॥
अथ वा शोषणदहनप्लावनभेदेन शोधिते देहे ।
पञ्चाशद्भिर्मात्राभेदैर्विधिवत्समायमेत्प्राणान् ॥ १८.२५॥
पञ्चाशदात्मकोऽपि च कलाप्रभेदेन तार उद्दिष्टः ।
तावन्मात्रायमनात्कलाश्च विधृता भवन्ति तत्त्वविदा ॥ १८.२६॥
पूर्वमिडाया वदने विचिन्तयेद्धूम्रमानिलां बीजम् ।
तेनागतेन देहं प्रशोषयेत्सान्तराधिकरचरणम् ॥ १८.२७॥
पिङ्गलया प्रतिमुञ्चेत्तथैव कार्शानवेन रक्तरुचा ।
प्रतिदह्य पूर्वविधिना मुञ्चेन्नैशाकरेण सुसितेन ॥ १८.२८॥
सम्पूरयेत्सुधामयजलशीकरर्विषणा तनुं सकलाम् ।
निर्माय मानसेन च परिपूर्णमनाश्चिरं भूयात् ॥ १८.२९॥
सुजीर्णमितभोजनः सुखसमात्तनिद्रादिकः
सुशुद्धतलसद्गृहे विरहिते च शीतादिभिः ।
पटाजिनकुशोत्तरे सुविशदे च मृद्वासने
निमीलितविलोचनः प्रतिविशेत्सुखं प्राङ्मुखः ॥ १८.३०॥
प्रसारितं वामकरं निजाज्रे निधाय तस्योपरि दक्षिणं च ।
ऋजुः प्रसन्नो विजितेन्द्रियः सन्नाधारमत्यन्तसमं स्मरेत्स्वम् ॥ १८.३१॥
तन्मध्यगतं प्रणवं प्रणवस्थं बिन्दुमपि च बिन्दुगतम् ।
नादं विचिन्त्य तारं यथावदुच्चारयेत्सुषुम्नान्तम् ॥ १८.३२॥
तन्मध्यगतं शुद्धं शब्दब्रह्मातिसूक्ष्मतन्तुनिभम् ।
तेजः स्मरेच्च तारात्मकमपि मूलं चराचरस्य सदा ॥ १८.३३॥
ओज्ररो गुणबीजं प्रणवस्तारो ध्रुवश्च वेदादिः ।
आदिरुमध्यो मपरो नामन्यस्य त्रिमात्रिकश्च तथा ॥ १८.३४॥
अस्य तु वेदादित्वात्सर्वमनूनां प्रयुज्यतेऽथादौ ।
योनिश्च सर्वदेहे भवति च स ब्रह्म सर्वसंवादे ॥ १८.३५॥
ऋक् च तदाद्यादिः स्यात्तन्मध्यान्तं यजुश्च मान्तादिः ।
सामापि तस्य भेदा बहवः प्रोक्ता हि लोकवेदेषु ॥ १८.३६॥
उच्चार्योच्चार्य च तं क्रमान्नयेदुपरि षड्द्वयान्तान्तम् ।
मनसा स्मृते यदास्मिन्मनो लयं याति तावदभ्यस्येत् ॥ १८.३७॥
अथ वा बिन्दुं वर्तुलमावर्तैस्त्रिभिरुपेतमेवमिव ।
प्रोतं रविबिम्बेन च समभ्यसेत्स्रुतसुधामयं तेजः ॥ १८.३८॥
अपमृत्युरोगपापजिदचिरेण सुसिद्धिदो नृणां योगः ।
अथवा मूलाधारोत्थिता प्रभा बिसविभेदतन्तुनिभा ॥ १८.३९॥
वदनामृतकरबिम्बस्यूता ध्यातामृताम्बुलवलुलिता ।
स्थावरजङ्गमविषहृद्योगोऽयं नात्र सन्देहः ॥ १८.४०॥
अथ वा त्रिवलयबिन्दुगधाम प्रणवेन सन्नयेदूध्र्वम् ।
पीतोर्णातन्तुनिभं सौषुम्नेनैव वत्र्मना योगी ॥ १८.४१॥
तस्मिन्निधाय चित्तं विलयं गमयेद्दिनेशसङ्ख्यान्ते ।
पुनरावृत्तिविहीनं निर्वाणपदं व्रजेत्तदभ्यासात् ॥ १८.४२॥
अथ वादिबीजमौ पुनरुमपि विषे तमपि संहरेद्बिन्दौ ।
बिन्दुं नादे तमपि च शक्तौ शक्तिं तथैव शान्ताख्ये ॥ १८.४३॥
तेजस्यनन्यगे चिति निर्द्वन्द्वे निष्कले सदानन्दे ।
सूक्ष्मे च सर्वतो मुखकरपदनयनादिलक्षणालक्ष्ये ॥ १८.४४॥
स्वात्मनि संहृत्यैवं करणेन्द्रियवर्गनिर्गमापेतः ।
निर्लीनपुण्यपापे निरुच्छ्वसन्ब्रह्मभूत एव स्यात् ॥ १८.४५॥
अथ वा योगोपेताः पञ्चावस्था क्रमेण विज्ञाय ।
ताभिर्युञ्जीत सदा योगी सद्यः प्रसिद्धये मुक्तेः ॥ १८.४६॥
जाग्रत्स्वप्नसुषुप्ती तुरीयतदतीतकौ पुनस्तासु ।
स्वैरिन्द्रियैर्यदात्मा भुङ्क्ते भोगान्स जागरो भवति ॥ १८.४७॥
संज्ञारहितैरपि तैस्तस्यानुभवो भवेत्पुनः स्वप्नः ।
आत्मनिरुद्युक्ततया नैराकुल्यं भवेत्सुषुप्तिरपि ॥ १८.४८॥
पश्यति परं यदात्मा निस्तमसा तेजसा तुरीयं तत् ।
आत्मपरमात्मपदयोरभेदतो व्याप्नुयाद्यदा योगी ॥ १८.४९॥
तच्च तुरीयातीतं तस्यापि भवेन्न दूरतो मुक्तिः ।
अथ वा सूक्ष्माख्यायां पश्यन्त्यां मध्यमाख्यवैखर्योः ॥ १८.५०॥
ससुषुम्नाग्रकयोरपि युञ्जीयाज्जाग्रदादिभिः पवनम् ।
बीजोच्चारो जाग्रद्बिन्दुः स्वप्नः सुषुप्तिरपि नादः ॥ १८.५१॥
शक्त्यात्मना तुरीयः शान्ते लय आत्मनस्तुरीयान्तम् ।
अङ्गुष्ठगुल्फजङ्घाजानुद्वितयं च सीवनी मेढ्रम् ॥ १८.५२॥
नाभिर्हृदयं ग्रीवा सलम्बिकाग्रं तथैव नासाग्रम् ।
भूरमध्यललाटाग्रसुषुम्नाग्रं द्वादशान्तमित्येवम् ॥ १८.५३॥
उत्क्रान्तौ परकायप्रवेशने चागतौ पुनः स्वतनौ ।
स्थानानि धारणायाः प्रोक्तानि मरुत्प्रयोगविधिनिपुणैः ॥ १८.५४॥
स्थानेष्वेष्वात्ममनःसमीरसंयोगकर्मणोऽभ्यासात् ।
अचिरेणोत्क्रान्त्याद्या भवन्ति संसिद्धयः प्रसिद्धतराः ॥ १८.५५॥
कण्ठे भ्रूमध्ये हृदि नाभौ सर्वाङ्गके स्मरेत्क्रमशः ।
लवरसमीरखवर्णैरनिलमहाकालवञ्चनेयं स्यात् ॥ १८.५६॥
अवनिजलानलमारुतविहायसां शक्तिभिश्च तद्बिम्बैः ।
मारूप्यमात्मनश्च प्रतिनीत्वा तत्तदाशु जयति सुधीः ॥ १८.५७॥
एवं प्रोक्तैर्योगैरायोजयतोऽन्वहं तथात्मानम् ।
अचिरेण भवति सिद्धिः समस्तसंसारमोचनी नित्या ॥ १८.५८॥
इति योगमार्गभेदैः प्रतिदिनमारूढयोगयुक्तधियः ।
सिद्धय उपलक्ष्यन्ते मोक्षपुरीसम्प्रवेशनद्वाराः ॥ १८.५९॥
कम्पः पुलकानन्दौ वैमल्यस्थैर्यलाघवानि तथा ।
सकलप्रकाशवित्तेत्यष्टावस्थाः प्रसूचकाः सिद्धेः ॥ १८.६०॥
त्रैकाल्यज्ञानोहौ मनोज्ञता च्छन्दतो मरुद्रोधः ।
नाडीसङ्क्रमणविधिर्वाक्सिद्धिर्देहतश्च देहाप्तिः ॥ १८.६१॥
ज्योतिःप्रकाशनं चेत्यष्टौ स्युः प्रत्ययायुजः सिद्धेः ।
अणिमा महिमा च तथा लघिमा गरिमेशिता वशित्वं च ॥ १८.६२॥
प्राप्तिः प्राकाम्यं चेत्यष्टैश्वर्याणि योगयुक्तस्य ।
अष्टैश्वर्यसमेतो जीवन्मुक्तः प्रवक्ष्यते योगी ।
योगानुभवमहामृतरसपानानन्दनिर्भरः सततम् ॥ १८.६३॥
इत्येवं प्रणवविधिः समीरितोऽयं
भक्त्या तं प्रभजति यो जपादिभेदैः ।
सम्प्राप्नोत्यनुततनित्यशुद्धबुद्धं
तद्विष्णोः परमतरं पदं नराग्र्यः ॥ १८.६४॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे अष्टादशः पटलः ॥
॥ एकोनविंशः पटलः ॥
अथ पुनरभिवक्ष्ये मन्त्रमष्टाक्षराख्यं
सकलदुरितदुःखध्वान्तसम्भेदभानुम् ।
प्रणवहृदयनारावर्णतोऽन्ते यणार्णौ
मपर इति समुद्दिष्टोऽयमिष्टार्थदायी ॥ १९.१॥
तारः शक्त्युत्थतया निर्दिष्टः सोऽहमर्थकः पूर्वम् ।
नार्णः प्रतिषेधार्थो मोकारश्चायमर्थको भवति ॥ १९.२॥
सलिलानलपवनधराः क्रमेण नारायणाक्षराः प्रोक्ताः ।
चरमेरस्तु विभक्तिव्यक्त्यर्थं र्दिशतस्तदर्थार्थे ॥ १९.३॥
ऋषिरस्य मनोः साध्यनारायण इतीरितः ।
छन्दश्च देवी गायत्री परमात्मा च देवता ॥ १९.४॥
अथ क्रुद्धमहावीरद्युसहस्रपदादिकैः ।
उल्कैर्जातियुतैः कुर्यात्पञ्चाङ्गानि मनोः क्रमात् ॥ १९.५॥
अष्टाक्षरेण व्यस्तेन कुर्याद्वाष्टाङ्गकं सुधीः ।
सहृच्छिरःशिखावर्मनेत्रास्त्रोदरपृष्ठके ॥ १९.६॥
अर्कौघाभं किरीटान्वितमकरलसत्कुण्डलं दीप्तिराज-
त्केयूरं कौस्तुभाभाशबलरुचिरहारं सपीताम्बरं च ।
नानारत्नांशुभिन्नाभरणशतयुजं श्रीधराश्लिष्टपाश्र्वं
वन्दे दोःसक्तचक्राम्बुरुहदरगदं विश्ववन्द्यं मुकुन्दम् ॥ १९.७॥
सन्दीक्षितो मनुममुं प्रतिजप्तुमिच्छ-
न्कुर्यान्निजेन वपुषैव तु योगपीठम् ।
अंसोरुयुग्मपदमानननाभिमूल-
पाश्र्वद्वयैर्विहितगात्रसमुज्ज्वलं च ॥ १९.८॥
मध्येऽनन्ताद्यैरपि संज्ञानात्मान्तिकैर्यजेन्मन्त्री ।
पीठाख्यमन्त्रपश्चिममथ गन्धाद्यैश्च सम्यगुपचारैः ॥ १९.९॥
प्रणवं हृदयं चैव प्रोक्त्वा भगवतेपदम् ।
विष्णवे च समाभाष्य सर्वभूतात्मनेपदम् ॥ १९.१०॥
अस्त्रमन्त्रप्रबद्धाशो मन्त्रवर्णांस्तनौ न्यसेत् ।
विन्यस्तैर्यैर्भवन्मन्त्री मन्त्रवर्णात्मको हरिः ॥ १९.१२॥
आधारहृद्वदनदोःपदमूलनाभौ
कण्ठे सनाभिहृदयस्तनपाश्र्वपृष्ठे ।
कास्येक्षणश्रवणगन्धवहे च दोःप-
त्सन्ध्यङ्गुलीषु हृदि धातुषु सानिलेषु ॥ १९.१३॥
मूर्धेक्षणास्यहृदयोदरसोरुजङ्घा-
पादद्वयेषु लिपिशो न्यसतु क्रमेण ।
गण्डांसकोरुचरणेषु रथाङ्गशङ्ख-
श्रीमद्गदाम्बुजपदेषु समाहितात्मा ॥ १९.१४॥
ततोऽष्टाक्षरपूत्र्यर्थं स्मर्तव्यो द्वादशाक्षरः ।
मन्त्रो द्वादशमूर्तीस्तु तत्प्रभिन्नस्तनौ न्यसेत् ॥ १९.१५॥
अष्टप्रकृत्यात्मकश्च सम्प्रोक्तोऽष्टाक्षरो मनुः ।
अष्टानां प्रकृतीनां च चतुर्णामात्मनामपि ॥ १९.१६॥
द्वादशानां तु संयोगो मन्त्रः स्याद्वादशाक्षरः ।
आदित्या द्वादश प्रोक्ता युक्ता द्वादशमूर्तिभिः ॥ १९.१७॥
केशवादिप्रदिष्टानां मूर्तीनां द्वादशादितः ।
आदिस्वरयुता न्यस्येत्ताः स्युर्द्वादश मूर्तयः ॥ १९.१८॥
ललाटोदरहृत्कण्ठदक्षपाश्र्वांसतद्गले ।
तथा वामत्रये पृष्ठे ककुदोश्च यथाक्रमम् ॥ १९.१९॥
द्वादशाक्षरमन्त्रं च मन्त्रविन्मूर्ध्नि विन्यसेत् ।
मूर्धस्थो वासुदेवस्तु व्याप्नोति सकलां तनुम् ॥ १९.२०॥
पुनस्तत्प्रतिपत्त्यर्थं किरीटादिमनुं जपेत् ।
किरीटकेयूरहारपदान्याभाष्य मन्त्रवित् ॥ १९.२१॥
मकारान्ते कुण्डलं च चक्रशङ्खगदादिकम् ।
अब्जहस्तपदं प्रोक्त्वा पीताम्बरधरेति च ॥ १९.२२॥
श्रीवत्साज्र्तिमाभाष्य वक्षःस्थलमथो वदेत् ।
श्रीभूमिसहितं स्वात्मज्योतिर्द्वयमथो वदेत् ॥ १९.२३॥
दीप्तिमुक्ताकरायेति सहस्रादित्यतेजसे ।
हृदन्तः प्रणवादिः स्यात्किरीटादिमनुः स्वयम् ॥ १९.२४॥
कृत्वा स्थण्डिलमस्मिन्निक्षिप्य निजासिकां समुपविश्य ।
पीठादिकं निजाङ्गे प्रपूज्य गन्धादिभिः सुशुद्धमनाः ॥ १९.२५॥
सद्वादशाक्षरान्तं प्रपूज्य विधिवत्किरीटमन्त्रेण ।
कुर्यात्पुष्पाञ्जलिमपि निजदेहे पञ्चशोऽथ वा त्रयशः ॥ १९.२६॥
इति दीक्षितविहितविधिः सम्प्रोक्तोऽष्टाक्षरस्य मन्त्रस्य ।
शुद्धानां विमलधियां दीक्षा प्रतिवक्ष्यतेऽथ सङ्क्षेपात् ॥ १९.२७॥
कृत्वा त्रिगुणितादीनामेकं मण्डलमुज्ज्वलम् ।
आत्मार्चनोक्तविधिना शक्तिभिः पीठमर्चयेत् ॥ १९.२८॥
विमलोत्र्किषणी ज्ञाना क्रिया योगेति शक्तयः ।
प्रह्वी सत्या तथेशानानुग्रहा नवमी तथा ॥ १९.२९॥
निधाय कलशं तत्र पञ्चगव्येन पूरयेत् ।
पयोभिर्वा गवां प्रोक्तैः क्वथितैर्वाष्टन्धकैः ॥ १९.३०॥
अष्टाक्षराङ्गैरष्टाष्टवर्णैरष्टाक्षरान्वितैः ।
दलमूले यजेद्भूयो वासुदेवादिकान्क्रमात् ।
सशक्तिकांस्ततो बाह्ये सम्पूज्या हरिहेतयः ॥ १९.३१॥
चक्रसशङ्खगदाम्बुजकौस्तुभशाङ्र्गाः सखङ्गवनमालाः ।
रक्ताच्छपीतकनकश्यामलकृष्णकाद्युशुक्लभासः स्युः ॥ १९.३२॥
ध्वजश्च वैनतेयश्च शङ्खपद्मौ दिगाश्रिताः ।
विघ्नार्यकौ तथा दुर्गाविष्वक्सेनौ विदिग्गताः ॥ १९.३३॥
ध्वजः श्यामो विपो रक्तो निधी शुक्लारुणप्रभौ ।
अरुणश्यामलश्यामपीता विघ्नादयो मताः ॥ १९.३४॥
इन्द्रादयस्तद्बहिश्च पूज्या गन्धादिभिः क्रमात् ।
इति विष्णोर्विधानं तु पञ्चावरणमुच्यते ॥ १९.३५॥
एवमभ्र्यिचते विष्णावुपचारैस्तु पूर्ववत् ।
अग्निमाधाय कुण्डे तु ब्रह्मयागसमीरितैः ॥ १९.३६॥
जुहुयादष्टभिद्र्रव्यैर्मनुनाष्टाक्षरेण तु ।
पृथगष्टशतावृत्त्या हुत्वा दत्वा बलिं ततः ॥ १९.३७॥
अभिषिच्य गुरुः शिष्यं प्रवदेत्पूर्ववन्मनुम् ।
द्वात्रिंशल्लक्षमानेन स तु मन्त्रं जपेत्ततः ।
तदर्धसङ्ख्यकं वापि शुद्धाचारो जितेन्द्रियः ॥ १९.३८॥
पद्मासनः प्राग्वदनोऽप्रलापी तन्मानसस्तर्जनिर्विजताभिः ।
अक्षस्रजो वाङ्गुलिभिर्जपेत नादिद्रुतं नातिविलम्बितं च ॥ १९.३९॥
प्रागीरितैरपि जुहोतु दशांशकं वा
द्रव्यैः शुभैः सरसिजैर्मधुराप्लुतैर्वा ।
रत्नांशुकप्रवरकाञ्चनगोमहीभि-
र्धान्यैर्यथाविभवतः प्रयजेद्गुरूंश्च ॥ १९.४०॥
विप्रान्प्रतप्र्य विभवैरथ मन्त्रजापी
संह्लादयेज्जपविधिं च ततः क्रमेण ।
नित्यार्चना च विहिता विधनामुनैव
प्रोक्तक्रमेण विदधात्वथ वात्मपूजाम् ॥ १९.४१॥
इति जपहुतार्चनाद्यैर्मन्त्री योऽष्टाक्षरं समभ्यस्येत् ।
स त्वैहिकीं च सिद्धिं सम्प्राप्यान्ते प्रयाति परमपदम् ॥ १९.४२॥
अङ्गानि पूर्वं त्वथ मूर्तिशक्तीः सकेशवादींश्च पुरन्दरादीन् ।
समर्चयेद्यस्तु विधानमेतन्नरोऽचिरात्काङ्क्षितमेति कामम् ॥ १९.४३॥
यष्टव्यः स्याद्वासुदेवादिरादौ
चक्राद्याः केत्वादिकाः केशवाद्याः ।
इन्द्राद्याश्चेत्येवमेव प्रदिष्टं
तुष्ट्यायुः श्रीकीर्त्तिसिद्ध्यै विधानम् ॥ १९.४४॥
स वासुदेवादिकमर्चयित्वा
भूयो ध्वजादींश्च पुरन्दरादीन् ।
क्रमेण विद्वान्विधिनार्चयीते-
त्ययं क्रमश्च त्रिदशाभिपूज्यः ॥ १९.४५॥
इत्युक्तविधिचतुष्के पूजयितुरथैकमपि यथाशक्ति ।
अचिरेण भवति लक्ष्मीर्हस्तगता सकलवर्गसिद्धिकरी ॥ १९.४६॥
अष्टाक्षराक्षराष्टकमूर्तिविधानानि भेदभिन्नानि ।
वक्ष्याम्यर्चयितृणां वाञ्छितसकलार्थसाधनानि सदा ॥ १९.४७॥
सिन्दूरकुन्दकरविन्दकबन्धुजीव-
काश्मीरपद्ममकरन्दरुचः क्रमेण ।
नीलोत्पलाम्बुरुहरागसमानवर्णाः
स्युर्मूर्तयोऽष्ट कथिता मनुवर्णजाताः ॥ १९.४८॥
अरिदरगदाब्जहस्ताः सर्वास्तु नकारमोर्णयोर्मन्त्री ।
शङ्खारिगदाब्जकरे लक्षणमन्यत्समानरूपं स्यात् ॥ १९.४९॥
या मूर्तिरच्र्यतेऽस्य व्रजन्ति परिवारितां तदवशिष्टाः ।
अवशिष्टेऽन्त्येऽथांशे स्वयं च परिवारितां प्रयाति तदा ॥ १९.५०॥
इयमेवावृतिरधिका ध्रुवजे ध्रुवजात्पुरा समुद्दिष्टात् ।
भवति विधानादिति पुनरेषां प्रथमं विधानमुद्दिष्टम् ॥ १९.५१॥
अथ द्वितीयाक्षरतोऽङ्गतोऽन्ते
वर्णाष्टमूर्तीरपि मूर्तिशक्तीः ।
यजेद्विधाने च सकेतुलोक-
पालादिकानुक्तविधानकॢप्त्या ॥ १९.५२॥
मोकारजे रतिधृती च सकान्तितुष्टि-
पुष्टिस्मृतीरपि च दीप्त्यभिधां च कीर्त्तिम् ।
केत्वादिकं च सशतक्रतुपूर्वकं च
सम्पूजयेद्विमलधीः पुनरन्वितोऽन्ते ॥ १९.५३॥
नाकारजेऽङ्गतोऽन्ते प्रपूजयेन्मूर्तिशक्तिलोकेशान् ।
रावर्णजेऽङ्गमूर्तिश्रीभूमायामनोन्मनीस्तदनु ॥ १९.५४॥
ह्रीः श्री रतिः सपुष्टिर्मोहनिमाये महादियोगाद्ये ।
माये च तृतीयावृतिरन्यदशेषं पुरैव निर्दिष्टम् ॥ १९.५५॥
यकारजेऽरिशङ्खौ च सगदाहलशाङ्र्गकाः ।
मुसलः खड्गशूलौ च तृतीया साक्षरोद्भवे ॥ १९.५६॥
शेषो वासुकितक्षककार्कोटकपज्र्जमहापद्माः ।
वरपालगुलिकसंज्ञास्तृतीयमन्यत्समं विधानेऽन्त्ये ॥ १९.५७॥
अङ्गैः प्रथमावरणं मूर्तिभिरपि शक्तिभिर्द्वितीयमपि ।
अन्यैः केशवकेत्वादिभ्यां स्यात्पञ्चमं च मत्स्याद्यैः ॥ १९.५८॥
मत्स्यः कूर्मवराहौ नृसिंहकुब्जत्रिरामकृष्णाश्च ।
कल्किः सानन्तात्मा पुनरमृतात्मा च षष्ठमहिपाद्यैः ॥ १९.५९॥
सप्तममपि लोकेशैरष्टममपि तदायुधैश्च सम्प्रोक्तम् ।
प्रागुक्तेषु विधानेष्वालक्ष्यं नोक्तमत्र यत्तदपि ॥ १९.६०॥
अष्टाक्षराक्षरविधानचतुष्कयुग्मं
प्रोक्तक्रमेण विधिनाभियजेद्य एनम् ।
भक्त्या मुकुन्दमनुजापरतो नराग्र्यः
प्राप्नोति वाञ्छितमयत्नत एव कामम् ॥ १९.६१॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे एकोनविंशः पटलः ॥
॥ विंशः पटलः ॥
अथ प्रवक्ष्यामि च मासभेद-
भिन्नानि यन्त्राण्यपि सङ्ग्रहेण ।
रेखाक्रमद्युन्ति विचित्रवर्ण-
लसन्ति विष्णोश्च विधानभाञ्जि ॥ २०.१॥
यैः कुर्युरिष्टाप्तिनिविष्टचेष्टा धरण्यनन्तादिकसंज्ञकानि ।
व्रतान्यभीष्टार्थदकल्पवृक्षैरनारतेनैव च साधकेशाः ॥ २०.२॥
मेषादिकं यच्च चतुष्कमादौ मासेषु तद्वायुगृहावृतं स्यात् ।
सिंहादिकं भूगृहसंवृतं च चापादिकं पार्थिवयुग्मवीतम् ॥ २०.३॥
मेषादिकेषु त्रिगुणात्मकानि चराणि भास्वद्गुणितात्मकानि ।
स्थिराण्यतो षड्गुणितानि तज्ज्ञैरुक्तानि यन्त्राण्युभयात्मकानि ॥ २०.४॥
तानि त्रिषड्द्वादशकात्मकोक्तैः स्युर्लक्षणैरप्यभिलक्षितानि ।
स्वैः स्वैश्च नामप्रविभक्तरूपभेदैर्बहिर्वेष्टितबिम्बकानि ॥ २०.५॥
त्रिगुणितमपि यन्त्रमष्टपत्रा-
वृतमथ षड्गुणितं हि षड्दलाभ्याम् ।
स्थिरगतमपि चाष्टयुग्मपत्रं
तदपि च षड्युगपत्रशोभितं वा ॥ २०.६॥
पद्मं चरोभस्थिरसंज्ञकेषु रक्तप्रपीताच्छदलादिवर्णम् ।
मासेषु यन्त्रोदरकॢप्ततत्तन्मासाभिधामूत्र्यभिधाक्षराढ्यम् ॥ २०.७॥
केशवमेषादीनां ये दीर्घा मुक्तिराशिवर्णानाम् ।
ते वृत्तानि भवन्ति च निगदितमिति यन्त्रकॢप्तिसामान्यम् ॥ २०.८॥
सुवर्णगोक्षीरजपाशिलालपीतेन्द्रनीलारुणकैरवाभाः ।
काश्मीरमेघाञ्जनरोचिषश्च क्रमेण वर्णैरपि केशवाद्याः ॥ २०.९॥
इतीरिताश्चारुकिरीटहारकेयूरपीताम्बरकादितुल्याः ।
सचक्रशङ्खाः सगदाम्बुजाश्च सम्पूजनीयास्तपनैः क्रमेण ॥ २०.१०॥
धात्रर्यममित्राख्या वरुणांशभगा विवस्वदिन्दुयुताः ।
पूषाह्वयपर्जन्यौ त्वष्टा विष्णुश्च भानवः प्रोक्ताः ॥ २०.११॥
प्रथमं केशवधातृकमितरन्नारायणार्यमाख्यं च ।
अन्या माधवमैत्रं परमपि गोविन्दवारुणं प्रोक्तम् ॥ २०.१२॥
पञ्चममपि विष्ण्वशं मधुसूदनभगवपञ्च षष्ठमपि ।
त्रिविक्रमविवस्वदाख्यं सप्तममन्यच्च वामनैन्द्रमपि ॥ २०.१३॥
श्रीधरपौष्णं नवमं दशमं च हृषीकनाथपर्जन्यम् ।
अम्बुजनाभं त्वाष्ट्रं दामोदरवैष्णवं विधानमिति ॥ २०.१४॥
आदौ विधानेषु समेतमूर्तिशक्तीश्चतस्रोऽभियजेद्यथावत् ।
राशिष्वथो भानुयुताश्च मूर्तीः प्रवक्ष्यमाणं च निरूप्य मन्त्री ॥ २०.१५॥
वृषहरिवृश्चिककलशात्मकेष्वथो केतुकेशवाद्यैश्च ।
मत्स्यादिकशेषाद्ये समभियजेदन्तरा समावरणे ॥ २०.१६॥
प्रानुप्रोद्यत्स्वराष्ट्रद्वितयवृतमहाबीजकं शक्तिलक्ष्मी-
कामैरात्ताग्निकोणं बहिरभिवृतसिंहान्वितक्रोडमन्त्रम् ।
बिन्दूनामन्तरालेष्वपि च विलिखितैः कादिवर्गैश्च युक्तं
षड्भिर्वायव्यगेहावृतमभिमतकामप्रदं मेषयन्त्रम् ॥ २०.१७॥
गौरीन्दिरा रतिधृती वसुधा पुष्टिक्षमासरस्वत्यः ।
मूत्र्योश्च मध्यमावृतिराशेशात्प्राग्ध्वजादिरपि कथिता ॥ २०.१८॥
हयरथगजभृत्यादिनरिभवशौर्यादिसिद्धिं च ।
तेजो यशश्च विपुलं पूजयितुर्वितनुते विधानमिदम् ॥ २०.१९॥
वर्णैराद्यैरमन्तैः समभिवृतमहाबीजमञ्मध्यराज-
त्पान्तक्षाद्यक्षराढ्यं गुहनयनहुताश्रिराजन्मथार्णम् ।
अश्रेर्गण्डद्वयोद्यत्पचलिपिपरिवीतं च नाद्यैः सकान्तैः
काद्यैर्नान्तैश्च यन्त्रं बहुविधफलदं पूजितं स्याद्वृषोत्थम् ॥ २०.२०॥
नित्यानन्दा व्यापिनी व्योमरूपा
शान्तिर्विद्यारूपिणी च प्रतिष्ठा ।
कल्यामोघा चण्डिका दीप्तजिह्वे-
त्येवं प्रोक्ताथावृतिः स्यात्तृतीया ॥ २०.२१॥
सुरभिहयमहिषदासीदासाभरणांशुकादिसिद्धिकरम् ।
वृषजं विधानमेतद्देहान्ते सिद्धिदं परस्य सतः ॥ २०.२२॥
प्रागच्छन्मात्रभिख्यालिपिपरिवृतबीजं स्वरावीतवृत्तं
शाद्यैः क्षान्तैस्तदाद्यैरपि परिवृतगण्डं तदश्रात्तजुंसम् ।
भाद्यैः कान्तैः प्रवीतं मयरलवहयुग्बिन्दुकं वायुगेहा-
वीतं वाञ्छाप्रदानप्रसवगुणयुतं युग्मजं यन्त्रमेतत् ॥ २०.२३॥
इन्द्राणी कौमारिका ब्रह्मजाता
वाराह्याख्या वैष्णवी चाथ लक्ष्मीः ।
चामुण्डा माहेश्वरी स्यात्तृतीया
रक्षाप्रज्ञाश्रीप्रदं स्याद्विधानम् ॥ २०.२४॥
पाशाद्यष्टाक्षरार्णप्रतिपुटितमहाष्टाक्षरावेष्टितान्त-
र्बीजं शाखान्तरूढे गगननृहरिबीजात्तकोणं बहिश्च ।
कामिन्यष्टाक्षराद्यन्तगहरिहरबीजावृतं प्रत्यनूद्य
द्वर्णाढ्यं वायुगेहस्थितभिति गदितं कर्कटोत्थं च यन्त्रम् ॥ २०.२५॥
रक्ता रमा कराली कमला चण्डेन्द्रिरा महोच्छुष्मा ।
श्रीरिति मूर्तियुगलयोर्मध्यगता चावृतीरियं चापि ॥ २०.२६॥
भूतिर्विभूतिरुन्नतिनतिधृतिरतयश्च संयतिद्युतयः ।
आवृतिरेका प्रोक्ता श्रीवश्यकरं विधानमिति कथितम् ॥ २०.२७॥
ऊष्मार्णाष्टाक्षरावेष्टितहृदयमथ द्वादशार्णात्तकोणं
सान्तः स्थात्माष्टवर्णैः क्रमगतविगतैरुल्लसत्तत्त्वगण्डम् ।
सिंहानुष्टुब्द्वयार्णान्तरितवृतकलालङ्कृतं चाथ वह्नि-
प्राणेशानक्षपाटाश्रितकचटतपत्वच्छलं सिंहयन्त्रम् ॥ २०.२८॥
पुष्टिस्तुष्टिर्धृतिरपि कृतिः शान्तिकान्तिप्रमादा
मेधा हर्षा स्मृतिरभिमता कान्तिका स्यात्तृतीया ।
कृष्णः सत्यो नृहरिवरदौ विश्वमूर्त्तिर्वरेण्यः
शौरिः शूरो नरमुरजितौ विष्णुजिष्णू चतुर्थी ॥ २०.२९॥
विपक्षनिग्रहं तेजो यशश्च धनसङ्गमम् ।
करोत्यर्चयितृणां च विधानमिति सिंहजम् ॥ २०.३०॥
सर्गाद्यान्ताद्यमन्तैरभिवृतहृदयं दण्डिभिश्चापि हाही-
हूहैहौहोभिरात्ताश्रिकमथ तु शिखाद्योतिवर्गान्त्यवर्णम् ।
वर्णैः प्रत्यन्वितैः प्रावृतमवनिपुराश्रोल्लसत्कामबीजं
क्लिन्ने स्वाहार्णयुक्तं महिततरफलं कन्यकोत्थं च यन्त्रम् ॥ २०.३१॥
अत्राच्र्यो मधुसूदनस्त्वथ हृषीकेशाह्वयो मोहिनी
वैकुण्ठो विरजा हरिः सरसिजा शाङ्र्गी तमोहारिणी ।
ब्रघ्नाख्यः कमलावती च समुकुन्दाख्यो रमेति क्रमा-
न्मत्स्याद्यैश्च सुताश्च गोमहिषसौभाग्यप्रदं पावनम् ॥ २०.३२॥
आद्यैरावीतबीजं ग्रहवलययुतं हुम्फडायुक्तकोणं
बाह्ये पाशाज्रुशार्णावृतमथ युगषण्मूर्तिनामार्णमर्णैः ।
प्रत्यन्वेष्यद्भिरुद्यद्धरियुतहरवर्णैश्च वीतं धरायाः
