॥ साङ्ख्यसूत्रविवरणम् ॥

श्रीकपिलाय नमः । प्रकृतिं पुरुषं नत्वा सांख्यसूत्रे विधीयते । संक्षेपतो विवरणमविवेकापनुत्तये ॥ इह खलु भगवान् कपिलो मुनिरासुरयेऽनुकम्पया पञ्चविंशतितत्त्वान्युपदिश्य सूत्रयामास । अष्टौ प्रकृतय इत्यादि । काः पुनस्ता इत्युच्यन्ते । प्रधानं महानहंकारस्तन्मात्राणि च । प्रधानं प्रकृतिरव्यक्तमव्याकृतं चेत्यनर्थान्तरम् । महान् महत्तत्वं बुद्धिरध्यवसायलक्षणम् । अहंकारोऽभिमानलक्षणो वैकृतिकस्तैजसो भूतादिश्चेति त्रिविधः । तन्मात्राणि तु पञ्च शब्दतन्मात्रमाकाशहेतुः । स्पर्शतन्मात्रं वायुयोनिः । रूपतन्मात्रं तेजोयोनिः । रसतन्मात्रमप्प्रकृतिः । गन्धतन्मात्रं पृथिवीहेतुः । इति पञ्चतन्मात्राणि इत्यष्टौ प्रकृतयः । के पुनर्विकाराः कति । षोडशविकाराः । एकादशेन्द्रियाणि पञ्च महाभूतानि च । तत्र श्रोत्रत्वक्चक्षूरसनघ्राणाख्यानि बुद्धीन्द्रियाणि शब्दस्पर्शरूपरसगन्धालोचनवृत्तीनि । वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाणि वचनादानविहरणोत्सर्गानन्दवृत्तीनि । ज्ञानक्रियाशक्तिद्वयात्मकं सङ्कल्पविकल्पलक्षणं मन इत्येकादशेन्द्रियाणि । भूतानि चाकाशवायुतेजःसलिलपृथिवीलक्षणानि पञ्चेति षोडशविकाराः ॥ अथ कः पुरुषः इत्युच्यते । पुरुषोऽनेकस्त्रिगुणरहितो विवेकी अविषयोऽसाधारणोऽप्रसवधर्मा चेतनः साक्षी केवलो मध्यस्थो द्रष्टाऽकर्ता च ॥ अथ के पुनस्त्रयो गुणा इत्युच्यन्ते । त्रैगुण्यं सत्त्वं रजस्तम इति । त्रय एव गुणास्त्रैगुण्यम् । सत्त्वं नाम पाटवमार्दवलाघवप्रसन्नताभिसङ्गप्रीतितुष्ट्यनीहासन्तोषादिलक्षणमनन्तभेदं समासतः सुखावहम् । रजो नाम शोकतापखेदस्तम्भोद्गमोद्वेगरोषमानादिलक्षणमनन्तभेदं समासतो दुःखावहम् । तमो नामाच्छादनावरणबीभत्सदैन्यगौरवालस्यनिद्राप्रमादादिलक्षणमनन्तभेदं समासतो मोहात्मकं एतत् त्रैगुण्यं व्याख्यातम् ॥ सत्त्वं प्रकाशकं विन्द्याद्रजो विन्द्यात् प्रवर्तकम् । विनाशकं तमो विन्द्यात् त्रैगुण्यं नाम सञ्ज्ञितम् ॥ अत्राह कः सञ्चरः प्रतिसञ्चरश्चेति । उच्यते । उत्पत्तिः सञ्चरः । प्रलयः प्रतिसञ्चरः । तत्रोत्पत्तिर्नामाव्यक्तात् समुपदिष्टात् सर्वजगतः परेण रूपेणाधिष्ठानात्मकात् महान् महतोऽहंकारः । स च त्रिविधः । वैकृतिको भूतादिस्तैजसश्चेति । तत्र वैकृतादिन्द्रियाण्युत्पद्यन्ते भूतादेस्तन्मात्राणि तैजसादुभयम् इन्द्रियाणि तन्मात्राणि चेति । तन्मात्रेभ्यो भूतानि । अयं सञ्चरः । प्रतिसञ्चरो नाम भूतानि तन्मात्रेषु लीयन्ते । तन्मात्राणीन्द्रियाणि चाहंकारे । अहंकारो बुद्धौ । बुद्धिरव्यक्ते । ततोऽव्यक्तं तु क्वचिन्न लीयते कस्मात् अनुत्पन्नत्वात् । इत्येवं प्रतिसञ्चरः । एवमेतौ सञ्चरप्रतिसञ्चरौ व्याख्यातौ ॥ अत्राह किंविधमध्यात्ममधिभूतमधिदैवतं च । अत्रोच्यते । बुद्धिरध्यात्मम् । बोधयितव्यमधिभूतम् । ब्रह्मा तत्रादिदैवतम् । अहंकारोऽध्यात्मम् । अभिमन्तव्यमधिभूतम् । रुद्रस्तत्राधिदैवतम् । मनोध्यात्मं संकल्पमधिभूतम् । चन्द्रस्तत्रादिदैवतम् । श्रोत्रमध्यात्मम् । स्पर्शयितव्यमधिभूतम् । वायुस्तत्राधिदैवतम् । चक्षुरध्यात्मम् । दर्शयितव्यमधिभूतम् । सूर्यस्तत्रादिदैवतम् । जिह्वाध्यात्मम् । रसयितव्यमधिभूतम् । वरुणस्तत्राधिदैवतम् । नासाध्यात्मम् । घ्रातव्यमधिभूतम् । पृथिवी तत्राधिदैवतम् । वागध्यात्मम् । वक्तव्यमधिभूतम् । अग्निस्तत्राधिदैवतम् । पाणिरध्यात्मम् । आदातव्यमधिभूतम् । इन्द्रस्तत्राधिदैवतम् । पादावध्यात्मम् । गन्तव्यमधिभूतम् । विष्णुस्तत्राधिदैवतम् । पायुरध्यात्मम् । उत्स्रष्टाव्यमधिभूतम् । मित्रस्तत्राधिदैवतम् । उपस्थमध्यात्मम् । आनन्दयितव्यमधिभूतम् । प्रजापतिस्तत्राधिदैवतम् । एवमेव त्रयोदशकरणस्याध्यात्ममधिभूतमधिदैवं च व्याख्यातम् । कानि चत्वारीत्यत आह चेति । त्रीणि गुणरूपाणि चतुर्थमधिदैवतमित्यर्थः ॥ चत्वारि यो वेदयते यथावद् गुणस्वरूपाण्यधिदैवतं च । विमुक्तपाप्मा गतदोषसङ्गो गुणांस्तु भुङ्क्ते न गुणैः स भुज्यते ॥ अथ कास्ता अभिबुद्धय इत्युच्यन्ते । पञ्चाभिबुद्धयः । बुद्धिरभिमान इच्छा कर्तव्यं तत्क्रिया चेति । अभिमुखी बुद्धिरभिबुद्धिः । इदं करणीयमेत्येतदध्यवसायो बुद्धिः क्रियात्मपरामर्शस्वरूपप्रत्ययः । अभिमुखो मानोऽहं करोमीत्यहंकारोऽभिमानः । बुद्धिक्रिया इच्छा वाञ्छा । कर्तव्यं संकल्पो मनसो वृत्तिः । क्रिया एतद्वस्तुस्वरूपमिति कर्तव्यालोचनं यद्बुद्धीन्द्रियाणां सा क्रिया । इत्थमेतत् कर्तव्यमिति यत्प्रवृत्तिः कर्मेन्द्रियाणां सा क्रियेति । एवमेताह पञ्चाभिबुद्धयो व्याख्याताः ॥ अथ काः पञ्चकर्मयोनयः उच्यन्ते । धृतिः श्रद्धा सुखा अविविदिषा विविदिषा चेति पञ्च कर्मयोनयः । वाचि कर्मणि काये च प्रतीतिर्याभिरज्यते । तन्निष्ठस्तत्प्रतिष्ठश्च धृतेरेतद्धि लक्षणम् ॥ अनसूया ब्रह्मचर्यं यजनं याजनं तपः । प्रतिग्रहोऽत्रहोमश्च श्रद्धाया लक्षणं स्मृतम् ॥ सुखार्थी यस्तु सेवेत विद्याकर्मतपांसि च । प्रायश्चित्तपरो नित्यं सुखेयं परिकीर्तिता ॥ विषधूममूर्छितवदविविदिषा । विविदिषा ध्यायिनां प्रज्ञायोनिः । एकत्वं च पृथक्त्वं च नित्यं चेदमचेतनम् । सूक्ष्मं सत्कार्यमक्षोभ्यं ज्ञेया विविदिषा हि सा ॥ कार्यकारणक्षमकरा विविदिषा प्राकृतिका वृत्तिः । धृतिः श्रद्धा सुखा अविविदिषा चतस्रो बन्धाय विविदिषैका मोक्षाय इति पञ्च कर्मयोनयो व्याख्याताः ॥ अत्राह के ते पञ्चवायवः । उच्यन्ते । प्राणोऽपानः समानश्च उदानो व्यान एव च । इत्येते वायवः पञ्च शरीरेषु शरीरिणाम् ॥ तत्र प्राणो नाम वायुर्योऽयं मुखनासिकाधिष्ठानप्राणनात् क्रमेणाननात् प्राण इत्यभिधीयते । अपानो नाम वायुर्नाभेरधिष्ठाता अपनयनादधोगमनाच्चापान इत्यभिधीयते । समानो नाम वायुर्हृदधिष्ठाता समनात् समगमनाच्च समान इत्यभिधीयते । उदानो नाम वायुः कण्ठाधिष्ठाता ऊर्ध्वं गमनाच्च उदान इत्यभिधीयते । व्यानो नाम वायुः सन्ध्यधिष्ठाता प्राणादिजृम्भणाच्च व्यान इत्यभिधीयते । इति पञ्चवायवो व्याख्याताः ॥ आह के ते पञ्चकर्मात्मानः उच्यन्ते । वैकारिकस्तैजसो भूतादिश्च सानुमानो निरनुमानश्चेति । तत्र वैकारिकः शुभकर्मकर्ता । तैजसोऽशुभकर्मकर्ता । भूतादिर्मूढकर्मकर्ता । सानुमानः शुभमूढकर्मकर्ता । निरनुमानोऽशुभमूढकर्मकर्ता । इत्येते पञ्चकर्मकर्तारो व्याख्याताः ॥ आह का सा पञ्चपर्वाविद्येति । उच्यते । तमो मोहो महामोहस्तामिस्रोऽन्धतामिस्रश्चेति । तत्र तमोमोहावुभावेतावष्टात्माकौ । महामोहो दशात्मकः । तामिस्रान्धतामिस्रौ चाष्टादशात्माकौ । तत्र तमो नामाष्टासु प्रकृतिष्वव्यक्तबुद्ध्यहंकारपञ्चतन्मात्रसञ्ज्ञितासु अनात्मस्वात्मज्ञानाभिमानस्तम इत्यभिधीयते । मोहो नामाणिमाद्यष्टागुणैश्वर्यप्राप्तये योभिमान उत्पद्यते स मोह इत्यभिधीयते । महामोहो नाम दृष्टानुश्रविकेषु विषयेषु दशसु निवृत्तेषु मुक्तोऽहमिति मन्यते स महामोह इत्यभिधीयते । तामिस्रो नाम अष्टगुणैश्वर्येऽणिमाद्ये दशविधे च विषये प्रतिहतस्य दुःखमुत्पद्यतेऽसौ तामिस्र इत्यभिधीयते । अन्धतामिस्रो नाम अणिमाद्यष्टगुणैश्वर्ये दशविधे च विषये सिद्धे मरणकाले च यो विषादः प्रत्यपद्यते सोऽन्धतामिस्र इत्यभिधीयते । एवमेषा पञ्चपर्वाऽविद्या द्विषष्टिभेदा व्याख्याता ॥ अत्राह काष्टाविंशतिधाशक्तिः । अत्रोच्यते । एकादशेन्द्रियवधाः सप्तदशबुद्धिवधाः । एषाष्टाविंशतिधाशक्तिः । तत्रेन्द्रियवधास्तावत् । बधिरस्त्वक्बधिरः अन्धः जडजिह्वः अजिघ्रः मूकः कुणिः पङ्गुः नपुंसकः ऊर्ध्ववायुयुक्तः अमनाः । तदुक्तम् । बाधिर्यं कुष्ठितान्धस्त्वं जडताऽजिघ्रता तथा । मूकता कौण्यपङ्गुत्वं क्लैब्योदावर्तमत्तताः ॥ एतेदिन्द्रियद्वारा बुद्धेरेव वधाः । साक्षाद्बुद्धिवधा यथा । नवविधतुष्टिवैकल्यात् अष्टविधासिद्धवैकल्याच्च सप्तदशबुद्धिवधा इत्यष्टाविंशतिधाशक्तिः ॥ का पुनर्नवधा तुष्टिः उच्यते । चतस्र आद्यात्मिक्यस्तुष्टयः बाह्याः पञ्च । आद्याः प्रकृत्युपादानकालभाग्याख्याः । प्रकृत्यैव मुक्तिः किं पुनः साधनैरिति तुष्टिः प्रकृत्याख्या अम्भो नाम । साधनैः संन्यासादिभिरुपात्तैस्तुष्टिः साधानाख्या सलिलं नाम । कालेनैव मुक्त्यादिकं सेत्स्यति किं दुःखैः संन्यासादिसाधनैरिति तुष्टिः कालाख्याऽघो नाम । या तु भाग्यादेव सर्वं सेत्स्यति किं साधनादिध्यानादिक्लेशैरिति सा भाग्याख्या तुष्टिर्नाम । बाह्याः शब्दादिविषयवैराग्यास्तुष्टयः अर्जनरक्षणक्षयभोगहिंसादोषदर्शनं वैराग्यहेतुः पञ्चविधस्तद्भेदेन पञ्चतुष्टयः ॥ अथ काः सिद्धयः उच्यन्ते । अष्टौ सिद्धयः । उच्यन्ते । अध्ययनं तारं नाम सिद्धिः । ततोऽर्थज्ञानं सुतारं नाम । ततस्तर्केणार्थपरीक्षणं तारतारं नाम सिद्धिः । ततः परीक्षकसंवादनं रम्यकं नाम । ततो विवेकख्यातिः सदामुदितं नाम । एताः पञ्च गौण्यः सिद्धयः । दुःखत्रयविघातास्तास्त्रयो मुख्याः सिद्धयः । प्रमोदमुदितमोदनामाख्याः फलमित्यष्टौ सिद्धयः । तुष्टिसिद्धीनां विपर्ययात् सप्तदशधा वुद्धिवधाः ॥ के पुनर्मौलिकार्थाः कतिधा उच्यन्ते । दशधा मौलिकार्थाह । एकत्वमर्थवत्त्वं पारार्थ्यं प्रधानस्य । अन्यत्वमकर्तृत्वं बहुत्वं पुरुषस्य । अस्तित्वं योगो वियोगश्चेत्युभययोः । शेषवृत्तिः परिशिष्टत्वं प्रलये तदुभययोः । तदुक्तम् प्रधानास्तित्वमेकत्वमर्थवत्त्वं यथार्थता । पारार्थ्यं च तथा नैक्यं वियोगो योग एव च ॥ शेषवृत्तिरकर्तृत्वं मौलिकार्थाः स्मृता दश ॥ इति । अत्राह कोऽनुग्रहसर्गः । अनुगृह्णाति प्रत्ययभूतादिसर्गं यः सर्गः सोऽनुग्रहसर्गः । तन्मात्रसर्ग एवासौ विशेषापरनामा । के विशेषाः कियन्तश्च । उच्यन्ते । लिङ्गदेहाह स्थूलदेहाः स्थूलभूतानि च । तत्र लिङ्गं स्थूलदेहात् पूर्वमुत्पन्नमव्याहतं स्थूलनाशेऽप्यनश्वरम् । महदहंकारेन्द्रियतन्मात्रात्मकम् । धर्माधर्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्यानैश्वर्याख्यभाववासितं संसरति । स्थूलभूतानि तु भूगोलसमुद्रवह्निशिशुमारब्रह्माण्डविराटादीनि । स्थूलदेहाः के कतिविधाश्चेति उच्यते ॥ चतुर्दशविधो भूतसर्गः । तत्राष्टाविकल्पो दैवस्तैर्यग्योनः पञ्चधा मानुष्य एकविधः ब्राह्मः प्राजापत्यः पैत्रे गान्धर्वो याक्षो राक्षसः पैशाचाश्च दैवसर्गः पशुमृगसरीसृपस्थावराः तिरश्चां सर्गः । ब्राह्मणादिजातिभेदेऽपि संस्थाने विशेषाभावात् एकविधो मानुष्य इति चतुर्दशविधाः स्थूलदेहाः । कह पुनर्बन्धः कतिधा च । त्रिविधो बन्धः । काः पुनस्ता विधा उच्यन्ते । प्राकृतिको वैकृतिको दाक्षणिकश्च बन्धः । प्रकृतिमात्मानं ज्ञात्वा तच्चिन्तनात् प्राकृतिकः अत्रोच्यते पूर्णवर्षसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तका इति । महदादीनात्मत्वेन ज्ञात्वा तच्चिन्तनाद्वैकारिकः । अत्रोच्यते । दशमन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः । भौतिकास्तु शतं पूर्णं सहस्रं चाभिमानिकाः ॥ बौद्धा दशसहस्राणि तिष्ठन्ति विगतज्वराः । अमी विदेहाः । इष्टापूर्त्ती दक्षिणा तन्निमित्तो दाक्षणिकः अत्रोच्यते । स्वर्गस्था नरकं यान्ति नारकाश्च त्रिविष्टपमिति । गतागतं कामकामा लभन्त इति च । अत एव हि त्रिष्वपि बन्धेषु एकैकापाये ततस्ततो मोक्ष इति । त्रिविधो मोक्षः । कर्मणो विकारात् प्राकृतश्च मोक्षः । यदुक्तम् । प्राकृतेन च बन्धेन तथा वैकारिकेण च । दक्षिणाभिस्तृतीयेन वृद्धो नान्येन मुच्यते ॥ इति । अथ कुतस्त्यानां तत्त्वानां सिद्धिः । प्रमाणादिति ब्रूमः । तत्र प्रमाणं किं कतिविधम वा उच्यते त्रिविधं प्रमाणम् । तिस्रो विधा यस्येति त्रिविधम् । कास्ता विधाः । उच्यते । दृष्टमनुमानमाप्तवचनं च । अर्थसन्निकृष्टेन्द्रियजो निश्चयो दृष्टम् । इन्द्रियाणि पञ्च चक्षुरादीनि मनश्च । व्याप्तिपक्षधर्मताज्ञानपूर्वकमनुमानम् । तच्च त्रिविधम् । पूर्ववत् शेषवत् सामान्यतो दृष्टं च । पूर्ववद्यथा कर्दमेन पूर्ववृत्तवृष्ट्यनुमानम् । शेषवद्यथा । समुद्रातपलमुदकं(?) क्षारमुपलभ्य शेषस्यापि क्षारत्वानुमानम् । सामान्यतो दृष्टां च यथा । रूपाद्युपलभ्य तदुपलब्धेः कारणस्यानुमानम् । रूपाद्युपलब्धयः