साङ्ख्यतत्त्वकौमुदी
टत्त्वकौमुदि विथ् सन्स्क्रित् नोतेस् रजेश्वर शस्त्रि
कारिका १
अजामेकां लोहितशुक्लकृष्णां
बह्वीः प्रजाः सृजमानां नमामः ।
अजा ये तां जुषमाणां भजन्ते
जहत्येनां भुक्तभोगां नुमस्तान् ॥ १॥
कपिलाय महामुनये मुनये शिष्याय तस्य चासुरये ।
पञ्चशिखाय तथेश्वरकृष्णायैते नमस्यामः ॥ २॥
इह खलु प्रतिपित्सितमर्थं प्रतिपादयन् प्रतिपादयिताऽवधेयवचनो
भवति प्रेक्षावताम् । अप्रतिपित्सितमर्थं तु प्रतिपादयन् 'नायं
लौकिको नापि परीक्षकः' इति प्रेक्षावद्भिरुन्मत्तवदुपेक्ष्येत । स
चैषां प्रतिपित्सितोऽर्थो, यो ज्ञातः सन् परमपुरुषार्थाय कल्पते,
इति प्रारिप्सितशास्रविषयज्ञानस्य परमपुरुषार्थसाधनहेतुत्वात्
तद्विषयजिज्ञासामवतारयति-
॥ दुःखत्रयाभिघाताज्जिज्ञासा तदघातके हेतौ ।
दृष्टे सापार्था चेत् नैकान्तात्यन्ततोऽभावात् ॥ १ ॥ ॥
एवं हि शास्त्रविषयो न जिज्ञास्येत यदि दुःखं नाम जगति न स्यात्,
सद्वा न जिहासितम्, जिहासितं वा अशक्यसमुच्छेदम् । अशक्यसमुच्छेदता
च द्वेधा- दुःखस्य नित्यत्वात्, तदुच्छेदोपायापरिज्ञानाद्वा ।
शक्यसमुच्छेदत्वेऽपि च शास्त्रविषयस्य ज्ञानस्यानुपायभूतत्वाद्वा,
सुकरस्योपायान्तरस्य सद्भावाद्वा ॥
तत्र न तावद् दुःखं नास्ति, नाप्यजिहासितमित्युक्तम्- ᳚दुःखत्रयाभिघाताद्᳚
इति । दुःखानां त्रयं दुःखत्रयम् । तत् खलु आध्यात्मिकम्, आधिभौतिकम्,
आधिदैविकञ्च ।
तत्राध्यात्मिकं द्विविधम्, शारीरं मानसं च । शारीरं वातपित्तश्लेष्मणां
वैषम्यनिमित्तम् ।
मानसं कामक्रोधलोभमोहभयेर्ष्याविषादविषयविशेषादर्शननिबन्धनम् ।
सर्वञ्चैतदान्तरोपायसाध्यत्वादाध्यात्मिकं दुःखम् ।
बाह्योपायसाध्यं दुःखं द्वेधा, आधिभौतिकम्, आधिदैविकञ्च ।
तत्राधिभौतिकं मानुषपशुसरीसृपस्थावरनिमित्तम्, आधिदैविकं तु -
यक्षराक्षसविनायकग्रहाद्यावेशनिबन्धनम् ॥
तदेतत् प्रत्यात्मवेदनीयं दुःखं रजःपरिणामभेदो न
शक्यते प्रत्याख्यातुम् । तदनेन दुःखत्रयेणान्तःकरणवर्तिना
चेतनाशक्तेः प्रतिकूलवेदनीयतयाऽभिसंबन्धोऽभिघात इति । एतावता
प्रतिकूलवेदनीयत्वं जिहासाहेतुरुक्तः । यद्यपि न सन्निरुध्यते दुःखं,
तथापि तदभिभवः शक्यः कर्तुमित्युपरिष्टादुपपादयिष्यते ।
तस्मादुपपन्नम् ᳚तदपघातेके हेतौ᳚ इति । तस्य दुःखत्रयस्य अपघातकः
तदपघातकः । उपसर्जनस्यापि बुद्ध्या सन्निकृष्टस्य तदा परामर्शः ।
अपघातकश्च हेतुः शास्त्रप्रतिपाद्यो, नान्य इत्याशयः ॥
अत्र शङ्कते- ᳚दृष्टे साऽपार्था चेत्᳚ इति।
अयमर्थः । अस्तु तर्हि दुःखत्रयं, जिहासितं च तद् भवतु, भवतु
च तच्छक्यहानं, सहतां च शास्त्रगम्य उपायस्तदुच्छेत्तुम् ।
तथाप्यत्र प्रेक्षावतां जिज्ञासा न युक्ता, दृष्टस्यैवोपायस्य
तदुच्छेदकस्य सुकरस्य विद्यमानत्वात्, तच्छक्यहानम्, सहतां च
शास्रगम्य उपायस्तदुच्छेत्तुम् । तथाऽप्यत्र प्रेक्षावतां जिज्ञासा न
युक्ता, दृष्टस्यैवोपायस्य तदुच्छेदकस्य सुकरस्य विद्यमानत्वात् ।
तत्त्वज्ञानस्य तु अनेकजन्माभ्यासपरम्पराऽऽयाससाध्यतयाऽतिदुष्करत्वात्
।
तथा च लौकिकानामाभाणकः-
'अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् ॥
इष्टस्यार्थस्य संसिद्धौ कि विद्वान् यत्नमाचरेत्' ॥ इति ।
सन्ति चोपायाः शतशः शारीरदुःखप्रतीकारायेषत्करा
भिषजां वरैरुपदिष्टाः । मानसस्यापि सन्तापस्य प्रतीकाराय
मनोज्ञस्त्रीपानभोजनविलेपनवस्त्रालङ्कारादिविषयसम्प्राप्तिरुपायः
सुकरः । एवमाधिभौतिकस्यापि दुःखस्य
नीतिशास्त्राभ्यासकुशलतानिरत्ययस्थानाध्यासनादिः प्रतीकारहेतुरीषत्करः ।
तथाऽधिदैविकस्यापि मणिमन्त्रौषधाद्युपयोगः सुकरः प्रतीकारोपाय इति ॥
निराकरोति- ᳚न᳚ इति । कुतः ? ᳚एकान्तात्यन्ततोऽभावात्᳚ । एकान्तो -
दुःखनिवृत्तेरवश्यम्भावः, अत्यन्तो - निवृत्तस्य दुःखस्य
पुनरुत्पादः, तयोरेकान्तात्यन्तयोरभाव एकान्तात्यन्ततोऽभावः ।
षष्ठीस्थाने सार्वविभक्तिकस्तसिः ।
एतदुक्तं भवति यथाविधि
रसायनादिकामिनीनीतिशास्त्राभ्यासमन्त्राद्युपयोगेऽपि तस्य
तस्याध्यात्मिकादेर्दुःखस्य निवृत्तेरदर्शनाद् अनैकान्तिकत्वम्,
निवृत्तस्यापि पुनरुत्पत्तिदर्शनाद् अनात्यन्तिकत्वम्, इति सुकरोऽपि
ऐकान्तिकात्यन्तिकदुःखनिवृत्तेर्न दृष्ट उपाय इति नापार्था
जिज्ञासेत्यर्थः ॥
यद्यपि दुःखममङ्गलम्, तथापि तत्परिहारार्थत्वेन तदपघातो
मङ्गलमेवेति युक्तं शास्त्रादौ तत्कीर्तनमिति ॥ १॥
कारिका २
स्यादेतत् । मा भूद् दृष्ट उपायः, वैदिकस्तु ज्योतिष्टोमादिः
सहस्रसंवत्सरपर्यन्तः कर्मकलापस्तापत्रयमेकान्तमत्यन्तञ्चापनेष्यति ।
श्रुतिश्च- ᳚स्वर्गकामो यजेत᳚ इति । स्वर्गश्च-
᳚यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् ।
अभिलाषोपनीतं च तत् सुखं स्वःपदास्पदम् ॥ इति ।
(तन्त्रवार्तिकम्)
दुःखविरोधी सुखविशेषश्च स्वर्गः । स च
स्वसत्तया समूलघातमपहन्ति दुःखम् । न चैष
क्षयी । तथा हि श्रूयते- 'अपाम सोमममृता अभूम᳚
इति । तत्क्षये कुतोऽस्यामृतत्वसम्भवः ? तस्माद्वैदिकस्योपायस्य
तापत्रयप्रतीकारहेतोर्मुहूर्तयामाहोरात्रमाससंवत्सरनिर्वर्तनीयस्यानेकजन्मपरम्परायाससम्पादनीयात्
विवेकज्ञानाद् ईषत्करत्वात् पुनरपि व्यर्था जिज्ञासा इत्याशङ्क्याह-
॥ दृष्टवदानुश्रविकः, स ह्यविशुद्धिक्षयातिशययुक्तः ।
तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् ॥ २ ॥ ॥
᳚दृष्ट᳚ इति । गुरुपाठादनुश्रूयते इत्यनुश्रवो वेदः । एतदुक्तं भवति-
'श्रूयत एव परं न केनापि क्रियते' इति । तत्र भव आनुश्रविकः ।
तत्र प्राप्तो ज्ञात इति यावत् । आनुश्रविकोऽपि कर्मकलापो दृष्टेन तुल्यो
वर्तते, ऐकान्तिकात्यन्तिकदुःखप्रतीकारानुपायत्वस्योभयत्रापि तुल्यत्वात् ।
यद्यपि च ᳚आनुश्रविकः᳚ इति सामान्याभिधानम्, तथापि कर्मकलापाभिप्रायं
द्रष्टव्यम्, विवेकज्ञानस्याप्यानुश्रविकत्वात् । तथा च श्रूयते-
᳚आत्मा वाऽरे ज्ञातव्यः प्रकृतितो विवेक्तव्यः᳚ (बृहदारण्यक २।४।५),
᳚न स पुनरावर्तते᳚ (छान्दोग्य ८।१५) इति ॥
अस्यां प्रतिज्ञायां हेतुमाह- ᳚स ह्यविशुद्धिक्षयातिशययुक्तः᳚ इति ।
᳚अविशुद्धिः᳚ सोमादियागस्य पशुबीजादिवधसाधनता । यथाऽऽह
स्म भगवान् पञ्चशिखाचार्यः- ᳚स्वल्पः सङ्करः सपरिहारः
सप्रत्यवमर्षः᳚ इति । 'स्वल्पः सङ्करो' ज्योतिष्टामादिजन्मनः
प्रधानापूर्वस्य स्वल्पेन पशुहिंसादिजन्मनाऽनर्थहेतुनाऽपूर्वेण सङ्करः ।
'सपरिहारः' कियताऽपि प्रायश्चित्तेन परिहर्तुं शक्यः ।