कोणेषूद्यन्नृसिंहाक्षरमिति कथितं स्यात्तुलायन्त्रमेतत् ॥ २०.३३॥
प्राक्प्रोक्तैश्चक्राद्यैरुक्तास्य समावृतिस्तृतीया स्यात् ।
प्रातोपलब्धिमेतत्करोति वाणिज्यलाभं च ॥ २०.३४॥
अक्लीबद्वादशाज्द्वादशलिपिवृतहृल्लेखमश्रिद्विषट्क-
प्रोल्लास्यष्टाक्षरोष्मार्र्णकमपि लिपिभिः कादिभिश्चाभिवीतम् ।
तद्बाह्ये चन्द्रबिम्बप्रपुटितवसुधामण्डलाश्रिप्रराज-
त्क्लीबार्णं वृश्चिकोत्थं प्रवरतरफलप्राप्तिदं यन्त्रमेतत् ॥ २०.३५॥
चिद्रूपा चिन्मया चिन्तामणिः श्रीः क्षोणिसंज्ञिता ।
रतिश्च पावनी धारा धरणी तारणी तथा ॥ २०.३६॥
द्राविणी मोहिनी चेति तृतीयेयं समावृतिः ।
अन्वयाप्तिं धर्मरतिं प्राप्नुयादस्य चार्चनात् ॥ २०.३७॥
षट्कोणाबद्धबाणासनविवरलसन्नारसिंहं तदन्तः
शक्तेर्बाह्ये परानुप्ररचितलघुसन्ध्यर्णयुक्पञ्चकाढ्यम् ।
अश्रिष्वाबद्धशिष्टस्वरमुपरिलसच्छूलकं चात्तवर्गं
भूम्योरष्टाश्रकोद्यद्यदुजुहुलवकं चापयन्त्रं तदेतत् ॥ २०.३८॥
हर्षाह्वा सुनदारुणा सगगना घोरा रमा द्राविणी
वीरा वीरिणिहारिणी सहरिणी मन्दारिका द्वादश ।
प्रोक्तेयं च समावृतिः पुनरिदं सम्पूजयन्प्राप्नुया-
ल्लक्ष्मीसन्ततिबुद्धिवश्यपटुताकान्तीश्च भक्तिं शुभाम् ॥ २०.३९॥
मध्यस्थायाः परीतौ विलसदनुपरात्तस्वरप्राक्परार्धं
सिंहार्णान्ताश्रि गण्डस्फुरितहरिहरार्णं ग्रहार्णावृतं च ।
तद्बाह्ये षोडशार्णाक्षरवृतमुभकुद्योतितं कोणराज-
त्सोऽहं हंसाक्षराढ्यं मकरभवमिदं यन्त्रमिष्टार्थदायि ॥ २०.४०॥
मेधा हर्षा श्रद्धा कृपा रतिर्वा सरस्वती प्रीतिः ।
वाणी चेति तृतीया वृतिरुक्ता मकरजे विधानेऽस्मिन् ॥ २०.४१॥
स्वक्षेत्रर्वितनः स्युग्र्रहाः क्रमात्केशवादिमूर्तियुताः ।
अर्चयितृणामेतद्धनधान्यसमृद्धिदं विधानं स्यात् ॥ २०.४२॥
शक्तिश्रीकामबीजैः पुटितहरिहरब्रह्मभिश्चावृतान्त-
र्बीजं कोणद्विषट्कस्फुरितनृहरिबीजप्रतिद्योतितं च ।
आदिक्षान्तैश्च वर्णैर्वृतमवनिपुरद्वन्द्वकोणान्तकाम-
श्रीशक्तिक्ष्मार्णचिन्तामणिमनु तदिदं श्रीकरं कुम्भयन्त्रम् ॥ २०.४३॥
अच्युतकामिनिभानुमनोज्ञा विश्वतनुर्विमला हरिभद्रे ।
सूक्ष्मसरस्वतिनन्दनसन्ध्या स्यादिति मध्यगता वृतिरेषा ॥ २०.४४॥
अवनिपशुपुत्रसम्पदमपि पितृसौख्यं च हृत्प्रबोधं च ।
कुरुते विधानमेतत्प्रयोक्तुरन्ते च निर्वृतिं परमाम् ॥ २०.४५॥
व्यन्वेष्यद्ध्रस्वदीर्घाच्समभिवृतमहाबीजमश्रेषु षट्सु
द्योतत्सौर्मारलक्ष्मीगिरिदुहितृधराबीजकप्रोंसमेतम् ।
वीतं काद्यैः कषान्तैर्बहिरपि च कुकोणाष्टवो?ल्लासिहंसं
सर्वार्थान्साधकेभ्यो वितरति विधिवत्कल्पितं मीनयन्त्रम् ॥ २०.४६॥
हृष्टिर्वृष्टिस्तुष्टिरिष्टा सुपुष्टिः
कान्तिर्मेधा मङ्गला वामसंज्ञा ।
दुर्गा प्रज्ञा भारती मध्यसंस्था
वाक्सामथ्र्यं श्रीकरं स्याद्विधानम् ॥ २०.४७॥
एभिर्विधानैर्धरणीव्रतादि-
दीक्षाविधीन्ये विधिना प्रकुर्युः ।
ते पुण्यभाजो नितरां समृद्धाः
सपुत्रदाराः सुखिनो भवन्ति ॥ २०.४८॥
दीर्घायुषो मुख्यतरेन्दिराश्च महाप्रभावाः स्वसमानवीर्याः ।
कलेबरान्ते विगताधयस्ते विष्णोरनन्यं पदमाप्नुवन्ति ॥ २०.४९॥
एभिर्विधेयाः कलशाश्च तत्तन्मासोक्तयन्त्रेषु नरैर्यथावत् ।
निजेप्सितं प्राप्य मनोरथान्ते भुक्तेश्च मुक्तेरनुभावकाः स्युः ॥ २०.५०॥
कर्षोन्मिते च हाटकपट्टे पत्रं विलिख्य चतुरश्रे ।
तद्वित्र्यंशकृते वा कलशेषु विनिक्षिपेच्च दीक्षासु ॥ २०.५१॥
अभिषिच्य यन्त्रकनकं गुरवे प्रददातु संयतः सुमतिः ।
दुरितापनोदविधये द्युतये यशसे श्रिये च मतिसंयतये ॥ २०.५२॥
एषां यागविधीनामेकेन तु पूजयंस्तदवसाने ।
तत्तन्मूर्तिप्रीत्यै संस्तोतव्योऽनया हरिः स्तुत्या ॥ २०.५३॥
(हरिस्तुतिः)
प्रसीद भगवन्मह्यमज्ञानात्कुण्ठितात्मने ।
तवाङ्घ्रिपज्र्जरजोरागिणीं भक्तिमुत्तमाम् ॥ २०.५४॥
अज प्रसीद भगवन्नमितद्युतिपञ्जर ।
अप्रमेय प्रसीदास्मद्दुःखहन्पुरुषोत्तम ॥ २०.५५॥
स्वसंवेद्यस्वरूपास्मदानन्दात्मन्ननामय ।
अचिन्त्यसार विश्वात्मन्प्रसीदेश निरञ्जन ॥ २०.५६॥
प्रसीद तुङ्ग तुङ्गानां प्रसीद शिव शोभन ।
प्रसीद स्पष्ट गम्भीआर गम्भीराणां महाद्युते ॥ २०.५७॥
प्रसीद व्यक्त विस्तीर्ण विस्तीर्णानामणोरणो ।
प्रसीदाद्र्राद्र्रजातीनां प्रसीदान्तान्तदायिनाम् ॥ २०.५८॥
गुरोर्गरीयः सर्वेश प्रसीदानन्य देहिनाम् ।
जय माधव मायात्मञ्जय केशव केशिहन् ॥ २०.५९॥
जय सुन्दर सौम्यात्मञ्जय शाश्वत शङ्खभृत् ।
जय शाङ्र्गधर श्रीमञ्जय नन्दकनन्दन ॥ २०.६०॥
जय चक्रगदापाणे जयाजय्य जनार्दन ।
जय रत्नाकराबन्ध किरीटाक्रान्तमस्तक ॥ २०.६१॥
जय पक्षिपतिच्छायानिरुद्धार्ककराकर ।
नमस्त नरकाराते नमस्ते मधुसूदन ॥ २०.६२॥
नमस्ते नलिनापाङ्ग नमस्ते नयनाञ्जन ।
नमः पापहरेशान नमः सर्वभयापह ॥ २०.६३॥
नमः सम्भृतसर्वात्मन्नमः सम्भृतकौस्तुभ ।
नमस्त नयनातीत नमो विक्रान्तवाक्पथ ॥ २०.६४॥
नमो विभिन्नज्ञेयांश नमः स्मृतिपथातिग ।
नमस्त्रिमूर्तिभेदेन सर्गस्थित्यन्तहेतवे ॥ २०.६५॥
विष्णवे त्रिदशारातिजिष्णवे परमात्मने ।
चक्रभिन्नारिचक्राय चक्रिणे चक्रबन्धवे ॥ २०.६६॥
विश्वाय विश्ववन्द्याय विश्वभूतात्मने नमः ।
नमोऽस्तु योगिध्येयाय नमोऽस्त्वध्यात्मरूपिणे ॥ २०.६७॥
भुक्तिप्रदाय भक्तानां नमस्ते मुक्तिदायिने ।
मनोवाक्कायचेष्टाः स्युध्र्यानस्तुतिनमस्क्रियाः ॥ २०.६८॥
देवेश कर्म सर्वं मे भवेदाराधनं तव ।
विषयेष्वपि सङ्गो मे हुतं विष्णो तवाच्युत ॥ २०.६९॥
(इति हरिस्तुतिः)
इति हवनजपार्चाभेदतो विष्णुपूजा-
निरतहृदयकर्मा यस्तु मन्त्री चिराय ।
स खलु सकलकामान्प्राप्य हृष्टान्तरात्मा
जननमृतिवियुक्तामुत्तमां मुक्तिमेति ॥ २०.७०॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे विंशः पटलः ॥
॥ एकविंशः पटलः ॥
अथोच्यते द्वादशवर्णसंज्ञो मन्त्रस्तु साङ्गः सजपः सहोमः ।
विधानतो यं प्रतिजप्य भक्ता भुक्तेश्च मुक्तेश्च पदं भवेयुः ॥ २१.१॥
तारं सहृदयं मध्ये गवते स्युर्भवार्णयोः ।
सुययोश्च तथा देवा मन्त्रोऽयं द्वादशाक्षरः ॥ २१.२॥
ऋषिः प्रजापतिश्छन्दो गायत्रं विष्णुरुच्यते ।
देवता हृद्ध्रुवेण स्यान्नमसा शिर उच्यते ॥ २१.३॥
चतुर्भिश्च शिखावर्णैः पञ्चभिः कवचं भवेत् ।
प्रोक्तमस्त्रं समस्तेन पञ्चाङ्गविधिरीदृशः ॥ २१.४॥
सपादजानुयुगललिङ्गनाभ्युदरेषु च ।
हृद्दोर्गलास्यदृङ्मस्तशिखास्वक्षरतो न्यसेत् ॥ २१.५॥
शिखाललाटनेत्रास्यगलदोर्हृदयेषु च ।
स्कुक्षिनाभिलिङ्गाख्यजानुपादेषु विन्यसेत् ॥ २१.६॥
हृत्कुक्षिनाभिषु तथा गुह्यजानुपदेष्वधः ।
करकण्ठास्यदृङ्मस्तशिखासूध्र्वं च विन्यसेत् ॥ २१.७॥
संहृतेर्दोषसंहारः सृष्टेश्च शुभपुष्टयः ।
स्थितेश्च शान्तिविन्यासस्तस्मात्कार्यस्त्रिधा मतः ॥ २१.८॥
हरिमुज्ज्वलचक्रदराब्जगदाकुलदोः परिघं सितपद्मगतम् ।
वलयाङ्गदहारकिरीटधरं नवकुन्दरुचं प्रणमामि सदा ॥ २१.९॥
विधिवदथ विहितदीक्षो जपेन्मनुं वर्णलक्षमानममुम् ।
शुद्धैश्च तिलैर्जुहुयाद्वादशसाहस्रकं तथा मन्त्री ॥ २१.१०॥
पीठे हरेरथाङ्गैः सशक्तिभिर्मूर्तिभिस्तदनु यजेत् ।
केशवसुरनाथाद्यैरपि देवं भक्तिपूर्वतो विद्वान् ॥ २१.११॥
समिधामथ दुग्धवृक्षजानां जुहुयादर्कसहस्रकं सदुग्धम् ।
मनसः परिशुद्धये मनस्वी सघृतेनापि पयोन्धसा सितेन ॥ २१.१२॥
द्वादशाक्षरजपं तु सार्चनं यो भजेत्सुनियतो दिने दिने ।
ऐहिकं समुपलभ्य वाञ्छितं प्रेत्य याति पदमक्षयं हरेः ॥ २१.१३॥
अथ प्रवक्ष्यामि सुदर्शनस्य विधिं मनोज्ञं ग्रहतेजपादैः ।
यत्सिद्धितः सिद्धिमवाप्य रम्यां सिद्धामुनीन्द्रा अपि सद्य एव ॥ २१.१४॥
अन्त्यतुरीयतदादिकभृगुदहनानन्तवह्निवर्मास्त्रैः ।
तारादिर्मनुरुक्तः स्यादभिमतसिद्धिदो रथाङ्गाख्यः ॥ २१.१५॥
ऋषिरस्याहिर्बुध्न्यश्छन्दोऽनुष्टुपं देवता विष्णुः ।
चक्रपदैराविसुधी सज्वालाद्यैः शिरोन्वितैरङ्गम् ॥ २१.१६॥
ऐन्द्रीं समारभ्य दिशं त्वधस्ता-
दन्तं समुक्त्वा क्रमशो दशानाम् ।
चक्रेण बध्नामि नमस्तथोक्त्वा
चक्राय शीर्षं च दिशां प्रबन्धः ॥ २१.१७॥
त्रैलोक्यं रक्ष रक्षेति हुम्फट्स्वाहेति चोदितः ।
तारादिकोऽयं मन्त्रः स्यादग्निप्राकारसंज्ञकः ॥ २१.१८॥
तारं तु मूध्न्र्यथ सितारुणकृष्णवर्णं
मध्ये भ्रुवोश्च समथो वदने हकारम् ।
हृद्गुह्यजानुपदसन्धिषु चावशिष्टा-
न्वर्णान्न्यसेदिति तनौ पुनरग्निवर्णान् ॥ २१.१९॥
अव्याद्भास्करसप्रभाभिरखिला भाभिर्दिशो भासय-
न्भीमाक्षः क्षरदट्टहासविकसद्दंष्ट्राग्रदीप्ताननः ।
दोर्भिश्चक्रदरौ गदाब्जमुसलास्त्रासींश्च पाशाज्रुशौ
बिभ्रत्पिङ्गशिरोरुहोऽथ भवतश्श्चक्राभिधानो हरिः ॥ २१.२०॥
प्रोक्त्वा सुदर्शनायेति विद्महेऽन्ते महापदम् ।
ज्वालाय धीमहे चोक्त्वा तन्नश्चक्रः प्रचोदयात् ॥ २१.२१॥
सौदर्शनीयं गायत्री जप्तव्या जप्तुमिच्छता ।
सान्निध्यकारिणीं मुद्रां दर्शयेदनया सुधीः ॥ २१.२२॥
नमो भगवते प्रोक्त्वा महासुदर्शनाय च ।
महाचक्राय च तथा महाज्वालाय चेत्यथ ॥ २१.२३॥
दीप्तिरूपाय चेत्युक्त्वा सर्वतो रक्ष रक्ष माम् ।
महाबलाय स्वाहेति प्रोक्तस्तारादिको मनुः ।
रक्षाकरः प्रसिद्धोऽयं क्रियमाणेषु कर्मसु ॥ २१.२४॥
षट्कोणान्तःस्थतारं विवरलिखितमन्त्राक्षरं सिद्धिराज-
त्स्वाङ्गं बाह्ये कलाकेसरमुदरगताष्टाक्षरं चाष्टपत्रम् ।
पद्मं वर्णैर्विराजद्विकृतिदललसत्षोडशार्णं त्रिवीतं
व्योमान्त्यार्णं स्वनाम्ना विरचितगुणपाशाज्रुशं चक्रयन्त्रम् ॥ २१.२५॥
प्रणवहृद्भगवद्युतङे महादिकरथाङ्गचतुर्थिहुमस्त्रकैः ।
निगदितस्त्विह षोडशवर्णको मनुवरो मुनिभिर्विहितादरः ॥ २१.२६॥
क्वाथैः पयोभूरुहचर्मसिद्धैर्दुग्धेन गव्यैरपि पञ्चभिर्वा ।
मूत्रैः पशोर्वा प्रतिपूर्य कुम्भं समर्चयेच्चक्रहिंर यथावत् ॥ २१.२७॥
अङ्गैः प्रथमावृतिरपि पूज्या चक्रादिभिर्द्वितीया च ।
लक्ष्म्यादिभिस्तृतीया क्रमात्तथेन्द्रादिभिश्चतुर्थी स्यात् ॥ २१.२८॥
चक्रशङ्खगदापद्ममुसला धनुरेव च ।
पाशाज्रुशौ पीतरक्तसितश्यामा द्विजस्त्विमाः ॥ २१.२९॥
लक्ष्मीः सरस्वती चाथ रतिः प्रीत्याह्वया तथा ।
कीर्त्तिः कान्तिस्तुष्टिपुष्टी क्रमेणैव तु शक्तयः ॥ २१.३०॥
सम्पूज्य चैवं विधिना हिंर तु
शिष्यं गुरुः प्रीततमोऽभिषिञ्चेत् ।
भक्त्या स्वशक्त्या विभवैर्द्विजाती-
न्सन्तप्र्य भूयो गुरुणानुशिष्टः ॥ २१.३१॥
एकाग्रचित्तो रविलक्षसङ्ख्यं
जपेन्मनुं नित्यकृताभिपूजः ।
तावत्सहस्रं किल सर्षपाश्च
बिल्वाज्यदौग्धानि जुहोतु सम्यक् ॥ २१.३२॥
समुद्रतीरेऽप्यथ वाद्रिशृङ्गे समुद्रगानां सरितां च तीरे ।
जपेद्विविक्ते निज एव गेहे विष्णोगृहे वा पुरुषो मनस्वी ॥ २१.३३॥
यथोक्तसङ्ख्यं विधिवत्प्रजप्ते
मन्त्रं यथोक्तैश्च हुते हुताशे ।
द्रव्यैरथ स्वार्थपरार्थहेतोः
कुर्यात्प्रयोगान्विधिना यथावत् ॥ २१.३४॥
पीताभा र्किणका स्यादरुणतरमरं श्यामलं चान्तरालं
नेमि श्वेतं च बाह्ये विरचितशितिरेखाकुलं पार्थिवान्तम् ।
चक्रद्वन्द्वं लिखित्वा विशदमतिरथो सौम्ययाम्यं च मन्त्री
कुम्भं सम्पूर्य सौम्ये प्ररचयतु तथा दक्षिणे होमकर्म ॥ २१.३५॥
षड्विंशच्छतसम्मितैरथ घृतापामार्गजेध्माक्षतैः
सद्राजीतिलपायसैश्च सकलैद्र्रव्यैर्घृतान्तैः क्रमात् ।
हुत्वा तद्धुतशिष्टमत्र विधिवत्क्षिप्त्वा प्रतिद्रव्यकं
प्रस्थार्धान्नकृतं च पिण्डममलं कुम्भोदके मन्त्रवित् ॥ २१.३६॥
संस्थाप्य दक्षिणस्यां साध्यं कुम्भेन तेन नीराज्य ।
तमथ घटं सद्रव्यं बहिरारादष्टमे क्षिपेद्राशौ ॥ २१.३७॥
अग्न्यादिकमपि सर्वं क्षिपेदथ घटस्य दक्षिणे भागे ।
हुतशिष्टान्नेन बलिं मन्त्रेणानेन मन्त्रवित्कुर्यात् ॥ २१.३८॥
हृदयान्ते विष्णुपदं प्रोक्त्वाथ गणेभ्य उच्चरेत्सर्वम् ।
शान्तिकरेभ्यश्च बलिं गृह्ण्न्त्विति शान्तये नमोन्तं स्यात् ॥ २१.३९॥
ज्वारादिकां रोगपरम्परां वा विस्मृत्यपस्मारभवां रुजं वा ।
रक्षःपिशाचग्रहवैकृतं वा विधिस्त्वयं मुङ्क्षु हरेद्विकारम् ॥ २१.४०॥
पालाशैर्वा स्तनजद्रुमजैर्वा पञ्जरे कृते फलकैः ।
सम्पूर्य पञ्चगव्यैस्तत्र तु संस्थाप्य शुद्धमपि गदिनम् ॥ २१.४१॥
पूर्वोद्दिष्टैर्दिक्ष्वपि सजपं जुहुयुः पृथग्द्विजा वशिनः ।
द्रव्यैः स दक्षिणान्तानभ्यच्र्य विमुच्यते रुजो जन्तुः ॥ २१.४२॥
विप्रक्षीरद्रुमत्वङ्गलयजपुरकाश्मीरकुष्ठत्रियामा
बिल्वापामागराजीतिलतुलसियुगक्रान्तिदूर्वायवार्कैः ।
लक्ष्मीदेवीकुशागोमयकमलवचारोचनापञ्चगव्यैः
सिद्धेऽग्नौ कुम्भसिद्धं मनुजपमहितं भस्म सर्वार्थदायि ॥ २१.४३॥
लक्ष्म्यायुष्करमतुलं पिशाचभूता-
पस्मारादिकमचिरेण नाशयेच्च ।
क्षुद्रादीनपि विविधांस्तथापसर्गा-
नेतस्मान्न परतरा समस्ति रक्षा ॥ २१.४४॥
जुहुयाद्गुग्गुलुगुळिकासहस्रकं साष्टकं च मन्त्रितमः ।
त्रिदिनं चतुर्दिनं वा सर्वोपद्रवनिवारणं भवति ॥ २१.४५॥
स्वरमञ्जर्याः समिधामयुतं वा मन्त्रवित्तमो जुहुयात् ।
ज्वरभूतामयविस्मृत्यपस्मृतीः शमयितुं नियतचित्तः ॥ २१.४६॥
आज्याक्तैजुहुयाच्छ्रिये सरसिजैर्दूर्वाभिरप्यायुषे
मेधायै द्विजभूरुहैश्च कुमुदैः श्वेतैस्तथा वाससे ।
शुद्धाज्यैः पशवेऽप्युदुम्बरभवैः पुत्राय चाश्वत्थजै-
रेकाब्दं विधिवत्सहस्रसमितैरष्टोत्तरं मुक्तये ॥ २१.४७॥
चक्रस्य नाभिसंस्थं कृत्वात्मानं मनुं जपेन्मन्त्री ।
स्वयमेकोऽपि न युद्धे मत्र्यो बहुभिः पराजितो भवति ॥ २१.४८॥
मन्त्री सुनियतचित्तश्चक्रस्थं भ्रामयेद्धिया ग्रस्तम् ।
आविश्य सकलमुक्त्वा मुञ्चति दग्धोऽग्निना शुनाभिभुवा ॥ २१.४९॥
दीप्तं करालदहनप्रतिमं च चक्रं
यस्य स्मरेच्छिरसि कस्यचिदप्रियस्य ।
सप्ताहतोऽस्य दहनप्रतिमो ज्वरः स्या-
त्त्रिंशद्दिनैश्च स परेतपुरं प्रयाति ॥ २१.५०॥
कलावृतं चाहिपदाभिवेष्टितं
समक्षरं यच्छिरसि स्मरेत्सदा ।
दशाहतोऽसौ प्रति चाट्यते रिपु-
र्मृतिं तथा मण्डलतः प्रयाति ॥ २१.५१॥
सान्तं वायसवर्णं शत्रोः शिरसि स्मरेच्च सप्ताहम् ।
उच्चाटयति क्षिप्रं मारयतोवाधिवोऽस्य नैशित्यात् ॥ २१.५२॥
स्रवत्सुधार्विषणमिन्दुसप्रभं
समुज्ज्वलं यच्छिरसि प्रचिन्तयेत् ।
क्षणात्समाप्यायितसर्वविग्रहो
भवेत्स मत्र्यः सुचिरं च जीवति ॥ २१.५३॥
मध्ये तारं तदनु च मनुं वर्णशः कोण षट्के
बाह्ये चाङ्गं लिखतु करके रूप्यके वापि ताम्रे ।
पाषाणे वा विधिवदथ जप्याथ संस्थापितं त-
च्चक्रं चोरग्रहरिपुभयध्वंसि रक्षाकरं च ॥ २१.५४॥
स्थाने हृषीकेशविर्दिभतं च स्पष्टाक्षरं चाप्यभिजप्तमेतत् ।
रक्षां ग्रहादेः सततं विधत्ते यन्त्रं सुकॢप्तं च मनुत्रयेण ॥ २१.५५॥
अष्टाक्षरान्तरितपादचतुष्ककोष्ठं
कोष्ठत्रयालिखितसाध्यसुदर्शनं च ।
रेखाभिरप्युभयतः श्रुतिशः प्रबद्धं
तत्सप्तकोष्ठमिति यन्त्रमिदं प्रशस्तम् ॥ २१.५६॥
भूर्जे वा क्षौमपट्टे तनुमसृणतरे कर्पठे वास्य यन्त्रं
मन्त्री सम्यग्लिखित्वा पुनरपि गुलिकीकृत्य लाक्षाभिवीतम् ।
कृत्वा भस्मादिहोमप्रविहितघृतसम्पातपातात्तशक्तिं
जप्तं सम्यङ्निदध्यात्प्रतिशममुपयान्त्येव सर्वे विकाराः ॥ २१.५७॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे एकविंशः पटलः ॥
॥ द्वाविंशः पटलः ॥
अथोच्यते श्रीकरनामधेयमष्टाक्षरं लोकहिताय तावत् ।
येन प्रजप्तेन सर्मिचतेन हुतेन सिद्धिं समुपैति मन्त्री ॥ २२.१॥
सर्गादर्कः क्षतो विंशतियुगमयुतं शान्तगं चन्द्रबिम्बं
श्रीबाहुः शुक्लमेदोहरिशयनहकारा मनुः श्रीकराख्यः ।
ऋष्याद्या वामपङ्क्तीरहिरपि पुनरङ्गानि यान्तैर्हुमन्तै-
र्भीषत्रासप्रमर्दप्रसहितगदितध्वंसरक्षैर्द्विरुक्तैः ॥ २२.२॥
मूर्धाक्षिकण्ठहृदयोदरसोरुजानु-
पादद्वयेषु लिपिशो न्यसतु स्वदेहे ।
विप्रादिकान्मुखकरोरुपदेष वर्णां-
श्चक्रादिकानपि करेषु ततस्तदस्त्रान् ॥ २२.३॥
दुग्धाब्धिद्वीपवर्यप्रविलसितसुरोद्यानकल्पद्रुमाधो
भद्राम्भोजन्मपीठोपरिगतविनतानन्दनस्कन्धसंस्थः ।
दोर्भिर्बिभ्रद्रथाङ्गं सदरमथ गदापज्र्जे स्वर्णवर्णो
भास्वन्मौलिर्विचित्राभरणपरिगतः स्याच्छ्रिये वो मुकुन्दः ॥ २२.४॥
दिक्पत्रेषु श्रीरतिधृतिकान्तीः कोणकेषु मूर्तीश्च ।
इष्ट्वाभितो निधीशौ विष्वक्सेनं च दिक्पतीन्प्रयजेत् ॥ २२.५॥
आराध्य चैवं विधिना च विष्णुं
मन्त्री पुनर्होमविधिं करोतु ।
श्रीदुग्धवृक्षोत्थसमिद्भिरब्जैः
साज्येन दौग्धेन च र्सिपषा च ॥ २२.६॥
पृथगष्टशतं क्रमेण हुत्वा कनकाद्यैरपि र्तिपते गुरौ च ।
अभिषिच्य तथाभिपूज्य विप्रान्मनुमेनं प्रजपेदथाष्टलक्षम् ॥ २२.७॥
द्रव्यैस्तैः प्रतिजुहुयाद्दशांशमानै-
राचार्यं पुनरपि पूजयेज्जपान्ते ।
सम्प्राप्नोत्यपरिमितां श्रियं च कीर्तित
कान्तिं वा चिरमनुरज्यते च लोकैः ॥ २२.८॥
दूर्वां घृतप्रसिक्तां जुहुयादयुतं नरस्तु हुतशिष्टैः ।
आज्यैश्चरुमुपयुञ्ज्याद्दद्याद्गुरवे च दक्षिणां शक्त्या ॥ २२.९॥
परिपूजयेच्च विप्रांस्तेषु दिनेषु स्वशक्तितो भक्त्या ।
अपमृत्युरोगपापान्विजित्य स तु दीर्घमायुराप्नोति ॥ २२.१०॥
अनुदिनमादित्यमुखः प्रजपेदूध्र्वी कृतस्वबाहुयुगः ।
तस्य गृहेऽन्नसमृद्धिश्चिराय सञ्जायते सुपुष्टतरा ॥ २२.११॥
एवं प्रोक्तैः प्रतिजपहुतार्चादिभिर्मन्त्रमेनं
भक्त्या यो वा भजति मनुजो नित्यशः सोऽचिरेण ।
इष्टैः पुत्रैर्धरणिधनधान्यादिभिर्हृष्टचेताः
स्यादप्यन्ते परमपरिशुद्धं परं धाम विष्णोः ॥ २२.१२॥
अथ कथयामि विधानं महावराहाभिधानमन्त्रस्य ।
साङ्गं सजपं सहुताराधनमपि मन्त्रिणामभीष्टाप्त्यै ॥ २२.१३॥
वाक्यं प्रोक्त्वा हृदाख्यं तदनु भगवतेयुग्वराहं च रूपा-
येत्युक्त्वा व्याहृतीनामुपरि च पतये भूपतित्वं च मेऽन्ते ।
देहीत्याभाष्य दान्तः सुमतिरथ पनर्दापयस्वेति हान्तं
प्रोक्त्वा तारादिकं प्रोद्धरतु मनुवरं तत्र यिंस्त्रशदर्णम् ॥ २२.१४॥
ऋषिस्तु भार्गवः प्रोक्तोऽथानुष्टुप्छन्द ईरितम् ।
वराहो देवता चास्य कथ्यन्तेऽङ्गान्यतः परम् ॥ २२.१५॥
अस्यैकशृङ्गो हृदयं शिरश्च
व्योमोल्कतेजोऽधिपतिः शिखा च ।
स्याद्विश्वरूपं कवचं महाद्यो
दंष्ट्रोस्त्रमुक्तं स्वयमेव चाङ्गम् ॥ २२.१६॥
सप्तभिश्च पुनः षड्भिः सप्तभिश्चाथ पञ्चभिः ।
अष्टभिर्मूलमन्त्रार्णैर्विदध्यादङ्गकल्पनाम् ॥ २२.१७॥
जान्वोरापादमुद्यत्कनकमिव हिमप्रख्यमाजानु नाभेः
कण्ठादानाभि वह्निप्रभमथ शिरसश्चार्गलं नीलवर्णम् ।
मौलेव्र्योमाभमाकं करलसदरिशङ्खासिखेटं गदा श-
क्त्याख्येष्टाभीतियुक्तं प्रणमत वसुधोल्लासिदंष्ट्रं वराहम् ॥ २२.१८॥
सजलाम्बुवाहनिभमुद्धतदोःपरिघं धराधरसमानतनुम् ।
सितदंष्ट्रिकाधृतभवं त्वथ वा प्रविचिन्तयेत्सपदि कोलमुखम् ॥ २२.१९॥
हेमप्रख्यं पार्थिवे मण्डले वा
नीहाराभं नीरजेऽग्नेस्तदाभम् ।
वायोः कृष्णं द्युप्रभं वा दिविस्थं
क्रोडं व्याप्तं सत्यसंस्थं यजेद्वा ॥ २२.२०॥
अष्टपत्रमथ पद्ममुल्लसत्र्किणकं विधिवदारचय्य च ।
मण्डले रविसहस्रसन्निभं सूकरं यजतु तत्र सिद्धये ॥ २२.२१॥
प्राग्दक्षिणप्रत्यगुदग्दिशासु चत्वारि चाङ्गानि यजेत्क्रमेण ।
अस्त्रं विदिक्षूध्र्वमधश्च चक्राद्यस्त्राणि पूज्यानि वराहमूर्तेः ॥ २२.२२॥
अरिशङ्खकृपाणखेटसंज्ञान्सगदाशक्तिवराभयाह्वयांश्च ।
अभिपूज्य दिशाधिपान्यथावद्वरगन्धाक्षतपुष्पधूपदीपैः ॥ २२.२३॥
दंष्ट्रायां वसुधां सशैलनगरारण्यापगां हुङ्कृतौ
वागीशीं श्वसितेऽनिलं रविशशी वाह्वोश्च दक्षान्ययोः ।
कुक्षौ स्युर्वसवो दिशः श्रुतिपथे दस्रौ दृशोः पादयोः
पद्मोत्थो हृदये हरिः पृथगमी पूज्या मुखे शङ्करः ॥ २२.२४॥
एवं काले कोलमभ्यर्चयित्वा
जप्यो मन्त्रोऽसौ पुनर्लक्षसङ्ख्यम् ।
होमं कृत्वा तद्दशांशैश्च पद्मै-
स्त्रिस्वाद्वक्तैः प्राप्नुयाद्भूसमृद्धिम् ॥ २२.२५॥
ध्यानादपि धनसिद्धिर्मन्त्रजपाच्चाधरो भवेत्सधरः ।
जपपूजाहुतविधिभिर्मङ्क्षु नरो धनधरेन्दिरावान्स्यात् ॥ २२.२६॥
ध्यातः सन्भूगृहेऽसौ भुवमतुलतरां वारुणे शान्तिमुच्चै-
राग्नेये वश्यकीत्त्र्यादिकमनिलपुरस्थोऽयमुच्चाटनादीन् ।
रक्षां व्योम्नोऽरिभूतग्रहविषदुरितेभ्योऽनिलाग्न्योश्च पीडां
युद्धे वह्नीरयोर्वै जयमपि नितरां सन्निधत्ते वराहः ॥ २२.२७॥
हरिस्थेऽर्केऽष्टम्यामथ सितरुचौ कोलवपुषा
सितां गव्यैः सर्वैर्युतमयुतजप्तामपि शिलाम् ।
