सप्तति रत्नमालिका
The six shlokas (Nos. 10, 59, 17, 65, 23, 55) are from the full
text of ᳚saptati ratnamAlA᳚
भाद्रपदमासगत विष्णुविमलर्क्षे
वेङ्कटमहीध्रपति तीर्थदिनभूते ।
प्रादुरभवज्जगति दैत्यरिपुघण्टा
हन्त कवितार्किकमृगेन्द्रगुरुमूर्त्या ॥ (श्लोकं - १०)
सशङ्खचक्रलाञ्छनः सदूर्ध्वपुण्ड्रमण्डितः
सकण्ठलग्नसत्तुलस्यनर्घ पद्ममालिकः ।
सितान्तरीय सूत्तरीय यज्ञसूत्रशोभितः
ममाविरस्तु मानसे गुरुः स वेङ्कटेश्वरः ॥ (श्लोकं - ५९)
अनन्तसूरिसूनवेऽभिनन्द्यमानवैभवाद्
दिगन्तवादिहंसजैत्रकालमेघदेशिकात् ।
उपात्त सर्वशासनाय हन्त वर्षविंशतौ
पुनःपुनर्नमस्क्रियाऽस्तु वेङ्कटेशसूरये ॥ (श्लोकं - १७)
कवितार्किककलभव्रजकबलीकृतिसिंहं
कमलापतिकसुणारसपरिवर्धितबोधम् ।
यतिनायकपदपङ्कजयुगलीपरतन्त्रं
भज मानस बुधवेङ्कटपतिदेशिकमनिशम् ॥ (श्लोकं - ६५)
कल्ये सततं करुणाजलर्धिं
करुणाविषयं कमलाधिपतेः ।
कलिवैरिशठारिवचोरसिकं
कवितार्किककेसरिसूरिगुरुम् ॥ (श्लोकं - २३)
गुरौ वादिहंसाम्बुदाचार्यशिष्ये
जना भक्तिहीना यतीन्द्राप्रियाः स्युः ।
यतीन्द्राप्रियाः विष्णुकारुण्यदूराः
कुतो मुक्तिवार्ता हि तादृग्विधानाम् ॥ (श्लोकं - ५५)
वेदे सञ्जातखेदे मुनिजनवचने प्राप्तनित्यावमाने
संकीर्णे सर्ववर्णे सति तदनुगुणे निष्प्रमाणे पुराणे ।
मायावादे समोदे कलिकलुषवशाच्छून्यवादेऽविवादे
धर्मत्राणाय योऽभूत् स जयति भगवान् विष्णु घण्टावतारः ॥
कवितार्किकसिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
वादिद्विपशिरोभङ्गपञ्चाननपराक्रमः ।
श्रीमान् वेङ्कटनाथार्यः चिरं विजयतां भुवि ॥
श्रीमते निगमान्तमहादेशिकञाय नमः ।
Encoded and proofread by Pallasena Narayanaswami ppnswami at gmail.com