अथ च प्रमादतः प्रायश्चित्तमपि नाचरितम्, प्रधानकर्मविपाकसमये
स पच्यते । तथाऽपि यावदसावनर्थं सूते तावत् प्रत्यवमर्षेण
सहिष्णुतया सह वर्तत इति ᳚सप्रत्यवमर्षः᳚ । मृष्यन्ते हि
पुण्यसम्भारोपनीतस्वर्गसुधामहाहृदावगाहिनः कुशलाः पापमात्रोपसादितां
दुःखवह्निकणिकाम् ॥
न च- ᳚मा हिंस्यात् सर्वा भूतानि᳚ इति सामान्यशास्त्रं विशेषशास्त्रेण
᳚अग्नीषोमीयं पशुमालभेत᳚ इत्यनेन बाध्यते- इति युक्तम्, विरोधाभावात् ।
विरोधे हि बलीयसा दुर्बलो बाध्यते । न चेहास्ति कश्चिद्विरोधः,
भिन्नविषयत्वात् ।
तथा हि- ᳚न हिंस्याद्᳚ इति निषेधेन हिंसाया अनर्थहेतुभावो ज्ञाप्यते, न
त्वक्रत्वर्थत्वमपि, ᳚अग्नीषोमीयं पशुमालभेत᳚ इत्यनेन तु पशुहिंसायाः
क्रत्वर्थमुच्यते, नानर्थहेतुत्वाभावः, तथा सति वाक्यभेदप्रसङ्गात् ।
न चानर्थहेतुत्वक्रतूपकारकत्वयोः कश्चिद्विरोधोऽस्ति । हिंसा हि
पुरुषस्य दोषमावक्ष्यति, क्रतोश्चोपकरिष्यतीति ।
क्षयातिशयौ च फलगतावप्युपाये उपचरितौ । क्षयित्वं च स्वर्गादेः
'सत्त्वे सति कार्यत्वात्' अनुमितम् । ज्योतिष्टोमादयः स्वर्गमात्रस्य साधनम्,
वाजपेयादयस्तु स्वाराज्यस्येत्यतिशययुक्तत्वम् । परसम्पदुत्कर्षो हि
हीनसम्पदं पुरुषं दुःखाकरोति ॥
᳚अपाम सोमममृता अभूम᳚ इति चामृतत्वाभिधानम्
चिरस्थेमानमुपलक्षयति । यदाहुः-
᳚आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते᳚ इति ॥
अत एव च श्रुतिः-
᳚न कर्मणा न प्रजया धनेन त्यागेनैकेनामृतत्वमानशुः ।
परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति᳚ इति (महानारायण,
१०।५) ।
तथा ᳚कर्मणा मृत्युमृषयो निषेदुः प्रजावन्तो द्रविणमीहमानाः ।
तथा परे ऋषयो ये मनीषिणः परं कर्मभ्योऽमृतत्वमानशुः᳚ इति
च ॥
तदेतत् सर्वमभिप्रेत्याह- ᳚तद्विपरीतः श्रेयान्, व्यक्ताव्यक्तज्ञविज्ञानात्᳚
इति । तस्मात् - आनुश्रविकात् दुःखपघातकोपायात् सोमपानादेरविशुद्धाद्
अनित्यसातिशयफलात् विपरीतः विशुद्धः हिंसादिसङ्कराभावात्,
नित्यनिरतिशयफलः, असकृत् पुनरावृत्तिश्रुतेः । न च
कार्यत्वेनानित्यता फलस्य युक्ता, भावकार्यस्य तथात्वात्, दुःखप्रध्वंसस्य
तु कार्यस्यापि तद्वैपरीत्यात् । न च दुःखान्तरोत्पादः, कारणाप्रवृत्तौ
कार्यस्यानुत्पादात्, विवेकज्ञानोपजननपर्यन्तत्वाच्च कारणप्रवृत्तेः ।
एतच्चोपरिष्टादुपपादयिष्यते ॥
अक्षरार्थस्तु- तस्मात् - आनुश्रविकात् दुःखापघातकाद् हेतोः, विपरीतः -
सत्त्वपुरुषान्यताप्रत्ययः साक्षात्कारो दुःखापघातको हेतुः, अत एव श्रेयान् ।
आनुश्रविको हि वेदविहितत्वात् मात्रया दुःखापघातकत्वाच्च प्रशस्यः ।
सत्त्वपुरुषान्यताप्रत्ययोऽपि प्रशस्यः । तदनयोः प्रशस्ययोर्मध्ये
सत्त्वपुरुषान्यताप्रत्ययः श्रेयान् ॥
कुतः पुनरस्योत्पत्तिः ? इत्यत आह- ᳚व्यक्ताव्यक्तज्ञविज्ञानात्᳚ इति ।
व्यक्तं च अव्यक्तं च ज्ञश्च व्यक्ताव्यक्तज्ञाः, तेषां विज्ञानं
विवेकेन ज्ञानम्, व्यक्ताव्यक्तज्ञविज्ञानम् । व्यक्तज्ञानपूर्वकमव्यक्तस्य
तत्कारणस्य ज्ञानम् । तयोः पारार्थ्येनात्मा परो ज्ञायते, इति
ज्ञानक्रमेणाभिधानम् ।
एतदुक्तं भवति- श्रुतिस्मृतीतिहासपुराणेभ्यो व्यक्तादीन् विवेकेन श्रुत्वा,
शास्त्रयुक्त्या च व्यवस्थाप्य, दीर्घकालादरनैरन्तर्यसत्कारसेवितात्
भावनामयात् विज्ञानमिति । तथा च वक्ष्यति-
एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् ।
अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥ इति(कारिका
६४) ॥ २॥
कारिका ३
तदेवं प्रेक्षावदपेक्षितार्थत्वेन शास्त्रारम्भं समाधाय
शास्त्रमारभमाणः श्रोतृबुद्धिसमवधानाय तदर्थं संक्षेपतः
प्रतिजानीते-
॥ मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो, न प्रकृतिर्न विकृतिः पुरुषः ॥ ३ ॥ ॥
संक्षेपतो हि शास्त्रार्थस्य चतस्रो विधाः । कश्चिदर्थः प्रकृतिरेव,
कश्चिदर्थो विकृतिरेव, कश्चित्प्रकृतिविकृतिः, कश्चिदनुभयरूपः ।
तत्र का प्रकृतिः ? इत्युक्तम्- ᳚मूलप्रकृतिरविकृतिः᳚ इति ।
प्रकरोतीति प्रकृतिः प्रधानम्, सत्त्वरजस्तमसां साम्यावस्था, सा
अविकृतिः, प्रकृतिरेवेत्यर्थः । कुतः ? इत्युक्तम्, ᳚मूलेति᳚ मूलञ्चासौ
प्रकृतिश्चेति मूलप्रकृतिः । विश्वस्य कार्यसङ्घातस्य सा मूलम्, न
त्वस्या मूलान्तरमस्ति, अनवस्थाप्रसङ्गात् । न चानवस्थायां प्रमाणमस्तीति
भावः ॥
कतमाः पुनः प्रकृतिविकृतयः, कियत्यश्च ? इत्यत उक्तम्- ᳚महदाद्याः
प्रकृतिविकृतयः सप्त᳚ इति । प्रकृतयश्च विकृतयश्च ता इति
प्रकृतिविकृतयः सप्त ।
तथा हि- महत्तत्त्वमहङ्कारस्य प्रकृतिः, विकृतिश्च मूलप्रकृतेः ।
एवमहङ्कारतत्त्वं तन्मात्राणामिन्द्रियाणां च प्रकृतिः विकृतिश्च
महतः । एवं पञ्चतन्मात्राणि तत्त्वानि भूतानामाकाशादीनां प्रकृतयो
विकृतयश्चाहङ्कारस्य ॥
अथ का विकृतिरेव, कियती चेत्यत उक्तम्- ᳚षोडशकस्तु विकारः᳚
इति । षोडशसंख्यापरिमितो गणः षोडशकः । तुशब्दोऽवधारणे
भिन्नक्रमश्च । पञ्चमहाभूतानि एकादश इन्द्रियाणि चेति षोडशको गणो
विकार एव, न प्रकृतिरिति । यद्यपि च पृथिव्यादीनां गोघटवृक्षादयो
विकाराः, एवं तद्विकारभेदानां पयोबीजादीनां दध्यङ्कुरादयः, तथाऽपि
गवादयो बीजादयो वा न पृथिव्यादिभ्यस्तत्त्वान्तरम् । 'तत्त्वान्तरोपादानत्वं
च प्रकृतित्वम्' इहाभिप्रेतमिति न दोषः । सर्वेषां गोघटादीनां
स्थूलतेन्द्रियग्राह्यता च समेति न तत्त्वान्तरत्वम् ।
अनुभयरूपमुक्तं, तदाह - ᳚न प्रकृतिर्न विकृतिः पुरुषः᳚ इति ।
एतच्च सर्वमुपरिष्टादुपपादयिष्यते ॥ ३॥
कारिका ४
तमिममर्थं प्रामाणिकं कर्तुमभिमताः प्रमाणभेदा लक्षणीयाः । न च
सामान्यलक्षणमन्तरेण शक्यते विशेषलक्षणं कर्तुमिति प्रमाणसामान्यं
तावल्लक्षयति-
॥ दृष्टमनुमानमाप्तवचनं च, सर्वप्रमाणसिद्धत्वात् ।
त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥ ४ ॥ ॥
अत्र च 'प्रमाणम्' इति समाख्यया लक्ष्यपदम् । तन्निर्वचनं च
लक्षणम् । प्रमीयतेऽनेनेति निर्वचनात् प्रमां प्रति करणत्वमवगम्यते ।
असन्दिग्धाविपरीतानधिगतविषया चित्तवृत्तिः । बोधश्च
पौरुषेयः फलं प्रमा । तत्साधनं प्रमाणमिति । एतेन
संशयविपर्ययस्मृतिसाधनेष्वप्रमाणेष्वप्रसङ्गः ॥
संख्याविप्रतिपत्तिं निराकरोति- ᳚त्रिविधम्᳚ इति । तिस्रो विधा अस्य
प्रमाणसामान्यस्य तत् त्रिविधं, न न्यूनं, नाप्यधिकमित्यर्थः ।
विशेषलक्षणानन्तरं चैतदुपपादयिष्यामः ।
कतमाः पुनस्ता विधा ? इत्यत आह- ᳚दृष्टमनुमानमाप्तवचनं च᳚