उदग्वक्त्रो मन्त्री मनुजपरतः स्थापयतु ता-
मयत्नं क्षेत्रेषु द्रुतमरिनिरोधं शमयति ॥ २२.२८॥
भौमे वारेऽथ भानूदयमनु जपवान्सङ्गृहीत्वा मृदंशं
कोलात्मा वैरिरुद्धादपि च कुतलतस्तं च कृत्वा गुणांशम् ।
एकं जातौ विलिप्यात्पुनरपरतरं पाकपाके तथान्यं
तोये तस्मिन्सदुग्धे प्रतिपचतु हविः संस्कृते हव्यवाहे ॥ २२.२९॥
आराध्य चाष्टोध्र्वशतप्रमाणं साज्येन मन्त्री हविषाथ तेन ।
सप्तारवारं जुहुयाद्यथावत्क्षेत्रोत्थितापत्प्रशमं प्रयाति ॥ २२.३०॥
भृगुवारे च मुखेऽह्नः सङ्गृह्य मृदं हविः समापाद्य ।
जुहुयादीरितविधिना बलिमपि दद्यान्महाविरोधेषु ॥ २२.३१॥
हुतक्रियैवं दिवसैश्च सप्तभि-
रिवनाशयेद्भूमिविवादसङ्कटम् ।
परेतवेतालपिशाचडाकिनी-
समुत्थितां वा विकृतिं विधिस्त्वयम् ॥ २२.३२॥
विलोड्य तामेव मृदं च दुग्धे
हुनेद्धृते वाष्टयुतं सहस्रकम् ।
द्विमण्डलादेव मही महाघ्र्या
स्यान्मन्त्रिणोऽस्यैव तु निःसपत्ना ॥ २२.३३॥
नृपतरुसमिधामयुतं मन्त्रेणानेन यो हुनेन्मन्त्री ।
गृहयात्रास्य न सीदेत्क्षेत्रादिकमपि च वर्धते क्रमशः ॥ २२.३४॥
अष्टोध्र्वशतं मन्त्री दिनशो यो वा जुहोति शालीभिः ।
स तु वत्सरेण मन्त्री विराजते व्रीहिपुनञ्जपूर्णगृहः ॥ २२.३५॥
मन्त्रेणानेन र्सिपर्जुहुत दशशतं मण्डलात्स्वर्णसिद्धिः
स्वाद्वक्तेनाञ्जलिन्या अपि कुसुमसहस्रेण वा वाससां च ।
लाजानां कन्यकाया अपि च मधुमतां होमतो वाञ्छितायाः
सिद्धी रक्तोत्पलानामपि मधुरयुजां स्याद्धुताच्छ्रीः समग्रा ॥ २२.३६॥
दण्ड्यर्धीशो व्योमासनस्तु वाराहमुच्यते बीजम् ।
अमुना तु साधितेन प्राप्स्यन्ति नराः समृद्धिमतुलतराम् ॥ २२.३७॥
तारेऽमुमपि लिखित्वा तद्बाह्येऽनलपुरं समापुटितम् ।
तद्बाह्ये च चतुर्दलमब्जं स्यात्तद्बहिस्तथाष्टदलम् ॥ २२.३८॥
बाह्ये षोडशपत्रं मण्डलमाखण्डलीयमपि बाह्ये ।
मध्ये सूकरबीजे साध्यक्षेत्राख्यमन्त्रमश्रिषु च ॥ २२.३९॥
रन्ध्रेष्वङ्गमनूनपि दलमूलेऽष्टार्णकेसराणि लिखेत् ।
अष्टावष्टौ दलमनु सूकरमन्त्रस्य चाक्षरान्क्रमशः ॥ २२.४०॥
अन्त्येऽवशिष्टमक्षरमथाष्टपत्रे स्वराख्यकिञ्जल्के ।
वर्णांश्चतुश्चतुरपि तथाष्टमे पञ्च चालिखेत्पत्रे ॥ २२.४१॥
व्यञ्जनकिञ्जल्केऽन्त्ये द्वौ द्वौ त्रयमन्त्यके दले विलिखेत् ।
तारमहीकोलार्णैः प्रवेष्टयेत्साध्यवर्णपरिपुटितैः ॥ २२.४२॥
तद्बाह्ये मनुवर्णैर्विर्दिभताभिश्चसाध्यपदलिपिभिः ।
क्ष्माबिम्बचतुष्कोणे गर्भगसाध्याक्षरं चतुर्बीजम् ॥ २२.४३॥
अष्टसु शूलेषु तथा वाराहं वासुसेनसंवृत्तम् ।
लाक्षाकुज्रुमचन्दनलघुकर्पूरैः सरोचनैर्विलिखेत् ।
गोशकृदम्भोयुक्तैर्लेखिन्या हैमया दिने प्रवरे ॥ २२.४४॥
सौवर्णे राज्यसिद्धिं रजतकफलके ग्रामसिद्धिं च ताम्रे
साहस्रस्वर्णसिद्धिं भुजदललिखितं चाशु संसारयात्राम् ।
क्षौमे लाभं धरायाः पिचुतरुफलके कार्यसिद्धिं निजेष्टां
यन्त्रं सञ्जप्तकॢप्तं घृतहुतकृतसम्पातपातं करोति ॥ २२.४५॥
मन्त्री समास्थाय वराहरूपं साध्यप्रदेशे निखनेच्च यन्त्रम् ।
स्थिराख्यराशावभिवाह्य कोलमङ्गानि दिक्षु क्षिपतां यथावत् ॥ २२.४६॥
यन्त्रमिदं रक्षायै रोगग्रहवैकृतेषु जन्तूनाम् ।
सञ्जप्य शिरसि बन्ध्यात्स तु नीरोगस्त्वयत्नतो भवति ॥ २२.४७॥
इत्येवं प्रणिगदितो वराहमन्त्रो
यस्त्वेनं प्रभजति नित्यशो जपाद्यैः ।
स प्राप्नोत्यखिलमहीसमृद्धिमस्मि-
न्देहान्ते व्रजति हरेः परं पदं तत् ॥ २२.४८॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे द्वाविंशः पटलः ॥
॥ त्रयोविंशः पटलः ॥
अथ प्रवक्ष्यामि नृसिंहमन्त्रस्यानुष्टुभः सङ्ग्रहतो विधानम् ।
साङ्गं सजापं सहुतक्रमं च सार्चाविधानं निजवाञ्छिताप्त्यै ॥ २३.१॥
उग्रं वीरयुतं महान्तिकमथो विष्णुं ज्वलन्तान्वितं
सम्प्रोक्त्वाथ च सर्वतोमुखनृसिंहार्णं तथा भीषणम् ।
भद्रं मृत्युयुतं च मृत्युमपि च प्रोक्त्वा नमाम्यायुतं
भूयोऽहम्पदमुद्धरेन्मनुमिमं मन्त्री समस्तार्थकम् ॥ २३.२॥
ब्रह्मा प्रजापतिर्वा प्रोक्त ऋषिर्नारदश्च विद्वद्भिः ।
छन्दोऽनुष्टुबुदाहृतमथ विष्णुर्देवता नृसिंहाख्यः ॥ २३.३॥
वर्णैश्चतुर्भिरुदितं हृदयं शिरश्च
तावद्भिरष्टभिरथास्य शिखा प्रदिष्टा ।
षड्भिश्च वर्म नयनं च चतुर्भिरस्त्रं
प्रोक्तं क्रमेण मनुनाक्षरशः षडङ्गम् ॥ २३.४॥
सशिरोललाटदृग्युगमुखकरपदसन्धिकेषु साग्रेषु ।
उदरहृदोर्गलपाश्र्वेष्वपरे ककुदि क्रमान्न्यसेद्वर्णान् ॥ २३.५॥
प्रतिपत्तिरस्य चोक्ता प्रसन्नता क्रूरता विशेषेण ।
द्विविधा प्रसन्नया स्यात्मसाधनपूजान्यया प्रयोगविधिः ॥ २३.६॥
जान्वोरासक्ततीक्ष्णस्वनखरुचिलसद्बाहुसंस्पृष्टकेश-
श्चक्रं शङ्खं च दोभ्र्यां दधदनलसमज्योतिषा भग्नदैत्यः ।
ज्वालामालापरीतं रविशशिदहनत्रीक्षणं दीप्तजिह्वं ।
दंष्ट्रोग्रं धूतकेशं वदनमपि वहन्पातु वो नारसिंहः ॥ २३.७॥
उद्यद्भास्वत्सहस्रप्रभमशनिनिभत्रीक्षणैर्विक्षरन्तं
वह्नीनह्नाय विद्युत्ततिविततसटाभीषणं भूषणैश्च ।
दिव्यैरादीप्तदेहं निशितनखलसद्बाहुदण्डैरनेकैः
सम्भिन्नं भिन्नदैत्येश्वरतनुमतनुं नारसिंहं नमामि ॥ २३.८॥
नरसिंहममुं धियैव पूर्वं प्रणिपत्याघ्र्यकपाद्यसाचमाद्यैः ।
प्रयजेत्सहगन्धपुष्पधूपादिभिरेवं प्रवरैश्च नृत्तगीतैः ॥ २३.९॥
सुविशदमतिरथ बहिरपि सम्यक्सम्पूज्य वैष्णवं पीठम् ।
तत्रावाह्य च नरहरिमुपचारैः सम्यगर्चयेत्प्रवरैः ॥ २३.१०॥
अङ्गैः प्रथमावृतिरपि पक्षीन्द्रानन्तशर्वकमलभवैः ।
सश्रीह्रीधृतिपुष्टिभिरपरोक्ता लोकपालकैरन्या ॥ २३.११॥
प्राक्प्रत्यग्यमशशिनां दिगाश्रया मूर्तयोऽनलादिषु च ।
स्युः शक्तय इत्येवं भक्त्या परया युतोऽर्चयेद्देवम् ॥ २३.१२॥
द्वात्रिंशके सहस्रैरधिकृतिरयुतैर्भवेत्पुरश्चरणम् ।
तावद्भिस्तावद्भिर्लक्षैः सिद्धिः समीरितास्य मनोः ॥ २३.१३॥
विकृतिद्विगुणसहस्रैर्जुहुयादाज्यान्वितैश्च दुग्धान्नैः ।
जपसम्पूर्तौ मन्त्री दिनशः सम्पूजयेच्च नरसिंहम् ॥ २३.१४॥
विधाय तद्बीजविशिष्टर्किणकं चतुश्चतुर्वर्णलसद्दलाष्टकम् ।
सुलक्षितं मण्डलमन्यलक्षणैर्निधाय तस्मिन्कलशं प्रपूर्य च ॥ २३.१५॥
यथोक्तमार्गेण समच्र्य साष्टकं सहस्रसङ्ख्यं प्रजपेन्मनुं ततः ।
त्रिरुच्चरन्मन्त्रमथाभिषेचयेद्यमेष मृत्योविरिफ्?निवर्तते मुखात् ॥ २३.१६॥
वर्णान्तानलभुवनार्धेन्दुभिरुक्तं नृसिंहबीजमिदम् ।
तन्नास्ति सम्यगमुना मन्त्रविदा साधितेन यदसाध्यम् ॥ २३.१७॥
विभवानुरूपतोऽस्मै दातव्या दक्षिणा च निजगुरवे ।
प्राणप्रदानकत्र्रे न तु कार्यं वित्तशाठ्यममलधिया ॥ २३.१८॥
सम्प्रीणयित्वा गुरुमात्मशक्त्या सम्भोजयेद्विप्रवरान्यथावत् ।
स त्वैहिकी सिद्धिमवाप्य शुद्धं परं परत्रापि पदं समेति ॥ २३.१९॥
दूर्वात्रिकैरष्टसहस्रसङ्ख्यै-
राराध्य मन्त्री जुहुयादथाप्सु ।
शान्तिं प्रयान्त्येव तदोपसर्गा
आपो हि शान्ता इति च श्रुतिः स्यात् ॥ २३.२०॥
उत्पाते महति सति ह्युपद्रवाणां
होमोऽयं भवति च शान्तिदो नराणाम् ।
यद्वान्यन्निजमनसेप्सितं च कामं
तच्चाप्नोत्यखिलनृणां प्रियश्च भूयात् ॥ २३.२१॥
दुःस्वप्नेष्वपि दृष्टेष्ववशिष्टा जाग्रता निशा नेया ।
जपमानमन्त्रशक्त्या सुस्वप्नो भवति तत्क्षणादेव ॥ २३.२२॥
चरन्वने दुष्टमृगाहिचोरव्यालाकुले मन्त्रममुं जपेद्यः ।
असाधितं साधितमेव तस्य न विद्यते भीर्बहुरूपजाता ॥ २३.२३॥
जप्तेनाष्टसहस्रं कलशेनाप्यहिविषार्तमभिषिञ्चेत् ।
अतिविषमेण विषेणाप्यसौ विमुक्तः सुखी भवति ॥ २३.२४॥
मूषिकलूतावृश्चिकबहुपादाद्युत्थितं विषं शमयेत् ।
अष्टोत्तरशतजापान्मनुरयमभिमन्त्रितं च भस्माद्यम् ॥ २३.२५॥
सशिरोक्षिकण्ठदद्गलकुक्षिरुजाज्वरविसर्पवमिहिक्काः ।
मन्त्रौषधाभिचारककृतान्विकारानयं मनुः शमयेत् ॥ २३.२६॥
नरहरिवपुषात्मना गृहीतं हरिणशिशुं निजवैरिणं विचिन्त्य ।
क्षिपतु गगनतः क्षितौ सुदूरं यमनुदिनं प्रतिचाट्यते समासात् ॥ २३.२७॥
यां च दिशं प्रति मनुना क्षिप्तोऽसौ तां दिशं प्रयात्यचिरात् ।
पुत्रकलत्रधनादींस्त्यक्त्वा त्वपुनर्निवृत्तये सहसा ॥ २३.२८॥
नरहरिवपुषात्मना निजारिं नखरखराग्रसमग्रभिन्नदेहम् ।
क्षणमिव निहतं विचिन्त्य खादन्निव जपतां मनुमेष नाशमेति ॥ २३.२९॥
पूर्वतरे मृत्युपदे विधाय निजसाध्यनाम मन्त्रितमः ।
क्रूरेण चक्षुषा तं दहन्निवालोक्य जपतु सप्तदिनम् ॥ २३.३०॥
दिनशोऽष्टोध्र्वसहस्रं म्रियते रिपुरस्य नात्र सन्देहः ।
मारणकर्म न शस्तं क्रियते यद्ययुतमथ जपेच्छान्त्यै ॥ २३.३१॥
वश्याकृष्टिद्वेषण मोहोच्चाटादिकानि यदि वाञ्छेत् ।
तदर्हया प्रतिपत्त्या तत्तत्कर्म प्रसाधयेन्मन्त्री ॥ २३.३२॥
दिनमनु दिननाथं पूजयित्वा दिनादौ
नरहरिमपि सम्यक्प्रोक्तमार्गेण मन्त्री ।
तदनु तदनुमत्या भस्मना मन्त्रितेन
प्रतिरचयतु राज्ञे वाप्यभीष्टाय रक्षाम् ॥ २३.३३॥
न्यासोक्तेषु स्थानेष्वपि न्यसेद्भस्मना समन्त्रार्णम् ।
अखिलोपद्रवशान्त्यै सम्पत्त्यै वाञ्छितार्थसंसिद्ध्यै ॥ २३.३४॥
अथ परराष्ट्रजयेच्छो राज्ञः कुर्यात्प्रयोगविधिमेवम् ।
नरहरिमपि विधिना तं हिरण्यकशिपुद्विषं समभ्यच्र्य ॥ २३.३५॥
तस्य पुरस्ताद्विधिवन्निधाय वह्निं विभीततरुकाष्ठैः ।
उज्ज्वलिते च ज्वलने समूलतूलैः शरेध्मदशशतकैः ।
खादन्निवोच्चरन्मनुमरींश्च भिन्दन्निव क्षिपेत्समिधः ॥ २३.३६॥
हुत्वा परराष्टेरभ्यः पृतनां सन्नाह्य च पुरस्तस्याः ।
निघ्नन्तं रिपुसेनां स्मरन्नृसिंहं पुरेव दितितनयात् ॥ २३.३७॥
यावज्जितारिरेष्यति नृपतिस्तावज्जपेत्स्मरन्नेवम् ।
सेन्द्रसुरासुररक्षोयक्षानपि जयति का कथा मनुजे ॥ २३.३८॥
श्रीकामः श्रीप्रसूनैर्दशकमथ शतानां हुनेद्बिल्वकाष्ठै-
स्तत्पत्रैर्वा प्रसूनैः सुमतिरथ समिद्भिः फलैर्वा तदीयैः ।
पुत्रेप्सुः पुत्रजीवेन्धनचितदहने तत्फलैर्वा सहस्रं
दूर्वाभिस्त्वायुषेऽब्दादभिमतमखिलं प्राप्नुयान्मन्त्रजापी ॥ २३.३९॥
ब्राह्मीं वचां वाष्टशताभिजप्तां
प्रातः समद्यान्नृहिंर विचिन्त्य ।
सम्प्राप्य मेधां स तु वेदशास्त्र-
निष्णातधीः स्यादपि वासरेण ॥ २३.४०॥
उक्तैः किमत्र बहुभिर्मनुनामुनैव
सम्प्रार्थितं सकलमेव लभेद्विधिज्ञः ।
तस्मादमुं भजत तत्प्रतिपन्नचित्ताः
संसारसागरसमुत्तरणार्थिनो ये ॥ २३.४१॥
पाशाज्रुशान्तरितशक्तिनृसिंहबीजै-
र्वर्मास्त्रयुङ्मनुरयं कथितः षडर्णः ।
ऋष्यादिकाः स्वभवपङ्क्तिकनारसिंहा
वर्णैश्च मन्त्रनिहितैः कथितं षडङ्गम् ॥ २३.४२॥
अव्यान्निव्र्याजरौद्राकृतिरभिविवृतास्योल्लसत्तीक्ष्णदंष्ट्र-
श्चक्रं शङ्खं च पाशाज्रूशकुलिशगदादारणाख्यान्दधानः ।
रक्ताकारश्च नाभेरध उपरि सितो दिव्यभूषाविशेषो
देवोऽर्काग्नीन्दुनेत्रो निखिलसुखकरो नारसिंहश्चिरं वः ॥ २३.४३॥
हृल्लेखान्तःस्थसाध्यं दहनपुरयुगाश्रिस्थमन्त्रार्णमन्तः-
सिंहानुष्टुप्चतुर्वर्णकलसितदलाढ्यं कलाकेसरं च ।
वृत्तोद्यद्व्यञ्जनावेष्टितमवनिपुराश्रस्थचिन्तोपलं त-
द्यन्त्रं रक्षःपिशाचामयविषयरिपुध्वंसनं नारसिंहम् ॥ २३.४४॥
इति विरचितयन्त्रप्रोज्ज्वले मण्डले प्रा-
क्समभिहितकषायाम्भोभिरापूर्य कुम्भम् ।
प्रतियजतु तदङ्गैरस्त्रभेदैस्तदीयै-
स्तदनु मखशताद्यैः साधुवङ्काआदिकैश्च ॥ २३.४५॥
रथचरणशङ्खपाशाज्रुशकुलिशगदाह्वयानि चास्त्राणि ।
दारुणमुद्राकरयोर्ययोस्तदीयौ कृपाणखेटाख्यौ ॥ २३.४६॥
इति कृतदीक्षः प्रजपेदक्षरलक्षप्रमाणकं मन्त्रम् ।
जुहुयाच्च षट्सहस्रं जपावसाने घृतेन शुद्धेन ॥ २३.४७॥
खरमञ्जरीसमुत्थं जुहुयादथ मञ्जरीसहस्रतयम् ।
प्रस्नातपञ्चगव्यं सप्तदिनं भूतशान्तये मन्त्री ॥ २३.४८॥
छिन्नरुहां समिधां त्रिसहस्रं यश्च जुहोति चतुर्दिनमात्रम् ।
दुग्धयुजं नचिरान्मनुजानां होमविधिज्र्वरशान्तिकरः स्यात् ॥ २३.४९॥
अस्य यन्त्रमभिलिख्य भूर्जके साधु चाथ तृणराजपत्रके ।
मन्त्रजप्तमपि शीर्षबन्धनाज्जूर्तिविभ्रमशिरोरुजापहम् ॥ २३.५०॥
रक्तोत्पलैः प्रतिदिनं मधुरत्रयाक्तै-
र्यो वा जुहोति नियमेन सहस्रसङ्ख्यैः ।
मासेन वाञ्छितमवाप्स्यति मन्त्रजापी
स्याद्वत्सरेण धनधान्यसमृद्धगेहः ॥ २३.५१॥
आरक्तैस्तरणिसहस्रकं प्रफुल्लै-
रम्भोजैस्त्रिमधुरसंयुतैर्जुहोति ।
लक्ष्मीः स्यादथ महती महत्तथायुः
सम्प्राप्तः सकलजगत्प्रियश्च भूयात् ॥ २३.५२॥
लाजाभिस्त्रिमधुरसंयुताभिरह्नो
मासार्धं प्रतिजुहुयान्मुखे सहस्रम् ।
कन्यार्थी प्रतिलभते वरोऽथ कन्यां
कन्या वा भवति वरार्थिनी वराढ्या ॥ २३.५३॥
तिलैः सराजीखरमञ्जरीसमि-
द्धविधृतैश्च द्विसहस्रसङ्ख्यकैः ।
प्रजुह्वतो नैव रुजा ग्रहोद्भवा
न चाभिचारक्षतिरस्य जायते ॥ २३.५४॥
दशाधिकशतैः पयोधृतयुतैश्च दूर्वात्रयै-
र्हुनेद्दिनमुखेऽपि यो नरहिंर विचिन्त्यानले ।
अवाप्य स तु दीर्घमायुरखिलैर्वियुक्तो गदैः
सुखी भवति मानवो निजकलत्रपुत्रादिभिः ॥ २३.५५॥
विस्तारैः किं प्रतिजपति यो मन्त्रमेनं यथोक्तं
लब्ध्वा कामान्समभिलषितानाशु मन्त्री स भूयः ।
द्रव्यैराढ्यो द्विजनृपवरैः पूजितः शान्तचेताः
स्यादप्यन्ते परमपरिशुद्धं परं धाम विष्णोः ॥ २३.५६॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे त्रयोविंशः पटलः ॥
॥ चतुर्विंशः पटलः ॥
अथ सम्प्रति विष्णुपञ्जरस्य
प्रतिवक्ष्यामि समासतो विधानम् ।
जितवांस्त्रिपुरं हरोऽपि येन
त्रिदशानामधिपो वलासुरं च ॥ २४.१॥
शक्तेर्द्वादशगुणिते यन्त्रे मन्त्राणि मण्डलान्यपि च ।
बीजानि यानि चोक्तान्येभिः कॢप्तं तु पञ्जरं विष्णो ॥ २४.२॥
विष्णुं लिखेन्मध्यगशक्तिबिन्दौ कपोलयोः सिंहवराहबीजे ।
तद्विश्वरूपाह्वयमन्त्रवीतं प्रवेष्टयेत्षोडशमन्त्रवर्णैः ॥ २४.३॥
तारं हृदयं भगवत्पदं महाविष्णुवासुदेवौ ङेन्तौ ।
विश्वादिरूपं शरणं भव मे प्रभविष्णवे नमस्यामन्त्रः ॥ २४.४॥
द्वादशाक्षरमन्त्रान्ते भवेतां कवचास्त्रकौ ।
स्वाहान्तषोडशार्णोऽयं मन्त्रः सर्वार्थसाधकः ॥ २४.५॥
क्रमेण तद्वर्णविकारजाताश्चक्रादिकाः षोडश मूर्तयः स्युः ।
याभिस्तु विष्णोरिह पञ्जरस्य प्रवर्तते शक्तिरनेकरूपा ॥ २४.६॥
यन्त्रस्य बीजेषु चतुर्षु पूर्वं
प्राग्दक्षिणप्रत्यगुदग्गतेषु ।
विद्वांस्तु चक्रं च गदां च शाङ्र्ग
खङ्गं च मन्त्रैः सहितं विलिख्यात् ॥ २४.७॥
शङ्खहलमुसलशूलान्यग्न्याद्यश्रिष्वथाष्टबीजेषु ।
विलिखेद्दण्डं कुन्तं शक्तिं पाशाज्रुशं कुलिशशतमुखवह्नीन् ॥ २४.८॥
सप्रणवत्दृदयभगवद्विष्णुस्वाख्यानमूर्तिधरयुक्ताः ।
सेनापतिसहिता निजमन्त्रान्ता मूर्तयोऽत्र लिखितव्याः ॥ २४.९॥
सहस्रारपदं पूर्वं कौमोदकि ततो भवेत् ।
महाशाङ्र्गपदं पश्चान्महाखड्गपदं पुनः ॥ २४.१०॥
प्रोक्तानि वर्मास्त्रान्तानि निजमन्त्राणि वै क्रमात् ।
पूर्वं महापाञ्चजन्यं महाहलमनन्तरम् ॥ २४.११॥
ततो महामुसलकं महाशूलं ततः परम् ।
स्वाहान्तानि च मन्त्राणि शङ्खादीनां क्रमाद्विदुः ॥ २४.१२॥
दण्डादीनामथाष्टानामन्ते युञ्ज्यान्नमःपदम् ।
पात्रोद्धृतधरं विद्वान्वाराहे विष्ण्वभिख्ययोः ॥ २४.१३॥
अन्तरा योजयेन्मन्त्री नारसिंहं पुनः सुधीः ।
नखं च दलितं चैव रिपुविग्रहमेव च ॥ २४.१४॥
योजयित्वा नृसिंहात्प्राक् सिंहमन्त्रं समापयेत् ।
विष्णोरन्ते महापक्षिराजाय च गरुत्मते ॥ २४.१५॥
हरिपूर्वं वाहनाय प्राणात्मन इतीरयेत् ।
नमोऽन्तोऽसौ तु विद्वद्भिर्मन्त्रो गारुत्मतो मतः ॥ २४.१६॥
स त्रिष्टुभा वह्निगृहेण पूर्वं सानुष्टुभेन्दोर्निलयेन चापि ।
गायत्रिमन्त्रोल्लसितेन भूयः प्रवेष्टयेदर्कनिकेतनेन ॥ २४.१७॥
अनुलोमविलोमगैश्च वर्णैरभिवीतं वसुधापुरद्वयेन ।
नलिनं बहिरष्टयुग्मपत्रं प्रविदध्यादथ मूर्तिमन्त्रयुक्तम् ॥ २४.१८॥
तद्बहिर्मण्डलं सर्वलक्षणैरभिलक्षितम् ।
तस्मिन्नावाह्य विधिवद्विश्वरूपहिंर यजेत् ॥ २४.१९॥
अग्नीषोमात्मकमरिगदाशाङ्र्गखड्गैः सशङ्खै-
रुद्यद्बाहुं हलमुसलशूलैः सकुन्तैः सदण्डैः ।
शक्त्या पाशाज्रुशकुलिशटज्रग्निभिश्चार्कवह्नि-
द्योतद्वक्त्राङ्घ्रिकसरसिजं तप्तकार्तस्वराभम् ॥ २४.२०॥
विष्णुं भास्वत्किरीटं मणिमकुटकटीसूत्रकेयूरहार-
ग्रैवेयोम्र्यादिमुख्याभरणमणिगणोल्लासिदिव्याङ्गरागम् ।
विश्वाकाशावकाशप्रविततमयुतादित्यनीकाशमुद्य-
द्बाह्वग्रव्यग्रनानायुधनिकरकरं विश्वरूपं नमामि ॥ २४.२१॥
अभ्यच्र्य पूर्ववत्पीठं नवशक्तिसमन्वितम् ।
अर्चयेत्क्रमशो विद्वान्मूर्तिशक्तिचतुष्टयम् ॥ २४.२२॥
चक्रं च चक्राज्र्किरीटमौलिं
सचक्रशङ्खं सगदं सशाङ्र्गम् ।
रक्ताम्बरं रक्ततनुं कराल-
द्रष्ट्राननं प्राग्दलकेऽर्चयीत ॥ २४.२३॥
पूज्या गदा गदाज्र्तिमौलि सगदा सचक्रशङ्खधनः ।
पीताम्बरानुलेपा पीता क्रुद्धा च याम्यसंस्थदले ॥ २४.२४॥
श्यामं शाङ्र्गाज्र्तिकं शाङ्र्गारिदरगदाहस्तम् ।
रक्तांशुकानुलेपनमाल्यादिं वारुणे यजेत्पत्रे ॥ २४.२५॥
खड्गं सखड्गशिरसं खड्गारिगदाधनुष्करं धूम्रम् ।
विकृताम्बरानुलेपस्रजं समभ्यर्चयेदुदक्पत्रे ॥ २४.२६॥
शङ्खं सशङ्खशिरसं शङ्खारिगदाधनुष्करं सुसितम् ।
सितवसनमाल्यभूषं यजेन्महानादमग्निसंस्थदले ॥ २४.२७॥
शङ्खोक्तचिह्नभूषान्स्वास्त्रादिकधरचतुर्भुजानपरान् ।
हलमुसलशूलसंज्ञान्यजेन्निशाटादिकेषु पत्रेषु ॥ २४.२८॥
दण्डादिकांस्तथाष्टौच्छिद्रदलेष्वर्चयीत रक्ताभान् ।
स्वस्वायुधप्रधानांश्चतुर्भुजाञ्शतमुखानलान्तांश्च ॥ २४.२९॥
दंष्ट्राग्रलग्नवसुधं सजलाम्बुवाह-
चोरार्चिषं त्वभियजेदधरेऽष्टबाहुम् ।
चक्रासिबाणसगदादरचर्मशाङ्र्ग-
शक्त्याख्यकान्दधतमादिमहावराहम् ॥ २४.३०॥
अर्कानलोज्ज्वलमुखं नयनैस्त्रिभिश्च
वह्निं क्षरन्तमवधूतसटाकलापम् ।
शुक्लाभभूषमरिशङ्खगदासिबाहुं
भूयोऽभिराधयतु खे च महानृसिंहम् ॥ २४.३१॥
अगेर समग्रबलमुग्रतनुं स्वपक्ष-
विक्षेपविक्षतविलक्षविपक्षपक्षम् ।
खण्डाग्रतुण्डममुमण्डजदण्डनाथ-
माराधयेदथ च पञ्जरगस्य विष्णोः ॥ २४.३२॥
भूयोऽपि केशवेन्द्रादिकौ समभ्यर्चयेच्च वङ्काआदीन् ।
गन्धादिभिरुपचारैः पञ्चभिरथ संयतात्मको मन्त्री ॥ २४.३३॥
निवेदिते होमविधिश्च कार्यो
दीक्षाविधानाभिहितश्च वह्नौ ।
सर्सिपषान्नेन तु वह्निमूर्ति
हुत्वा तु विष्णोर्मनुना तथैव ॥ २४.३४॥
जुहुयाच्च वामदेवादिकशान्त्यादींश्च रुद्रसङ्ख्येन ।
दुग्धतरूत्थाः समिधः क्रमेण चक्रादिभिश्चतुर्मन्त्रैः ॥ २४.३५॥
जुहुयादष्टोध्र्वशतं सङ्ख्याद्यैर्द्वादशभिरथ मनुभिः ।
तिलसिद्धार्थैर्जुहुयाद्विकारसङ्ख्यं पृथक्पृथङ्मन्त्री ॥ २४.३६॥
त्रिष्टुबनुष्टुप्तत्पदमन्त्रैर्मन्त्रार्णसङ्ख्यकं हविषा ।
सघृतेन केशवाद्यैर्दिनकरसङ्ख्यं तथेन्द्रवङ्काआद्यैः ।
जुहुयात्पृथगपि वसुमितमथ च महाव्याहृतीर्हुनेन्मतिमान् ॥ २४.३७॥
आराध्य च विसृज्याग्निमभिषिच्य सुसंयतः ।
विष्णोस्तु पञ्जरं कुर्यादृषिब्र्रह्मबृहस्पती ॥ २४.३८॥
छन्दस्त्वनुष्टुप् त्रिष्टुप् च मुनिभिः समुदाहृते ।
विश्वरूपादिको विष्णुर्विष्णुपञ्जरदेवता ॥ २४.३९॥
अष्टार्णचक्रमनुमध्यगतैश्च पादै-
व्र्यस्तैस्तथा सुमतिरारचयेत्समस्तैः ।
गीतामनोः क्रमश एव च जातियुञ्जि
पञ्चाङ्गकानि हरिपञ्जरकल्पितानि ॥ २४.४०॥
विष्णुः प्राच्यादिकमथ जपेन्नारसिंहोऽम्बरान्तं
त्रिस्त्रिर्मन्त्रान्पुनरपि तथा पञ्चशस्त्वेकविंशत् ।
बुद्धिस्वास्थ्यप्रभृति च तथा पञ्चवारं त्रिगाधा
भूयो जप्याद्विमलशितधीश्चक्रमन्त्राभिधानम् ॥ २४.४१॥
नमो भगवते सर्वविष्णवे विश्वरूपिणे ।
वासुदेवाय चक्रादिसर्वायुधभृते नमः ॥ २४.४२॥
अर्केन्दुवह्निनिलयस्फुरितत्रिमन्त्र-
शक्तिप्रबन्धमहसः परमस्य विष्णोः ।
पादारविन्दगलितामृतसिक्तगात्रं
साध्यं स्मरेज्जपविधावपि साधकेशः ॥ २४.४३॥
विष्णोः सान्निध्यलब्धोल्लसितबलचलद्धस्तदण्डोद्यतास्त्रै-
श्चक्राद्यैर्भीषणास्येक्षणचरणवचोहासहुङ्कारघौरैः ।
उत्क्षिप्ताक्षिप्तकृत्तस्फुटितविगलिताघूर्णितध्वस्तशान्ता
ध्यायेद्वेतालभूतग्रहदुरितपिशाचारिनागारिरोगान् ॥ २४.४४॥
पूर्वं स्थाने हृषीकेशमन्त्रयुक्तं विधानवित् ।
विश्वरूपात्मकं जप्याद्वैष्णवं मूलमन्त्रकम् ॥ २४.४५॥
योजयित्वा जपेत्पश्चाच्चक्रादिषु यथाक्रमम् ।
चतुर्षु चतुरः पादान्गीतात्रिष्टुप्समुद्भवान् ॥ २४.४६॥
पूर्णेषु षोडशेष्वेवमाद्यं पादे वराहके ।
द्वितीयान्नारसिंहे च द्वितीयं गारुडे पुनः ॥ २४.४७॥