करणसाध्याः क्रियत्वात् छिदिक्रियावत् । आप्तश्रुतिराप्तवचनं च । यथार्थवाक्यजार्थविषयोध्यवसाय इति यावत् । प्रावादुकोद्भावितानां तु उपमानार्थापत्तिसम्भवाभावैतिह्यप्रतिभानामित्युक्तेष्वेवान्तर्भावः । यत् तद्यथा गौर्गवयस्तथेति वाक्यम् । तद्ज्ञाननिधीरागम एव । गवयेपि गोसदृशस्य गवयशब्दो वाचक इति प्रत्ययः सोयमनुमानमेतत्सङ्केतग्रहरूपत्वात् । यद् गवयस्य चक्षुःसन्निकृष्टगोसादृश्यज्ञानं तत्प्रत्यक्षमेव । अत एव स्मर्यमाणायां गवि सादृश्यज्ञानं प्रत्यक्षम् । गोगवययोः सादृश्यस्य गवयान्तरवर्त्तिभूयोवयवसामान्यरूपस्य योगरूपस्यैकत्वादित्युपमानं न मानान्तरम् । जीवतो गृहाभावदर्शनेन बहिर्भावकल्पनादित्यर्थापत्तिरनुमानमेव । सम्भवोपि खार्यादौ द्रोणाढकप्रस्थाद्यवगमरूपोऽनुमानमेव । इह भूतले घटो नास्तीत्यादिरभावावगमोऽपि प्रत्यक्षमेवेति नाभावः पृथक् प्रमाणम् । अनिर्दिष्टप्रवक्तृकं प्रवादमात्रमैतिह्यमपीह वटे यक्षः प्रतिवसतीत्यप्रमाणमेव । आप्तमूलत्वे त्वागम एव । द्वारवती पुण्यभूमिरिति श्रुतेः तत्र वसतः श्रेयांसस्तत्र गमने पुण्यं भवतीत्यादिबुद्धिर्जायमाना प्रतिभा । यत्रोच्यते । अनुक्तमप्यूहति पण्डितो जन इति । सा तु प्रायेण प्रमाणमेव । आर्षं तु दर्शनं प्रत्यक्षमेव । या प्रतिभा साप्यनुमानमेव ॥ त्रयोविंशतिसूत्रैर्हि सर्वशास्त्रार्थसंग्रहः । कृतो मुनिवरेणात्र यथामति सचीवृतः(?)॥ इति सांख्यसूत्रविवरणाख्या कापिलसूत्रवृत्तिः समाप्ता ॥ Eन्चोदेद् अन्द् प्रूफ़्रेअद् ब्य् ढवल् Pअतेल् द्र्धवल्२७८५ अत् ग्मैल्ॅओम्
% Text title            : sAMkhyasUtravivaraNam
% File name             : sAMkhyasUtravivaraNam.itx
% itxtitle              : sANkhyasUtravivaraNam
% engtitle              : sAMkhyasUtravivaraNam
% Category              : sUtra, major_works
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Dhaval Patel drdhaval2785 at gmail.com
% Proofread by          : Dhaval Patel drdhaval2785 at gmail.com
% Source                : sAnkhyasaNgrahaH 1918
% Latest update         : September 15, 2014
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.


Sanskrit Documents Home Home Sitemap Sanskrit Links Blog Contributors Support GuestBook FAQ Search

BACK TO TOP