इति । एतच्च लौकिकप्रमाणाभिप्रायम्, लोकव्युत्पादनार्थत्वाच्छास्त्रस्य,
तस्यैवात्राधिकारात् । आर्षं तु विज्ञानं योगिनामूर्ध्वस्रोतसां न
लोकव्युत्पादनायालमिति सदपि नाभिहितम्, अनधिकारात् ॥
स्यादेतत् - मा भून्न्यूनम्, अधिकं तु कस्मान्न भवति, सङ्गिरन्ते हि
प्रतिवादिन उपमानादीन्यपि प्रमाणानि, इत्यत आह- ᳚सर्वप्रमाणसिद्धत्वात्᳚
इति । एष्वेव दृष्टानुमानाप्तवचनेषु सर्वेषां प्रमाणानां सिद्धत्वात्-
अन्तर्भावादित्यर्थः । एतच्चोपपादयिष्यत इत्युक्तम् ।
अथ प्रमेयव्युत्पादनाय प्रवृत्तं शास्त्रं कस्मात् प्रमाणं सामान्यतो
विशेषतश्च लक्षयति ? इत्यत आह- ᳚प्रमेयसिद्धिः प्रमाणाद्धि᳚ इति ।
सिद्धिः प्रतीतिः ।
सेयमार्याऽर्थक्रमानुरोधेन पाठक्रममनादृत्यैव व्याख्याता ॥ ४॥
कारिका ५
सम्प्रति प्रमाणविशेषलक्षणावसरे प्रत्यक्षस्य प्रमाणेषु ज्येष्ठत्वात्
तदधीनत्वाच्चानुमानादीनां, सर्ववादिनामविप्रतिपत्तेश्च, तदेव
तावल्लक्षयति-
॥ प्रतिविषयाध्यवसायो दृष्टं, त्रिविधमनुमानमाख्यातम् ।
तल्लिङ्गलिङ्गिपूर्वकमाप्तश्रुतिराप्तवचनं तु ॥ ५ ॥ ॥
᳚प्रतिविषयाध्यवसायो दृष्टम्᳚ इति । अत्र ᳚दृष्टम्᳚ इति
लक्ष्यनिर्देशः, परिशिष्टं तु लक्षणम् । समानासमानजातीयव्यवच्छेदो
लक्षणार्थः ॥
अवयवार्थस्तु- विसिन्वन्ति विषयिणमनुबध्नन्ति स्वेन रूपेण
निरूपणीयं कुर्वन्तीति यावत् । ᳚विषयाः᳚ पृथिव्यादयः सुखादयश्च,
अस्मदादीनामविषयाः तन्मात्रलक्षणाः योगिनामूर्ध्वस्रोतसां च विषयाः,
विषयं विषयं प्रति वर्तत इति प्रतिविषयम् । वृत्तिश्च सन्निकर्षः ।
अर्थसन्निकृष्टमिन्द्रियमित्यर्थः । तस्मिन् अध्यवसायः, तदाश्रित
इत्यर्थः । अध्यवसायश्च बुद्धिव्यापारो ज्ञानम्, उपात्तविषयाणामिन्द्रियाणां
वृत्तौ सत्यां बुद्धेस्तमोऽभिभवे सति यः सत्त्वसमुद्रेकः,
सोऽध्यवसाय इति वृत्तिरिति ज्ञानमिति चाख्यायते । इदं तत् प्रमाणम् ।
अनेन यश्चेतनाशक्तेरनुग्रहस्तत्फलं, प्रमा बोधः ।
बुद्धितत्त्वं हि प्राकृतत्वादचेतनमिति तदीयोऽध्यवसायोऽप्यचेतनः
घटादिवत् । एवं बुद्धितत्त्वस्य सुखादयोऽपि परिणामभेदा अचेतनाः ।
पुरुषस्तु सुखाद्यननुषङ्गी चेतनः । सोऽयं बुद्धितत्त्ववर्तिना
ज्ञानसुखादिना तत्प्रतिबिम्बितस्तच्छायापत्त्या ज्ञानसुखादिमानिव
भवतीति चेतनोऽनुगृह्यते । चितिच्छायापत्त्या चाचेतनाऽपि
बुद्धिस्तदध्यवसायोऽप्यचेतनश्चेतनवद् भवतीति । तथा च वक्ष्यति-
तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।
गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः ॥ (का० २१) इति ।
अत्राध्यवसायग्रहणेन संशयं व्यवच्छिनत्ति,
संशयस्यानवस्थितग्रहणेनानिश्चितरूपत्वात् । निश्चयोऽध्यवसाय
इति चानर्थान्तरम् । विषयग्रहणेन चासद्विषयं विपर्ययमपाकरोति ।
प्रतिग्रहणेन चेन्द्रियार्थसन्निकर्षसूचनादनुमानस्मृत्यादयः पराकृता
भवन्ति ।
तदेवं समानासमानजातीयव्यवच्छेदकत्वात् ᳚प्रतिविषयाध्यवसायः᳚ इति
दृष्टस्य सम्पूर्णं लक्षणम् । तन्त्रान्तरेषु लक्षणान्तराणि तैर्थिकानां
न दूषितानि, विस्तरभयादिति ।
'नानुमानं प्रमाणम्'इति वदता लोकायतिकेनाप्रतिपन्नः सन्दिग्धो विपर्यस्तो वा
पुरुषः कथं प्रतिपद्येत ? न च पुरुषान्तरगता अज्ञानसन्देहविपर्ययाः
शक्या अर्वाग्दृशा प्रत्यक्षेण प्रतिपत्तुम् । नापि प्रमाणान्तरेण,
अनभ्युपगमात् । अनवधृताज्ञानसंशयविपर्ययस्तु यं कञ्चन पुरुषं
प्रति वर्तमानोऽनवधेयवचनतया प्रेक्षावद्भिरुन्मत्तवदुपेक्ष्येत ।
तदनेनाज्ञानादयः परपुरुषवर्तिनोऽभिप्रायभेदाद्वचनभेदाद् वा
लिङ्गादनुमातव्याः, इत्यकामेनाप्यनुमानं प्रमाणमभ्युपेयम् ।
तत्र प्रत्यक्षकार्यत्वादनुमानं प्रत्यक्षानन्तरं लक्षणीयम् ।
तत्रापि सामान्यलक्षणपूर्वकत्वाद्विशेषलक्षणस्येत्यनुमानसामान्यं
तावल्लक्षयति- ᳚तल्लिङ्गलिङ्गिपूर्वकम्᳚ इति । लिङ्गं व्याप्यं, लिङ्गि
व्यापकम् । शङ्कितसमारोपितोपाधिनिराकरणेन च वस्तुस्वभावप्रतिबद्धं
व्याप्यम्, येन च प्रतिबद्धं, तद्व्यापकम् । लिङ्गलिङ्गिग्रहणेन
च विषयवाचिना विषयिणं प्रत्ययमुपलक्षयति । 'धूमादिर्व्याप्यो
वह्न्यादिर्व्यापकः' इति यः प्रत्ययस्तत्पूर्वकम् । लिङ्गिग्रहणं चावर्तनीयम् ।
तेन च लिङ्गमस्यास्तीति पक्षधर्मताज्ञानमपि दर्शितं भवति । तत्
'व्याप्यव्यापकभावपक्षधर्मताज्ञानपूर्वकमनुमानम्'इति- अनुमानसामान्यं
लक्षितम् ।
अनुमानविशेषान् तन्त्रान्तरलक्षितान् अभिमतान् स्मारयति-
᳚त्रिविधमनुमानमाख्यातम्᳚ इति, तत् सामान्यतो लक्षितमनुमानं
विशेषतस्त्रिविधं, पूर्ववत्, शेषवत्, सामान्यतो दृष्टञ्चेति ।
तत्र प्रथमं तावत् द्विविधं- वीतमवीतं च । अन्वयमुखेन प्रवर्तमानं
विधायकं वीतम्, व्यतिरेकमुखेन प्रवर्तमानं निषेधकमवीतम् ।
तत्रावीतं शेषवत् । शिष्यते परिशिष्या इति शेषः, स एव विषयतया
यस्यास्त्यनुमानज्ञानस्य तच्छेषवत् । यदाहुः- 'प्रसक्तप्रतिषेधे,
अन्यत्राप्रसङ्गात् शिष्यमाणे सम्प्रत्ययः परिशेषः' इति (न्यायभाष्यम्) ।
अस्य चावीतस्य व्यतिरेकिण उदाहरणमग्रेऽभिधास्यते ।
वीतं च द्वेधा- पूर्ववत्, सामान्यतो दृष्टं च । तत्रैकं
दृष्टस्वलक्षणसामान्यविषयं यत् तत्पूर्ववत्, पूर्वं प्रसिद्धं
दृष्टस्वलक्षणसामान्यमिति यावत्, तदस्य विषयत्वेनास्त्यनुमानस्येति
पूर्ववत् । यथा धूमात् वह्नित्वसामान्यविशेषः पर्वतेऽनुमीयते, तस्य
वह्नित्वसामान्यविशेषस्य स्वलक्षणं वह्निविशेषो दृष्टो रसवत्थाम् ।
अपरं च वीतं सामान्यतो दृष्टम्- अदृष्टस्वलक्षणसामान्यविषयम् ।
यथेन्द्रियविषयमनुमानम् । अत्र हि रूपादिविज्ञानानां क्रियात्वेन
करणवत्त्वमनुमीयते । यद्यपि करणत्वसामान्यस्य छिदादौ
वास्यादि स्वलक्षणमुपलब्धम्, तथाऽपि यज्जातीयं रूपादिज्ञाने
करणवत्त्वमनुमीयते तज्जातीयस्य करणस्य न दृष्टं स्वलक्षणं
प्रत्यक्षेण । इन्द्रियजातीयं हि तत्करणम्, नचेन्द्रियत्वसामान्यस्य
स्वलक्षणमिन्द्रियविशेषः प्रत्यक्षगोचरोऽर्वाग्दृशाम्, यथा
वह्नित्वसामान्यस्य स्वलक्षणं वह्निः । सोऽयं पूर्ववतः सामान्यतोदृष्टात्
सत्यपि वीतत्वेन तुल्यत्वे विशेषः । अत्र च दृष्टं दर्शनम्,
सामान्यत इति सामान्यस्य, सार्वविभक्तिकस्तसिः । अदृष्टस्वलक्षणस्य
सामान्यविशेषस्य दर्शनं सामान्यतोदृष्टमनुमानमित्यर्थः ।
सर्वं चैतदस्माभिर्न्यायवार्तिकतात्पर्यटीकायां व्युत्पादितमिति नेहोक्तं
विस्तरभयात् ।
प्रयोजकवृद्धशब्दश्रवणसमनन्तरं
प्रयोज्यवृद्धप्रवृत्तिहेतुज्ञानानुमानपूर्वकत्वाच्छब्दार्थसम्बन्धग्रहणस्य,