चतुर्थं च क्रमं ते च योजयित्वा जपेत्सुधीः ।
मन्त्रं सुदर्शनं चेत्थमिष्टमष्टादशं मनुम् ॥ २४.४८॥
संयोज्य कृच्छ्रे महति जपेन्मन्त्री विधानवित् ।
आग्नेये वक्ष्यमाणेन विधानेन समाहितः ॥ २४.४९॥
सिकतोपलसर्वादीन्साधयेदथ तैः क्रियाः ।
वास्तौ पुरे वा ग्रामे वा विदध्याद्विषयेऽपि वा ॥ २४.५०॥
मध्ये च षोडशाशान्ते खनेदष्टदशावटान् ।
अष्टादशं तु शक्रस्य विदध्यात्पुरतोऽवटम् ॥ २४.५१॥
हस्तागाधांस्तथायामांश्चतुरश्रान्समन्ततः ।
अन्योन्यतश्चङ्क्रमार्थं शुद्धान्मार्गान्विधाय च ॥ २४.५२॥
गोमयेनोपलिप्येत नारीयस्थाप्यवस्त्वपि ।
शुष्कपुष्करपत्रेषु विदध्याद्विंशतिष्वपि ॥ २४.५३॥
ततो मध्यमकुण्डस्य प्रविश्य पुरतो गुरुः ।
तदन्तरिष्ट्वा पीठं च तत्र यन्त्रमनुस्मरन् ॥ २४.५४॥
स्थापयेद्वैष्णवे स्थाने विश्वरूपधिया सुधीः ।
ततः क्रमेण चक्रादीन्दिक्कुण्डेषु चतुष्र्वपि ॥ २४.५५॥
पुनः शङ्खादिकांस्तद्वत्कुण्डेष्वश्राश्रितेष्वपि ।
तथा दण्डादिकानष्टौ च्छिद्राशासु प्रकल्पयेत् ॥ २४.५६॥
मध्ये पुनरधश्चोध्र्वं कोलकेसरिणौ यजेत् ।
चक्रस्य प्राक्तने कुण्डे स्थापयेद्विनतासुतम् ॥ २४.५७॥
ततः समस्थलीकृत्य क्रमात्समुलिप्य च ।
प्रत्यगानन आसीनो मध्यगस्थण्डिलस्थिते ॥ २४.५८॥
यज्ञे काञ्चनपत्रस्थे पूजयेत्पूर्ववत्प्रभुम् ।
वादित्रघोषबहुलं निवेद्यान्तं यथाक्रमम् ॥ २४.५९॥
हुनेच्च पूर्वसन्दिष्टैद्र्रव्यैः पूर्वोक्तमार्गतः ।
आशोपाशान्तराशासु बलिं दद्यात्त्रिशस्त्रिशः ॥ २४.६०॥
क्रमाच्चक्रादिमूर्तीनां पञ्चपूरान्धसा सुधीः ।
तत उद्वास्य देवेशं पूजां प्रतिसमाप्य च ॥ २४.६१॥
दत्वा सुवर्णं वासांसि गुरवे ब्राह्मणानपि ।
सन्तप्र्य विभवैः सम्यग्भोजयेद्देवताधिया ॥ २४.६२॥
तत्रोपसर्गा नश्यन्ति नरनारीमहीभृताम् ।
ग्रहक्षुद्रपिशाचाद्या नेक्षन्ते तां दिशं भयात् ॥ २४.६३॥
अश्मपातादिका ये च भया नश्यन्ति ते चिरात् ।
सस्यद्र्धिर्गोसमृद्धिश्च प्रजावृद्धिश्च जायते ॥ २४.६४॥
धनधान्यसमृद्धिश्च वर्धते तत्कुलं क्रमात् ।
दारिद्र्यरोगनिर्मुक्तं सुखमाभूतसम्प्लवम् ॥ २४.६५॥
रक्षोभिरक्षितबलैरसुरैश्च दैत्यैः
सर्वैः समुद्धृतमहास्त्रकरैः परीतम् ।
विष्णोस्तु पञ्जरमिदं प्रभजन्तमव्या-
त्साक्षादपीन्द्रमपरत्र नरे कथा का ॥ २४.६६॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे चतुर्विंशः पटलः ॥
॥ पञ्चविंशः पटलः ॥
अथाभिधास्यामि मनुं समासा-
त्प्रासादसंज्ञं जगतो हिताय ।
ये न प्रजप्तेन तथार्चितेन
हुतेन सिद्धिं लभते यथेष्टम् ॥ २५.१॥
प्रसादनत्वान्मनसो यथावत्प्रासादसंज्ञास्य मनोः प्रदिष्टा ।
अन्त्यात्तृतीयः प्रतिलोमतः स्यादनुग्रहार्धेन्दुयुतश्च मन्त्रः ॥ २५.२॥
ऋषिरस्य वामदेवः पङ्क्तिश्छन्दोऽस्य देवतेशः स्यात् ।
तेनैवाक्लीबकलादीर्घयुजाङ्गानि तस्य बीजेन ॥ २५.३॥
शूलाही टज्र्घण्टासिसृणिकुलिशपाशाग्न्यभीतीर्दधानं
दोर्भिः शीतांशुखण्डप्रतिघटितजटाभारमौलिं त्रिणेत्रम् ।
नानाकल्पाभिरामापघनमभिमतार्थप्रदं सुप्रसन्नं
पद्मस्थं पञ्चवक्त्रं स्फटिकमणिनिभं पार्वतीशं नमामि ॥ २५.४॥
ईशानादीन्मन्त्रवित्पञ्च मन्त्रानङ्गुष्ठादिष्वङ्गुलीषु क्रमेण ।
न्यस्येदज्भिव्र्युत्क्रमाद्व्योमगाभिह्र्रस्वख्याभिस्ताभिरेवाङ्गुलीभिः ॥ २५.५॥
ईशानस्तत्पुरुषोऽघोराख्यो वामदेवसंज्ञश्च ।
सद्योजाताह्वय इति मन्त्राणां देवताः क्रमात्पञ्च ॥ २५.६॥
मूर्धाननत्दृद्गुह्यकपादेषु च नामभिः स्वबीजाद्यैः ।
ऊध्र्वप्राग्दक्षोदक्पश्चिमगेष्वाननेषु विन्यस्येत् ॥ २५.७॥
प्रतिपाद्य निजं शरीरमेवं प्रजपेदिन्द्रियलक्षकं शिवात्मा ।
जुहुयाच्च दशांशतस्तदन्ते मधुराक्तैः करवीरजप्रसूनैः ॥ २५.८॥
अथ वा कुसुमैर्जपासमुत्थैः कमलैर्वा विमलेन पायसेन ।
नृपवृक्षभवैः समिद्वरैर्वा जुहुयात्साधकसत्तमः समृद्ध्यै ॥ २५.९॥
अष्टपत्रगुणवृत्तराशिभिर्वीथिकल्पतरुभिः समावृतम् ।
मण्डलं प्रतिविधाय शूलिनः पीठमत्र नवशक्तिभिर्यजेत् ॥ २५.१०॥
वामा ज्येष्ठा रौद्री काल्या कलबलाद्यविकलिन्यौ ।
सबलप्रमथिनिसर्वभूतदमन्यौ मनोन्मनीं च यजेत् ॥ २५.११॥
तारादिकं नतिमपि प्रोक्त्वा भगवत्पदं चतुथ्र्यन्तम् ।
सकलगुणात्मपदान्ते शक्तिं युक्ताय चेति सम्भाष्य ॥ २५.१२॥
भूयोऽनन्तायेति च योगान्ते पीठमात्मने चेति ।
नमसा युक्तं ब्रूयात्पीठाख्योऽयं मनुः समुद्दिष्टः ॥ २५.१३॥
न्यासक्रमेण देहे मन्त्री गन्धादिकमपि पूज्य ।
पूर्वोक्तदिक्षु मूर्तीर्विदिक्षु सनिवृत्तिपूर्विकाश्च यजेत् ॥ २५.१४॥
सद्यो वेदाक्षमालाभयवरदकरः कुन्दमन्दारगौरो
वामः काश्मीरवर्णोऽभयवरदपरश्चाक्षमालाविलासी ।
अक्षस्रग्वेदपाशाज्रुशडमरुकखट्वाङ्गशूलान्कपालं
बिभ्राणो भीमदंष्ट्रोऽञ्जनरुचिरतनुर्भीतिदश्चाप्यघोरः ॥ २५.१५॥
विद्युद्वर्णोऽथ वेदाभयवरदकुठारान्दधत्पूरुषाख्यः
प्रोक्ताः सर्वे त्रिणेत्रा विधृतमुखचतुष्काश्चतुर्बाहवश्च ।
मुक्तागौरोऽभयेष्टाधिककरकमलोऽघोरतः पञ्चवक्त्र-
स्त्वीशो ध्येयोऽम्बुजन्मोद्भवमुररिपुरुद्रेश्वराः स्युः शिवान्ताः ॥ २५.१६॥
भूतानां शक्तित्वाद्व्याप्तित्वाज्जगति वा निवृत्त्याद्याः ।
तेजोरूपाः करपदवर्णविहीना मनीषिभिः प्रोक्ताः ॥ २५.१७॥
अनन्तसूक्ष्मौ च शिवोत्तमश्च तथैकपूर्वावपि नेत्ररुद्रौ ।
त्रिमूर्तिश्रीकण्ठशिखण्डिनश्च प्रागादिपत्रेषु समर्चनीयाः ॥ २५.१८॥
शूलाशनिशरचापोल्लासितदोर्दण्डभीषणाः सर्वे ।
पद्मासनाश्च नानाविधभूषणभूषितास्त्रिणेत्राः स्युः ॥ २५.१९॥
पाटलपीतसितारुणशितिरक्तशशिप्रभाश्च धूम्रान्ताः ।
कोटीरघटितविलसच्छशिशकलयुताश्च मूर्तयः क्रमशः ॥ २५.२०॥
उमा चण्डेश्वरो नन्दी महाकालो गणेश्वरः ।
वृषो भृङ्गिरिटः स्कन्दः सम्पूज्याश्चोत्तरादितः ॥ २५.२१॥
कनकविडूरजविद्रुममरकतमुक्तासिताच्छरक्ताभाः ।
पद्मासनसंस्थाश्च क्रमादुमाद्या गुणान्तिकाः प्रोक्ताः ॥ २५.२२॥
पुनराशेशास्तदनु च कुलिशाद्यादिक्रमेण सम्पूज्याः ।
प्रासादविधानमिदं निगदितमिति सकलवर्गसिद्धिकरम् ॥ २५.२३॥
अमुना विधिना महेशपूजां दिनशो यः कुरुते समाहितात्मा ।
स तु सम्यगवाप्य दृष्टभोगान्परमन्ते परिपूर्णमेति धाम ॥ २५.२४॥
वक्ष्यामि शैवागमसारमष्टत्रिंशत्कलान्यासविधिं यथावत् ।
सपञ्चभिब्र्रह्महरीशपूर्वैः सष्र्यादिकैः साङ्गविशेषकैश्च ॥ २५.२५॥
ईशोऽनुष्टुब्भूरीश्वराः स तत्पुरुषसंज्ञगायत्र्यापः ।
पुनरग्न्यनुष्टुबापो वामदेवः कतिभर्गहरस्त्वनुष्टुब्भगयुक् ॥ २५.२६॥
इन्द्रियतारसमेतं सर्वज्ञायेति हृच्छिरस्त्वमृते ।
तेजोमालिनिपूर्वं तृप्ताय ब्रह्मशिरस इति कथितम् ॥ २५.२७॥
ज्वलितशिखिशिखेत्यनादिबोधाय चान्वितेति शिखा ।
वङ्किआणे वङ्काधराय स्वाहास्वतन्त्राय वर्म नेत्रं च ।
सौ सौ हौ बिन्दुयुतं सम्प्रोक्त्वा लुप्तशक्तये च तथा ॥ २५.२८॥
सश्रीपशुहुम्फडनन्तशक्तये तथास्त्रं स्यात् ।
समुनिच्छन्दोदैवतयुक्तं तदङ्गषट्कमिति कथितम् ॥ २५.२९॥
करदेहमुखन्यासं मन्त्रैः पूर्ववदाचरेत् ।
कलाः प्रविन्यसेद्देहे वक्ष्यमाणक्रमेण तु ॥ २५.३०॥
ताः स्युः पञ्च चतस्रोऽष्टौ त्रयोदश चतुर्द्वयम् ।
अष्टत्रिंशत्कलाः सम्यङ् न्यस्तव्या मन्त्रवित्तमैः ॥ २५.३१॥
दिक्षु प्राग्याम्यवारीवसुपनिजभुवामैन्द्रवार्रिकराज्ञां
हृद्ग्रीवांसद्वयीनाभ्युदरचरमवक्षःसु गुह्याज्र्योश्च ।
सोर्वोर्जान्वोः सजङ्घास्फिगुभयकटीपाश्र्वपद्दोस्तलेषु
घ्राणे कं बाहुयुग्मेष्वतिविशदमतिर्विन्यसेदङ्गुलीभिः ॥ २५.३२॥
विन्यासः प्रतिमाकृतौ च नितरां सान्निध्यकृत्स्यादयं
देहे चापि शरीरिणां निगदितः सामथ्र्यकारीति च ।
आस्ते यत्र तथामुनैव दिनशो विन्यस्तदेहः पुमा-
न्क्षेत्रं देशममुं च योजनमितं शैवागमज्ञा विदुः ॥ २५.३३॥
न्यस्यैवं पञ्चभिब्र्रह्मभिरथ शिवमाराधयेदृग्भिराभि-
र्मध्यप्राग्याम्यसौम्यापरदिशि पुनरङ्गैरनन्तादिभिश्च ।
अन्यो माद्यैर्दिशापैः पुनरपि कुलिशाद्यैर्यजेदेवमुक्तं
पाञ्चब्रह्मं विधानं सकलसुखयशोभुक्तिमुक्तिप्रदं च ॥ २५.३४॥
पञ्चाक्षरविहितविधिं वक्ष्ये जपतामभीष्टसिद्धिकरम् ।
सिद्धेन येन देही प्रेत्येह च वाञ्छितं फलं लभते ॥ २५.३५॥
मेषो विषो विसर्गी मृत्युः साक्षी सवाक्षरः पवनः ।
ताराद्भवति यदस्मात्तदादिरभिधीयते मनुप्रवरः ॥ २५.३६॥
अस्याक्षराण्यमूनि च
पञ्च स्युः पञ्चभूतगानि तथा ।
जगदपि भूतारब्धं
तेन हि जगदात्मतोदितास्य मनोः ॥ २५.३७॥
प्रोक्तमृष्यादिकं पूर्वमङ्गवर्णैस्तु मन्त्रकैः ।
अङ्गुलीदेहवक्त्रेषु मूलमन्त्राक्षरादिकान् ॥ २५.३८॥
न्यसेत्तत्पुरषाघोरसद्योवामेशसंज्ञकान् ।
सतर्जनीमध्यमान्त्यानामिकाङ्गुष्ठकेषु च ॥ २५.३९॥
वक्त्रहृत्पादगुह्याख्यमूर्धस्वपि च नामभिः ।
प्राग्याम्यवारुणोदीच्यवक्त्रेष्वपि च मूर्धसु ॥ २५.४०॥
बिभ्रद्दोर्भिः कुठारं मृगमभयवरौ सुप्रसन्नो महेशः
सर्वालङ्कारदीप्तः सरसिजनिलयो व्याघ्रचर्मात्तवासाः ।
ध्येयो मुक्तापरागामृतरसकलिताद्रिप्रभः पञ्चवक्त्र-
स्त्र्यक्षः कोटीरकोटीघटिततुहिनरोचिष्कलोत्तुङ्गमौलिः ॥ २५.४१॥
अक्षरलक्षचतुष्कं जप्यात्तावत्सहस्रमपि जुहुयात् ।
शुद्धैस्तिलैर्घृतैर्वा दुग्धान्नैर्दुग्धभूरुहेध्मैर्वा ॥ २५.४२॥
तत्पुरुषाद्याः सर्वे प्रधानसम्प्रोक्तबाहुहेतियुताः ।
उल्लासिमुखचतुष्कास्तेजोरूपो विलक्षणस्त्वीशः ॥ २५.४३॥
आवृतिराद्या मूर्तिभिरङ्गैरन्या पराप्यनन्ताद्यैः ।
अपरोमादिभिरपरेन्द्राद्यैरपरा तदायुधैः प्रोक्ता ॥ २५.४४॥
कथयामि मनोविधानमन्य-
न्मुनिपूज्यं प्रवरं पिनाकपाणेः ।
स्वतनौ परिकल्प्य पीठमङ्गा-
न्यपि विन्यस्य तथैव मन्त्रवर्णान् ॥ २५.४५॥
हृन्मुखांसोरुयुग्मेषु षड्वर्णान्क्रमतो न्यसेत् ।
कर्णमूले तथा नाभौ पाश्र्वयुक्पृष्ठहृत्सु च ॥ २५.४६॥
मूर्धास्यनेत्रघ्राणेषु दोःपत्सन्ध्यग्रकेषु च ।
सशिरोवक्त्रहृदयजठरोरुपदेष्वपि ॥ २५.४७॥
हृदाननपरश्वेणाभीत्याख्यवरदेषु च ।
मुखांसहृदयेषु त्रीन्पदान्पादोरुकुक्षिषु ॥ २५.४८॥
ऊध्र्वाधःक्रमतो न्यस्येद्गोलकान्यासमुत्तमम् ।
पुनस्तत्पुरुषाघोरसद्योवामेशसंज्ञकान् ॥ २५.४९॥
ललाटद्व्यंसजठरहृदयेषु क्रमान्न्यसेत् ।
पुनस्तत्प्रतिपत्त्यर्थं जपेन्मन्त्रमिमं सुधीः ॥ २५.५०॥
नमोऽस्तु स्थाणुभूताय ज्योतिर्लिङ्गावृतात्मने ।
चतुर्मूर्तिवपुश्छायाभासिताङ्गाय शम्भवे ॥ २५.५१॥
कुर्यादनेन मन्त्रेण निजदेहे समाहितः ।
मन्त्री पुष्पाञ्जलिं सम्यक्त्रिशः पञ्चश एव वा ॥ २५.५२॥
पूर्वोक्त एव पीठे प्रागङ्गैर्मूर्तिशक्तिभिस्तदनु ।
वृषपालचण्डदुर्गागुहनन्दिगणपसैन्यपाः पूज्याः ॥ २५.५३॥
अन्या च वासवाद्यैः पुनरुपहारैः क्रमेण भक्तिमता ।
अभ्र्यिचते हुते च स्तोतव्यः संस्तवेन पुनरीशः ॥ २५.५४॥
(शिवस्तुतिः)
नमो विरिञ्चविष्ण्वीशभेदेन परमात्मने ।
सर्गसंस्थितिसंहारव्यावृत्तिव्यक्तवृत्तये ॥ २५.५५॥
नमश्चतुर्धा प्रोद्भूतभूतभूतात्मने भुवः ।
भूरिभारार्तिसंहत्र्रे भूतनाथाय शूलिने ॥ २५.५६॥
विश्वग्रासाय विलसत्कालकूटविषाशिने ।
तत्कलज्रज्र्तिग्रीवनीलकण्ठाय ते नमः ॥ २५.५७॥
नमो ललाटनयनप्रोल्लसत्कृष्णवत्र्मने ।
ध्वस्तस्मरनिरस्ताधियोगिध्याताय शम्भवे ॥ २५.५८॥
नमो देहार्धकान्ताय दग्धदक्षाध्वराय च ।
चतुर्वर्गेष्वभीष्टार्थदायिने मायिनेऽणवे ॥ २५.५९॥
स्थूलाय मूलभूताय शूलदारितविद्विषे ।
कालहन्त्रे नमश्चन्द्रखण्डमण्डितमौलये ॥ २५.६०॥
विवाससे कपर्दान्तभ्र्रान्ताहिसरिदिन्दवे ।
देवदैत्यासुरेन्द्राणां मौलिघृष्टाङ्घ्रये नमः ॥ २५.६१॥
भस्माभ्यक्ताय भक्तानां भुक्तिमुक्तिप्रदायिने ।
व्यक्ताव्यक्तस्वरूपाय शङ्कराय नमो नमः ॥ २५.६२॥
नमोऽन्धकान्तकरिपवे पुरद्विषे
नमोऽस्तु ते द्विरदवराहभेदिने ।
विषोल्लसत्फणिकुलबद्धमूर्तये
नमः सदा वृषवरवाहनाय ते ॥ २५.६३॥
वियन्मरुद्धुतवहवार्वसुन्धरा-
मखेशरव्यमृतमयूखमूर्तये ।
नमः सदा नरकभयावभेदिने
भवेह नो भवभयभङ्गकृद्विभो ॥ २५.६४॥
(इति शिवस्तुतिः)
स्तुत्वेन्दुखण्डपरिमण्डितमौलिमेव-
मुद्वासयेत्पुनरमुं हृदयाम्बुजे स्वे ।
अभ्यच्र्य देवमभिसंयतचित्तवृत्ति-
र्भूत्वा शिवो जपतु मन्त्रमहेशमेनम् ॥ २५.६५॥
सन्तप्र्य विप्रान्पुनरेवमेव
सम्पूजयेदिन्दुकलावतंसम् ।
जपेद्यथाशक्ति शिवस्वरूपी
भूत्वा ततोऽन्ते च शिवः स भूयात् ॥ २५.६६॥
अमुमेव मनुं लक्षं मन्त्री हृल्लेखयाभिसंरुद्धम् ।
जप्त्वा नृपतरुसमिधां मधुरयुजा मनुसहस्रकं जुहुयात् ॥ २५.६७॥
वन्दे हरं वरदशूलकपालहस्तं
साभीतिमद्रिसुतयोज्ज्वलदेहकान्तिम् ।
वामोरुपीठगतया निजवामहस्त-
न्यस्तारुणोत्पलरुचा परिरब्धदेहम् ॥ २५.६८॥
आवृतिरङ्गैराद्या हृल्लेखाद्याभिरनु वृषाद्यैश्च ।
मात्राशेशैरुक्तं पञ्चावरणं विधानमीशस्य ॥ २५.६९॥
आप्यायिनी शशियुताप्यरुणाग्निमाया
बिन्द्वन्तिका चलकुलीभुवनेन्दुयुक्ता ।
दीर्घाकलायुतशिवश्च शिवायवर्णा-
स्याच्छूलिनो मनुरयं वसुवर्णयोगी ॥ २५.७०॥
वामाज्र्न्यस्तवामेतरकरकमलायास्तथा वामबाहु-
व्यस्तारक्तोत्पलायाः स्तनविधृतिलसद्वामबाहुः प्रियायाः ।
सर्वाकल्पाभिरामो धृतपरशुमृगेष्टः करैः काञ्चनाभो
ध्येयः पद्मासनस्थः स्मरललिततनुः सम्पदे पार्वतीशः ॥ २५.७१॥
पञ्चार्णोक्ताङ्गाद्यः पञ्चब्रह्मप्रदिष्टपूजश्च ।
वसुमितलक्षजपोऽयं मन्त्रस्तावत्सहस्रहोमश्च ॥ २५.७२॥
इति जपहुतपूजाध्यानकैरीशयाजी
प्रियतरचरितः स्यात्सर्वतो देहभाजाम् ।
धनविभवयशःश्रीसम्पदा दीर्घजीवी
तनुविपदि च शैवं तत्परं धाम भूयात् ॥ २५.७३॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे पञ्चविंशः पटलः ॥
॥ षड्विंशः पटलः ॥
अथ प्रवक्ष्यते मन्त्रो दक्षिणामूर्तिसंज्ञकः ।
जपतामिष्टसंसिद्धिविधानसुरपादपः ॥ २६.१॥
अत्रिः क्षिणा कालकर्णकामिकायुग्र्येक्षराः ।
तुध्यामध्यगताः स्युभ्र्यं वटमूलनिवासिने ॥ २६.२॥
नैधातृनिरताङ्गाय नमो रुद्राय शम्भवे ।
तारशक्तिनिरुद्धोऽयं मन्त्रः षट्त्रिंशदक्षरः ॥ २६.३॥
शुकः प्रोक्तो मुनिश्छन्दोऽनुष्टुप्च समुदाहृतम् ।
दक्षिणामूर्तिरुद्रोऽस्य देवता समुदीरिता ॥ २६.४॥
तारशक्त्यादिकैर्हाङाद्यन्तैर्मन्त्राक्षरैः क्रमात् ।
ऋत्वक्षिवसुवस्वग्निगुणवर्णैर्विभागशः ॥ २६.५॥
मन्त्री कुर्यात्षडङ्गानि जातियुञ्जि समाहितः ।
कालिकश्रुतिदृग्गण्डद्वयनासास्यके दश ॥ २६.६॥
दोः सन्धिकण्ठस्तनहृन्नाभिकट्यन्धुषु क्रमात् ।
पत्सन्धिषु पुनर्द्वाभ्यां मन्त्रविद्व्यापकं न्यसेत् ।
एवं न्यस्तशरीरोऽथ चिन्तयेन्मन्त्रदेवताम् ॥ २६.७॥
मुद्रां भद्रार्थदात्रीं सपरशुहरिणां बाहुभिर्बाहुमेकं
जान्वासक्तं दधानो भुजगवरसमाबद्धकक्ष्यो वटाधः ।
आसीनश्चन्द्रखण्डप्रतिघटितजटः क्षीरगौरस्त्रिणेत्रो
दद्यादाद्यैः शुकाद्यैर्मुनिभिरभिनुतो भावशुद्धिं भवो वः ॥ २६.८॥
प्राक्प्रोक्तविधानेन च सम्यक्सम्पूज्य साधु कलशाद्यैः ।
कृतसन्दीक्षो मन्त्री जप्यादेनं मनुं समाहितधीः ॥ २६.९॥
द्वात्रिंशदयुतमानं जप्याच्च जुहोतु तद्दशांशमितैः ।
दुग्धाप्लुतैस्तिलैर्वा साज्येन पयोन्धसा द्वयेनापि ॥ २६.१०॥
जप्त्वैवं मन्त्रमेनं दिनमनु गिरिशं पूजयित्वा च हुत्वा
नत्वा स्तुत्वा मनोवाक्तनुभिरवहितः प्राप्य कामानशेषान् ।
व्याख्याता चागमानां भुवि कविषु वरः साधु वेदान्तवेदी
वादीट् सोऽद्वैतविद्याविमलतरमतिर्याति शैवं पदं तत् ॥ २६.११॥
जीवशिखिकर्णरेफान्प्रतिवीप्स्य प्रादिकांश्च पुनरपि तान् ।
मेधाप्यायिनियान्तांस्तानेव तरान्तिकान्सतनुरूपान् ॥ २६.१२॥
आभाष्य चटप्रचटौ सकहवमौ बन्धघातयौ वीप्स्य ।
प्रोक्त्वा वर्मास्त्रावधि समुद्धरेच्छक्तिपूर्वकं मन्त्रम् ॥ २६.१३॥
ऋषिरस्याघोराख्यः सम्प्रोक्तस्त्रिष्टुबुच्यते च्छन्दः ।
रुद्रोऽप्यघोरपूर्वः समीरितो देवता तथास्य मनोः ॥ २६.१४॥
हृत्पञ्चभिस्तदर्णैः शिरो हि षड्भिः शिखा तथा दशभिः ।
तावद्भिरेव कवचं दृगष्टभिर्द्वादशभिरपि चास्त्रम् ॥ २६.१५॥
कदृगास्यकण्ठहृन्नाभ्यन्धूरुषु जानुजङ्घयोः पदयोः ।
एकादशधा भिन्नैर्मन्त्रार्णैन्र्यसतु विग्रहे मन्त्री ॥ २६.१६॥
पञ्चभिरथो सषड्भिर्द्वाभ्यामप्यष्टभिश्चतुर्भिश्च ।
षड्भिश्चतुस्त्रयेण च षड्भिद्यर्द्वाभ्यां च भेदितैः क्रमशः ॥ २६.१७॥
कालाभ्राभः कराग्रैः परशुडमरुकौ खड्गखेटौ च बाणे-
ष्वासौ शूलं कपालं दधदतिभयदो भीषणास्यस्त्रिणेत्रः ।
रक्ताकाराम्बरो हि प्रवरघटितगात्रोऽरिनागग्रहादी-
न्खादन्निष्टार्थदायी भवदनभिमतच्छित्तये स्यादघोरः ॥ २६.१८॥
स्वच्छो मुमुक्षोस्तु भवेदघोरः
काम्यक्रियायामपि रक्तवर्णः ।
कृष्णोऽभिचारे ग्रहवैकृते च
प्रोक्तो जपः स्यादपि लक्षमानम् ॥ २६.१९॥
घृतावसिक्तैस्तिलतण्डुलैश्च जयावसाने जुहुयाद्दशांशम् ।
घृतप्लुतैर्वाथ हविर्भिरेवं तावत्प्रजुह्वन्समुपैति कामान् ॥ २६.२०॥
हृल्लेखास्थितसाध्याक्षरविलसत्र्किणकं कलावीतम् ।
वर्गाष्टकात्तकेसरमन्त्ये सहळक्षयाक्षरोल्लसितम् ॥ २६.२१॥
मन्त्राक्षरत्रयोद्यद्दलमध्यदलाग्रकं च तद्बाह्ये ।
वह्निपुटाश्रिसामाश्रितकवचास्त्रं प्रतिविलिख्य यन्त्रमिदम् ॥ २६.२२॥
कृत्वा समाप्य मण्डलमत्र विनिक्षिप्य पूरयेत्कलशम् ।
पीठे पिनाकपाणेर्गव्यैर्वा क्वाथकॢप्ततोयैर्वा ॥ २६.२३॥
अङ्गावृतेरनु च हेतिभिरीरिताभिः
पश्चाच्च मातृभिरथापि दिशाधिनाथैः ।
सम्पूजयीत विधिनेति षडक्षरोक्त-
मार्गेण वा मनुपरिस्फुरणाय मन्त्री ॥ २६.२४॥
आज्यापामार्गसमित्तिलसर्षपपायसाज्यकैश्च पृथक् ।
रात्रौ सहस्रहोमाद्भूतद्रोहादिशान्तिरुद्दिष्टा।२५॥
सितकिंशुकनिर्गुण्डीकनकापामार्गजन्मनां समिधाम् ।
पृथगपि सहस्रहोमान्निग्रहमोक्षोऽचिराद्ग्रहाणां स्यात् ॥ २६.२६॥
गव्याक्तैर्जुहुयात्पृथग्दशशतं मन्त्री मयूरेध्मकै-
र्भूयस्तैश्चतुरङ्गुलैश्च शिवपञ्चम्यां निशायां हुनेत् ।
र्सिपर्मार्गसपञ्चगव्यचरुर्सिपः ससम्पातकं
हुत्वा तत्प्रतिभोजयेत्प्रतिशमं यान्त्येव सर्वे ग्रहाः ॥ २६.२७॥
षट्कोणे र्किणकायां स्फुरयुगलवृतां साध्यगर्भां च शक्तिं
कोणाग्रे प्रस्फुरद्वन्द्वकमथ विलिखेन्मन्त्रवर्णान्दलेषु ।
षड्वेदद्वन्द्वषड्वेदकचतुर्युगपट्सङ्ख्यकान्बाह्यषट्के
वर्मास्त्रार्णां तदेतद्ग्रहगदभयहृद्यन्त्रमाघोरमाहुः ॥ २६.२८॥
न च रिपवो न च रोगा न ग्रहपीडा न शस्त्रबाधा च ।
न क्ष्वेलरुजा मत्र्यान्स्पृशन्त्यघोरास्त्रमन्त्रजापपरान् ॥ २६.२९॥
तस्मादघोरास्त्रमनुं प्रजप्यात्समर्चयेत्तद्विहितं यथावत् ।
हुनेच्च तेनैव समस्तवाञ्छासंसिद्धये चाथ विमुक्तये च ॥ २६.३०॥
खसप्तमः कर्णयुतोऽर्धचन्द्रवा-
ल्ँलपञ्चमो द्वीन्दुयुतो ध्रुवादिकः ।
मनुः स्वयं मृत्युजयात्मकः स्फुटं
समीरितः साधकरक्षणक्षमः ॥ २६.३१॥
ऋषिरस्य कहोलाख्यश्छन्दो देव्यादिका च गायत्री ।
स्याद्देवता च मृत्युञ्जयरुद्रोऽङ्गान्यथाचरेद्भृगुणा ॥ २६.३२॥
स्फुटितनलिनसंस्थं मौलिबद्धेन्दुरेखा-
गलदमृतजलाद्र्रं चन्द्रवह्न्यर्कनेत्रम् ।
स्वकरकलितमुद्रापाशवेदाक्षमालं
स्फटिकरजतमुक्तागौरमीशं नमामि ॥ २६.३३॥
जप्तव्योऽयं मन्त्रवर्यस्त्रिलक्षं दीक्षापूर्वं होमकृत्स्याद्दशांशैः ।
दुग्धाज्याक्तैः शुद्धखण्डैर्गलूच्या गुर्वादेशात्साधको हव्यवाहे ॥ २६.३४॥
अर्चा कार्या नित्यशः शैवपीठे
स्यादप्यङ्गैर्लोकपालैस्तदस्त्रैः ।
सम्यक्पूजावस्तुभिर्मन्त्रजापैः
प्रोक्तं ह्येतन्मृत्युभेत्तुर्विधानम् ॥ २६.३५॥
इति जपहुतार्चनाद्यैः सिद्धो मन्त्रोक्तमूर्तिविहितमनुः ।
सम्भावयेन्निजान्तर्योगं कृत्यापमृत्युनाशकरम् ॥ २६.३६॥
तारनालमथ मध्यपत्रकं हाद्यर्किणकयुतं क्रमोत्क्रमात् ।
चिन्तयेन्नियतमन्तरा शिवं नीरुजे च नियतायुषेऽब्जयोः ॥ २६.३७॥
ऊध्र्वाधःप्रोतपद्मद्वयदलनिचितैरक्षराद्यैर्ध्रवाद्यै-
राद्यन्तैर्मन्दमन्दप्रतिगलितसुधापूरसंसिच्यमानम् ।
ईशानं सूक्ष्मरूपं विमलतरसुषुम्नान्तरा सन्निषण्णं
ध्यायन्नाप्नोति रोगैर्नियतपरिहृतः सञ्जपाद्दीर्घमायुः ॥ २६.३८॥
आदौ तारं विलिखतु ससाध्याह्वयं र्किणकायां
दिक्पत्रेष्वप्यपरमपरं चापि तत्कोणकेषु ।
भूयो भूमेः पुरमनु मृगाज्र्ं तदश्रेषु टान्तं
जप्त्वा बन्धं ग्रहगदविषध्वंसि यन्त्रं तदेतत् ॥ २६.३९॥
इति कृतयन्त्रविभूषितमण्डलमध्ये निधाय कलशमपि ।
आपूर्य चाभिषिञ्चेच्छ्रीवश्यकरं ग्रहाभिचारहरम् ॥ २६.४०॥