स्वार्थसम्बन्धज्ञानसहकारिणश्च
शब्दस्यार्थप्रत्यायकत्वादनुमानपूर्वकत्वमित्यनुमानान्तरं
शब्दं लक्षयति- ᳚आप्तश्रुतिराप्तवचनं तु᳚ इति । आप्तवचनमिति
लक्ष्यनिर्देशः, परिशिष्टं लक्षणम् । आप्ता प्राप्ता युक्तेति यावत् । आप्ता
चासौ श्रुतिश्चेति आप्तश्रुतिः । श्रुतिः- वाक्यजनितं वाक्यार्थज्ञानम् ।
तच्च स्वतःप्रमाणम् । अपौरुषेयवेदवाक्यजनितत्वेन
सकलदोषाशङ्काविनिर्मुक्तेर्युक्तं भवति । एवं
वेदमूलस्मृतीतिहासपुराणवाक्यजनितमपि ज्ञानं युक्तं भवति ।
आदिविदुषश्च कपिलस्य कल्पादौ कल्पान्तराधीतश्रुतिविस्मरणसम्भवः,
सुप्तप्रबुद्धस्येव पूर्वेद्युरवगतानामर्थानामपरेद्युः ।
तथा च आवट्यजैगीषव्यसंवादे भगवान् जैगीषव्यो
दशमहाकल्पवर्तिजन्मस्मरणमात्मन उवाच ᳚ दशसु महाकल्पेषु
विपरिवर्तमानेन मया᳚ इत्यादिना ग्रन्थसन्दर्भेण ।
आप्तग्रहणेनायुक्ताः शाक्यभिक्षुनिर्ग्रन्थकसंसारमोचकादिनामागमाभासाः
परिहृता भवन्ति । अयुक्तत्वं चैतेषां विगानात् विच्छिन्नमूलत्वात्
प्रमाणविरुद्धार्थाभिधानाच्च, कैश्चिदेव म्लेच्छादिभिः पुरुषापसदैः
पशुप्रायैः परिग्रहाद्बोद्धव्यम् ।
तुशब्देनानुमानाद्व्यवच्छिनत्ति । वाक्यार्थो हि प्रमेयः, न
तु तद्धर्मो वाक्यम्, येन तत्र लिङ्गं भवेत् । न च वाक्यं
वाक्यार्थं बोधयत् सम्बन्धग्रहणमपेक्षते, अभिनवकविरचितस्य
वाक्यस्यादृष्टपूर्वस्याननुभूतचरवाक्यार्थबोधकत्वादिति ।
एवं प्रमाणसामान्यलक्षणेषु तद्विशेषलक्षणेषु च सत्सु, यानि
प्रमाणान्तराण्युपमानादीनि प्रतिवादिभिरभ्युपेयन्ते तान्युक्तलक्षणेष्वेव
प्रमाणेष्वन्तर्भवन्ति ।
तथा हि - उपमानं तावत् 'यथा गौस्तथा गवयः' इति वाक्यम् । तज्जनिता
धीरागम एव । योऽप्ययं 'गवयशब्दो गोसदृशस्य वाचकः' इति
प्रत्ययः, सोऽप्यनुमानमेव । यो हि शब्दो यत्र वृद्धैः प्रयुज्यते,
सोऽसति वृत्त्यन्तरे, तस्य वाचकः, यथा गोशब्दो गोत्वस्य ।
प्रयुज्यते चैवं गवयशब्दो गोसदृशे, इति तस्यैव वाचक
इति तत् ज्ञानमनुमानमेव । यत्तु गवयस्य चक्षुःसन्निकृष्टस्य
गोसादृश्यज्ञानं तत् प्रत्यक्षमेव । अत एव स्मर्यमाणायां गवि
गवयसादृश्यज्ञानं प्रत्यक्षम् । न त्वन्यद्गवि सादृश्यम् ।
अन्यच्च गवये । भूयोऽवयवसामान्ययोगो हि जात्यन्तरवर्ती जात्यन्तरे
सादृश्यमुच्यते । सामान्ययोगश्चैकः । स चेद्गवये प्रत्यक्षः,
गव्यपि तथेति नोपमानस्य प्रमेयान्तरमस्ति, यत्र प्रमाणान्तरमुपमानं
भवेत्, इति न प्रमाणान्तरमुपमानम् ।
एवमर्थापत्तिरपि न प्रमाणान्तरम् ।
तथा हि- जीवतश्चैत्रस्य गृहाभावदर्शनेन बहिर्भावस्यादृष्टस्य
कल्पनमर्थापत्तिरभिमता वृद्धानाम् । साऽप्यनुमानमेव । यदा
खल्वव्यापकः सन्नेकत्र नास्ति तदाऽन्यन्नास्ति । यदाऽव्यापक एकत्रास्ति
तदाऽन्यत्र नास्ति, इति सुकरः स्वशरीरे व्याप्तिग्रहः । तथा च
सतो गृहाभावदर्शनेन लिङ्गेन बहिर्भावदर्शनमनुमानमेव ।
न च चैत्रस्य क्वचित्सत्त्वेन गृहाभावः शक्योऽपह्नोतुम्,
येनासिद्धो गृहाभावो बहिर्भावे न हेतुः स्यात् । न च गृहाभावेन वा
सत्त्वमपह्नूयते, येन सत्त्वमेवानुपपद्यमानमात्मानं न बहिरवस्थापयेत् ।
तथा हि- चैत्रस्य गृहासत्त्वेन सत्त्वमात्रं विरुध्यते, गृहसत्त्वं
वा ? न तावद्यत्र क्वचन सत्त्वस्यास्ति विरोधो गृहासत्त्वेन,
भिन्नविषयत्वात् । देशसामान्येन गृहविशेषाक्षेपिऽपि पाक्षिक इति
सामान्यविषयतया विरोध इति चेत्, प्रमाणविनिश्चितस्य गृहेऽसत्त्वस्य
पाक्षिकतया सांशयिकेन गृहसत्त्वेन प्रतिक्षपायोगात् । नापि
प्रमाणनिश्चितो गृहाभावः पाक्षिकमस्य गृहसत्त्वं प्रतिक्षिपन्
सत्त्वमपि प्रतिक्षेप्तुं सांशयिकत्वं च व्यपनेतुर्महतीति युक्तम् ।
गृहावच्छिन्नेन चैत्राभावेन गृहसत्त्वं विरुद्ध्यते, न तु
सत्त्वमात्रम्, तस्य तत्रौदासीन्यात् । तस्माद्गृहाभावेन लिङ्गेन सिद्धेन
सतो बहिर्भावोऽनुमीयत इति युक्तम् ।
एतेन- 'विरुद्धयोः
प्रमाणयोर्विषयव्यवस्थयाऽविरोधापादनमर्थापत्तेर्विषयः'
इति निरस्तम्, अवच्छिन्नानवच्छिन्नयोर्विरोधाभावात् ।
उदाहरणान्तराणि चार्थापत्तेरेवमेवानुमानेऽन्तर्भावनीयानि ।
तस्मान्नानुमानात्प्रमाणान्तरमर्थापत्तिरिति सिद्धम् ।
एवमभावोऽपि प्रत्यक्षमेव । न हि भूतलस्य परिणामविशेषात्
कैवल्यलक्षणादन्यो घटाभावो नाम । प्रतिक्षणपरिणामिनो हि सर्वे
एव भावाः, ऋते चितिशक्तेः । स च परिणामभेद ऐन्द्रियक इति नास्ति
प्रत्यक्षानवरुद्धो विषयो यत्राऽभावाह्वयं प्रमाणान्तरमभ्युपेयेतेति ।
सम्भवस्तु, यथा खार्यां द्रोणाढकप्रस्त्याद्यवगमः । स चानुमानमेव ।
खारीत्वं हि द्रोणाद्यविनाभूतं प्रतीतं खार्यां द्रोणादिसत्त्वमवगमयति ।
यच्चानिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्यमात्रम्- 'इति होचुर्वृद्धाः'
इत्यैतिह्यम् । यथा 'इह वटे यक्षः प्रतिवसति' इति, न तत् प्रमाणान्तरम् ।
अनिर्दिष्टप्रवक्तृकत्वेन सांशयिकत्वात् । आप्तवक्तृकत्वनिश्चये
त्वागम एव, इत्युपपन्नं ᳚त्रिविधम्प्रमाणम्᳚ इति ।
कारिका ६
एवं तावद्व्यक्ताव्यक्तज्ञलक्षणप्रमेयसिद्ध्यर्थं प्रमाणानि लक्षितानि ।
तत्र व्यक्तं पृथिव्यादि स्वरूपतः पांसुलपादो हालिकोऽपि प्रत्यक्षतः
प्रतिपद्यते, पूर्ववता चानुमानेन धूमादिदर्शनात् वह्न्यादीनि चेति,
तद्व्युत्पादनाय मन्दप्रयोजनं शास्त्रमिति दुरधिगममनेन व्युत्पाद्यम् ।
तत्र यत् प्रमाणं यत्र शक्तं तदुक्तलक्षणेभ्यः प्रमाणेभ्यो निष्कृष्य
दर्शयति -
॥ सामान्यतस्तु दृष्टात् अतीन्द्रियाणां प्रतीतिरनुमानात् ।
तस्मादपि चासिद्धम् परोक्षाप्तागमात् सिद्धम् ॥ ६ ॥ ॥
᳚सामान्यतः᳚ इति । तुशब्दः प्रत्यक्षपूर्ववद्भ्यां विशिनष्टि ।
सामान्यतोदृष्टादनुमानादतीन्द्रियाणां प्रधानपुरुषादीनां प्रतीतिः
- चितिच्छायापत्तिर्बुद्धेरध्यवसाय इत्यर्थः । उपलक्षणं
चैतत्, शेषवत इत्यपि द्रष्टव्यम् । तत्किं सर्वेष्वतीन्द्रियेषु
सामान्यतोदृष्टमेव प्रवर्त्तते ? तथा च यत्र तन्नासि,
महदाद्यारम्भक्रमे स्वर्गापूर्वदेवतादौ च, तत्र तेषामभावः प्राप्त
इत्यत आह - ᳚तस्मादपि᳚ इति । तस्मादपीत्येतावतैव सिद्धे चकारेण
शेषवत् इत्यपि समुच्चितम् ॥
कारिका ७
स्यादेतत्, यथा गगनकुसुमकूर्मरोमशशविषाणाद्षु
प्रत्यक्षमप्रवर्तमानं तदभावमवगमयति, एवं प्रधानादिष्वपि ।
तत्कथं तेषां सामान्यतोदृष्टादिभ्यः सिद्धिरित्यत आह -
॥ अतिदूरात् सामीप्यात् इन्द्रियघातान्मनोऽनवस्थानात् ।
सौक्ष्म्याद्व्यवधानात् अभिभवात् समानाभिहाराच्च ॥ ७ ॥ ॥
᳚अतिदूरात्᳚ इति अनुपलब्धिरिति वक्ष्यमाणं सिंहावलोकनन्यायेनानुषञ्जनीयम् ।
यथा उत्पतन् वियति अतिदूरतया सन्नपि प्रत्यक्षेण नोपलभ्यते ।
सामीप्यादित्यत्राप्यतिरनुवर्तनीयः, यथा लोचनस्थमञ्जनमतिसामीप्यान्न
दृश्यते । इन्द्रियघातोऽन्धत्वबधिरत्वादिः । ᳚मनोऽवस्थानात्᳚ यथा
कामाद्युपहतमनाः स्फीतालोकमध्यवर्तिनमिन्द्रियसन्निकृष्टमर्थं न
पश्यति । ᳚सौक्ष्म्यात्᳚ यथेन्द्रियसन्निकृष्टं परमाण्वादि प्रणिहितमना अपि
न पश्यति । व्यवधानात्- यथा कुड्यादिव्यवहितं राजदारादिकं न पश्यति ।
अभिभवात्- यथाऽहनि सौराभिर्भाभिरभिभूतं ग्रहनक्षत्रमण्डलं
न पश्यति । समानाभिहारात् - यथा तोयदविमुक्तानुदबिन्दून् जलाशये न
पश्यति ।
चकारोऽनुक्तसमुच्चयार्थः । तेनानुद्भवोऽपि सङ्गृहीतः । तद्यथा
क्षीराद्यवस्थायां दध्याद्यनुद्भवान्न पश्यति ।
एतदुक्तं भवति न प्रत्यक्षनिवृत्तिमात्राद्वस्त्वभावो भवति,
अतिप्रसङ्गात् । तथा हि - गृहाद्विनिर्गतो गृहजनमपश्यंस्तदभावं
विनिश्चिनुयात्, न त्वेवम् । अपि तु योग्यप्रत्यक्षनिवृत्तेरयमभावं
विनिश्चिनोति । न च प्रधानपुरुषादीनामस्ति प्रत्यक्षयोग्यता, इति न
तन्निवृत्तिमात्रात्तदभावनिश्चयो युक्तः प्रामाणिकानामिति ।
कारिका ८
कतमत्पुनरेतेषु कारणं प्रधानादीनामनुपलब्धौ ? इत्यत आह -
॥ सौक्ष्म्यात्तदनुपलब्धिर्नाभावात्, कार्यतस्तदुपलब्धेः ।
महदादि तच्च कार्यं प्रकृतिसरूपं विरूपं च ॥ ८ ॥ ॥
᳚सौक्ष्म्यात्᳚ इति । अथाभावादेव सप्तमरसवदेतेषामनुपलब्धिः कस्मान्न
भवति? इत्यत आह - ᳚नाभावात्᳚ इति । कुतः ? ᳚कार्यतस्तदुपलब्धेः᳚,
'तत्' इति प्रधानं परामृशति । पुरुषोपलब्धौ तु प्रमाणं वक्ष्यति,
᳚सङ्घातपरार्थत्वात्᳚ -(का० १७) इति । दृढतरप्रमाणावधारिते
हि प्रत्यक्षमप्रवर्तमानमयोग्यत्वान्न प्रवर्तते इति कल्प्यते ।
सप्तमस्तु रसो न प्रमाणेनावधारित इति न तत्र प्रत्यक्षस्यायोग्यता
शक्याऽध्यवसातुमित्यभिप्रायः ।
किं पुनस्तत्कार्यं यतः प्रधानानुमानम् ? इत्यत आह - ᳚महदादि तच्च
कार्यम्᳚ इति । एतच्च यथा गमकं तथोपरिष्टादुपपादयिष्यते । तस्य
च कार्यस्य विवेकज्ञानोपयोगिनी सारूप्यवैरूप्ये आह - ᳚प्रकृतिसरूपं
विरूपं च᳚ इति । एते तूपरिष्टाद्विभजनीये इति ।
कारिका ९
कार्यात् कारणमात्रं गम्यते । सन्ति चात्र वादिनां विप्रतिपत्तयः । तथा
हि केचिदाहुः - 'असतः सत् जातते' इति, 'एकस्य सतो विवर्तः कार्यजातं
न वस्तुसत्' इत्यपरे, अन्ये तु 'सतः असत् जायते' इति, 'सतः सत् जायते'
इति वृद्धाः ।
तत्र पूर्वस्मिन् कल्पत्रये प्रधानं न सिद्ध्यति ।
सुखदुःखमोहभेदस्वरूपपरिणामशब्दाद्यात्मकं हि जगत्कारणस्य
प्रधानत्वं सत्त्वरजस्तमःस्वभावत्वमवगमयति ।
यदि पुनरसतः सज्जायेत असत् निरूपाख्यं कारणं सुखादिरूपशब्दाद्यात्मकं
कथं स्यात् ? सदसतोस्तादात्म्यानुपपत्तेः ।
अथैकरूपस्य सतो विवर्तः शब्दादिप्रपञ्चः, तथाऽपि सतः सज्जायत
इति न स्यात् । न चास्याद्वयस्य प्रपञ्चात्मकत्वम्, अपि त्वप्रपञ्चस्य
प्रपञ्चात्मकतया प्रतीतिर्भ्रम एव ।
येषामपि कणभक्षाक्षचरणादीनां सत एव कारणादसतो जन्म, तेषामपि
सदसतोरेकत्वानुपपत्तेर्न कार्यात्मकं कारणमिति न तन्मते प्रधानसिद्धिः ।
अतः प्रधानसिद्ध्यर्थं प्रथमं तावत्सत्कार्यं प्रतिजानीते ।
॥ असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात् कारणभावाच्च सत् कार्यम् ॥ ९ ॥ ॥
᳚असदकरणात्᳚ इति । ᳚सत् कार्यम्᳚ कारणव्यापारात् प्रागपीति शेषः । तथा
च न सिद्धसाधनं नैयायिकतनयैरुद्भावनीयम् ।
यद्यपि बीजमृत्पिण्डादिप्रध्वंसानन्तरमङ्कुरघटाद्युत्पत्तिरुपलभ्यते,
तथाऽपि न प्रध्वंसस्य कारणत्वम्, अपि तु भावस्यैव
बीजाद्यवयवस्य । अभावात्तु भावोत्पत्तौ तस्य सर्वत्र सुलभत्वात्
सर्वदा सर्वकार्योत्पादप्रसङ्ग इत्यादि न्यायवार्तिकतात्पर्यटीकायामस्माभिः
प्रतिपादितम् ।
प्रपञ्चप्रत्ययश्चासति बाधके न शक्यो मिथ्येति वदितुमिति
कणभक्षाक्षचारणमतमवशिष्यते ।
तत्रेदं प्रतिज्ञातम्, ᳚सत् कार्यम्᳚ इति । अत्र हेतुमाह ᳚असदकरणात्᳚ इति ।
असत् चेत् कारणव्यापारात् पूर्वं कार्यम्, नास्य सत्त्वं कर्तुं केनापि शक्यम् ।
न हि नीलं शिल्पिसहस्रेणापि पीतं कर्तुं शक्यते । 'सदसत्त्वे घटस्य
धर्मौ' इति चेत्, तथापि असति धर्मिणि न तस्य धर्म इति सत्त्वं
तदवस्थमेव, तथा च नात्त्वम् । असम्बद्धेनातदात्मना चासत्त्वेन
कथमसन् घटः? तस्मात् कारणव्यापारादूर्ध्वमिव ततः प्रागपि सदेव
कार्यमिति ।
कारणाच्चास्य सतोऽभिव्यक्तिरेवावशिष्यते । सतश्चाभिव्यक्तिरुपपन्ना ।
यथा पीडनेन तिलेषु तैलरूप, अवघातेन धान्येषु तण्डुलानाम्, दोहनेन
सौरभेयीषु पयसः । असतः करणे तु न निदर्शनं किञ्चिदस्ति ।
न खल्वभिव्यज्यमानं चोत्पद्यमानं वा क्वचिदसत् दृष्टम् ।
इतश्च कारणव्यापारात् प्राक् सदेव कार्यम्- ᳚उपादानग्रहणात्᳚, उपादानानि-
कारणानि, तेषां ग्रहणं - कार्येण सम्बन्धः । उपादानैः कार्यस्य
सम्बन्धादिति यावत् ।
एतदुक्तं भवति- कार्येण सम्बद्धं कारणं कार्यस्य जनकम्, सम्बन्धश्च
कार्यस्यासतो न सम्भवति, तस्मादिति ।
स्यादेतत् - असम्बद्धमेव कारणैः कार्यं कस्मान्न जन्यते ? तथा
चासदेवोत्पस्येत इत्यत आह - ᳚सर्वसम्बवाभावात्᳚ इति । असम्बद्धस्य
जन्यत्वे असम्बद्धत्वाविशेषेण सर्वं कार्यजातं सर्वस्माद्भवेत् । न
चैतदस्ति, तस्मान्नासम्बद्धमसम्बद्धेन जन्यते, अपि तु सम्बद्धं
सम्बद्धेन जन्यत इति । यथाऽऽहुः सांख्यवृद्धाः -
᳚असत्त्वे नास्ति सम्बन्धः कारणैः सत्त्वसङ्गिभिः ।
असम्बद्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिः-᳚ इति ।
स्यादेतत्- असम्बद्धमपि सत् तदेव करोति यत्र यत् कारणं शक्तं,
शक्तिश्च कार्यदर्शनादवगम्यते । तेन नाव्यवस्थेत्यत आह- ᳚शक्तस्य
शक्यकरणात्᳚ इति । सा शक्तिः शक्तकारणाश्रया, सर्वत्र वा स्यात्, शक्ये
एव वा ? सर्वत्र चेत्, तदवस्थैवाव्यवस्था । शक्ये चेत्, कथमसति
शक्ये तत्र ? इति वक्तव्यम् । शक्तिभेद एव एतादृशो यतः किञ्चिदेव
कार्यं जनयेत् न सर्वमिति चेत्, हन्त भोः ! शक्तिविशेषः कार्यसम्बद्धो
वाऽसम्बद्धो वा ? सम्बद्धत्वे नासता सम्बन्ध इति सत् कार्यम् । असम्बद्धत्वे
सैवाव्यवस्था, इति सुष्ठूक्तं ᳚शक्तस्य शक्यकरणात्᳚ इति ।
इतश्च सत् कार्यमित्याह - ᳚कारणभावाच्च᳚, कार्यस्य कारणात्मकत्वात् ।
न हि कारणाद्भिन्नं कार्यम्, कारणं च सदिति कथं तदभिन्नं
कार्यमसद्भवेत् ?