ततश्छिन्नोद्भवानां तु समिद्भिश्चतुरङ्गुलैः ।
दुग्धसिक्तैः समिद्धेऽग्नौ षट्सहस्रद्वयं हुनेत् ॥ २६.४१॥
यस्तु वह्नौ जुहोत्येवं यावत्सङ्ख्येन साधकः ।
तावत्सङ्ख्यैः सुधाकुम्भैरग्निः प्रीणाति शङ्करम् ॥ २६.४२॥
आप्यायितोऽग्निना शर्वः साधकस्येप्सितान्वरान् ।
प्रदद्यादायुराद्यांश्च दुरन्तान्प्रलयान्तिकान् ॥ २६.४३॥
मन्त्रान्ते साध्याख्यां पालययुगलं प्रतीपमपि मन्त्रम् ।
प्रोक्त्वा समापयेन्मनुमयमपि मृत्युञ्जयाह्वयो मन्त्रः ॥ २६.४४॥
अथ वामलकमलपुटान्तरितं शिशुवेषभूषणं रुद्रम् ।
ध्यात्वा जपेद्यथावद्धुतकॢप्त्या मृत्युनाशनं दृष्टम् ॥ २६.४५॥
चतुरङ्गुलपरिमाणैरमृताखण्डैरथार्कसाहस्रम् ।
जुहुयाच्च दुग्धसिक्तैरारोग्यायायुषे च लक्ष्म्यै च ॥ २६.४६॥
अमृतावटतिलदूर्वाः पयो घृतं पायसं क्रमेणेति ।
सप्तद्रव्याण्युक्तान्येतैर्जुहुयात्पृथक्सहस्रतयम् ॥ २६.४७॥
तीवेर ज्वरे घोरतरेऽभिचारे
सोन्मादके दाहगदे च मोहे ।
तनोति शान्तिं नचिरेण होमः
सञ्जीवनं चाब्दशतप्रमाणम् ॥ २६.४८॥
सम्भोजयेद्धोमदिने च विप्रा-
न्सप्ताधिकान्स्वादुभिरन्नजातैः ।
सतर्णका गाश्च हुतावसाने
दद्याद्विजेभ्यो हुतकर्मकृभ्द्यः ॥ २६.४९॥
निजजन्मदिने शतं शतं यो
जुहुयाद्द्रव्यवरैः ससप्तसङ्ख्यैः ।
मधुरैरपि भोजयेच्च विप्रा-
नभिवाञ्छन्नियमेन दीर्घमायुः ॥ २६.५०॥
अथ वा सप्तभिरैतैद्र्रव्यैरेकेन वा सहस्रतयम् ।
जन्मक्र्षे होममात्रान्निरुपद्रवमुत्तमं व्रजेदायुः ॥ २६.५१॥
दूर्वात्रितयैर्जुहुयान्मन्त्रविदेकादशाहुतीर्दिनशः ।
जित्वापमृत्युरोगान्प्रयात्यसावायुषश्च दैघ्र्यमपि ॥ २६.५२॥
जन्मक्र्षाणां त्रितये च्छिन्नाकाष्मर्यवकुलकैरिध्मैः ।
क्रमशो हुनेत्सहस्रं नश्यन्त्यपमृत्युरोगदुरितानि ॥ २६.५३॥
सितसिद्धार्थसहस्राहुत्या नश्यन्त्युपद्रवा ज्वरजाः ।
तद्वदपामार्गहुता मृत्युञ्जयमप्यरोगतां लभते ॥ २६.५४॥
प्रोक्तैध्र्यानजपार्चनाहुतविधानाद्यैश्च मृत्युञ्जयं
यो मन्त्री प्रभजन्मनुं प्रतिदिनं प्रातः प्रसन्नाशयः ।
तस्येष्टानि भवन्ति संसृतिरपि स्फीता च पुत्रादयः
सम्पन्नः सुसुखी च जीवति चिरं देहापदि स्याच्छिवः ॥ २६.५५॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे षड्विंशः पटलः ॥
॥ सप्तविंशः पटलः ॥
अथ सजपहुताद्यो वक्ष्यते साधुचिन्ता-
मणिरभिमतकामप्राप्तिकल्पद्रुमोऽयम् ।
अनलकषमरेफप्राणसद्यान्तवाम-
श्रुतिहिमधरखड्गैर्मण्डितो मन्त्रराजः ॥ २७.१॥
ऋषिरपि काश्यप उक्तश्छन्दोऽनुष्टुप्च देवतोमेशः ।
यान्तैः षड्भिर्वर्णैरङ्गं वा देवतार्धनारीशः ॥ २७.२॥
अहिशशधरगङ्गाबद्धतुङ्गाप्तमौलि-
स्त्रिदशगणनताङ्घ्रिस्त्रीक्षणः स्त्रीविलासी ।
भुजगपरशुशूलान्खड्गवह्नी कपालं
शरमपि धनुरीशो बिभ्रदव्याच्चिरं वः ॥ २७.३॥
हावभावललितार्धनारिकं भीषणार्धमपि वा महेश्वरम् ।
पाशसोत्पलकपालशूलिनं चिन्तयेज्जपविधौ विभूतये ॥ २७.४॥
अथ वा षोडशशूलव्यग्रभुजा त्रिणयनाभिनद्धाङ्गी ।
अरुणांशुकानुलेपनवर्णाभरणा च भगवती ध्येया ॥ २७.५॥
विहितार्चनाविधिरथानुदिनं प्रजपेद्दशायुतमितं मतिमान् ।
अयुतं हुनेत्त्रिमधुराद्र्रतरैस्तिलतण्डुलैस्तदवसानविधौ ॥ २७.६॥
शैवोक्तपीठेऽङ्गपदैर्यथावद् वृक्षेचदुर्गुर्नगशैर्मुखाद्यैः ।
समातृभिर्दिक्पतिभिर्महेशं पञ्चोपहारैर्विधिनार्चयीत ॥ २७.७॥
आरभ्यादिज्वलनं दिक्संस्थैरष्टभिर्मनोरर्णैः ।
आराधयेच्च मातृभिरिति सम्प्रोक्तः प्रयोगविधिरपरः ॥ २७.८॥
कात्पूर्वं हसलिपिसंयुतं जपादौ
जप्तृणां प्रवरमितीह केचिदाहुः ।
प्रासादाद्ययुतजपेन मङ्क्षु कुर्या-
दावेशादिकमपि नीरुजां च मन्त्री ॥ २७.९॥
शिरसोऽवतरन्निशेशबिम्ब-
स्थितमज्भिर्वृतमागलत्सुधाद्र्रम् ।
अपमृत्युहरं विषज्वराप-
स्मृतिविभ्रान्तिशिरोरुजापहं च ॥ २७.१०॥
निजवर्णविकीर्णकोणवैश्वानरगेहद्वितयावृतत्रिकोणे ।
विगतस्वरवीतमुत्तमाङ्गे स्मृतमेतत्क्षपयेत्क्षणाद्ग्रहार्तिम् ॥ २७.११॥
वहेर्बिम्बे वह्निवत्प्रज्वलन्तं
न्यस्त्वा बीजं मस्तके ग्रस्तजन्तोः ।
ध्यात्वावेशं कारयेद्बन्धुजीवं
तज्जप्तं वा सम्यगाघ्राणनेन ॥ २७.१२॥
शुक्लादिः शुक्लभाः पौष्टिकशमनविधौ कृष्टिवश्येषु रक्तो
रक्तादिः क्षोभसंस्तोभनविधिषु हकारादिको हेमवर्णः ।
धूम्रोऽङ्गामर्दनोच्चाटनविधिषु समीरादिकोऽदादिरुक्तः
पीताभः स्तम्भनादौ मनुरतिविमलो भुक्तिभाजामदादिः ॥ २७.१३॥
कृष्णाभः प्राणगेहस्थितमथ नयने ध्यातमान्ध्यं विधत्ते
बाधिर्यं कर्णरन्ध्रेर्ऽइदतमपि वदने कुक्षिगं शूलमाशु ।
मर्मस्थाने समीरं सपदि शिरसि वा दुःसहं शीर्षरोगं
वाग्रोधं कण्ठनालेऽवनिवृतमथ तन्मण्डले पीतमेतत् ॥ २७.१४॥
प्रालेयत्विषि च स्वरावृतमिदं नेत्रे स्मृतं तद्रुजं
योनौ वामदृशोऽस्रविस्रुतिमथो कुक्षौ च शूलं जपेत् ।
विस्फोटे सविषे ज्वरे तृषि तथा रक्तामये बिभ्रमे
दाहे शीर्षगदे स्मरेद्विधिमिमं सन्तृप्तये मन्त्रवित् ॥ २७.१५॥
साध्याया हृदयकुशेशयोदरस्थं
प्राणाख्यं दृढमवबध्य बीजवर्णैः ।
तेजस्तच्छिरसि विधुं विधाय वाते
नाकर्षेदपि निजवाञ्छयैव मन्त्री ॥ २७.१६॥
पारिभद्रसुमनोदलभद्रं वह्निबिम्बगतमक्षरमेतत् ।
संस्मरेच्छिरसि यस्य स वश्यो जायते न खलु तत्र विचारः ॥ २७.१७॥
निजनामगर्भमथ बीजमिदं
प्रविचिन्त्य योनिसुषिरे सुदृशः ।
वशयेत्क्षणाच्छिततया मनसः
स्रवयेच्च शुक्लमथ वा रुधिरम् ॥ २७.१८॥
निजशिवशिरःश्रितं तद्बिम्बं स्मृत्वा प्रवेशयेद्योनौ ।
यस्यास्तत्सम्पर्कात्तां च क्षरयेत्क्षणेन वशयेच्च ॥ २७.१९॥
पररेफगर्भधृतसाध्यपदं त्रिकगं हुताशयुतषट्कवृतम् ।
विगतस्वरावृतमगारभुवि स्थितमेतदाशु वशयेद्रमणान् ॥ २७.२०॥
मधुरत्रयसंयुतेन शाली-
रजसा पुत्तलिकां विधाय तेन ।
मनुना जुहुयात्तया विभज्य
त्रिदिनं यस्य कृते वशो भवेत्सः ॥ २७.२१॥
विषपावकोद्यदभिधानगदं ठगतं कुकोणयुतलाङ्गलिकम् ।
अहिपत्रकॢप्तपरिजप्तमिदं शिरसो रुजं प्रशमयेददनात् ॥ २७.२२॥
कण्ठे केनावनद्धार्पितदहनयुजा मज्जया मेन वामं
दक्षं संवेष्ट्य वक्षोरुहमनलसमीरौभिरंसद्वयं च ।
वक्त्रे नाभौ च दीर्घं सुमतिरथ विनिक्षिप्य बिन्दुं निशेशं
वक्षस्याधाय बद्ध्वा चिरमिव विहरेत्कन्दुकैरात्मसाध्यैः ॥ २७.२३॥
कृत्वा वह्नेः परमनु मनुं बन्धुजीवेन तस्मि-
न्नाधायाग्निं विधिवदभिसम्पूज्य चाज्यैः शताख्यम् ।
त्रैलोहाख्ये प्रतिविहितसम्पातमष्टोत्तरं त-
द्धुत्वा जप्तं दुरितविषवेतालभूतादिहारि ॥ २७.२४॥
साध्याख्यागर्भमेनं लिख दहनपुरे र्किणकायां षडश्रं
बाह्येऽश्रिष्वङ्गमन्त्रान्दलमनु परितो बीजवर्णान्विभज्य ।
भूयोऽचः कादियादीस्त्रिषु वृतिषु कुगेहाश्रके नारसिंहं
तस्मिन्कार्यो यथावत्कलशविधिरयं सर्वरक्षाकरः स्यात् ॥ २७.२५॥
टान्ते लिख्यात्कलाभिर्वृतमनुमनलावासयुग्मेन वह्नि-
द्योतत्कोणेन बाह्ये तदनु सवितृबिम्बेन काद्यार्णभाजा ।
तद्बाह्ये क्ष्मापुराभ्यां लिखितनृहरियुक्ताश्रकाभ्यां तदेत-
द्यन्त्रं रक्षाकरं स्याद् ग्रहगदविषमक्ष्वेलजूत्र्यादिरोगे ॥ २७.२६॥
बिम्बद्वन्द्वे कृशानोर्विलिखतु मणिमेनं ससाध्यं तदश्रि-
ष्वग्न्यादीन्व्यञ्जनार्णान्स्वरयुगलमथो सन्धिषट्के यथावत् ।
तारावीतं च बाह्ये कुगृहपरिवृतं गोमयाब्रोचनाभ्यां
लाक्षाबद्धं निबध्याज्जपमहितमिदं साधु साध्योत्तमाङ्गे ॥ २७.२७॥
लक्ष्म्यायुःपुष्टिकरं परं च सौभाग्यवश्यकृत्सततम् ।
चोरव्यालमहोरगभूतापस्मारहारि यन्त्रमिदम् ॥ २७.२८॥
साध्याख्याकर्मयुक्तं दहनपुरयुगे मन्त्रमेनं तदश्रि-
ष्वग्निज्वालाश्च बाह्ये विषतरुविटपे साग्रशाखे लिखित्वा ।
जप्त्वाष्टोध्र्वं सहस्रं नृहरिकृतधिया स्वापयेत्तत्र शत्रु-
व्याघ्रादिक्रोडचोरादिभिरपि च पिशाचादयो न व्रजन्ति ॥ २७.२९॥
ससिद्धसुरपूजितः सकलवर्गसंसाधको
ग्रहज्वररुजापहो विषविसर्पदोषापहः ।
किमत्र बहुर्निथनामभिमतार्थचिन्तामणिः
समुक्त इह सङ्ग्रहान्मनुवरस्तु चिन्तामणिः ॥ २७.३०॥
षष्ठस्वरो हुतवहस्तययोस्तुरीया-
वाद्यस्वरो मनुरयं कथितः फडन्तः ।
अस्य त्रिको निगदितो मनुरप्यनुष्टु
प्छन्दश्च चण्डसहितो मनुदेवतेशः ॥ २७.३१॥
सप्तज्वलज्वालिनिभिस्तटेन च हतेन च ।
सर्वज्वालिनिसंयुक्तैः फडन्तैरङ्गमाचरेत् ॥ २७.३२॥
अव्यात्कपर्दकलितेन्दुकरः करात्त-
शूलाक्षसूत्रककमण्डलुटज्र् ईशः ।
रक्ताभवर्णवसनोऽरुणपज्र्जस्थो
नेत्रत्रयोल्लसितवक्त्रसरोरुहो वः ॥ २७.३३॥
कृतसन्दीक्षो मन्त्री जप्याल्लक्षत्रयं च मन्त्रमिमम् ।
जुहुयात्त्रिमधुरसिक्तैः सतिलैरपि तण्डुलैर्दशांशेन ॥ २७.३४॥
व्याघातसमिद्भिर्वा मनुजापी तावतीभिरथ जुहुयात् ।
पूर्वोक्तार्चापीठे गन्धाद्यैरर्चर्येच्च चण्डेशम् ॥ २७.३५॥
चण्डचण्डाय चेत्युक्त्वा प्रवदेद्विद्महेपदम् ।
चण्डेश्वराय च प्रोक्त्वा धीमहीपदमुच्चरेत् ॥ २७.३६॥
तन्नश्चण्ड इति प्रोक्त्वा भूयो ब्रूयात्प्रचोदयात् ।
एषा तु चण्डगायत्री जपात्सान्निध्यकारिणी ॥ २७.३७॥
अङ्गैः समातृभिर्मन्त्री लोकेशैः सम्प्रेपूजयेत् ।
कूर्मो विष्णुयुतो दण्डी बीजमस्योच्यते बुधैः ॥ २७.३८॥
वदेच्चण्डेश्वरायेति बीजादिहृदयान्तिकम् ।
अर्चनादिष्विमं मन्त्रं यथावत्सम्प्रयोजयेत् ॥ २७.३९॥
एवं जपहुतार्चाभिः सिद्धमात्रे तु मन्त्रके ।
वाञ्छितादधिकं लभ्येत्काञ्चनं नात्र संशयः ॥ २७.४०॥
त्र्यक्षरस्य जपो यावत्तावज्जप्यात्षडक्षरम् ।
ऐहिकामुष्मिकीं सिद्धिं यथा हि लभते नरः ॥ २७.४१॥
कृत्वा पिष्टेन शल्याः प्रतिकृतिमनलं चापि काष्ठैश्चिताना-
-
माधायारभ्य पुंसस्त्रिमधुरलुलिता दक्षिणाङ्गुष्ठदेशात् ।
छित्त्वा च्छित्त्वाष्टयुक्तं शतमथ जुहुयाद्योषितां वामपादा-
द्विप्रादीनां चतुर्णां वशकरमनिशं मन्त्रमेतद्धुतान्तम् ॥ २७.४२॥
अनुदिनमष्टशतं यो जुहुयात्पुष्पैरनेन मन्त्रेण ।
सप्तदिनैः स तु लभते वासस्तद्वर्णसङ्काशम् ॥ २७.४३॥
अहरहरष्टशतं यो मन्त्रेणानेन तर्पयेदीशम् ।
तस्य तु मासचतुष्कादर्वाक्सञ्जायते महालक्ष्मीः ॥ २७.४४॥
साध्यक्र्षाङ्घ्रिपचर्मणां सुमसृणां पिष्टैश्च लोणैः समं
कृत्वा पुत्तलिकां प्रतिष्ठितचलां जप्त्वा च रात्रौ हुनेत् ।
सप्ताहं पुरुषोऽङ्गना यदि चिरं वश्यं त्ववश्यं भवे-
दस्मिञ्जन्मनि नात्र चोद्यविषयो देहान्तरे संशयः ॥ २७.४५॥
इति चण्डमन्त्रविहितं विधिव-
द्विधिमादरेण य इमं भजते ।
स तु वाञ्छितं पदमिहाप्य पुनः
शिवरूपतामपि परत्र लभेत् ॥ २७.४६॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे सप्तविंशः पटलः ॥
॥ अष्टाविंशः पटलः ॥
अथाखिलार्थानुततैव शक्तिर्युक्ता चतुर्विंशतितत्त्वभेदैः ।
गायत्रिसंज्ञापि च तद्विशेषानथ प्रयोगान्कथयामि साङ्गान् ॥ २८.१॥
ताराह्वयो व्याहृतयश्च सप्त गायत्रिमन्त्रः शिरसा समेतः ।
अन्वर्थकं मन्त्रमिमं तु वेदसारं पुनर्वेदविदो वदन्ति ॥ २८.२॥
जप्यः स्यादिह परलोकसिद्धिकामै-
र्मन्त्रोऽयं महिततरैर्द्विजैर्यथावत् ।
भूदेवा नरपतयस्तृतीयवर्णाः
सम्प्रोक्ता द्विजवचनेन तत्र भूयः ॥ २८.३॥
तेषां शुद्धकुलद्वयोत्थमहसामारभ्य तन्तुक्रियां
तारव्याहृतिसंयुता सहशिरा गायत्र्युपास्या परा ।
सन्ध्योपासनया जपेन च तथा स्वाध्यायभेदैरपि
प्राणायामविधानतः सुमतिभिध्र्यानेन नित्यं द्विजैः ॥ २८.४॥
आदौ तारः प्रकृतिविकृतिप्रोत्थितोऽसौ च मूला-
धारादारादलिविरुतिराविश्य सौषुम्नमार्गम् ।
आद्यैः शान्तावधिभिरनुगो मात्रया सप्तभेदैः
शुद्धो मूर्धावधि परिगतः शाश्वतोऽन्तर्बहिश्च ॥ २८.५॥
प्रकाशितादौ प्रणवप्रपञ्चता
निगद्यते व्याहृतिसप्तकं पुनः ।
सभूर्भुवः स्वश्च महर्जनस्तपः-
समन्वितं सत्यमिति क्रमेण च ॥ २८.६॥
भूःपदाद्या व्याहृतयो भूशब्दस्तदि वर्तते ।
तत्पदं सदिति प्रोक्तं सन्मात्रत्वात्तु भूरतः ॥ २८.७॥
भूतत्वात्कारणत्वाच्च भुवःशब्दस्य सङ्गतिः ।
सर्वस्वीकरणात्स्वात्मतया च स्वरितीरितम् ॥ २८.८॥
महस्त्वाच्च महत्त्वाच्च महःशब्दः समीरितः ।
तदेव सर्वजनता तस्मात्तु व्याहृतिर्जनः ॥ २८.९॥
तपो ज्ञानतया चैव तथा तापतया स्मृतम् ।
सत्यं परत्वादात्मत्वादनन्तज्ञानतः स्मृतम् ॥ २८.१०॥
प्रणवस्य व्याहृतीनामतः सम्बन्ध उच्यते ।
अकारो भूरुकारस्तु भुवो मार्णः स्वरीरितः ॥ २८.११॥
बिन्दुर्महस्तथा नादो जनः शक्तिस्तपः स्मृतम् ।
शान्तं सत्यमिति प्रोक्तं यत्तत्परतरं पदम् ॥ २८.१२॥
प्रणवस्य व्याहृतीनां गायत्र्यैक्यभथोच्यते ।
अत्रापि तत्पदं पूर्वं प्रोक्तं तदनुवण्र्यते ॥ २८.१३॥
तद् द्वितीयैकवचनमनेनाखिलवस्तुनः ।
सृष्ट्यादिकारणं तेजोरूपमादित्यमण्डले ॥ २८.१४॥
अभिध्येयं परानन्दं परं ब्रह्माभिधीयते ।
यत्तत्सवितुरित्युक्तं षष्ठ्येकवचनात्मकम् ॥ २८.१५॥
धातोरिह समुत्पन्नं प्राणिप्रसववाचकात् ।
सर्वासां प्राणिजातीनामिति प्रसवितुः सदा ॥ २८.१६॥
वरेण्यं वरणीयत्वात्सेवनीयतया तथा ।
भजनीयतया सर्वैः प्रार्थनीयतया स्मृतम् ॥ २८.१७॥
पूर्वस्याष्टाक्षरस्यैवं व्याहृतिर्भूरिति स्मृता ।
पापस्य भञ्जनाद्भर्गो भक्तस्निग्धतया तथा ॥ २८.१८॥
देवस्य वृष्टिदानादिगुणयुक्तस्य नित्यशः ।
प्रभूतेन प्रकाशेन दीप्यमानस्य वै तथा ॥ २८.१९॥
ध्यैचिन्तायामतो धातोर्निष्पन्नं धीमहीत्यदः ।
निगमाद्येन दिव्येन विद्यारूपेण चक्षुषा ॥ २८.२०॥
दृश्यो हिरण्मयो देव आदित्ये नित्यसंस्थितः ।
हीनतारहितं तेजो यस्य स्यात्स हिरण्मयः ॥ २८.२१॥
यः सूक्ष्मः सोऽहमित्येवं चिन्तयामः सदैव तु ।
द्वितीयाष्टाक्षरस्यैवं व्याहृतिर्भुव ईरिता ॥ २८.२२॥
धियो बुद्धीर्मनोरस्य च्छान्दसत्वाद्य ईरितः ।
कृतश्च लिङ्गव्यत्यासः सूत्रात्सुप्तिङुपग्रहात् ॥ २८.२३॥
यत्तु तेजो निरुपमं सर्वदेवमयात्मकम् ।
भजतां पापनाशस्य हेतुभूतमिहोच्यते ॥ २८.२४॥
न इति प्रोक्त आदेशः षष्ठ्यासौ युष्मदस्मदोः ।
तस्मादस्माकमित्यर्थः प्रार्थनायां प्रचोदयात् ॥ २८.२५॥
तृतीयाष्टाक्षरस्यापि व्याहृतिः स्वरितीरिता ।
एवं दश पदान्यस्यास्त्रयश्चाष्टक्षराः स्मृताः ॥ २८.२६॥
षडक्षराश्च चत्वारः स्युश्चतुर्विंशदक्षराः ।
इत्थम्भूतं यदेतस्य देवस्य सवितुर्विभोः ॥ २८.२७॥
वरेण्यं भजतां पापविनाशनकरं परम् ।
भर्गोऽस्माभिरभिध्यातं धियस्तन्नः प्रचोदयात् ॥ २८.२८॥
उक्तैवमत्र गायत्री पुनस्तच्छिर उच्यते ।
आपो ज्योती रस इति सोमाग्न्योस्तेज उच्यते ॥ २८.२९॥
तदात्मकं जगत्सर्वं रसस्तेजोद्वयं युतम् ।
अमृतं तदनाशित्वाद्ब्रह्मत्वाद् ब्रह्म उच्यते ॥ २८.३०॥
यदानन्दात्मकं ब्रह्म सत्त्यज्ञानादिलक्षणम् ।
तद्भूर्भुवःस्वरित्युक्तं सोऽहमित्योमुदाहृतम् ॥ २८.३१॥
एतत्तु वेदसारस्य शिरस्त्वाच्छिर उच्यते ।
लक्षणैरिति निर्दिष्टो वेदसारेषु निष्ठितः ॥ २८.३२॥
फलार्थीं तदवाप्नोति मुमुक्षुर्मोक्षमृच्छति ।
उपव्युषस्येवोत्थाय कृतशौचविधिर्द्विजः ॥ २८.३३॥
दन्तानां धावनं चैव जिह्वानिर्लेखनादिकम् ।
कृत्वा स्नात्वा समाचम्य मन्त्रपूतेन वारिणा ॥ २८.३४॥
आपो हिष्ठा मयेत्यादिऋग्भिस्तिसृभिरेव च ।
अभ्युक्ष्य शुद्धदेहः सन्नपः पीत्वा समाहितः ॥ २८.३५॥
सूर्यश्चेत्यनुवाकेन पुनराचम्य पूर्ववत् ।
अभ्युक्ष्य शुद्धदेहः सन्गृहीत्वाञ्जलिना जलम् ॥ २८.३६॥
आदित्याभिमुखो भूत्वा तद्गतात्मोध्र्वलोचनः ।
वेदसारं परं ज्योतिर्मूलभूतं परात्परम् ॥ २८.३७॥
हृत्स्थं सर्वस्य लोकस्य मण्डलान्तव्र्यवस्थितम् ।
चिन्तयन्परमात्मानमप ऊध्र्वं विनिक्षिपेत् ॥ २८.३८॥
एनस्ताः प्रतिनिघ्नन्ति जगदाप्याययन्ति च ।
ततः प्रदक्षिणीकृत्य पुनराचम्य संयतः ॥ २८.३९॥
क्रमात्तारादिमन्त्राणामृष्यादीन्विन्यसेत्सुधीः ।
तत्र तु प्रणवस्यादावृषिरुक्तः प्रजापतिः ॥ २८.४०॥
छन्दश्च देवी गायत्री परमात्मा च देवता ।
जमदग्निभरद्वाजभृगुगौतमकाश्यपाः ॥ २८.४१॥
विश्वामित्रवसिष्ठाख्यावृषयो व्याहृतीरिताः ।
गायत्र्युष्णिगनुष्टुप्च बृहती पङ्क्तिरेव च ॥ २८.४२॥
त्रिष्टुब्जगत्यौ च्छन्दांसि कथ्यन्ते देवता अपि ।
सप्तार्चिरनिलः सूर्यो वाक्पतिर्वरुणो वृषा ॥ २८.४३॥
विश्वेदेवा इति प्रोक्ताः सप्त व्याहृतिदेवताः ।
हृन्मुखांसोरुयुग्मेषु सोदरेषु क्रमान्न्यसेत् ॥ २८.४४॥
विश्वामित्रस्तु गायत्र्या ऋषिश्छन्दः स्वयं स्मृतम् ।
सविता देवता चास्य ब्रह्मा शिर ऋषिः स्मृतः ॥ २८.४५॥
छन्दश्च देवी गायत्री परमात्मा च देवता ।
स्थानेषु पूर्वमुक्तेषु सताराव्याहृतीन्र्यसेत् ॥ २८.४६॥
गायत्रीं शिरसा विद्वाञ्जपेत्त्रिः स्यादुपासना ।
हृदयेऽधस्तथोध्र्वं च महादिक्ष्वपि संयतः ॥ २८.४७॥
व्यापयेद्व्याहृतीः सम्यग्गायत्रीं च शिरोयुताम् ।
सार्थसंस्मृति सञ्जप्यात्त्रिरिदं जपलक्षणम् ॥ २८.४८॥
आत्मन्यधश्चोपरितो दिग्भ्यस्ताः समुपानयेत् ।
गायत्रीं पूर्ववज्जप्यात्स्वाध्यायविधिरीदृशः ॥ २८.४९॥
एतत्त्रयं त्रिशः कुर्यादृजुकायस्त्वनन्यधीः ।
निरुच्छ्वासः स विज्ञेयः प्राणायामो मनीषिभिः ॥ २८.५०॥
ध्यानस्य केवलस्यास्य व्याख्याने र्दिशतः क्रमः ।
त्रिव्याहृत्यादिमभ्यस्येद्गायत्रीं सन्ध्ययोः सुधीः ॥ २८.५१॥
शतं वाथ सहस्रं वा मन्त्रार्थगतमानसः ।
पूर्वं प्रपञ्चयागोक्तान्गाणपत्यजपादिकान् ॥ २८.५२॥
लिपिन्यासादिकान्साङ्गान्महन्न्यासादिसंयुतान् ।
सनिजष्र्यादिकान्सर्वान्विदध्याद्विधिवद्बुधः ॥ २८.५३॥
पादसन्धिचतुष्कान्धुनाभिहृद्गलदोर्द्वयी ।
सन्ध्यास्यनासागण्डाक्षिकर्णभ्रूमस्तकेष्वपि ॥ २८.५४॥
वारुणैन्दवयाम्यप्रागूध्र्वकेषु मुखेषु च ।
क्रमेण वर्णान्विन्यस्येद्गायत्र्या मन्त्रवित्तमः ॥ २८.५५॥
शिरोभ्रूमध्यनयनवक्त्रकण्ठेषु वै क्रमात् ।
हृन्नाभिगुह्यजान्वाख्यपादेष्वपि पदान्न्यसेत् ॥ २८.५६॥
स्त्रब्रह्मविष्णुरुद्रैश्च सेश्वरैः ससदाशिवैः ।
ससर्वात्माह्वयैः कुर्यादङ्गन्यासं समाहितः ॥ २८.५७।
एवं कृत्वा तु सिद्ध्यर्थं गायत्रीं दीक्षितो जपेत् ।
अथ त्रिगुणिते प्रोक्ते विचित्रे मण्डलोत्तमे ॥ २८.५८॥
शक्तिभिः प्राक्समुक्ताभिः सौरं पीठं समर्चयेत् ।
तत्र निक्षिप्य कलशं यथापूर्वोपचारतः ॥ २८.५९॥
गव्यैर्वा पञ्चभिः क्वाथजलैर्वा पूरयेत्ततः ।
तस्मिन्नावाह्य कलशे शक्तिमित्थं विचिन्तयेत् ॥ २८.६०॥
मन्दाराह्वयरोचनाञ्जनजपाख्याभैर्मुखैरिन्दुम-
द्रत्नोद्यन्मकुटांशुभिस्ततचतुर्विंशार्णचित्रा तनुः ।
अम्भोजारिदराह्वयौ गुणकपालाख्ये च पाशाज्रुशे-
ष्टाभीतीर्दधती भवेद्भवदभीष्टोत्तारिणी तारिणी ॥ २८.६१॥
सञ्चिन्त्य भर्तारमिति प्रभाणां त्रिशक्तिमूर्तीः प्रथमं समच्र्य ।
आदित्यशक्त्याख्यचतुष्टयेन यजेद्वितीयावरणे दिनेशम् ॥ २८.६२॥
प्रह्लादिनीं प्रभां नित्यां सविश्वम्भरसंज्ञकाम् ।
विलासिनीप्रभावत्यौ जयां शान्तां क्रमाद्यजेत् ॥ २८.६३॥
तमोपहारिणीं सूक्ष्मां विश्वयोनिं जयावहाम् ।
पद्मालयां परां शोभां भद्ररूपां तथा यजेत् ॥ २८.६४॥
मातृभिश्चारुणाभिश्च षष्ठ्यथो सप्तमीग्रहैः ।
आदित्यपार्षदन्तैरप्यष्टमीन्द्रादिभिः सुरैः ॥ २८.६५॥
आवृतिः कथिता चेति विधानं परमीदृशम् ।
गन्धादिभिर्निवेद्यान्तैर्दिनेशं सम्यगर्चयेत् ॥ २८.६६॥
अथ पुनरमुमभिषिञ्चे-
त्संयतचित्तं च देशिकः शिष्यम् ।
कृतहुतविधिमपि विधिव-
द्विहितबलिं दत्तदक्षिणं गुरवे ॥ २८.६७॥
भूयस्त्वक्षरलक्षं गायत्रीं संयतात्मको जप्त्वा ।
जुहुयात्पायसतिलघृतदूर्वाभिर्दुग्धतरुसमिद्भिरपि ॥ २८.६८॥
एकैकं त्रिसहस्रं मन्त्री समभीष्टसिद्धये मुक्त्यै ।
अक्षरसहस्रसङ्ख्यं मुख्यतरैः केवलैस्तिलैर्जुहुयात् ॥ २८.६९॥
दुरितोच्छेदनविधये मन्त्री दीर्घायुषे च विशदमतिः ।
आयुष्कामो जुहुयात्पायसहविराज्यकेवलाज्यैश्च ॥ २८.७०॥
दूर्वाभिः सतिलाभिः सर्वैस्त्रिसहस्रसङ्ख्यकं मन्त्री ।
अथ तु त्रिमधुरसिक्तैररुणैर्जुहुयात्सरोरुहैरयुतम् ॥ २८.७१॥
नष्टश्रीरपि भूयो भवति मनोज्ञश्च मन्दिरं लक्ष्म्याः ।
अन्नाद्यथ्र्यन्नैरपि पालाशैब्र्रह्मवर्चसे जुहुयात् ।
सर्वैरेतैर्जुहुयात्सर्वफलाप्त्यै द्विजेश्वरो मतिमान् ॥ २८.७२॥
इति परमरहस्यं वेदसारस्य सारं
गदितमजसुशुद्धैर्योगिभिध्र्यानगम्यम् ।
अमुमथ जपहोमध्यानकाले य एवं
भजति स तु विशुद्धः कर्मभिर्मुक्तिमेति ॥ २८.७३॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे अष्टविंशः पटलः ॥