कार्यस्य कारणाभेदसाधनानि च प्रमाणानि -
(१) न पटस्तन्तुभ्यो भिद्यते, तन्तुधर्मात् । इह यद्यतो भिद्यते तत्
तस्य धर्मो न भवति, यथा गौरश्वस्य । धर्मश्च पटस्तन्तूनां,
तस्मान्नार्थान्तरम् ।
(२) उपादानोपादेयभावाच्च नार्थान्तरत्वं तन्तुपटयोः । ययोरर्थान्तरत्वं
न तयोरुपादानोपादेयभावः, यथा घटपटयोः । उपादानोपादेयभावश्च
तन्तुपटयोः । तस्मान्नार्थान्तरत्वम् ।
(३) इतश्च नार्थान्तरत्वं तन्तुपटयोः, संयोगाप्राप्त्यभावात् । अर्थान्तरत्वे
हि संयोगो दृष्टो यथा कुण्डबदरयोः, अप्राप्तिर्वा यथा हिमवद्विन्ध्ययोः ।
न चेह संयोगाप्राप्ती, तस्मान्नार्थान्तरत्वमिति ।
(४) इतश्च पटस्तन्तुभ्यो न भिद्यते, गुरुत्वान्तरकार्याग्रहणात् ।
इह यद्यस्माद्भिन्नम्, तस्मात् तस्य गुरुत्वान्तरं
कार्यं गृह्यते, यथैकपलिकस्य स्वस्तिकस्य यो
गुरुत्वकार्योऽवनतिविशेषस्तस्माद्द्विपलिकस्य स्वस्तिकस्य
गुरुत्वकार्योऽवनतिभेदोऽधिकः । न च तथा तन्तुगुरुत्वकार्यात्
पटगुरुत्वकार्यान्तरं दृश्यते । तस्मादभिन्नस्तन्तुभ्यः पट इति ।
तान्येतान्यभेदसाधनान्यवीतानि ।
एवमभेदे सिद्धे, तन्तव एव तेन संस्थानभेदेन परिणताः पटः, न
तन्तुभ्योऽर्थान्तरं पटः ।
स्वात्मनि क्रियानिरोधबुद्धिव्यपदेशार्थक्रियाभेदाश्च
नैकान्तिकं भेदं साधयितुमर्हन्ति । एकस्मिन्नपि
तत्तद्विशेषाविर्भावतिरोभावाभ्यामेतेषामविरोधात् । यथा हि कूर्मस्याङ्गानि
कूर्मशरीरे निविशमानानि तिरोभवन्ति, निःसरन्ति चाविर्भवन्ति, न तु
कूर्मतस्तदङ्गान्युत्पद्यन्ते प्रध्वंसन्ते वा । एवमेकस्या मृदः सुवर्णस्य
वा घटमुकुटादयो विशेषा निःसरन्त आविर्भवन्त उत्पद्यन्त इत्युच्यन्ते,
निविशमानास्तिरोभवन्ति विनश्यन्तीत्युच्यन्ते । न पुनरसतामुत्पादः सतां
वा निरोधः । यथाऽऽह भगवान् कृष्णद्वैपायनः -
᳚नासतो विद्यते भावो नाभावो विद्यते सतः ᳚ (गीता २-१६ इति) ।
यथा कूर्मः स्वावयवेभ्यः सङ्कोचविकासिभ्यो न भिन्नः, एवं
घटमुकुटादयोऽपि मृत्सुवर्णादिभ्यो न भिन्नाः ।
एवञ्च 'इह तन्तुषु पटः' इति व्यपदेशो यथा 'इह वने तिलकाः'
इत्युपपन्नः ।
न चार्थक्रियाभेदोऽपि भेदमापादयति, एकस्यापि नानार्थक्रियादर्शनात् ।
यथैक एव वह्निर्दाहकः पाचकः प्रकाशकश्चेति । नाप्यर्थक्रियाव्यवस्था
वस्तुभेदे हेतुः, तेषामेव समस्तव्यस्तानामर्थक्रियाव्यवस्थादर्शनात् ।
यथा प्रत्येकं विष्टयो वर्त्मदर्शनलक्षणामर्थक्रियां कुर्वन्ति, न
तु शिबिकावहनम्, मिलितास्तु शिबिकामुद्वहन्ति, एवं तन्तवः प्रत्येकं
प्रावरणमकुर्वाणा अपि मिलिता आविर्भूतपटभावाः प्रावरिष्यन्ति ।
स्यादेतत् - आविर्भावः पटस्य कारणव्यापारात् प्राक् सन् असन् वा ? असंश्चेत्
प्राप्तं तर्ह्यसदुत्पादनम् । अथ सन्, कृतं तर्हि कारणव्यापारेण ।
न हि सति कार्ये कारणव्यापारप्रयोजनं पश्यामः । आविर्भावे
चाविर्भावान्तरकल्पनेऽनवस्थाप्रसङ्गः । तस्मादाविर्भूतपटभावास्तन्तवः
क्रियन्त इति रिक्तं वचः ।
मैवम् । अथासदुत्पद्यत इति मते केयमसदुत्पत्तिः ? सती, असती वा ? सती
चेत्, कृतं तर्हि कारणैः । असती चेत्, तस्या अप्युत्पत्त्यन्तरमित्यनवस्था
।
अथ- उत्पत्तिः पटान्नार्थान्तरम्, अपि तु पट एवासौ, तथापि यावदुक्तं
भवति 'पटः' इति, तावदुक्तं भवति 'उत्पद्यते' इति । ततश्च 'पटः'
इत्युक्ते 'उत्पद्यते' इति न वाच्यम्, पौनरुक्त्यात्, 'विनश्यति' इत्यपि न
वाच्यम्, उत्पत्तिविनाशयोर्युगपदेकत्र विरोधात् ।
तस्मादियं पटोत्पत्तिः स्वकारणसमवायो वा, स्वसत्तासमवायो वा
? उभयथाऽपि नोत्पद्यते, अथ च तदर्थानि कारणानि व्यापार्यन्ते ।
एवं सत एव पटादेराविर्भावाय कारणापेक्षेत्युपपन्नम् ।
न च पटरूपेण कारणानां सम्बन्धः, तद्रूपस्याक्रियात्वात्,
क्रियासम्बन्धित्वाच्च कारकाणाम्, अन्यथा कारणत्वाभावात् ।
तस्मात् सत् कार्यमिति पुष्कलम् ।
कारिका १०
तदेवं प्रधानसाधनानुगुणं सत्कार्यमुपपाद्य यादृशं तत्
प्रधानं साधनीयं तादृशमादर्शयितुं विवेकज्ञानोपयोगिनी
व्यक्ताव्यक्तसारूप्यवैरूप्ये तावदाह -
॥ हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् ।
सावयवं परतन्त्रं व्यक्तं, विपरीतमव्यक्तम् ॥ १० ॥ ॥
᳚हेतुमत्᳚ इति । व्यक्तं हेतुमत्, हेतुः कारणम्, तद्वत्, यस्य च यो
हेतुस्तमुपरिष्टाद्वक्ष्यति ।
᳚अनित्यम्᳚ विनाशि, तिरोभावीति यावत् ।
᳚अव्यापि᳚ सर्वं परिणामिनं न व्याप्नोति । कारणेन हि कार्यमाविष्टम्, न
कार्येण कारणम् । न च बुद्ध्यादयः प्रधानं वेविषतीत्यव्यापकाः ।
᳚सक्रियम्᳚ परिस्पन्दवत् । तथा हि बुद्ध्यादयः उपात्तमुपात्तं देहं त्यजन्ति,
देहान्तरं चोपाददते, इति तेषां परिस्पन्दः । शरीरपृथिव्यादीनां च
परिस्पन्दः प्रसिद्ध एव ।
᳚अनेकम्᳚ प्रतिपुरुषं बुद्ध्यादीनां भेदात् । पृथिव्याद्यपि
शरीरघटादिभेदेनानेकमेव ।
᳚आश्रितम्᳚ स्वकारणमाश्रितम् । बुद्ध्यादिकार्याणामभेदेऽपि
कथञ्चिद्भेदविवक्षयाऽऽश्रयाश्रयिभावः, यथा 'इह वने तिलकाः'
इत्युक्तम् ।
᳚लिङ्गम्᳚ प्रधानस्य । यथा चैते बुद्ध्यादयः प्रधानस्य लिङ्गम्,
तथोपरिष्टाद्वक्ष्यति । प्रधानं तु न प्रधानस्य लिङ्गं पुरुषस्य
लिङ्गं भवदपीति भावः ।
᳚सावयवम्᳚ अवयनमवयवः, अवयवानामवयविनां मिथः संश्लेषो मिश्रणं
संयोग इति यावत् । अप्राप्तिपूर्विका प्राप्तिः संयोगः । तेन सह वर्तत इति
सावयवम् ।
तथा हि- पृथिव्यादयः परस्परं संयुज्यन्ते, एवमन्येऽपि, न तु
प्रधानस्य बुद्ध्यादिभिः संयोगः, तादात्म्यात् । नापि सत्त्वरजस्तमसां
परस्परं संयोगः, अप्राप्तेरभावात् ।
᳚परतन्त्रम्᳚ बुद्ध्यादि । बुद्ध्या स्वकार्येऽहङ्कारे जनयितव्ये
प्रकृत्यापूरोऽपेक्ष्यते, अन्यथा क्षीणा सती नालमहङ्कारं जनयितुमिति
स्थितिः । एवमहङ्कारादिभिरपि स्वकार्यजनने इति सर्वं स्वकार्येषु
प्रकृत्याऽऽपूरमपेक्षते । तेन परां प्रकृतिमपेक्षमाणं कारणमपि
स्वकार्यजनने परतन्त्रं व्यक्तम् ।
᳚विपरीतमव्यक्तम्᳚ व्यक्तात् । अहेतुमत्, नित्यं, व्यापि, निष्क्रियम्,
यद्यप्यव्यक्तस्यास्ति परिणामलक्षणा क्रिया, तथाऽपि परिस्पन्दो नास्ति ।
एकम्, अनाश्रितम्, अलिङ्गम्, अनवयवम्, स्वतन्त्रम्, अव्यक्तम् ।
कारिका ११
तदनेन प्रबन्धेन व्यक्ताव्यक्तयोर्वैधर्म्यमुक्तम् । सम्प्रति तयोः
साधर्म्यम्, पुरुषाच्च वैधर्म्यमाह -
॥ त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि ।
व्यक्तं तथा प्रधानम्, तद्विपरीतस्तथा च पुमान् ॥ ११ ॥ ॥
᳚त्रिगुणम्᳚ इति । त्रयो गुणाः सुखदुःखमोहा अस्येति त्रिगुणम् । तदनेन
सुखादीनामात्मगुणत्वं पराभिमतमपाकृतम् ।
᳚अविवेकि᳚ । यथा प्रधानं न स्वतो विविच्यते, एवम्महदादयोऽपि न
प्रधानाद्विविच्यन्ते, तदात्मकत्वात् । अथ वा सम्भूयकारिताऽत्राविवेकिता ।