॥ एकोनत्रिंशः पटलः ॥
अथ वक्ष्यामि विद्यायास्त्रिष्टुभः प्रवरं विधिम् ।
ऋषिच्छन्दोदेवताभिरङ्गन्यासक्रमैः सह ॥ २९.१॥
मारीचः काश्यपो ज्ञेय ऋषिश्छन्दः स्वयं स्मृतम् ।
देवता जातवेदोऽग्निरुच्यन्तेऽङ्गान्यतः परम् ॥ २९.२॥
नवभिः सप्तभिः षड्भिः सप्तभिश्च तथाष्टभिः ।
सप्तभिर्मूलमन्त्रेण कुर्यादङ्गानि षट् क्रमात् ॥ २९.३॥
अङ्गुष्ठगुल्फजङ्घासु जानूरुकटिगुह्यके ।
सनाभिहृदयोरोजपाश्र्वयुक्पृष्ठकेषु च ॥ २९.४॥
स्कन्धयोरुभयोर्मध्ये बाहुमूलोपबाहुषु ।
प्रकूर्परप्रकोष्ठेषु मणिबन्धतलेषु च ॥ २९.५॥
मुखनासाक्षिकर्णेषु मस्तमस्तिष्कमूर्धसु ।
न्यसेन्मन्त्राक्षरान्मन्त्री क्रमाद्वा व्युत्क्रमात्तनौ ॥ २९.६॥
शिखाललाटदृक्कर्णयुगोष्ठरसनासु च ।
सकर्णबाहुहृत्कुक्षिकटिगुह्योरुजानुषु ।
जङ्घाचरणयोन्र्यस्येत्पदानि त्रिष्टुभः क्रमात् ॥ २९.७॥
भास्वद्विद्युत्करालाकुलहरिगलसंस्थारिशङ्खासिखेटे-
ष्वस्त्रासाख्यत्रिशूलानरिगणभयदां तर्जनीं चादधाना ।
चर्माण्युद्घूर्णदोर्भिः प्रहरणनिपुणाभिर्वृता कन्यकाभि-
र्दद्यात्कार्शानवीष्टांस्त्रिणयनलसिता कापि कात्यायनी वः ॥ २९.८॥
इति विन्यस्तदेहस्तु कुर्याज्जप्यादिकाः क्रियाः ।
दीक्षा प्रवत्र्यते पूर्वं यथावद्देशिकोत्तमैः ॥ २९.९॥
ततोऽस्त्रकॢप्तिः सम्प्रोक्ता स्यात्प्रयोगविधिस्ततः ।
दीक्षकाख्याक्षराण्यादौ शक्त्यावेष्ट्य ततो बहिः ॥ २९.१०॥
यन्त्रं षड्गुणितं कृत्वा दुर्वर्णलसिताश्रकम् ।
बहिरष्टदलं पद्मं प्रोक्तलक्षणलक्षितम् ॥ २९.११॥
अत्र पीठं यजेन्मन्त्री क्रमात्सनवशक्तिकम् ।
जया च विजया भद्रा भद्रकाली सुदुर्मुखी ॥ २९.१२॥
व्याघ्रसिंहमुखीदुर्गात्रिष्टुभो नव शक्तयः ।
तत्रादाय घटं दिव्यक्वाथमूत्रपयोम्भसाम् ॥ २९.१३॥
एकेन पूरयित्वास्मिन्नावाह्य च विभावसुम् ।
अङ्गावृतेर्बहिग्न्र्यादिपादाष्टकविनिःसृताः ॥ २९.१४॥
मूर्तीरभ्यर्चयेदग्नेर्जातवेदादिकाः क्रमात् ।
पृथिव्यम्ब्वनलेरानप्यात्मनेपदसंयुतान् ॥ २९.१५॥
अर्चयेद्दिक्षु कोणेषु निवृत्त्यादीर्यथाक्रमम् ।
दिक्ष्वेकादशसङ्ख्याः स्युर्जागताद्यर्णशक्तयः ॥ २९.१६॥
लोकपालांश्च तद्धेतोर्विधिनेति समर्चयेत् ।
जागता तापिनी वेदगर्भा दाहनरूपिणी ॥ २९.१७॥
सेन्दुखण्डा शुम्भहन्त्री सनभश्चारिणी तथा ।
वागीश्वरी मदवहा सोमरूपा मनोजवा ॥ २९.१८॥
मरुद्वेगा रात्रिसंज्ञा तीव्रकोपा यशोवती ।
तोयात्मिका तथा नित्या दयावत्यपि हारिणी ॥ २९.१९॥
तिरस्क्रिया वेदमाता तथान्या दमनप्रिया ।
समाराध्या नन्दिनी च परा रिपुविर्मिदनी ॥ २९.२०॥
षष्ठी च दण्डिनी तिग्मा दुर्गा गायत्रिसंज्ञका ।
निरवद्या विशालाक्षी श्वासोद्वाहा च नादिनी ॥ २९.२१॥
वेदना वह्निगर्भा च सिंहवाहाह्वया तथा ।
धुर्या दुर्विषहा चैव रिरंसा तापहारिणी ॥ २९.२२॥
त्यक्तदोषा निःसपत्ना चत्वारिंशच्चतुर्युताः ।
अभिषिच्य पुनः शिष्यं कुम्भादीन्गुरुराहरेत् ॥ २९.२३॥
ईदृशं यन्त्रमारुह्य जपेच्छिष्यः सुयन्त्रितः ।
मन्त्राक्षरसहस्रं तु सिद्ध्यर्थं गुरुसन्निधौ ॥ २९.२४॥
सर्वजापेषु संज्ञेया गायत्र्या द्विगुणो जपः ।
कर्तव्यो वाञ्छितार्थाप्त्यै रक्षायै कार्यसिद्धये ॥ २९.२५॥
तिलराज्यनलक्षीरवृक्षेध्महविराज्यकैः ।
र्सिपःसिक्तैः क्रमाद्धोमः साधयेदीप्सितं नृणाम् ॥ २९.२६॥
चत्वारि चत्वारिंशच्च चतुःशतसमन्वितम् ।
चतुःसहस्रसंयुक्तं प्रोक्तैरेतैर्हुतक्रिया ॥ २९.२७॥
एवं संसिद्धमन्त्रस्य स्युरस्त्राद्याः क्रिया मताः ।
चत्वारि चत्वारिंशच्च वर्णानामस्त्रमिष्यते ॥ २९.२८॥
विलोमपाठो वर्णानामस्त्रमाहुर्मनीषिणः ।
पादाष्टकमिदं विद्यात्ततोऽष्टाङ्गो मनुः स्वयम् ॥ २९.२९॥
जप्तुकामो मनुं त्वेनं पादांस्तु प्रतिलोमतः ।
पठेत्तथा हि मन्त्रोऽयं क्षाल्यते दुष्टदूषितः ॥ २९.३०॥
आद्याः पञ्चाक्षरपदास्त्रयः सप्ताक्षरः परः ।
पञ्चमश्चाथ षष्ठश्च द्वौ तु पादौ षडक्षरौ ।
पञ्चाक्षरौ तदन्त्यौ च तेषां भावो निगद्यते ॥ २९.३१॥
ग्न्याद्यं ज्ञानेन्द्रियं कामं द्वितीयं पाञ्चभौतिकम् ।
तृतीयं धातवः सप्त चतुर्थं वर्णसप्तकम् ॥ २९.३२॥
षडूर्मयः पञ्चमं स्यात्षष्ठः षट्कौशिको मतः ।
सप्तमश्चाष्टमः पादः शब्दाद्यं वचनादिकम् ॥ २९.३३॥
साङ्गः सत्प्रतिपत्तिकः सगुरुपद्वन्द्वप्रमाणक्रमा-
ज्जाप्येत्यादिषडन्तकोऽन्तविगतो वर्णप्रतीपस्तथा ।
गुर्वादेशविधानतश्च विविधध्यानक्रियो मन्त्रिणा
तत्तत्कार्यसमाप्तयेऽखिलविपद्ध्वान्तौघभानूदयः ॥ २९.३४॥
अनुलोमजपेऽङ्गानामपि पाठोऽनुलोमतः ।
प्रतिलोमानि तानि स्युः प्रतिलोमविधौ तथा ॥ २९.३५॥
अन्तः पादप्रतीपे हि तथा तानि भवन्ति हि ।
वर्णप्रतीपे च तथा मात्राण्यप्रतिलोमके ॥ २९.३६॥
प्रतिपत्तिविशेषांश्च तत्र तत्र विचक्षणः ।
गुर्वादेशविधानेन प्रविदध्यान्न चान्यथा ॥ २९.३७॥
जपः पुरोक्तसङ्ख्यः स्याद्धुतकॢप्तिस्तथा भवेत् ।
क्षीरद्रुमसमिद्राजितिलहव्यघृतैः क्रमात् ॥ २९.३८॥
अथ वा पञ्चगव्योत्थचरुणा हुतमुच्यते ।
प्रत्यङ्मुखेन कर्तव्यं प्रायो जपहुतादिकम् ॥ २९.३९॥
तत्र स्युर्मन्त्रवर्णेभ्यस्तावत्यो वह्निदेवताः ।
प्रत्येकमावृतास्तास्तु पञ्चकेन नतभ्रुवाम् ॥ २९.४०॥
तत्पञ्चकं च प्रत्येकमावृतं पञ्चभिः पृथक् ।
प्रत्येकं पञ्चकानां तु षोडशावृतिरिष्यते ॥ २९.४१॥
प्रत्येकं षोडशानां तु कोटयः परिचारिकाः ।
इत्येकाक्षरजात्पूर्वमेकस्मात्षोडशात्मकात् ॥ २९.४२॥
एतावत्यस्तु जातास्तद्विस्तरं पुनरूहयेत् ।
तत्र त्विन्द्रियजाः प्रोक्ता देवतास्तूध्र्वदृष्टयः ॥ २९.४३॥
तिर्यञ्चो भौतिकाः प्रोक्ता धातूत्थास्तूभया नराः ।
उर्मिजास्तूध्र्ववदनास्तिर्यञ्चश्चाथ कोशजाः ॥ २९.४४॥
क्लीबा मुखद्वयोपेता गोचरोत्थाः स्त्रियो मताः ।
अधोमुखाश्च तिर्यञ्च इत्युक्तो मूर्तिसङ्ग्रहः ॥ २९.४५॥
आभिः सर्वाभिरपि च शिखाभिर्जातवेदसः ।
व्याप्यते परराष्ट्रेषु वृक्षगुल्मतृणादिकम् ॥ २९.४६॥
आरम्भे मानुपाणि स्युर्नक्षत्राण्याभिचारके ।
कर्माण्यासुरभानि स्युर्दैवानि स्युस्तथा हृतौ ॥ २९.४७॥
अन्त्याश्वीन्द्वर्कादिति गुरुहरिमित्रानिलाह्वया देवाः ।
पूर्वोत्तरत्रयी यमहरविधयो मानुषाः परेऽसुरभाः ॥ २९.४८॥
नन्दास्वारभ्य रिक्तासु प्रयोज्यात्मनि संहरेत् ।
भद्रासु सङ्ग्रहं कुर्याज्जयासु च विशेषतः ।
आरेणारभ्य मन्देन प्रयोज्यादित्यवारके ॥ २९.४९॥
संहरेत्सङ्ग्रहं कुर्याद्वारे त्वाचार्ययोः सुधीः ।
चरोर्विसृज्योभयकैराहरेदभ्यसेत्स्थिरैः ॥ २९.५०॥
दिनास्त्रं दिनकृद्युक्तं वारग्रहसमन्वितम् ।
कृत्तिकादि च कृत्यान्तं कृत्यास्त्रं जातवेदसः ॥ २९.५१॥
नक्षत्रात्मा हुताशः स्यात्तिथ्यात्मेन्दुरुदाहृतः ।
ताभ्यां करोति दिनकृद्विसर्गादानकर्मणी ॥ २९.५२॥
रक्षानिग्रहकर्मणोरनु पराग्वक्त्राः प्रधानाकृति-
प्रख्या मन्त्रविधानविच्च दिशि दिश्येकादशैकादश ।
संस्थाप्य क्रमशोऽक्षरोदितरुचीः शक्तीर्जपेद्वा मनुं
सम्यग्वा जुहुयादनुप्रतिगतं सिद्ध्यै समाराधयेत् ॥ २९.५३॥
पीतायोमुष्टिगदाहस्ता महिषाज्यसंयुतपुलाकैः ।
वैभीतारिष्टसमित्कोद्रवकैः स्तम्भयेच्च हुतविधिना ॥ २९.५४॥
सुसिता पाशाज्रुशयुग्विलद्वारिप्रवाहसम्भिन्ना ।
वेतससमिदाहुत्या मधुरयुजा मङ्क्षु वर्षयेद्दुर्र्गा ॥ २९.५५॥
रक्ता पाशाज्रुशिनी निशि फलिनीकेसरोद्भवैः कुसुमैः ।
चन्दनरससंसिक्तैर्होमाद्दुर्गा वशीकरोति जगत् ॥ २९.५६॥
लवणैस्त्रिमधुरसिक्तैस्तत्कृतया वा जुहोतु पुत्तल्या ।
उडुतरुकाष्ठैर्नक्तं सप्ताहान्नृपतिमपि वशीकुरुते ॥ २९.५७॥
सकपालशूलपाशाज्रुशहस्तारुणतरा तथा दुर्गा ।
आकर्षयते लावणपुत्तल्या त्रिमधुराक्तया होमात् ॥ २९.५८॥
ध्यात्वा धूम्रां मुसलत्रिशिखकरामस्थिभिश्च तीक्ष्णाक्तैः ।
कार्पासानां निम्बच्छदमेषघृतैर्हुताच्च विद्वेषः ॥ २९.५९॥
धूम्रा तर्जनिशूलाहितहस्ता विषदलैः समहिषाज्यैः ।
होमाच्च मरिचसर्षपचरुभिरजारुधिरसेचितैरटयेत् ॥ २९.६०॥
शिखिशूलकराग्निनिभा सर्षपतैलाक्तमत्तबीजैश्च ।
मरिचैर्वा राजियुतैर्होमादहितान्विमोहयेद्दुर्गा ॥ २९.६१॥
कृष्णा शूलासिकरा रिपुदिनवृक्षोद्भवैः समित्प्रवरैः ।
व्रणकृद्धृतसंसिक्तैर्होमान्मासेन मारयेद्दुर्गा ॥ २९.६२॥
नक्षत्रवृक्षसमिधो मरिचानि च तीक्ष्णहिङ्गुशकलानि ।
मारणकर्मणि विहितान्यरुष्करस्नेहसिक्तानि ॥ २९.६३॥
नक्षत्रवृक्षसमिधां विलिखितसाध्याभिधानकर्मवताम् ।
सचतुश्चत्वारिंशत्तत्त्वयुजां होमकर्म मरणकरम् ॥ २९.६४॥
मरिचं क्षौद्रसमेतं प्रत्यक्पुष्पीपरागसम्भिन्नम् ।
उष्णाम्भःपरिलुलितं प्रसेचयेदृक्षवृक्षपुत्तल्याः ॥ २९.६५॥
हृदये वदने च रिपोः सम्मुखतः सम्प्रतिष्ठितोरायाः ।
जूत्येभिभूतोऽरिः स्यात्तत्क्वथनात्पक्षमात्रकान्म्रियते ॥ २९.६६॥
सैव प्रतिकृतिरसकृत्प्रतिष्ठितसमीरणा च विशदधिया ।
तीक्ष्णस्नेहालिप्ता विलोमजापेन तापनीयाग्नौ ॥ २९.६७॥
विधिना ज्वरपीडा स्यादपघनहोमेन हानिरङ्गस्य ।
सर्वाहुत्या मरणं प्राप्नोति रिपुर्न तत्र सन्देहः ॥ २९.६८॥
प्राक्प्रोक्तान्भूतवर्णान्दश दश युगशो बिन्दुयुक्तान्नमोन्ता-
न्योनेर्मध्याश्रमध्येष्वपि पुनरथ संस्थाप्य भूताभवर्णान् ।
वर्णैस्तैः साकमग्नेर्मनुमपि कुलिशाद्यैः स्वचिह्नैः समेतं
कुर्यात्कर्माणि सम्यक्पटुविशदमतिः स्तम्भनाद्यानि मन्त्री ॥ २९.६९॥
ऊदोद्गादिलळाः कोर्नसौ चतुर्थार्णका वसौ वाराम् ।
दृष्ट्यैद्वितीयरक्षा वह्नेद्वन्द्वयोनिकादियषाः ॥ २९.७०॥
मरुतः कपोलबिन्दुकपञ्चमवर्णाः शहौ तथा व्योम्नः ।
मनुषु परेष्वपि मन्त्री कर्माणि करोतु तत्र संसिद्ध्यै ॥ २९.७१॥
उन्मत्तक्ष्वेलनेत्रद्रुमभवसमिधां सप्तसाहस्रिकान्तं
प्रत्येकं राजितैलालुलितमथ हुनेन्माहिषाज्यप्लुतं वा ।
कृष्णाष्टम्याद्यमेवं सुनियतचरितः सप्तरात्रं निशायां
निःसन्देहोऽस्य शत्रुस्त्यजति किल निजं देहमाविष्टमोहः ॥ २९.७२॥
सामुद्रे च सहिङ्गुजीरकविषे साध्यक्र्षवृक्षाकृतिं
कृत्वा यो वदनाञ्जले घटकटाहादिश्रिते क्वाथयेत् ।
सप्ताहं ज्वलनं जपन्विषतरोर्यष्ट्या शिरस्ताडनं
कुर्वन्सप्तदिनान्तरैर्यमपुरक्रीडापरः स्यादरिः ॥ २९.७३॥
अर्कस्यन्दनबद्धपन्नगमुखग्रस्ताङ्घ्रिमाशाम्बरं
न्यग्वक्त्रं तिलजाप्लुतं विषहरं दीप्तं करैर्भास्वतः ।
वायुप्रेरितवह्निमण्डलमहाज्वालाकुलास्यादिकं
ध्यायन्वैरिणमुत्क्षिपेज्जलममुं मन्त्रं जपेन्मृत्यवे ॥ २९.७४॥
आद्र्रांशुकोऽग्निमनुना त्वथ सप्तरात्रं
सिद्धार्थतैललुलितैर्मरिचैर्जुहोतु ।
आरभ्य विष्टिदिवसेऽरिनरः प्रलाप-
मूर्छान्वितेन विषयीक्रियते ज्वरेण ॥ २९.७५॥
तालस्य पत्रे भुजपत्रके वा मध्ये लिखेत्साध्यनराभिधानम् ।
अथाभितो मन्त्रमिमं विलोमं विलिख्य भूमौ विनिखन्य तत्र ॥ २९.७६॥
आधाय वैश्वानरमादरेण
समच्र्य सम्यङ्मरिचैर्जुहोतु ।
तीव्रो ज्वरस्तस्य भवेत्पुनस्त-
त्तोये क्षिपेद्वश्यतमः स भूयात् ॥ २९.७७॥
सिंहस्थाशरनिकरैः कृशानुवक्त्रै-
र्धावन्तं रिपुमनुधावमानमेनाम् ।
सञ्चिन्त्य क्षिपतु जलं दिनेशबिम्बे
जप्त्वामुं मनुमपि चाटनाय शीघ्रम् ॥ २९.७८॥
कृत्वा स्थण्डिलमङ्गणे भगवतीं न्यासक्रमैरर्चये-
द्गन्धाद्यैः पुनरन्धसा च विकिरेन्मन्त्री निशायां बलिम् ।
जप्त्वा मन्त्रममुं च रोगसहिताः कृत्यानिकृत्या कृतां-
स्तांस्तान्भूतपिशाचवैरिविहितान्दुःखानसौ नाशयेत् ॥ २९.७९।
विधिवदभिज्वाल्यानलमन्वहमाराध्य गन्धपुष्पाद्यैः ।
सन्ध्याजपाच्च मनुरयमाकाङ्क्षितसकलसिद्धिकल्पतरुः ॥ २९.८०॥
कुसुमरसलुलितलोणैर्वारुणवदनो जुहोतु सन्ध्यासु ।
मन्त्रार्णसङ्ख्यमग्नेरैक्येन द्रावयेदरीनचिरात् ॥ २९.८१॥
शुद्धैश्च तण्डुलैरपि हविर्विनिष्पाद्य पञ्चगव्यमपि ।
सघृतेन तेन जुहुयादष्टसहस्रं समेतसम्पातम् ॥ २९.८२॥
प्राशितसम्पातस्य स्याद्रक्षा सर्वथैव साध्यस्य ।
प्राङ्गणमन्दिरयोरपि निखनेद्वारे च शिष्टसम्पतम् ॥ २९.८३॥
कृत्या नश्यति तिंस्मन्वीक्षन्ते न ग्रहादयो भीत्या ।
कर्तारमेव कुपिता कृत्या सर्वात्मना च नाशयति ॥ २९.८४॥
ब्रह्मद्रुमफलकान्ते मन्त्रितमः सप्तसप्तकोष्ठयुते ।
कोणोदराणि हित्वा मायाबीजं सकर्ममध्यगते ॥ २९.८५॥
विलिखेत्क्रमेण मन्त्राक्षरांश्च शिष्टेषु तेषु कोष्ठेषु ।
तत्र मरुतः प्रतिष्ठां विधाय विनिधाय वह्निमपि जुहुयात् ॥ २९.८६॥
आज्येनाष्टसहस्रं फलकोपरि सम्यगात्तसम्पातम् ।
विप्रतिपत्तिधरायां निखनेन्नश्यन्त्युपद्रवाः सद्यः ॥ २९.८७॥
सिकताचरुगव्याश्मकमृदां प्रतिष्ठा विधीयते सिद्ध्यै ।
प्रस्थाढकघटमाना ग्रहपुरविषयाभिगुप्तये सिकताः ॥ २९.८८॥
मध्याष्टाशान्तसु च कुण्डानामारचय्य नवकमपि ।
विधिना निवपेत्क्रमशः सिंहधनुश्छागयायिनि दिनेशे ॥ २९.८९॥
तिथिषु तु कालाष्टम्यां तेषु विशाखाग्निमूलभागेषु ।
वारेषु मन्दवाक्पतिवर्जं सर्वे तथा प्रशस्यन्ते ॥ २९.९०॥
हस्तश्रवणमखासु प्राजापत्येषु कर्म कुर्वीत ।
द्वादशसहस्रसङ्ख्यं प्रजपेद्गायत्रमपि यथाप्रोक्तम् ॥ २९.९१॥
मध्ये च मूलमनुना तदायुधैरष्टदिक्षु चक्राद्यैः ।
सकपालान्तैः पृथगपि संस्थापनकर्म निगदितं विधिवत् ॥ २९.९२॥
तास्ताश्च देवता अपि परिपूज्य यथाक्रमेण मन्त्रितमः ।
कुर्याद्बलिं दिनग्रहकरणेभ्यो लोकपालराशिभ्यः ॥ २९.९३॥
सिकताः षोडशकुडुवं ब्रह्मद्रुमभाजने तु गव्याक्तम् ।
निवपति यदि विधिना तं देशं ग्रामं करोति चतुरब्दात् ॥ २९.९४॥
अर्केऽजस्थेऽब्धिगायामपरिमितजलायां समादाय शुद्धाः
सम्म्यक्संशोषयित्वातपमनु सिकताः शूर्पकोणैर्विशोध्य ।
संसिद्धे पञ्चगव्ये सुमतिरथ विनिक्षिप्य ताः कुम्भसंस्था
मन्त्राग्नौ मन्त्रजापी द्विजतरुसमिधा भर्जयेत्कार्यहेतोः ॥ २९.९५॥
एवं मृदुपलचरवः संस्थाप्यन्ते सपञ्चगव्यास्ते ।
वसुधाविप्रतिपत्तिक्षयं च पुष्टिं च कुर्वते क्रमशः ॥ २९.९६॥
व्रीहिभिरन्नैः क्षीरैः समिद्भिरथ दुग्धवीरुधामाज्यैः ।
मधुरत्रयमधुरतरैर्महतीमृद्धिं करोति हुतविधिना ॥ २९.९७॥
यद्यद्वाञ्छति पुरुषस्तत्तदमुष्य प्रभावतः साध्यम् ।
सग्रहनक्षत्राद्यां सगिरिपुरग्रामकाननां वसुधाम् ॥ २९.९८॥
साहिझषोपलमुदधिं दहति ह मतिमानयत्नमेतेन ।
एवं प्रोत्थापयति च मन्त्रेणानेन निशितधीर्मन्त्री ।
पुंसा केन कियद्वा मन्त्रस्याचक्षतेऽस्य सामथ्र्यम् ॥ २९.९९॥
तस्मादेनं मनुवरमभीष्टाप्तये संयतात्मा
जप्यान्नित्यं सहुतविधिरप्यादरादर्चयीत ।
भक्त्या कुर्यात्सुमतिरभिषेकादिकं कर्मजातं
कर्तुं वान्यत्प्रवणमतिरत्रैव भक्तः सदा स्यात् ॥ २९.१००॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे एकोनत्रिंशः पटलः ॥
॥ त्रिंशः पटलः ॥
अथाभिवक्ष्ये महितस्य मन्त्रस्यानुष्टुभः सङ्ग्रहतो विधानम् ।
ऋष्यादिकैरङ्गपदैर्यथावद्दीक्षाजपार्चाहवनैः क्रमेण ॥ ३०.१॥
ऋषिरभिहितो वसिष्ठश्छन्दोऽनुष्टुप्च देवता रुद्रः ।
त्र्यम्बकपदादिका स्यान्मनुनैव षडङ्गकॢप्तिरथ कथिता ॥ ३०.२॥
त्रिभिस्तु वर्णैर्हृदयं शिरश्च
चतुर्भिरष्टाभिरथो शिखा च ।
उक्तं नवार्णैः कवचं तथाक्षि-
पञ्चार्णकं त्र्यक्षरमस्त्रमाहुः ॥ ३०.३॥
प्राक्प्रत्यग्यास्यसौम्ये शिरसि च वदनोरोगलांसेषु नाभौ
हृद्देशे पृष्ठकुक्ष्योरथ शिवगुदयोरूरुमूलान्तयोश्च ।
जान्वोस्तद्दृत्तयुग्मस्तनतटयुगपाश्र्वेषु पत्पाणिनासा-
शीर्षेष्वप्यूध्र्वतोऽर्णैन्र्यसतु पुनरधस्तोऽपि मन्त्री तथोध्र्वम् ॥ ३०.४॥
चरणाग्रसन्धिषु गुदाधारोदरहृदयकन्धरेषु पुनः ।
बाह्वोः सन्ध्यग्रास्यघ्राणद्वयदृक्श्रुतिभ्रुशीर्षेषु ॥ ३०.५॥
वर्णान्न्यस्य शिरोभ्रूदृग्वक्त्रकगलहृदुदरगुह्यषु ।
ऊर्वोर्जान्वोः पादयोः पदैश्च मनुवित्क्रमेण विन्यस्येत् ॥ ३०.६॥
वसिष्ठादिक्रमेणैव अङ्गन्यासं समाचरेत् ।
वसिष्ठस्त्र्यम्बकश्चैव त्रिणेत्रश्च तथैव च ।
अनुष्टुप्छन्दसे चेति जातियुक्तेन मन्त्रवित् ॥ ३०.७॥
अच्छस्वच्छारविन्दस्थितिरुभयकराज्र्स्थितं पूर्णकुम्भं
द्वाभ्यां वेदाक्षमाले निजकरकमलाभ्यां घटौ नित्यपूर्णौ ।
द्वाभ्यां तौ च स्रवन्तौ शिरसि शशिकलाबन्धुरे प्लावयन्तौ
देहं देवो दधानः प्रदिशतु विशदाकल्पजालः श्रियं वः ॥ ३०.८॥
प्रासादोक्ते पीठे गव्यैर्वा दुग्धतरुकषायैर्वा ।
सम्पूर्यकलशमस्मिन्महेशमावाह्य पूजयेद्भक्त्या ॥ ३०.९॥
अङ्गैराद्यार्काद्यैः पुनरावृतिरष्टभिर्द्वितीया स्यात् ।
मन्त्रार्णशक्तिभिः स्युः पुनश्चतस्रो दिशापवङ्काआद्यैः ॥ ३०.१०॥
अर्केन्दुधरणितोयानलेरवियदात्मसंज्ञकास्ते च ।
आनुष्टुभमित्यष्टावरणं प्रोक्तं विधानवरमेवम् ॥ ३०.११॥
रमा राका प्रभा ज्योत्स्ना पूर्णोषा पूरणी सुधा ।
विश्वा विद्या सुधा प्रह्वा सारा सन्ध्या शिवा निशा ॥ ३०.१२॥
आद्र्रा प्रज्ञा प्रभा मेधा कान्तिः शान्तिद्र्युतिर्मतिः ।
परोमा पावनी पद्मा शान्ता मेधा जयामला ॥ ३०.१३॥
द्वात्रिंशदिति निर्दिष्टाः शक्तयोऽनुष्टुभः क्रमात् ।
शिवानुभावतो नित्यं जगदाप्याययन्ति याः ॥ ३०.१४॥
इति परिपूज्य महेशं कलशजलैः समभिषेचयेच्छिष्यम् ।
कनकांशुकरत्नाद्यैर्गुरुमपि परिपूज्य मनुमतः सिद्धम् ॥ ३०.१५॥
प्रजपेल्लक्षायत्या द्रव्यैर्जुहुयाज्जपावसाने च ।
बिल्वपलाशौ खदिरो वटतिलसिद्धार्थदौग्धदुग्धानि ॥ ३०.१६॥
दधिदूर्वेति दशैतान्याज्यसमेतानि होमवस्तूनि ।
एकैकशः सहस्रं दशभिर्हुत्वा प्रतप्र्य विप्रांश्च ॥ ३०.१७॥
भवति नरः सिद्धमनुर्मन्त्रेण च सर्वकर्मकर्ता स्यात् ।
बिल्वैरयुतं हुत्वा महतीं लक्ष्मीमवाप्नुयाद्विप्रः ॥ ३०.१८॥
तावद्भिद्विजवृक्षैर्द्विजः श्रियं पुष्कलामवाप्नोति ।
खदिरसमिदयुतहोमात्तेजोबलपुष्टिमाप्नुयादिष्टाम् ॥ ३०.१९॥
न्यग्रोधायुतहोमाद्धनधान्यसमृद्धिमेति नचिरेण ।
अयुतं तिलैः प्रजुह्वन्नपमृत्योः पाप्मनो विमुक्तः स्यात् ॥ ३०.२०॥
सिद्धार्थायुतहोमो वैरिणमपमृत्युमपि विनाशयति ।
पायसहुतेन परमां रमामथायुर्यशो लभेन्मत्र्यः ॥ ३०.२१॥
दुग्धहुतात्कान्तिः स्यात्परकृत्या नश्यति श्रियं लभते ।
दधिदोमतोऽन्नवान्स्यात्संवननकरं च तं वदन्ति बुधाः ॥ ३०.२२॥
दूर्वायुतेन जुहुयाद्रोगान्निर्वास्य सर्वमपमृत्युम् ।
र्गिवतधीरब्दानां विप्रवरः सर्वथा शतं जीवेत् ॥ ३०.२३॥
निजजन्मदिने पयोन्धसा वा शतवीर्यत्रितयैः पयोघृताक्तैः ।
जुहुयाच्च शतं सविंशतिं यः स लभेदायुररोगतां चिराय ॥ ३०.२४॥
काष्मर्यदारुसमिधां त्रिशतं सहस्रं
र्सिपःपयोन्नसहितं त्रितयं जुहोतु ।
विप्रान्प्रतप्र्य च गुरून्परिपूज्य सम्य-
ग्दीर्घं विमुक्तगदमायुरवाप्तुकामः ॥ ३०.२५॥
स्नात्वार्काभिमुखोऽम्भसि स्थित इमं मन्त्रं सहस्रं जपे-
दायुष्यं प्रतिपर्व दुग्धहविषा होमो महाश्रीप्रदः ।
लाजाभिर्निजवाञ्छिताय हवनात्कन्याशु सन्दीयते
स्वाद्वक्तस्तनजद्रुमैश्च हवनात्सर्वान्वशे स्थापयेत् ॥ ३०.२६॥
गायत्रिवर्णपरिपूर्णतनुस्तु भानु-
स्त्रिष्टुब्विशिष्टमहिमा महितः कृशानुः ।
आनुष्टुभाक्षरसमग्ररुचिः शशाज्रे
दद्युः समुद्यतममी परिवाञ्छितं वः ॥ ३०.२७॥
एभिस्त्रिभिर्मनुवरैस्तु शताक्षराख्यो
मन्त्रोऽभिकाङ्क्षितफलाप्तिदकामधेनुः ।
प्रोक्तो हिताय जगतां मुनिभिः कृपाद्र्र-
चित्तैर्यथोक्तमथ सङ्ग्रहतो वदामि ॥ ३०.२८॥
ऋष्याद्याः पूर्वोक्तास्त्रिदशाः स्युर्हृत्त्रयोदशभिरर्णैः ।
शिर एकादशभिश्च द्वाविंशद्भिस्तथा शिखाकवचम् ॥ ३०.२९॥
नयनं पञ्चदशार्णैः ससप्तभिर्दशभिरस्त्रमङ्गविधिः ।
विन्यासं च मनूनां मन्त्रज्ञः पूर्ववत्क्रमात्कुर्यात् ॥ ३०.३०॥
स्मर्तव्याखिललोकर्वित सततं यज्जङ्गमस्थावरं
व्याप्तं येन च यत्प्रपञ्चविहितं मुक्तिश्च यत्सिद्धितः ।
यद्वा स्यात्प्रणवत्रिभेदगहनं श्रुत्या च यद्गीयते
तद्वः काङ्क्षितसिद्धयेऽस्तु परमं तेजस्त्रयोत्थं महः ॥ ३०.३१॥
लक्षायतो जपविधिः शताक्षरस्याथ होमविधिरुक्तः ।
अयुतावधिको द्रव्यं दौग्धान्नं र्सिपषा समायुक्तम् ॥ ३०.३२॥
सौरे पीठे पूज्या पूर्वोक्ताङ्गैः समावृतिः प्रथमा ।
प्रह्लादिन्याद्याभिस्तिस्रः प्रोक्ताः क्रमात्समावृतयः ॥ ३०.३३॥
पञ्चम्यावृतिरुक्ता त्रैष्टुभवज्जागतादिभिस्तदनु ।
स्याच्चरमादिभिरावृतिचतुष्कमुक्तं दशम्यथेन्द्राद्यैः ॥ ३०.३४॥
इति शताक्षरमन्त्रसमर्चना निगदितेह दशवरणा बुधैः ।
प्रजपतामभिकाङ्क्षितसिद्धये निखिलसंसृतिमोक्षपदाप्तये ॥ ३०.३५॥
दुग्धाक्तैर्जुहुयात्सहस्रममृताकाण्डैस्तु दीर्घायुषे
दूर्वाणां त्रितयैस्तथा घृतपयःसिक्तैर्घृतेनैव वा ।
लक्ष्म्यै कोकनदैश्च शोणरुचिभिस्त्रिस्वादुयुक्तैस्तथा
रक्तैरुत्पलकैस्तदह्नि विकचैर्बैल्वप्रसूनैरपि ॥ ३०.३६॥
अनुदिनमघशान्त्यै संयतात्मा सहस्रं
प्रतिजुहुतु तिलैर्वा मन्त्रविन्मासमेकम् ।
अपि दिनकरसङ्ख्यं भोएजयीत द्विजाती-
न्विविधरसविशिष्टैर्भक्तितो भोज्यजातैः ॥ ३०.३७॥
शतं शतं प्रातरतन्द्रितोद्यतो
जपेद् द्विजो मन्त्रमिमं शताक्षरम् ।
अरोगजुष्टं बहुलेन्दिरायुतं
शतं स जीवेच्छरदां सुखेन सः ॥ ३०.३८॥
सर्वान्कामानवाप्नोति मन्त्रमेनं जपेत्तु यः ।
सर्वं साधयते मन्त्री अस्त्रशस्त्रादिलक्षणम्।३९॥
प्रणवव्याहृत्याद्या व्याहृतितारान्तिका च मन्त्री च ।
जप्त्वा शताक्षरी स्यादिहपरलोकप्रसिद्धये दिनशः ॥ ३०.४०॥
मनुममुमघशान्त्यै पत्पदाद्यं प्रजप्या-
द्गदगणरहितायाप्यायुषेऽनुष्टुबाद्यम् ।
विमलमतिररातिध्वंसने त्रिष्टुबाद्यं
दिनमनु दिनवक्त्रे वत्सरं संयतात्मा ॥ ३०.४१॥
शताक्षरमनोरयं क्रम उदीरितः सङ्ग्रहा-
द्भजेदमुमतन्द्रिते दिनश एव मन्त्री रहः ।
अभीष्टफलसिद्धये सुयशसे च दीर्घायुषे-
ऽप्यशेषजनरञ्जनाय चिरमिन्दिरावाप्तये ॥ ३०.४२॥
संवादसूक्तविहितं विधानमथ साङ्गदेवतारूपम् ।
वक्ष्यामि साधकानामनुदिनमभिवाञ्छितप्रदानकरम् ॥ ३०.४३॥
ऋषिरपि संवननोऽस्यानुष्टुप्च त्रिष्टुबुच्यते च्छन्दः ।
संवादाद्यः प्रोक्तः संज्ञानाद्यश्च देवता वह्निः ॥ ३०.४४॥
ब्रह्माख्यो हृदयमनुः शिरश्च विष्णू
रुद्रः स्यादिह तु शिखेश्वरश्च वर्म ।
नेत्रे द्वे भवति सदाशिवस्तथास्त्रं
सर्वात्मेत्यथ कथितं षडङ्गमेवम् ॥ ३०.४५॥
धवलनलिनराजच्चन्द्रमध्ये निषण्णं
करविलसितपाशं साज्रुशं साभयं च ।
सवरदममलेन्दुक्षीरगौरं त्रिणेत्रं
प्रणमत सुरवक्त्रं मुङ्क्षु संवादयन्त्रम् ॥ ३०.४६॥
सहस्रकाणां दशभिश्चतुर्भिर-
प्यथो सहस्रैश्च चतुर्भिरन्वितम् ।
जपेन्मनुं सम्यगथाभिदीक्षितः
पयोन्धसान्ते जुहुयाद्दशांशकम् ॥ ३०.४७॥
यजेत्पुराङ्गैश्च तदर्चनाविधौ
पुर्निद्वतीयावरणेऽग्निमूर्तिभिः ।
अनन्तरं च त्रिदिवेश्वरादिभिः
क्रमेण वह्निं विधिनेति पूजयेत् ॥ ३०.४८॥
संवादसूक्ते विधिनेत्यनेन
संसाधिते कर्म करोतु मन्त्री ।
चतुःशतं चापि दशोत्तरेण
चतुश्चतुष्कं प्रजपेद्धुनेद्वा ॥ ३०.४९॥
पायसेन मधुरत्रयभाजा विप्रराजतरुजैः कुसुमैर्वा ।
र्सिपषा स्तनजवृक्षसमिद्भिर्वाञ्छितार्थविधये प्रजुहोतु ॥ ३०.५०॥
जुहुयात्कलाचतुष्कैः प्रत्यृचमायोज्य कादिवर्गचतुष्कैः ।
तद्वच्च पयशलाद्यैर्वर्गैः संयोज्य पूर्ववन्मतिमान् ॥ ३०.५१॥
तद्वदृचं प्रतियोज्य त्रिष्टुप्पादांश्च पूर्वसङ्ख्येन ।
जुहुयात्र्सिपःसिक्तं पायसमचिरेण कार्यसमवाप्त्यै ॥ ३०.५२॥
प्रतिपादमथक्र्पादं प्रतियोज्य जुहोतु पूर्ववन्मतिमान् ।
तेनाभीष्टावाप्तिर्नचिरेण नरस्य हस्तगा भवति ॥ ३०.५३॥
अक्षरपादात्त्रिष्टुब्युक्तैः सूक्तैस्तु पूर्वसङ्ख्येन ।
जुहुयात्समाजरूपं संवादयितुं प्रतर्पयेद्वाग्भिः ॥ ३०.५४॥
उद्दिश्य यद्यदिह मन्त्रितमो जुहोति
सूक्तैरमा निगदितैस्त्रिविधैश्च मन्त्रैः ।
व्यस्तैर्यथाविभवतो विधिवत्समस्तै-
स्तत्तस्य सिध्यति समग्रमयत्नमेव ॥ ३०.५५॥
ऋग्वारुणी ध्रुवा स्वाद्या या सा त्रिष्टुब्निगद्यते ।
ऋषिर्वसिष्ठस्त्रिष्टुप्च च्छन्दो वारीशदेवता ॥ ३०.५६॥
अष्टभिः सप्तभिः षड्भिः पुनस्तावद्भिरक्षरैः ।
षडङ्गानि विधेयानि तन्मन्त्रसमुदीरितैः ॥ ३०.५७॥
अङ्गुल्यग्रससन्धिपायुशिवसंज्ञाधारनाभिष्वथो
कुक्षौ पृष्ठहृदोरुरोजगलदोःसन्ध्यग्रवक्त्रेषु च ।
गण्डघ्राणविलोचनश्रवणयुग्भ्रूमध्यमध्येषु के
सर्वाङ्गेषु तथा न्यसेद्विशदधीर्वर्णैः समर्थैः क्रमात् ॥ ३०.५८॥
अच्छांशुकाभरणमाल्यविलेपनाढ्यः
पाशाज्रुशाभयवरोद्यतदोः सरोजः ।
स्वच्छारविन्दवसतिः सुसितः प्रसन्नो
भूयाद्विभूतिविधये वरुणश्चिरं वः ॥ ३०.५९॥
अङ्गैरष्टभिरहिपैर्दिशाधिपैः समभिपूज्य वारीशम् ।
कलशैः पुनरभिषिञ्चेत्परमगुरुर्मन्त्रजापिनं शिष्यम् ॥ ३०.६०॥
वसुभिः प्रसाद्य देशिकमथ शिष्यो मनुमिमं जपेल्लक्षम् ।
जुहुयाच्च दुग्धपक्वैरन्नैरयुतं घृताप्लुतैर्मतिमान् ॥ ३०.६१॥
ऋगियमृणमोचनी स्याज्जपैर्हुतैस्तर्पणैश्च मन्त्रविदः ।
सम्प्राप्तदुर्गतेरपि सद्यो हृद्यां च संवहेल्लक्ष्मीम् ॥ ३०.६२॥
इक्षोः सितैश्च शकलैर्घृतसंसिक्तैश्चतुर्दिनं जुहुयात् ।
सकलोपद्रवशान्त्यै तथर्णमुक्त्यै च सम्पदे सुचिरम् ॥ ३०.६३॥
वैतससमिदयुतहुताद्वृष्टिमकालेऽपि वितनुते वरुणः ।
गव्यक्षीरसमेतात्त्रिदिनकृताद्दिनमुखेषु मुदितमनाः ॥ ३०.६४॥
शतभिषजि समुदितेऽर्के चतुःशतं पायसं हुनेत्सघृतम् ।
ऋणमोचनाय लक्ष्म्यै जनसंवननाय शुक्रवारे वा ॥ ३०.६५॥
पाशाबद्धं वैरिणमज्रुशसम्प्रोतमम्बुधेः पारे ।
ध्यायन्परे क्षिपन्तं वरुणं जुहुयाच्च वा तथा प्रजपेत् ॥ ३०.६६॥
पाशनिबद्धं वैरिणमसिना च्छित्वाशु नाशयन्तममुम् ।
ध्यायन्वेतससमिधा गोमूत्रयुजा हुनेत्तदपहत्यै ॥ ३०.६७॥
दौग्धान्नैर्भृगुवारे घृतसंसिक्तैः कृतश्च हवनविधिः ।
ऋणमोक्षदश्च विविधोपद्रवशमकृद्रमाकरः प्रोक्तः ॥ ३०.६८॥
पश्चिमसन्ध्यासमये पश्चिमवदनोऽनलं समाराध्य ।
ऋचमेनामभिजप्याच्चतुःशतं सकलदुःखनाशाय ॥ ३०.६९॥
शालीघृतसंसिक्ताः सरिदन्तरतो जुहोतु परसेनाम् ।
संस्तम्भयितुं त्रिदिनं सुमना मन्त्री चतुःशतावृत्त्या ॥ ३०.७०॥
प्रत्यङ्मुखोऽथ मन्त्री प्रतर्पयेद्वा जलैः सुशुद्धतरैः ।
यः सोऽप्युपद्रवाणां रुन्धेरन्निवहं श्रियं समृच्छति च ॥ ३०.७१॥
बहुना किमनेन मन्त्रिमुख्यो मनुनाशु प्रतिसाधयेदभीष्टम् ।
हवनक्रिययाथ तर्पणैर्वा सजपैः पाशभृतो महामहिम्नः ॥ ३०.७२॥
अथ लवणमनुं वदामि साङ्गं
सजपं सप्रतिपत्तिकं सहोमम् ।
विधिवद्विहितेन येन सर्वां
जगतीमात्मवशे करोति मन्त्री ॥ ३०.७३॥
लवणाम्भसि चेत्याद्या द्वितीया लवणे इति ।
देहेति च तृतीया स्यात्सदग्ध्वेति चतुथ्र्यपि ॥ ३०.७४॥
ऋक्पञ्चमी तु या ते स्याद्यथा प्रोक्तमथर्वणि ।
ऋग्भिराभिस्तु पञ्चाङ्गं पञ्चभिर्वा समीरितम् ॥ ३०.७५॥
चिट्यक्षरैः षडङ्गं वा प्रणवाद्यैर्निगद्यते ।
पञ्चभिश्च त्रिभिरपि पञ्चभिः पञ्च चाक्षरैः ॥ ३०.७६॥
सपञ्चभिर्युगार्णेण जातियुक्तैः समाहितः ।
अङ्गिराः स्यादृषिश्छन्दोऽनुष्टुबत्रैव देवता ।
अग्निरात्री तथा दुर्गा भद्रकाली समीरिता ॥ ३०.७७॥
अरुणोऽरुणपज्र्जसन्निहितः स्रुवशक्तिवराभययुक्तकरः ।
अमितार्चिरजात्तगतिर्विलसन्नयनत्रितयोऽवतु वो दहनः ॥ ३०.७८॥
नीलवरांशुककेशकलापा नीलतनुर्निबिडस्तनभारा ।
साज्रुशपाशसशूलकपाला यामवती भवतोऽवतु नित्यम् ॥ ३०.७९॥
करकमलविराजच्चक्रशङ्खातिशूला
परिलसितकिरीटा पातितानेकदैत्या ।
त्रिणयनलसिताङ्गी तिग्मरश्मिप्रकाशा
पवनसखनिभाङ्गी पातु कात्यायनी वः ॥ ३०.८०॥
सुरौद्रसितदंष्ट्रिका त्रिणयनोध्र्वकेशोल्बणा
कपालपरशूल्लसड्डमरुका त्रिशूलाकुला ।
घनाघननिभा रणद्रुचिरकिज्र्णिईमालिका
भवद्विभवसिद्धये भवतु भद्रकाली चिरम् ॥ ३०.८१॥
खेटासिमुसलतोमरकपालशक्तीः सपाशसृणि दधती ।
दंष्ट्रोग्रा सिंहस्था रात्रिकालिका ध्येया ॥ ३०.८२॥
अयुतं नियतो मत्रमृक्पञ्चकसमन्वितम् ।
प्रजपेत्त्रिसहस्रं वा सम्यगेनं समाहितः ॥ ३०.८३॥
दशांशेन हुनेत्सिद्ध्यै हविषा घृतसंयुजा ।
एवं कृते प्रयोगार्हो मन्त्री भूयान्न चान्यथा ॥ ३०.८४॥
वह्निरात्री वरे स्यातां वश्याकर्षणकर्मणोः ।
दुर्गाकाल्यौ तथा देव्यौ शस्ते मारणकर्मणि ॥ ३०.८५॥
आरभ्य कर्मकृन्मन्त्री तृतीयां कृष्णपक्षजाम् ।
सन्दीक्षितो भवेत्पूते मन्दिरे मन्त्रजापवान् ॥ ३०.८६॥
निखन्यात्तत्र कुण्डं च दोर्मात्रं त्र्यश्रमेखलम् ।
चतुष्कं सुन्दराकारं पुत्तलीनां च कारयेत् ॥ ३०.८७॥
एतां साध्यक्र्षवृक्षेण शालिपिष्टेन चापराम् ।
चक्रीकरमृदा चान्यां मधूच्छिष्टेन चेतराम् ॥ ३०.८८॥
तासु हृद्देशलिखितसाध्याख्यासु समाहितः ।
सम्यक्संस्थापयेत्प्राणान्साध्यादानीय साधकः ॥ ३०.८९॥
उक्तानां दारवीं कुण्डे खनेन्मन्त्राभिमन्त्रिताम् ।
विष्टरां विष्टरस्याधः पादस्थाने च मृन्मयीम् ॥ ३०.९०॥
लम्बयेदम्बरे सिद्धमयीमूध्र्वमधोमुखीम् ।
पुनः कृष्णाष्टमीरात्रौ पूर्वयामे गते सति ॥ ३०.९१॥
रक्तमाल्याम्बरो मन्त्री कृतरक्तानुलेपनः ।
सम्यक्कृतलिपिन्यासप्राणायामादिकः शुचिः ॥ ३०.९२॥
कुडुवं पोतलवणं सुश्लक्ष्णं परिचूर्णितम् ।
दधिक्षौद्रघृतक्षीरैः प्रोक्षयित्वा सुशोधितम् ॥ ३०.९३॥
आलोड्य गुडमध्वाज्यैर्विस्पष्टावयवामथ ।
तेन पुत्तलिकां मन्त्री चार्वङ्गीं कारयेत्सुधीः ॥ ३०.९४॥
तस्यां च स्थापयेत्प्राणान्गुर्वादेशविधानतः ।
अष्टोध्र्वशतसङ्ख्यं वा तथाष्टोध्र्वसहस्रकम् ॥ ३०.९५॥
ऋक्पञ्चकं पञ्चविंशत्सङ्ख्यं प्रतिकृतिं स्पृशन् ।
जपित्वाङ्गीनि विन्यस्येत्स्वाङ्गप्रतिकृतावपि ॥ ३०.९६॥
सतारैश्चिटिमन्त्रार्णैश्चतुर्विंशतिसङ्ख्यकैः ।
शिरोललाटदृक्कर्णनासास्यचिबुकेष्वपि ॥ ३०.९७॥
सकण्ठहृदयोरोजकुक्षिनाभिकटीषु च ।
मेढ्रपायूरुजान्वाख्यजङ्घाङ्घ्रिषु च विन्यसेत् ॥ ३०.९८॥
अधो गुह्यादभेदः स्यादूध्र्वं भेदेऽन्विते सति ।
आत्मन्येवं प्रविन्यस्य पुनः प्रतिकृतौ न्यसेत् ॥ ३०.९९॥
अङ्गुष्ठसन्धिप्रदजङ्घाजानूरुपायुषु ।
सलिङ्गनाभिजठरहृदयेषु स्तनद्वये ॥ ३०.१००॥
कन्धराचिबुकास्येषु घ्राणदृक्कर्णयुग्मके ।
ललाटशिरसोन्र्यस्येत्प्रतिमायां च संहरेत् ॥ ३०.१०१॥
उपलिप्याथ कुण्डं तद्बहिर्गोमयवारिणा ।
साध्यसम्मुख आसीन आदध्याद्धव्यवाहनम् ॥ ३०.१०२॥
प्रज्वाल्य साध्योडुतरुकाष्टैरभ्यच्र्य दीप्तिमान् ।
राजीकुशीतपुष्पाद्भिश्चषके रजतादिके ॥ ३०.१०३॥
देवतां प्रतिपाद्याघ्र्यं दत्त्वा कार्यार्थसिद्धये ।
उपतिष्ठेद्धुतस्यादावन्ते मन्त्रैरितीरितैः।१०४॥
त्वमाननममित्रघ्न निशायां हव्यवाहन ।
हविषा मन्त्रदत्तेन तृप्तो भव मया सह ॥ ३०.१०५॥
जातवेदो महादेव तप्तजाम्बूनदप्रभ ।
स्वाहपते विश्वमक्ष लवणं दह शत्रुहन् ॥ ३०.१०६॥
ईशे ईश्वरि शर्वाणि ग्रस्तं मुक्तं त्वया जगत् ।
महादेवि नमस्तुभ्यं वरदे कामदा भव ॥ ३०.१०७॥
तमोमयि महादेवि महादेवस्य सुव्रते ।
स्त्रिया मे पुरुषं गत्वा वशमानय देहि मे ॥ ३०.१०८॥
दुर्गे दुर्गादिरहिते दुर्गसंशोधनार्गले ।
चक्रशङ्खधरे देवि दुष्टशत्रुभयङ्करि ॥ ३०.१०९॥
नमस्ते दह शत्रुं मे वशमानय चण्डिके ।
शाकम्भरि महादेवि शरणं मे भवानघे ॥ ३०.११०॥
भद्रकालि भवाभीष्टे भद्रसिद्धिप्रदायिनि ।
सपत्नान्मे दह दह पच शोषय तापय ॥ ३०.१११॥
शूलादिशक्तिवङ्काआद्यैरुत्कृत्योत्कृत्य मारय ।
महादेवि महाकालि रक्षात्मानं कुमारिके ॥ ३०.११२॥
पुनः प्रतिकृतेरङ्गसप्तकं निशितायसा ।
दक्षपादादिकं छित्वा पञ्चर्चं प्रजपेन्मनुम् ॥ ३०.११३॥
साध्यं संस्मृत्य शितधीर्जुहुयात्सप्तसङ्ख्यया ।
दक्षिणं चरणं पूर्वं ततो दक्षार्धकं पुनः ॥ ३०.११४॥
दक्षहस्तं तृतीयं स्याद्गलादूध्र्वं चतुर्थकम् ।
पञ्चमं वामहस्तं स्यात्षष्ठं वामार्धमेव च ॥ ३०.११५॥
सप्तमं वामपादं स्यादन्यापि स्याद्धुतक्रिया ।
सप्त सप्त विभागो वा क्रमादङ्गेषु सप्तसु ॥ ३०.११६।
एकादशांशभिन्नैर्वा तदङ्गैः सप्तभिर्हुनेत् ।
होमोऽन्यथा वा पूर्वं तु दक्षिणश्चरणो भवेत् ॥ ३०.११७॥
द्वितीयो दक्षिणकरस्तृतीयः शिर उच्यते ।
वामबाहुश्चतुर्थस्तु मध्यादूध्र्वं तु पञ्चकम् ॥ ३०.११८॥
अधोभागस्तु षष्ठः स्याद्वामभागस्तु सप्तकः ।
हुत्वैवं पूर्वसम्प्रोक्तैरुपस्थापकमन्त्रकैः ॥ ३०.११९॥
अर्चयित्वा दण्डदीर्घं प्रणमेद्धव्यवाहनम् ।
सकर्षस्वर्णयुक्ताङ्गां शोणां दद्यात्सतर्णकाम् ॥ ३०.१२०॥
दक्षिणां सप्तकर्षां तु दद्यान्मारणकर्मणि ।
अंशुकं रुचकं धान्यं दत्त्वा सम्प्रीणयेद्गुरुम् ॥ ३०.१२१॥
एवं कृतेन मन्त्रीष्टं लभते होमकर्मणा ।
अथ वा मारणाकाङ्क्षी साध्यवामाङ्घ्रिपांसुभिः ॥ ३०.१२२॥
सनिम्बतिलसिद्धार्थव्रणकृत्तैलसंयुतैः ।
हिङ्गुत्रिकटुकोपेतैर्महिषीमूत्रपेषितैः ॥ ३०.१२३॥
वराहपारावतयोः पुरीषेण समन्वितैः ।
एतैश्च सम्मिश्रयतु लोणं पूर्वोक्तसङ्ख्यकम् ॥ ३०.१२४॥
पूर्ववत्पुत्तलीं तेन लोणचूर्णेन कारयेत् ।
प्राणान्प्रतिष्ठापयेच्च तत्र पूर्वोक्तसङ्ख्यकम् ॥ ३०.१२५॥
पूर्वोक्ताभिः पुत्तलीभिः कुण्डे दक्षिणदिङ्मुखे ।
दुर्गां वा भद्रकालीं वा प्रतिपद्य यथेरिताम् ॥ ३०.१२६॥
उपस्थिते त्वर्धरात्रे सव्यपाणिस्थशस्त्रकः ।
वामपादं समारभ्य जुहुयात्पूर्वसङ्ख्यया ॥ ३०.१२७॥
समापयेद्दक्षपादं विकारेणायसो वशी ।
त्रिसप्ताहप्रयोगेण मारयेद्रिपुमात्मनः ॥ ३०.१२८॥
तस्यां रात्र्यामुपोष्याथ परेऽहनि च साधकः ।
प्राणायामादिभिरपि गायत्रीजपहोमकैः ॥ ३०.१२९॥
विमुक्तपापो भूत्वा तु स पुर्निवहरेत्सुखम् ।
यां कल्पयन्त्यपामार्गराजीघृतहवींषि च ॥ ३०.१३०॥
पृथगष्टोत्तरशतावृत्त्या हुत्वा बलिं हरेत् ।
यो मे पुरस्तादित्यादिदशमन्त्रैर्बलिं हरेत् ॥ ३०.१३१॥
इति लवणमनोर्विधानमेवं
प्रणिगदितं विधिवत्प्रयोगभिन्नम् ।
विधिममुमथ साधु सम्प्रयुञ्ज्या-
द्व्रजति फलं निजवाञ्छितं चिराय ॥ ३०.१३२॥
अथ वा लवणैः परागभूतै-
र्मधुराक्तैः पुनरष्टमीनिशाद्यम् ।
जुहुयात्तु चतुर्दशीनिशान्तं
कुडुबोन्मानितमेभिरेव मन्त्रैः ॥ ३०.१३३॥
नारीनरान्वा नगरं नृपान्वा
ग्रामं जनान्वा मनसोऽनुकूलान् ।
वशीकरोत्येव हुतक्रियेयं
चिराय नैवात्र विचारणीयम् ॥ ३०.१३४॥
वस्तुनोक्तेन क्रियतां साङ्गोपाङ्गेन पुत्तली ।
तस्यां तु साध्यलिङ्गायां प्राणाद्यर्पणमाचरेत् ॥ ३०.१३५॥
निक्षिप्य हृदये किञ्चित्कीटान्तां संस्पृशन्पुनः ।
प्राणार्पणेन यत्कार्यं क्षिप्रं कुयाद्विचक्षणः ॥ ३०.१३६॥
अथास्य हृदये स्मृत्वा वर्तुलं वायुमण्डलम् ।
कृष्णषड्बिन्दुगं वायुं वायुगर्भं विचिन्तयेत् ॥ ३०.१३७॥
तत्र भूतास्तु तन्मात्राशब्दाद्यं श्रवणादिकम् ।
धातून्मनश्च बुद्धिं च सङ्क्षिपेदप्यहङ्क्रियाम् ॥ ३०.१३८॥
तत्सर्वं तेन चण्डेन समीरेण समीरितम् ।
अवामनासारन्धेरण स्वसमीपमुपानयेत् ॥ ३०.१३९॥
प्रवेशयेच्च पुत्तल्यां पुनस्तेनैव वत्र्मना ।
प्राणप्रतिष्ठामन्त्रेण लब्धप्राणादिकां तथा ॥ ३०.१४०॥
याद्यष्टकान्भ्रमरवद्धृदयाम्बुजस्थां
तत्केसरार्प्तिपरागपरिष्कृताङ्गान् ।
सञ्चिन्त्य साध्यहृदयेऽपि तथैव भूयः
साध्याम्बुजस्थानलिपिस्वकीयैः ॥ ३०.१४१॥
हृत्पद्ममध्यस्थिततन्तुजालैरेकैकमेकोत्पतितैः क्रमेण ।
निश्वासमात्रेण सुखं प्रविष्टास्तत्प्राणमार्गेण हरेद्विरेफान् ॥ ३०.१४२॥
वायव्याग्नेयैन्द्रवारीण्महेशक्रव्यात्सोमप्रेतनाथाश्रितेषु ।
किञ्जल्केषु प्राणभूतद्विरेफांस्तत्सम्बन्धांस्तन्तुभिर्बिन्दुभूतैः ॥ ३०.१४३॥
अवामनासामार्गेणैवाकृष्याकृष्य पुत्तलीम् ।
प्रवेशयेत्सुधीः प्राणान्प्राणाद्यर्पणयोगतः ॥ ३०.१४४॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे त्रिंशः पटलः ॥
॥ एकत्रिंशः पटलः ॥
प्राणप्रतिष्ठानमनोर्विधानं प्रवक्ष्यते सम्प्रति सर्वसिद्ध्यै ।
यस्मादृतेऽमी कथिताः प्रयोगाः व्यर्था भवेयुर्गतजीवकल्पाः ॥ ३१.१॥
प्रोक्त्वा पूर्वममुष्यशब्दमथ च प्राणा इह प्राणका-
स्तद्वज्जीव इह स्थितेति च तथा सर्वेन्द्रियाणीति च ।
भूयो वाङ्मनसावुदीर्य तदनु प्राणा इहायान्त्विति
स्वाहान्तं प्रजपेन्मनुं निशितधीः प्राणान्प्रतिष्ठापयेत् ॥ ३१.२॥
सृष्टिः सा जगतामनादिनिधना विश्वस्य चेष्टाकरी
प्राणाख्या प्रकृतिः क्रियामयवपुर्देवी परा देवता ।
प्रत्येकं कादिवर्गैः प्रतिगतलिपिवैरीबन्दुयुक्तैर्धराद्यैः
शब्दाद्यैः श्रोत्रमुख्यैर्वदनकरमुखैस्तत्क्रियाभिः क्रमेण ।
बुद्ध्याद्यैश्चात्मनेऽन्तैरुपरि च विलसज्जातिभिः षड्भिरेवं
कुर्यादङ्गानि सम्यग्वरविशदमतिर्विश्वरूपत्वसिद्ध्यै ॥ ३१.३॥
नाभेर्देशादापदं पाशबीजं हृद्देशादानाभिदेशं च शक्तिम् ।
आहृद्देशं मस्तकादज्रुशाख्यं न्यस्त्वा यादीन्धातुभिन्र्यस्य सप्त ॥ ३१.४॥
प्राणे जीवे चैव हंसश्च यार्णन्यस्येन्मूलं व्यापकं मस्तकादिम् ।
एवं न्यस्य प्राणशक्तिस्वरूपं विद्यां ध्यायेदात्मरूपां च देवीम् ॥ ३१.५॥
रक्ताम्बोधिस्थपोतोल्लसदरुणसरोजाधिरूढा कराब्जैः
पाशं कोदण्डमिक्षूद्भवमथ गुणमप्यज्रुशं पञ्चबाणान् ।
बिभ्राणा स्रक्कपालं त्रिणयनलसिता पीनवक्षोरुहाढ्या
देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः स्वरूपा ॥ ३१.६॥
ध्यात्वा देवीं प्रजपेदेवं लक्षं मनुं समाहितधीः ।
आज्येनान्ते जुहुयाच्चरणा वा तद्दशांशतो मन्त्री ॥ ३१.७॥
शाक्ते पीठे देवीं षट्कोणस्थैः प्रजेशहरिरुद्रैः ।
वाणीलक्ष्मीगिरिजासहितैरङ्गैश्च मातृलोकेशैः ॥ ३१.८॥
प्रयजेच्चतुर्भिरेवं परिवारैर्नित्यमेव निशितमनाः ।
एवं संसिद्धमनुर्वश्याद्यान्यारभेत कर्माणि ॥ ३१.९॥
पाशाज्रुशान्तरितशक्तिमनोः परस्ता-
दुच्चार्य यादिवसुवर्णगणं सहंसम् ।
पश्चादमुष्यपदमुच्चरतु प्रयोग-
मन्त्रोऽयमित्थमुदितो ग्रहसङ्ख्यया वा ॥ ३१.१०॥
मृता वैवस्वता चैव जीवहा प्राणहा तथा ।
आकृष्या ग्रथना चैव उन्मादा विष्फुलिङ्गिनी ।
क्षेत्रज्ञा प्रतिहारी च प्राणमूत्र्यः सयादिकाः ॥ ३१.११॥
बद्ध्वा साध्या पाशबीजेन शक्त्या
गृह्णनाकृष्याज्रुशेनाथ यादीन् ।
दूतीश्चोक्त्वा साध्यनाम्नाथ धातू-
नेवं मन्त्रो यावदात्मा सवीर्यः ॥ ३१.१२॥
सुप्ताशेषजने निशीथसमये साध्ये स्वपित्यादरा-
दारुह्य स्ववशं विधाय हृदये साध्याकृतेः कीलकम् ।
बद्ध्वा तं च निपीडमेव सहसा कालस्य यष्ट्या शिर-
स्याघातात्क्षुभिताखिलेन्द्रियगणं साध्यं स्मरेत्साधकः ॥ ३१.१३॥
वायव्याग्नेयैन्द्रवारीण्महेशक्रव्यात्सोमप्रेतराण्मध्यकेषु ।
स्थानेष्वेतेष्वष्ट यादीन्सहंसान्भृङ्गान्ध्यायेद्वीजबिन्दुप्रबद्धान् ॥ ३१.१४॥
स्वीये चैवं संस्मरेद्धृत्सरोजे
भृङ्गीरूपान्निर्गतान्श्वासमार्गैः ।
साध्याब्जस्थांश्चञ्चरीकान्गृहीत्वा
स्वीयं स्थानं पूर्ववत्सम्प्रविष्टान् ॥ ३१.१५॥
बीजानि रक्तानि तु वश्यकर्मण्यम्भोधराभान्यभिचारकाले ।
धूम्राणि विद्वेषविधौ समोहे पीतानि संस्तम्भविधौ स्मरेच्च ॥ ३१.१६॥
अथ वा साध्यप्राणान्मण्डूकाकारधारिणो ध्यायेत् ।
स्वीयान्भुजगाकारानमिचारादौ नृशंसकर्मविधौ ॥ ३१.१७॥
प्राणप्रतिष्ठाकर्मैवं विधायैकादशापरम् ।
पुत्तल्यादौ खचित्ते वा तांस्तु संस्तम्भयेद्भुवा ॥ ३१.१८॥
आकृष्टानां साध्यदेहादसूनां
पुत्तल्यादावप्ययं स्यात्प्रकारः ।
किं तु स्वीये हृत्सरोजे प्रवेशो
वश्याकृष्ट्योरेव नात्राभिचारे ॥ ३१.१९॥
पाशाद्यत्रिकयुक्तमूलहृदयभ्रूमध्यसूत्रायिता
साग्निः साध्यललाटरन्ध्रवगतोऽप्यामूलमाजग्मुषि ।
योन्यां त्वात्महृदब्जमेवमनिशं भ्राम्यत्यसौ चिन्त्य तं
शक्तिर्जन्मशतान्यपीह वशयेत्साध्यं समाकर्षयेत् ॥ ३१.२०॥
प्राणप्रतिष्ठाविधिरेवमुक्तः साङ्गः सयोगो विनियोगयुक्तः ।
अस्मिन्प्रवीणो गिरिकाननादीन्प्रचालयेत्प्राणवतो विधाय ॥ ३१.२१॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे एकत्रिंशः पटलः ॥
॥ द्वात्रिंशः पटलः ॥
अथ यन्त्रविरचनाभिर्मन्त्रविशेषान्बहुप्रकारयुतान् ।
कथयिष्ये मन्त्रविदामैहिकपारत्रिकाप्तये सुधियाम् ॥ ३२.१॥
त्रिगुणितसंज्ञे मायालङ्कृतकोणे तयाभिवीते च ।
या या विशेषकॢप्तिस्तां तामपि सङ्ग्रहेण समभिदधे ॥ ३२.२॥
कोणोल्लसितसुधाक्षरगलदमृतस्फरितवह्निपरिवीतान् ।
बिन्दोर्मध्यगबीजस्थितान्सुधाधारया परिस्रुतया ॥ ३२.३॥
पूर्णसुषम्नारन्ध्रां साध्यतनुं संस्मरञ्शिरसि बध्यात् ।
तेनारोगी पुरुषः प्रज्ञावान्दीर्घमायुराप्नोति ॥ ३२.४॥
शीतांशुमण्डलस्थं कूर्मचतुर्थात्तकोणलसितमिदम् ।
शीतप्रलिप्तजप्तं कधृतं च शिरोरुजाज्वरार्तिहरम् ॥ ३२.५॥
तद्यन्त्रयुगं विलिखेदभिविलिखितसाध्यसाधकाख्ययुतम् ।
साध्यमधस्तात्कृत्वा बद्ध्वात्र स्वपतु साधको नित्यम् ॥ ३२.६॥
विधिनानेन तु सम्यक्साध्योऽस्य वशे भवेदयत्नेन ।
तत्तु खनित्वागारे तत्रान्नं सिद्धमत्तु वश्यकरम् ॥ ३२.७॥
साध्याख्यां शक्तिवह्नौ नरहरिमपि रन्ध्रत्रये च त्रिशक्तौ
कर्मालिख्याथ लोष्टे सततगमपि संस्थाप्य जप्त्वा स्वशक्त्या ।
आगारे स्थापयित्वा नरमुदकनिधेश्चित्रपत्रे लिखित्वा