न हि किञ्चिदेकं पर्याप्तं स्वकार्ये, अपि तु सम्भूय । तत्र नैकस्मात्
यस्य कस्यचित् केनचित्सम्भव इति ॥
ये त्वाहुः - 'विज्ञानमेव हर्षविषादमोहशब्दाद्यात्मकम्, न
पुनरितोऽन्यस्तद्धर्मा' इति- तान् प्रत्याह - ᳚विषय᳚ इति । 'विषयो'
ग्राह्यः, विज्ञानाद्बहिरिति यावत् ।
अत एव ᳚सामान्यम्᳚ साधारणम्, घटादिवत् । अनेकैः पुरुषैर्गृहीतमित्यर्थः ।
विज्ञानाकारत्वे तु असाधारण्याद्विज्ञानानां वृत्तिरूपाणां,
तेऽप्यसाधारणाः स्युः, विज्ञानं यथा परेण न गृह्यते,
परबुद्धेरप्रत्यक्षत्वादित्यभिप्रायः । तथा च नर्तकीभ्रूलताभङ्गे
एकस्मिन् बहूनां प्रतिसन्धानं युक्तम् । अन्यथा तन्न स्यादिति भावः ।
᳚अचेतनम्᳚ । सर्वे एव प्रधानबुद्ध्यादयोऽचेतनाः, न तु वैनाशिकवत् -
चैतन्यं बुद्धेरित्यर्थः ।
᳚प्रसवधर्मि᳚ - प्रसवरूपो धर्मो यः सोऽस्याऽस्तीति प्रसवधर्मि ।
प्रसवधर्मेति वक्तव्ये मत्वर्थीयः प्रसवधर्मस्य नित्ययोगमाख्यातुम् ।
सरूपविरूपपरिणामाभ्यां न कदाचिदपि वियुज्यते इत्यर्थः ।
व्यक्तवृत्तमव्यक्तेऽतिदिशति - ᳚तथा प्रधानम्᳚ इति । यथा व्यक्तं
तथाऽव्यक्तमित्यर्थः ।
ताभ्यां वैधर्म्यं पुरुषस्याह - ᳚तद्विपरीतः पुमान्᳚ इति ।
स्यादेतत्- अहेतुमत्त्वनित्यत्वादि प्रधानसाधर्म्यमस्ति पुरुषस्य,
एवमनेकत्वं व्यक्तसाधर्म्यम्, तत्कथमुच्यते 'तद्विपरीतः पुमान्' इति
? अत आह - ᳚तथा च᳚ इति । चकारोऽप्यर्थः । यद्यप्यहेतुमत्त्वादिकं
साधर्म्यम्, तथाऽप्यत्रैगुण्यादिवैपरीत्यमस्त्येवेत्यर्थः ।
कारिका १२
त्रिगुणमित्युक्तम्, तत्र के ते त्रयो गुणाः ? किं च तल्लक्षणम् ? इत्यत
आह -
॥ प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः ।
अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ॥ १२ ॥ ॥
᳚गुणाः᳚ इति परार्थाः । ᳚सत्त्वं लघु प्रकाशकम्᳚ इत्यत्र च सत्त्वादयः
क्रमेण निर्देक्ष्यन्ते । तदनागतावेक्षणेन तन्त्रयुक्त्या वा प्रीत्यादीनां
यथासङ्ख्यं वेदितव्यम् ।
एतदुक्तं भवति - प्रीतिः सुखम्, प्रीत्यात्मकः सत्त्वगुणः । अप्रीतिः दुःखम्,
अप्रीत्यात्मको रजोगुणः । विषादः मोहः, विषादात्मकस्तमोगुण इत्यर्थः ।
ये तु मन्यन्ते ᳚ न प्रीतिर्दुःखाभावादतिरिच्यते, एवं दुःखमपि न
प्रीत्यभावादन्यदिति, तान् प्रति ᳚आत्म᳚ग्रहणम् ।
नेतरेतराभावाः सुखादयः, अपि तु भावाः, आत्मशब्दस्य भाववचनत्वात्,
प्रीतिरात्माभावो येषां ते प्रीत्यात्मानः । एवमन्यदपि व्याख्येयम् ।
भावरूपता चैषामनुभवसिद्धा । परस्पराभावात्मकत्वे तु
परस्पराश्रयापत्तेरेकस्याप्यसिद्धेरुभयासिद्धिरिति भावः ।
स्वरूपमेषामुक्त्वा प्रयोजनमाह - ᳚प्रकाशप्रवृत्तिनियमार्थाः᳚ इति ।
अत्रापि यथासङ्ख्यमेव । रजः प्रवर्तकत्वात् सर्वत्र लघु सत्त्वं
प्रवर्तयेत्, यदि तमसा गुरुणा न नियम्येत, तमोनियतं तु क्वचिदेव
प्रवर्ततीति भवति तमो नियमार्थम् ।
प्रयोजनमुक्त्वा क्रियामाह- ᳚अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च᳚
इति । वृत्तिः - क्रिया, सा च प्रत्येकमभिसम्बध्यते ।
᳚अन्योन्याभिभववृत्तयः᳚ एषामन्यतमेनार्थवशादुद्भूतेनान्यदभिभूयते ।
तथा हि- सत्त्वं रजस्तमसी अभिभूय शान्तामात्मनो वृत्तिं प्रतिलभते,
एवं रजः सत्त्वतमसी अभिभूय घोराम्, एवं तमः सत्त्वरजसी अभिभूय
मूढामिति ।
᳚अन्योन्याश्रयवृत्तयः᳚ । यद्यप्याधाराधेयभावेन नायमर्थो घटते,
तथाऽपि यदपेक्षया यस्य क्रिया स तस्याश्रयः ।
तथा हि- सत्त्वं प्रवृत्तिनियमावाश्रित्य रजस्तमसोः प्रकाशेनोपकरोति,
रजः प्रकाशनियमावाश्रित्य प्रवृत्त्या इतरयोः, तमः प्रकाशप्रवृत्ती
आश्रित्य नियमेनेतरयोरिति ।
᳚अन्योन्यजननवृत्तयः᳚ । अन्यतमोऽन्यतमं जनयति । जननं च
परिणामः, स च गुणानां सदृशरूपः । अत एव न हेतुमत्त्वम्,
तत्त्वान्तरस्य हेतोरभावात् । नाप्यनित्यत्वम्, तत्त्वान्तरे लयाभावात् ।
᳚अन्योन्यमिथुनवृत्तयः᳚ । अन्योन्यसहचराः अविनाभाववृत्तय इति यावत् ।
᳚चः᳚ समुच्चये । भवति चात्रागमः -
᳚अन्योन्यमिथुनाः सर्वे सर्वे सर्वत्र गामिनः ।
रजसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः ॥
तमसश्चापि मिथुने ते सत्त्वरजसी उभे ।
उभयोः सत्त्वरजसोर्मिथुनं तम उच्यते ॥
नैषामादिः सम्प्रयोगो वियोगो वोपलभ्यते ᳚ इति (दे। भा। ३/८) ।
कारिका १३
᳚प्रकाशप्रवृत्तिनियमार्थाः᳚ इत्युक्तम्, तत्र के ते इत्थम्भूताः
कुतश्चेत्यत आह -
॥ सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः ।
गुरु वरणकमेव तमः, प्रदीपवच्चार्थतो वृत्तिः ॥ १३ ॥ ॥
᳚सत्त्वम्᳚ इति । सत्त्वमेव लघु प्रकाशकमिष्टं साङ्ख्याचार्यैः । तत्र
कार्योद्गमने हेतुर्धर्मो लाघवं गौरवप्रतिद्वन्द्वि, यतोऽग्नेरूर्ध्वज्वलनं
भवति । तदेव लाघवं कस्यचित्तिर्यग्गमने हेतुर्भवति, यथा वायोः ।
एवं करणानां वृत्तिपटुत्वहेतुर्लाघवम्, गुरुत्वे हि मन्दानि स्युरिति
सत्त्वस्य प्रकाशात्मकत्वमुक्तम् ।
सत्त्वतमसी स्वयमक्रियतया स्वकार्यप्रवृत्तिं प्रत्यवसीदन्ती
रजसोपष्टभ्येते- अवसादात् प्रच्याव्य स्वकार्ये उत्साहं प्रयत्नं कार्येते ।
तदिदमुक्तम्- ᳚उपष्टम्भकम्᳚ इति । कस्मादित्यत उक्तम् - ᳚चलम्᳚ इति ।
तदनेन रजसः प्रवृत्त्यर्थत्वं दर्शितम् ।
रजस्तु चलतया परितस्त्रैगुण्यं चालयत् गुरुणाऽऽवृण्वता च तमसा
तत्र तत्र प्रवृत्तिप्रतिबन्धकेन क्वचिदेव प्रवर्त्यत इति ततस्ततो
व्यावृत्त्या तमो नियामकमुक्तम्- ᳚गुरु वरणकमेव तमः᳚ इति । एवकारः
प्रत्येकं भिन्नक्रमः सम्बध्यते, सत्त्वमेव, रज एव, तम एवेति ।
ननु एते परस्परविरोधशीला गुणाः सुन्दोपसुन्दवत् परस्परं
ध्वंसन्त इत्येव युक्तं प्रागेव तेषामेकक्रियाकर्तृताया इत्यत
आह- ᳚प्रदीपवच्चार्थतो वृत्तिः᳚ इति । दृष्टमेतत्, यथा
वर्त्तितैलेऽनलविरोधिनी, अथ मिलिते सहानलेन रूपप्रकाशलक्षणं
कार्यं कुरुतः । यथा च वातपित्तश्लेष्माणः परस्परविरोधिनः
शरीरधारणलक्षणकार्यकारिणः । एवं सत्त्वरजस्तमांसि मिथो
विरुद्ध्यान्यप्यनुवर्त्स्यन्ति स्वकार्यं करिष्यन्ति च ।
᳚अर्थतः᳚ इति । पुरुषार्थत इति यावत्, यथा च वक्ष्यति-
᳚पुरुषार्थ एव हेतुर्न केनचित् कार्यते करणम्᳚ इति (का० ३१)
अत्र च सुखदुःखमोहाः परस्परविरोधिनः स्वस्वानुरूपाणि
सुखदुःखमोहात्मकान्येव निमित्तानि कल्पयन्ति । तेषां च
परस्परमभिभाव्याभिभावकभावान्नानात्वम् ।
तद्यथा - एकैव स्त्री रूपयौवनकुलशीलसम्पन्ना स्वामिनं सुखाकरोति ।
तत्कस्य हेतोः ? स्वामिनं प्रति तस्याः सुखरूपसमुद्भवात् । सैव स्त्री
सपत्नीर्दुःखाकरोति, तत् कस्य हेतोः ? ताः प्रति तस्या दुःखरूपसमुद्भवात् ।
एवं पुरुषान्तरं तामविन्दमानं सैव मोहयति, तत् कस्य हेतोः ? तत्