दीपाग्नौ तापयित्वा स्त्रियममलधियः सम्यगाकर्षयेयुः ॥ ३२.८॥
त्रिगुणितविहिता विधयः षड्गुणिते च प्रयोजनीयाः स्युः ।
रक्षाकर्मणि विहितं तत्प्रायः प्रचुरमन्त्रयुक्ततया ॥ ३२.९॥
पाशाष्टाक्षरवीतशक्ति दहनप्रोल्लासिसाध्याह्वयं
शक्तिश्रीस्मरसंवृतं कुयुगरन्ध्राबद्धचिन्तामणि ।
इत्थं षड्गुणितं विलिख्य जपितं मन्त्री दधानोऽसकृ-
द्राज्ञां वामदृशां प्रियो भवति सङ्ग्रामे पुरे वा चिरम् ॥ ३२.१०॥
चिन्तारत्नाश्रिताश्रित्रियुगमथ नृसिंहावृतान्तःस्थबीजं
प्रादुःसाध्याभिधानं बहिरपि लिपिभिः प्रानुलोमानुवीतम् ।
क्ष्माबिम्बद्वन्द्वरन्ध्रप्रचलितचतुरर्णं ग्रहोन्मादभूत-
व्याधिघ्नं यन्त्रमस्मिन्कृतकलशविधिर्गर्भरक्षाधिकारी ॥ ३२.११॥
द्वादशगुणिते शूले नृसिंहबीजं नरेन्द्रपुरवीतम् ।
पीतालिप्तं पुरलघुधूपितमन्तःप्रबद्धकर्मयुतम् ॥ ३२.१२॥
चतसृषु दिक्षु निखन्यात्सीमायां द्वारतोरणाधो वा ।
देशाभिगुप्तिरेषा गुप्ततमा सूरिभिः पुरा प्रोक्ता ॥ ३२.१३॥
अलदलनिशाकुशीतैर्मसृणे पट्टे विलिख्य यन्त्रमिदम् ।
घेरस्थापनकर्म प्रतिजप्तं प्राङ्गणे खनेन्मन्त्री ॥ ३२.१४॥
तत्र विशन्ति न चोरा ग्रहकृत्या स्यान्निकेतरक्षा च ।
अश्माभिपातवारणमभिवृद्धिं सम्पदां करोत्यचिरात् ॥ ३२.१५॥
तद्वद्घटर्गलाख्यं यन्त्रं नीले विलिख्य पट्टवरे ।
मेचकसाध्यप्रतिकृतिहृदये गुलिकां विधाय निक्षिप्य ॥ ३२.१६॥
त्रिमधुरपूर्णे पात्रे विन्यस्याभ्यच्र्य गन्धपुष्पाद्यैः ।
बलिमपि विकिरेद्रात्रिषु सप्ताहादानयेद्वधूमिष्टाम् ॥ ३२.१७॥
तामेवाथ प्रतिकृतिमग्नौ किञ्चित्प्रतापयेत्प्रजपन् ।
शक्तिं पाशाज्रुशमनुसाध्याह्वयर्दिभतां समाहितधीः ॥ ३२.१८॥
विधिनामुना त्रिरात्राद्गर्वितधियमपि सुराङ्गनां मन्त्री ।
आकर्षेन्निजवाञ्छाप्रदायिनीं मदनबाणविह्वलिताम् ॥ ३२.१९॥
यन्त्रं तदेवलाक्षाताम्रावीतं निधाय कलशजले ।
जप्त्वा भानुसहस्रकमभिषिञ्चेद्रजतकाञ्चनाभ्यां च ॥ ३२.२०॥
तद्वद्विधाय कलशे तद्यन्त्रं धारयेत्पुर्निनत्यम् ।
वाञ्छितसिद्धिं लभते भक्त्या प्रणमन्ति देवता अपि तम् ॥ ३२.२१॥
यन्त्रं तदेव विधिवद्भित्तावालिख्य पूजयेद्दिनशः ।
चोरारिभूतनागा अपि तं देशं न वीक्षितुं शक्ताः ॥ ३२.२२॥
आलिख्य वीरपट्टे यन्त्रमिदं मस्तकार्पितं कृत्वा ।
युध्यन्प्रत्र्यिथनमपि हत्वा यात्यव्रणाज्र्तिओ योद्धा ॥ ३२.२३॥
मदजलविलिखितमेतद्यन्त्रं जप्तं च मस्तके न्यस्तम् ।
करिणीमपि मदयेद्द्राक्चण्डतरे का कथा करेणुवरे ॥ ३२.२४॥
बहुनेति भाषितेन किमेभ्यो मुख्यं न किमपि यन्त्रेभ्यः ।
तस्मादमूनि सद्भिर्धार्याणि च विश्ववश्यमिच्छद्भिः ॥ ३२.२५॥
गजमृगमदकाश्मीरैर्मन्त्रितमः सुरभिरोचनायुक्तैः ।
विलिखेदलक्तकरसालुलितैर्यन्त्राणि सकलकार्यार्थी ॥ ३२.२६॥
राज्या पटुसंयुतया सपाशशक्त्यज्रुशेन मन्त्रेण ।
स्वाद्वक्तयाभिजुह्वन्निश्युर्वीशांस्तथोर्वशीं वशयेत् ॥ ३२.२७॥
हृल्लेखाग्निस्थसाध्याह्वयमपि बहिराक्रोंवृतं वह्निगेह-
द्वन्द्वाश्रिस्वस्तिकाढ्यं प्रतिलिखतु दले यन्त्रजं नागवल्ल्याः ।
जप्त्वा शक्तिं तु पाशाज्रुशलिपिसहितां तापयेद्दीपवह्नौ
नक्तं भक्त्यानताङ्गी स्मरशरविवशा प्रेमलोलाभियाति ॥ ३२.२८॥
शक्तिस्थं निजनाभिवह्निभवनद्वन्द्वोदरे मान्मथं
बीजं साध्यविदर्भया परिवृतं शक्त्या बहिः पार्थिवम् ।
तत्कोणे स्मरमन्यपुष्टनयनप्रोत्थैः पुनः र्किणकै-
स्ताम्बूलैर्लिखिताभिजप्तमदयेद्योषिन्मनोमोहनम् ॥ ३२.२९॥
शक्त्यन्तः स्थितसाध्यनाम परितो बीजैश्चतुर्भिः समा-
बद्धं शक्तिमनोभवाज्रुशलिपिप्रोम्भिः समावेष्टितम् ।
शाल्युत्थे प्रतिलिख्य पिष्टविकृतौ प्राणान्प्रतिष्ठाप्य च
त्रिस्वादौ परिभज्र्य तत्समदतः साध्यो वशे तिष्ठति ॥ ३२.३०॥
डान्तं शिखीलवयुतं दहनांशसाध्यं
मायांशसाधकमथाभिवृतं कलाभिः ।
मध्योल्लसद्विमुखशूलमिदं तु भुर्तु-
र्यन्त्राह्वयं नरनताङ्गिवशङ्करं स्यात् ॥ ३२.३१॥
मृत्काराङ्गुलिकात्तया सकृकलासान्तर्वसायुक्तया
साध्यस्याङ्घ्रिरजोयुजा मृदुमृदा कॢप्तस्य शक्तिं हृदि ।
रूपस्याभिविलिख्य तद्विवरके साध्यं तदीरान्प्रति-
ष्ठाप्याजल्प्य निखन्य तत्र दिनशो मेहेच्चिरं वश्यकृत् ॥ ३२.३२॥
वामाक्ष्याः प्रतिलिख्य नाम निशया वामोरुदेशे निशा-
मध्ये वामकरेण संशितमतिः सञ्छादयंस्तन्मनाः ।
पूर्वं रुद्रपदं ततश्च दयितेयोगीश्वरीबिन्दुम-
न्मन्त्रं जप्यति चेदनङ्गविवशां सद्यः प्रियामानयेत् ॥ ३२.३३॥
मायाहृदोरथान्ते ब्रह्मश्रीराजितेऽक्षरान्प्रोक्त्वा ।
राजयुतपूजितेऽर्णान्स जये विजये च गौरि गान्धारि ॥ ३२.३४॥
त्रिभुवनवशङ्करीति च सर्वलोकान्तिके वशङ्करि च ।
सर्वस्त्रीपुरुषवशङ्करि सुदुघे वाक्षरान्प्रवीप्स्य ततः ॥ ३२.३५॥
मायाद्विठाआन्तिको मनुरेकाधिकषष्टिवर्णकः प्रोक्तः ।
ऋषिरस्याजोऽतिनिचृच्छन्दो गौरी च देवता प्रोक्ता ॥ ३२.३६॥
सचतुर्दशभिर्दशभिस्तथाष्टभिश्चाष्टभिस्तथा दशभिः ।
एकादशभिर्मन्त्राक्षरैः क्रमादुच्यते षडङ्गविधिः ॥ ३२.३७॥
असकलशशिराजन्मौलिराबद्धपाशा-
ज्रुशरुचिरकराब्जा बन्धुजीवारुणाङ्गी ।
अमरनिकरवन्द्या त्रीक्षणा शोणलेपां-
शुककुसुमयुता स्यात्सम्पदे पार्वती वः ॥ ३२.३८॥
अयुतं प्रजपेज्जुहुयाद्घृताप्लुतैः पायसैर्दशांशेन ।
आराधयेत्तदङ्गैर्मातृभिराशाधिपैश्च निशितमनाः ॥ ३२.३९॥
तिलतण्डुलकैर्लोणैस्त्रिमधुरसिक्तैः फलैश्च मधुरतरैः ।
साज्यैररुणकुवलयैस्त्रिदिनं हवनक्रिया सुवश्यकरी ॥ ३२.४०॥
नित्यं चादित्यगतां देवीं प्रतिपद्य तन्मुखो जप्यात् ।
अष्टोत्तरशतमह्नामादौ भुवनं वशीकरोत्यचिरात् ॥ ३२.४१॥
वर्णादर्वाङ्मन्त्री प्रयोजयेत्साध्यनामकर्मयुतम् ।
प्रजपेद्वा हवनविधौ वाच्छितसिद्धिप्रदस्तथा मन्त्रः ॥ ३२.४२॥
सतारराजमुख्यन्ते राजाधिमुखिवर्णकान् ।
सम्भाष्य वश्यमुखि च स्वां श्रीमारार्णकान्वदेत् ॥ ३२.४३॥
वीप्स्य देविमहादेविपदं देवादिदेवि च ।
प्रोक्त्वा सर्वजनस्येति मुखं मम वशं वदेत् ॥ ३२.४४॥
कुरु कुर्विति ठद्वन्द्वान्तिकं मन्त्रं समुद्धरेत् ।
सप्ताधिकैः सदशभिस्तथा त्रिंशद्भिरक्षरैः ॥ ३२.४५॥
दशभिः सप्तभिश्चैव चतुर्भिः करणाक्षरैः ।
पञ्चभिः सप्तदशभिर्वर्णैरङ्गक्रिया मता ॥ ३२.४६॥
ब्रह्माश्रीमन्त्रसम्प्रोक्ता प्रतिपत्तिरमुष्य च ।
मन्त्रस्य जपकॢप्तिस्तु तथा होमविधिर्मतः ॥ ३२.४७॥
मन्त्री सर्वजनस्थाने कुर्यात्साध्याह्वयान्मनोः ।
प्रजपे हवने वाथ तथा तर्पणकर्मणि ॥ ३२.४८॥
देवीध्माष्टशतं प्रसूनवदथ त्रिस्वादुयुक्तं हुने-
त्सप्ताहं भसितेन तेन विहितं पुण्ड्रादिकं वश्यकृत् ।
आज्यैस्तत्कृतहोमपातितसमाजप्तं घृतं प्राशये-
त्साध्यं निष्परिहारकं च तदिदं वश्यं भवेद्देहिनाम् ॥ ३२.४९॥
शक्तिं साध्यक्र्षवृक्षप्रतिकृति हृदि संलिख्य संस्थाप्य जीवं
जप्त्वा खन्याज्र्णेऽस्मिन्विधिवदनलमाधाय पुष्पैर्जपायाः ।
देवीमन्त्रेण रात्रौ दशपरशतसङ्ख्यैस्तु काचन्दनाक्तै-
र्हुत्वा तां सप्तरात्रं सरिति निखनतादुत्तमं वश्यकर्म ॥ ३२.५०॥
अन्नं मय्यह्यन्नं मे देह्यन्नाधिपतये ममेत्युक्त्वा ।
अन्नं प्रदापयेति च ठद्वयुगान्तोऽन्नदायको मन्त्रः ॥ ३२.५१॥
करणेन्द्रियरसधातुद्वयवर्णैरङ्गमन्त्रपत्रपदैः ।
द्व्ययुतजपावधिरेष द्विसहस्रहुतं च र्सिपरन्नाभ्याम् ॥ ३२.५२॥
दुग्धाब्धौ रूप्यवप्रावृतकनकमयद्वीपवर्ये सुराढ्ये
कल्पद्रूद्यानकाधो मणिमयलसिते वित्तसस्याग्रभागे ।
आसीने भूश्रियौ वाञ्छितवसुनिचयं मन्त्रिणे संसृजन्त्यौ
मन्त्री सञ्चिन्तयानो जपतु दिनमुखे सम्पदेऽन्नस्य मन्त्रम् ॥ ३२.५३॥
नत्यादिभगवत्यन्ते माहेश्वरिपदं वदेत् ।
अन्नपूर्णेऽग्निजायान्तो मन्त्रोऽन्नप्रदसंज्ञकः ॥ ३२.५४॥
मायाविहितषडङ्गो दिनमुखजप्यश्च षोडशसहस्रम् ।
प्रोक्तो जपावसाने सघृतैरन्नैर्दशांशको होमः ॥ ३२.५५॥
रुद्रताण्डवविलोकनलोलां भद्रवक्त्रनयनां भवकान्ताम् ।
अन्नदाननिरतां जननीं तां चिन्तयञ्जपतु चित्रदुकूलाम् ॥ ३२.५६॥
वैश्रवणः पक्वाशः पिङ्गलनिधिपौ तथैव वित्तेशः ।
सकुबेरस्वाहान्तः सव्याहृतयः समीरिता मन्त्राः ॥ ३२.५७॥
वित्तेशस्यान्तराले दशवटसमिधः र्सिपषाक्ता विविक्ता
होतव्या द्रव्यसिद्ध्यै कनकघटकरण्डात्तदोस्तुन्दिलोऽसौ ।
हेमाभो रत्नदीप्तो दरकमलनिधिद्योतितो हेमपीठे
ध्येयो न्यग्रोधमूले हुतभुजि विदुषा वैश्वदेवावसाने ॥ ३२.५८॥
मन्त्रैरेतैर्घृतयुतपायसहोमोऽपि मन्त्रिणां विहितः ।
लक्ष्म्यै सघृतैश्च तिलैर्बिल्वसमिद्धो मतस्तदेव फलम् ॥ ३२.५९॥
भयाहारेन्दुयुक्सैव विदण्डाहस्पताक्षराः ।
बालिस्थयोनिर्नत्यन्तो वसुवर्णो मनुर्मतः ॥ ३२.६०॥
वर्णसाहस्रजाप्यश्च तावच्छतहुतो मतः ।
होमः र्सिपष्मतान्नेन बीजेनाङ्गक्रिया मता ॥ ३२.६१॥
रत्नस्वर्णांशुकादीन्निजकरकमलाद्दक्षिणादाकिरन्तं
वासोराशौ निधायापरममरगुरुं पीतवस्त्रादिभूषम् ।
ध्यायन्नासीनमप्यापणभुवि शतसङ्ख्यं सविंशत्कमेवं
भीतापुष्पैर्घृतात्तैरीत्रदिनमथ हुनेत्स्वर्णवस्त्रादिसिद्ध्यै ॥ ३२.६२॥
वययोरन्तरास्त्रं मे देहि शुक्राक्षराद्विठः ।
मन्त्रोऽयुतजपः र्सिपः सहस्रहवनक्रियः ॥ ३२.६३॥
शुक्रास्ये शुक्लपुष्पैर्हुतभुजि गुणशः सप्तशोऽप्येकविंश-
द्वारं होतव्यमेषोऽप्यतिसितकुसुमालेपनो वामदोष्णा ।
वासोरत्नादिकार्तस्वरमपि सततं साधकाय प्रयच्छ-
न्ध्यातो व्याख्यानमुद्राकलितपरकरस्त्वापणालिन्दसंस्थः ॥ ३२.६४॥
राजेरस्थोऽहिपो दण्डी वेदान्तेऽसौ विदण्डकः ।
सायान्ते नतिरप्यष्ठवर्णो वैयासिको मनुः ॥ ३२.६५॥
मुनिव्रातावीतं मुदितधियमम्भोदरुचिर-
द्युतिं व्याख्यामुद्राकलनविलसद्दक्षिणकरम् ।
परं जानौ कृत्वा दृढकलितकक्ष्ये कविवरं
समासीनं व्यासं स्मरत निरतं पुण्यचरितम् ॥ ३२.६६॥
विकृतिसहस्रजपोऽयं दशांशतः पायसाज्यहवनविधिः ।
निरुपमकविताप्रज्ञाव्याख्याश्रीसम्पदावहो मन्त्रः ॥ ३२.६७॥
करचरणपाश्र्वमूलद्युलोंहरेबिन्दुदुंसरसनार्णाः ।
अलिकाद्याः वर्मास्त्रद्विठान्तिको मनुरयं ध्रुवादिः स्यात् ॥ ३२.६८॥
अयुतं प्रजपेच्च षट्सहस्रावधि मन्त्रे जुहुयाद्दशांशमानम् ।
तिलसर्षपतण्डुलैः सशालीहविराज्यैः सुसमेधिते कृशानौ ॥ ३२.६९॥
उत्तुङ्गादिः प्रचेता अपि दहनसमीरौ धराव्योमसंज्ञे
प्राक्प्रत्यग्दक्षसौम्यास्वध उपरि च दिक्षु प्रबन्धप्रभाः स्युः ।
तन्मध्यस्थान्विपक्षादिकहरिरुरुदन्तीन्द्रनागान्सचोरा-
न्हन्त्येतैर्मन्त्रिमुख्यो मनुविहितबलव्याकुलान्सद्य एव ॥ ३२.७०॥
निजरिपुमचलाद्यैस्तैः ससम्बाधवीतं
मनुविदथ हलोभ्यां रुद्धनिश्वासवेगे ।
तदुपरिगतबीजैः साधुसंस्यूतवक्त्रं
दहतु सकवचास्त्रद्वीन्दुभिः स्वेच्छयैनम् ॥ ३२.७१॥
योनिर्वियत्सुनेत्रं परमे वर्णांस्तथास्थिगं मेदः ।
रक्तस्थदृग्द्विठान्तस्ताराद्योऽयं मनुर्दशार्णयुतः ॥ ३२.७२॥
अयुतं जपेन्मनुमिमं सहस्रवारं हुनेत्तथाज्येन ।
ध्यातापि गिरिसुतेयं जगतीं विश्वां वशीकरोत्यनिशम् ॥ ३२.७३॥
अश्वारूढा कराग्रे नवकनकमयीं नेत्रयष्टिं दधाना
दक्षेऽन्येनानयन्ती स्फुरिततनुलतापाशबद्धां स्वसाध्याम् ।
देवी नित्यप्रसन्नाननशशधरबिम्बा त्रिनेत्राभिरामा
दद्यादाद्यानवद्या प्रवरसुखफलप्राप्तिहृद्यां श्रियं वः।७४॥
विद्ययानुदिनहृद्ययानया होमकर्मवरहेमदायि तत् ।
कामितां सपदि वामलोचनामानयेदपि च मारपीडिताम् ॥ ३२.७५॥
हवनक्रिया सपदि वश्यकरी मधुरावसेकपटुना पटुना ।
सदृशो न कश्चन जगत्यपरो मनुनामुनानयनकर्मविधौ ॥ ३२.७६॥
वाणी स्यात्ताररूपा शिरसि गिरिसुता शक्तिरूपा ललाटे
रव्यग्न्यक्ष्णोस्तथामौ विधुरपि वदनावेष्टने टान्तरूपः ।
श्रीर्जिह्वायां स्वरूपा स्वभिमतकरिरूपौ स्वहौ दीर्घयुक्ता-
वेवं न्यासे मुखश्रीविभवसुखयशःकान्तिमेधाकरः स्यात् ॥ ३२.७७॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे द्वात्रिंशः पटलः ॥
॥ त्रयस्त्रिंशः पटलः ॥
अथ सन्तानसंसिद्धिसमाकुलितचेतसाम् ।
तदुत्पत्तिकरं यागं प्रवक्ष्ये गृहमेधिनाम् ॥ ३३.१॥
न चापुत्रस्य लोकोऽस्ति पितरोऽधः पतन्ति च ।
तस्मात्तु सकलोपायैर्यतेतापत्यसिद्धये ॥ ३३.२॥
देर्विषपितृपूजासु निरतानामभक्तितः ।
गुरुमातृपितृश्राद्धवञ्चकानां च नित्यशः ॥ ३३.३॥
रैथभ्योऽर्थमदातृणां विद्यमानेऽर्थसञ्चये ।
अदत्त्वैवातिथिभ्योऽन्नं भोक्तॄणां पापचेतसाम् ॥ ३३.४॥
हरिशङ्करयोः पादपद्मार्चाविरतात्मनाम् ।
स्वभार्यानिन्दकानां च लोकवेदविरोधिनाम् ॥ ३३.५॥
इत्यादिदोषदुष्टानां पापानां गृहमेधिनाम् ।
दुष्प्रतिग्रहदोषाद्वा जायते त्वनपत्यया ॥ ३३.६॥
एवमादिकदोषापनोदनी सुतसिद्धिदा ।
अशेषपापहन्त्री च वक्ष्यते यजनक्रिया ॥ ३३.७॥
पुत्राप्तये गृहस्थो दीक्षाविधिना चतुर्दशीरात्रिम् ।
सह पत्न्या गमयित्वा कृत्वा पौर्वाह्निकीः क्रियाः सर्वाः ॥ ३३.८॥
संयोज्य किञ्चन यथाविधि पञ्चगव्यं
सङ्कोचकेन मनुना प्रतिमथ्य वार्णम् ।
सम्मन्त्र्य चाष्टशतकं समवद्यभूत-
मन्त्रैः पिबेत्स्वयमसावपि गर्भधात्री ॥ ३३.९॥
ततोऽग्निमाधाय चरुं च कृत्वा
सज्र्ल्प्य तद्दक्षिणमुत्तरं च ।
भागं क्रमात्पैतृकदैविकं त-
त्पित्र्यं तु पूर्वं जुहुयात्क्रमेण ॥ ३३.१०॥
स्मृत्वा निजं पितरमप्यधरा निषण्णं
सान्नाय्य पिण्डयुगलं घृतसम्प्लुतं तत् ।
हुत्वा स्रुवेण घृतसम्पुटितं तथैव
मन्त्री पितामहमथ प्रपितामहं च ॥ ३३.११॥
व्याहृतीभिरथ पक्वहोमतः सर्वतः प्रतिजुहोतु र्सिपषा ।
मातृवर्गगुरुतत्पितृद्वयं पूर्ववत्समवदिष्य साधकः ॥ ३३.१२॥
कलायुतैः षोडशमूर्तिमन्त्रैव्र्यस्तैरथाष्टाक्षरजैश्च वर्णैः ।
अष्टौ समस्तेन च तेन पञ्चाक्षरेण चाष्टाक्षरवज्जुहोतु ॥ ३३.१३॥
पक्वाहुतीनामपि वर्णसङ्ख्यं चतुर्गुणं चापि घृताहुतीनाम् ।
हुत्वावदानद्वितयं च पुंस्त्रीभेदप्रभिन्नं हविषा करोतु ॥ ३३.१४॥
पञ्चाक्षरेण पुरुषात्मकमन्यदन्य-
वर्णेन चाष्टशतयुग्ममथ प्रजप्य ।
संयोज्य तद्युगलमप्यभिमन्त्र्य विष्णु-
र्योन्यादिकेन मनुना च कर्पिदसङ्ख्यम् ॥ ३३.१५॥
पुरुषः पुरुषात्मकं प्रकृत्यात्मकमन्याथ समाहितोपयुज्य ।
अवदानयुगं क्रमान्मनस्वी पुनराचम्य समर्चयेद्धुताशम् ॥ ३३.१६॥
गुरवेऽप्यथ दक्षिणां प्रदत्त्वानलमुद्वास्य च भोजयेद्विजातीन् ।
प्रतिपर्वकमेवमेकवृद्ध्या मतिमान् पकुरकं प्रपूरयीत ॥ ३३.१७॥
एकहासादन्यमब्दं द्विजाती-
न्सम्भोज्यान्यं पूरयेदेकवृद्ध्या ।
सम्पूर्यमाणादेवमेव त्रिकाब्दा-
दर्वाक्पुत्रो जायते दैवशक्त्या ॥ ३३.१८॥
पितृदेवताप्रसादान्मेधायुःकान्तिसंयुतो विद्वान् ।
लक्ष्मीतेजोयुक्त धर्मरुचिर्भवति सन्ततेः कर्ता ॥ ३३.१९॥
समुनिसुरपितृभ्यो ब्रह्मचर्येण यज्ञै-
स्त्रिविधमृणमपत्यैश्चैव सम्मोचयेद्यः ।
श्रुतिवचनकृदस्मिन्वापि लोके परस्मि-
न्निति स तु गृहमेधी पूज्यते साधुलोकैः ॥ ३३.२०॥
वर्णादिको हलोमन्त्रः सङ्कोचाख्यो ध्रुवादिकः ।
मन्त्रः स्याद्भूतमनवः स्युश्च भूतात्मनात्मभिः ॥ ३३.२१॥
अथो हिताय जगतां प्रथितं शितचेतसाम् ।
अद्य सङ्क्षिप्य वक्ष्यामि लक्षणं गुरुशिष्ययोः ॥ ३३.२२॥
स्वच्छः स्वच्छन्दसहितोऽतुच्छधीः सक्तहृच्छयः ।
देशकालादिविद्देशे देशे देशिक उच्यते ॥ ३३.२३॥
अग्रगण्यः समग्रज्ञो निग्रहानुग्रहक्षमः ।
षड्वर्गविजयव्यग्रोऽनुग्रो विगतविग्रहः ॥ ३३.२४॥
शुक्लशुक्लांशुकोत्कृष्टकर्मा विक्लवमानसः ।
वेदवेदाङ्गविद्वादी वेदिताविदितागमः ॥ ३३.२५॥
इष्टदोऽनिष्टसंहर्ता दृष्टादृष्टसुखावहः ।
रतोऽविरतमर्चासु परं पुरमुरद्विषोः ॥ ३३.२६॥
शान्तो दान्तः शान्तमना नितान्तं कान्तविग्रहः ।
स्वदुःखकरणेनापि परं परसुखोद्यतः ॥ ३३.२७॥
ऊहापोहविदव्यग्रो लोभमोहविर्विजतः ।
अज्ञानुकम्प्यविज्ञातज्ञानो ज्ञातपरेङ्गितः ॥ ३३.२८॥
निरंशसांशवित्सर्वसंशयच्छिदसंशयः ।
नयविद्विनयोपेतो विनीतो न चिरात्मवान् ॥ ३३.२९॥
व्याधिप्रापितव्याधिः समाधिविधिसंयुतः ।
श्रुतिधीरोऽतिधीरश्च वीरो वाक्यविशारदः ॥ ३३.३०॥
वर्गोपेतसमारम्भो गभीरो दम्भर्विजतः ।
आदर्श इव विद्यानां न तु दर्शनदूषकः ॥ ३३.३१॥
असौ मृग्यश्च दृश्यश्च सेव्यश्चाभीष्टमिच्छता ।
शिष्यस्तदावर्जनकृद्देहेन द्रविणेन च ॥ ३३.३२॥
तस्य पादारविन्दोत्थरजःपटलरूषणः ।
स्नानमप्राप्य न प्राप्यं प्रायो बुद्धिमतेप्सितम् ॥ ३३.३३॥
नित्यशः कायवाक्चित्तैस्त्रिद्व्येकाब्दादिकावधि ।
परिचर्यापरः शिष्यः स्यात्सुसंयतमानसः ॥ ३३.३४॥
तं तथाविधमालक्ष्य सदावितथवादिनम् ।
मातृतः पितृतः शुद्धं बूद्धिमन्तमलोलुपम् ॥ ३३.३५॥
अस्तेयवृत्तिमास्तिक्ययुक्तं मुक्तिकृतोद्यमम् ।
अकल्मषं मृषाहीनमहीनद्रव्यमानसम् ॥ ३३.३६॥
ब्रह्मचर्यपरं नित्यं परिचर्यापरं गुरोः ।
अल्पाशनिद्रं पूजायामनल्पकृतकल्पनम् ॥ ३३.३७॥
अधीतवेदं स्वाधीनमनाधिं व्याधिर्विजतम् ।
तरुणं करुणावासं परितोषकरं गुरोः ॥ ३३.३८॥
सुवेषमेषणातीतममलं विमलाशयम् ।
सुप्रसन्नं प्रसन्नाङ्गं सदा सन्निहितं गुरोः ॥ ३३.३९॥
परोपकारनिरतं विरतं परदूषणे ।
मातृवद्गुरुपत्नीं च भ्रातृवत्तत्सुतानपि ॥ ३३.४०॥
स्मरन्तमस्मराबाधं स्मितोपेतमविस्मितम् ।
परिग्रहे परीक्ष्यैव शिष्यमेवङ्गुणं गुरुः ॥ ३३.४१॥
अलसं मलसङ्क्लिन्नं क्लिष्टं क्लिष्टन्ववायजम् ।
दम्भान्वितमगम्भीरं चण्डं पण्डितमानिनम् ॥ ३३.४२॥
रागिणं रोगिणं भोगलालसं बालसम्मतम् ।
रौद्रं दरिद्रं निद्रालुमाद्यूनं क्षुद्रचेष्टितम् ॥ ३३.४३॥
नृशंसमन्धं बधिरं पङ्गुं व्यङ्गममङ्गलम् ।
अतिदीर्घमतिह्रस्वमतिस्थूलकृशात्मकम् ॥ ३३.४४॥
आदित्सुं कुत्सितं वत्सं बीभत्सं मत्सरात्मकम् ।
परदारपरं भीरुं दारुणं वैरिणं सताम् ॥ ३३.४५॥
लुब्धं त्वलब्धवैदग्ध्यं स्तब्धं लुब्धकबान्धकवम् ।
सुखिनं मुखरं दुर्गं दुर्मुखं मूकमानसम् ॥ ३३.४६॥
प्रत्यग्रमुग्रं व्यग्रेहमग्रगण्यं दुरात्मनाम् ।
प्रष्टव्यकं तमःस्पृष्टं क्लिष्टमिष्टापहं नृणाम् ॥ ३३.४७॥
स्वार्थकृत्यं प्रसक्तार्थं निरर्थारम्भणं शठम् ।
ईदृग्विधं गुरुः शिष्यं न गृह्णीयात्कथञ्चन ॥ ३३.४८॥
यदि गृह्णाति तद्दोषः प्रायो गुरुमपि स्पृशेत् ।
मन्त्रिदोषो यथा राज्ञि पत्यौ जायाकृतो यथा ॥ ३३.४९॥
तथा शिष्यकृतो दोषो गुरुमेति न संशयः ।
स्नेहाद्वा लोभतो वापि यो न गृह्णाति दीक्षया ॥ ३३.५०॥
तस्मिन्गुरौ सशिष्ये तु देवताशाप आपतेत् ।
मधुद्विषि महादेवे मातापित्रोर्महीभृति ।
भक्तिर्या सा पदाम्भोजे कार्या निजगुरौ सदा ॥ ३३.५१॥
छायाज्ञापादुकोपानद्दण्डांश्च शयनासने ।
यानं मनोगतं चान्यदन्तेवासी न लङ्घयेत् ॥ ३३.५२॥
व्याख्याविवादः स्वातन्त्र्यकामिता काम्यजृम्भिता ।
निद्राकुतर्कक्रोधांश्च त्यजेद्गुरुगृहे सदा ॥ ३३.५३॥
अग्राम्यधर्मं विण्मूत्रसर्गनिष्ठीवनादिकम् ।
परित्यजेत्परिज्ञाता वमिं च गुरुमन्दिरे ॥ ३३.५४॥
ग्राम्योक्तीरनृतं निन्दामृणं च वसुविक्रयम् ।
परित्यजेद्गुरौ तस्य सपत्न्यैश्च समागमम् ॥ ३३.५५॥
इष्टं वानिष्टमादिष्टं गुरुणा यत्तु गुर्वपि ।
त्वरया परया कुर्याद्धिया सम्यगजिह्मया ॥ ३३.५६॥
कर्मणा मनसा वाचा सदा भक्तियुजा गुरुम् ।
निव्र्याजं पूजयेच्छिष्यो निजकार्यप्रसिद्धये ॥ ३३.५७॥
लोकोद्वेगरी या च या च कर्मनिकृन्तनी ।
स्थित्युच्छेदकरी या च तां गिरं नैव भाषयेत् ॥ ३३.५८॥
रम्यमप्युज्ज्वलमपि मनसोऽपि समीप्सितम् ।
लोकविद्वेषणं वेषं न गृह्णीयात्कदाचन ॥ ३३.५९॥
इत्याचारपरः सम्यगाचार्यं यः समर्चयेत् ।
कृतकृत्यः स वै शिष्यः परत्रेह च नन्दति ॥ ३३.६०॥
देवानृषीनपि पितृनतिथींस्तथाग्निं
नित्योद्यतेन मनसा दिनशोऽर्चयेद्यः ।
इष्टानवाप्य सकलानिह भोगजाता-
न्प्रेत्य प्रयाति परमं पदमादिपुंसः ॥ ३३.६१॥
इत्थं मूलप्रकृत्यक्षरविकृतिलिपिव्रातजातग्रहक्र्ष-
क्षेत्राद्याबद्धभूतेन्द्रियगुणरविचन्द्राग्निसम्प्रोतरूपैः ।
मन्त्रैस्तद्देवताभिर्मुनिभिरपि जपध्यानहोमार्चनाभि-
स्तन्त्रेऽस्मिन्यन्त्रभेदैरपि कमलज ते र्दिशतोऽयं प्रपञ्चः ॥ ३३.६२॥
यदाश्रया विप्रकृतिप्रभावतो
विभिन्नतारांशसमुत्थितौजसः ।
जगन्ति पुष्णन्ति रवीन्दुवह्नयो
नमोऽस्तु तस्मै परिपूर्णतेजसे ॥ ३३.६३॥
॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे त्रयिंस्त्रशः पटलः ॥
॥ प्रपञ्चसारः सम्पूर्णः ॥
Encoded and proofread by Ankur Nagpal