प्रति तस्या मोहरूपसमुद्भवात् । अनया च स्त्रिया सर्वे भावा व्याख्याताः ।
तत्र यत् सुखहेतुः तत् सुखात्मकं सत्त्वम्, यत् दुःखहेतुस्तत् दुःखात्मकं
रजः, यन्मोहहेतुस्तन्मोहात्मकं तमः । सुखप्रकाशलाघवानां त्वेकस्मिन्
युगपदुद्भूतावविरोधः, सहदर्शनात् । तस्मात् सुखदुःखमोहैरिव
विरोधिभिः अविरोधिभिरेकैकगुणवृत्तिभिः सुखप्रकाशलाघवैर्न
निमित्तभेदा उन्नीयन्ते । एवं दुःखोपष्टम्भकत्वप्रवर्तकत्वैः, एवं
मोहगुरुत्वावरणैः - इति सिद्धं त्रैगुण्यमिति ।
कारिका १४
स्यादेतत् - अनुभूयमानेषु पृथिव्यादिष्वनुभवसिद्धा
भवन्त्यविवेकित्वादयः । ये पुनः सत्त्वादयो नान्युभवपथमधिरोहन्ति,
तेषां कुतस्त्यमविवेकित्वं विषयत्वमचेतनत्वं प्रसवधर्मित्वं च
? इत्यत आह -
॥ अविवेक्यादेः सिद्धिस्त्रैगुण्यातद्विपर्ययाभावात् ।
कारणगुणात्मकत्वात्कार्यस्याव्यक्तमपि सिद्धम् ॥ १४ ॥ ॥
᳚अविवेक्यादेः᳚ इति । अविवेकित्वमविवेकि । यथा 'द्व्येकयोर्द्विवचनैकवचने'
(पा। सू। १।४।२२) इत्यत्र द्वित्वैकत्वयोरिति, अन्यथा द्व्येकेष्विति स्यात् ।
कुतः पुनरविवेकित्वादेः सिद्धिरित्यत्र आह - ᳚त्रैगुण्यात्᳚ इति । ᳚यद्यत्
सुखदुःखमोहात्मकं तत्तदविवेकित्वादियोगि, यथेदमनुभूयमानं व्यक्तम्᳚
इति स्फुटत्वादन्वयो नोक्तः ।
व्यतिरेकमाह - ᳚तद्विपर्ययाभावात्᳚ इति । अविवेक्यादिविपर्यये पुरुषे
त्रैगुण्याभावात् ।
अथ वा व्यक्ताव्यक्ते पक्षीकृत्यान्वयाभावेनावीत एव हेतुस्त्रैगुण्यादिति
वक्तव्यः ।
स्यादेतत् - अव्यक्तसिद्धौ सत्यां तस्याविवेकित्वादयो धर्माः सिध्यन्ति,
अव्यक्तमेव त्वद्यापि न सिध्यति, तत्कथमविवेकित्वादिसिद्धिरत आह-
᳚कारणगुणात्मकत्वात्᳚ इति ।
अयमभिसन्धिः- कार्यं हि कारणगुणात्मकं दृष्टम्, यथा
तन्त्वादिगुणात्मकं पटादि । तथा महदादिलक्षणेनापि कार्येण
सुखदुःखमोहरूपेण स्वकारणं सुखदुःखमोहात्मकं प्रधानमव्यक्तं
सिद्धं भवति ।
कारिका १५-१६
स्यादेतत् - 'व्यक्तात् व्यक्तमुत्पद्यते' इति कणभक्षाक्षचरणतनयाः ।
परमाणवो हि व्यक्ताः, तेभ्यो द्व्यणुकादिक्रमेण पृथिव्यादिलक्षणं
कार्यं व्यक्तमारभ्यते । पृथिव्यादिषु च कारणगुणक्रमेण
रूपाद्युत्पत्तिः । तस्मात् व्यक्तात् व्यक्तस्य तद्गुणस्य चोत्पत्तेः
कृतमदृष्टचरेणाव्यक्तेनेत्यत आह -
॥ भेदानां परिमाणात् समन्वयात् शक्तितः प्रवृत्तेश्च ।
कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥ १५ ॥ ॥
॥ कारणमस्त्यव्यक्तम्, प्रवर्तते त्रिगुणतः समुदयाच्च ।
परिणामतः सलिलवत् प्रतिप्रतिगुणाश्रयविशेषात् ॥ १६ ॥ ॥
᳚भेदानाम्᳚ इति । भेदानां - विशेषाणां महदादीनां
भूम्यन्तानां कार्याणां कारणं- मूलकारणमस्त्यव्यक्तम् । कुतः
? ᳚कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य᳚ । कारणे सत् कार्यमिति स्थितम् ।
तथा च यथा कूर्मशरीरे सन्त्येवाऽङ्गानि निःसरन्ति विभज्यन्ते-
'इदं कूर्मशरीरं, एतान्येतस्याङ्गानि'- इति । एवं निविशमानानि
तस्मिन् अव्यक्तीभवन्ति । एवं कारणामृत्पिण्डाद्धेमपिण्डाद्वा कार्याणि
घटमुकुटादीनि सन्त्येवाविर्भवन्ति विभज्यन्ते । सन्त्येव पृथिव्यादीनि
कारणात्तन्मात्रादाविर्भवन्ति विभज्यन्ते, सन्त्येव च तन्मात्राण्यहङ्कारात्
कारणात्, सन्त्येवाहङ्कारः कारणान्महतः, सन्नेव च महान् परमाव्यक्तात् ।
सोऽयं कारणात् परमाव्यक्तात् साक्षात् पारम्पर्येणान्वितस्य विश्वस्य कार्यस्य
विभागः ।
प्रतिसर्गे तु मृत्पिण्डं सुवर्णपिङ्गं वा घटमुकुटादयो
विशन्तोऽव्यक्तीभवन्ति । तत्कारणरूपमेवानभिव्यक्तं
कार्यमपेक्ष्याव्यक्तं भवति । एवं पृथिव्यादयस्तन्मात्राणि विशन्तः
स्वापेक्षया तन्मात्राण्यव्यक्तयन्ति । एवं तन्मात्राण्यहङ्कारं
विशन्त्यहङ्कारमव्यक्तयन्ति, एवमहङ्कारो महान्तमाविशन्
महान्तमव्यक्तयति, महान् प्रकृतिं स्वकारणं विशन् प्रकृतिमव्यक्तयति ।
प्रकृतेस्तु न क्वचिन्निवेश इति सा सर्वकार्याणामव्यक्तमेव ।
सोऽयमविभागः प्रकृतौ वैश्वरूप्यस्य - नानारूपस्य कार्यस्य,
स्वार्थिकः ष्यञ्, तस्मात् कारणे कार्यस्य सत एव विभागाविभागाभ्यामव्यक्तं
कारणमस्ति ।
इतश्चाव्यक्तमस्तीत्यत आह - ᳚शक्तितः प्रवृत्तेश्च᳚ इति ।
कारणशक्तितः कार्यं प्रवर्तत इति सिद्धम्, अशक्तात् कारणात्
कार्यस्यानुपपत्तेः, शक्तिश्च कारणगतो न कार्यस्याव्यक्तत्वादन्या । न हि
सत्कार्यपक्षे कार्यस्याव्याव्यक्तताया अन्यस्यां शक्तौ प्रमाणमस्ति, अयमेव हि
सिकताभ्यस्तिलानां तैलोपादानानां भेदो यदेतेष्वेवे तैलमस्त्यनागतावस्थं
न सिकतास्विति ।
स्यादेतत् - शक्तितः प्रवृत्तिः कारणकार्यविभागाविभागौ च महत एव
परमाव्यक्तत्वं साधयिष्यतः, कृतं ततः परेणाव्यक्तेनेत्यत आह -
᳚परिमाणात्᳚ इति । परिमितत्वात्, अव्यापित्वादिति यावत् । विवादाध्यासिता
महदादिभेदा अव्यक्तकारणवन्तः, परिमितत्वात्, घटादिवत् । घटादयो
हि परिमिताः मृदाद्यव्यक्तकारणका दृष्टाः । उक्तमेतद्यथा
कार्यस्याव्यक्तावस्था कारणमेवेति, यन्महतः कारणं यत् परमाव्यक्तम्,
ततः परतराव्यक्तकल्पनायां प्रमाणाभावात् ।
इतश्च विवादाध्यासिता भेदाः अव्यक्तकारणवन्तः, ᳚समन्वयात्᳚ ।
भिन्नानां समानरूपता समन्वयः । सुखदुःखमोहसमन्विता हि
बुद्ध्यादयोऽध्यवसायादिलक्षणाः प्रतीयन्ते । यानि च यद्रूपसमनुगतानि,
तानि तत्स्वभावाव्यक्तकारणानि, यथा मृद्धेमपिण्डसमनुगता घटमुकुटादयो
मृद्धेमपिण्डाव्यक्तकारणका इति कारणमस्त्यव्यक्तं भेदानामिति सिद्धम् ।
अव्यक्तं साधयित्वा अस्य प्रवृत्तिप्रकारमाह - ᳚प्रवर्तने त्रिगुणतः᳚ इति ।
प्रतिसर्गावस्थायां सत्त्वं रजस्तमश्च सदृशपरिणामानि भवन्ति ।
परिणामस्वभावा हि गुणा नापरिणम्य क्षणमप्यवतिष्ठन्ते । तस्मात् सत्त्वं
सत्त्वरूपतया, रजो रजोरूपतया, तमस्तमोरूपतया प्रतिसर्गावस्थायामपि
प्रवर्तते । तदिदमुक्तं - ᳚त्रिगुणतः᳚ इति ।
प्रवृत्त्यन्तरमाह - ᳚समुदयाच्च᳚ इति । समेत्य उदयः - 'समुदयः'
समवायः । समुदयश्च गुणानां न गुणप्रधानभावमन्तरेण
सम्भवति, न च गुणप्रधानभावो वैषम्यं विना, न
च वैषम्यमुपमर्द्योपमर्दकभावादृते, इति महदादिभावेन
प्रवृत्तिर्द्वितीया ।
स्यादेतत्- कथमेकरूपाणां गुणानामनेकरूपा
प्रवृत्तिरित्यत आह - ᳚परिणामतः सलिलवत्᳚ इति ।
यथा हि वारिदविमुक्तमुदकमेकरसमपि तत्त्द्भूविकारानासाद्य
नारिकेलतालतालीबिल्वचिरबिल्वतिन्दुकामलकप्राचीनामलककपित्थफलरसतया
परिणमन्मधुराम्ललवणतिक्तकषायकटुतया विकल्पते,
एवमेकैकगुणसमुद्भवात् प्रधानं गुणमाश्रित्याप्रधानगुणाः परिणामभेदान्
प्रवर्तयन्ति । तदिदमुक्तम्- ᳚प्रतिप्रतिगुणाश्रयविशेषात्᳚ ।
एकैकगुणाश्रयेण यो विशेषस्तस्मादित्यर्थः ।
कारिका १६
Encoded and proofread by Dhaval Patel drdhaval2785 at gmail.com