सर्वसिद्धान्तसङ्ग्रहः

सर्वसिद्धान्तसङ्ग्रहः

अनुक्रमणिका १. उपोद्घातप्रकरणम् २. लोकायतिकपक्षप्रकरणं ३. आर्हतपक्षप्रकरणं ४.१ बौद्धपक्षे माध्यमिकमतं ४.२ बौद्धपक्षे योगाचारमतं ४.३ बौद्धपक्षे सौत्रान्तिकमतं ४.४ बौद्धपक्षे वैभाषिकमतं ५. वैशेषिकपक्षः ६. नैयायिकपक्षः ७. प्रभाकरपक्षः ८. भट्टाचार्यपक्षः ९. साङ्ख्यपक्षः १०. पतञ्जलिपक्षः ११. भारतपक्षः अथवा वेदव्यासपक्षः १२. वेदान्तपक्षः

१. उपोद्घातप्रकरणम्

वादिभिर्दर्शनैः सर्वैर्दृश्यते यत् त्वनेकधा । वेदान्तवेद्यं ब्रह्मेदमेकरूपमुपास्महे ॥ १॥ अङ्गोपाङ्गोपवेदाः स्युर्वेदस्यैवोपकारकाः । धर्मार्थकाममोक्षाणामाश्रयाः स्युश्चतुर्दश ॥ २॥ वेदाङ्गानि षडेतानि शिक्षा व्याकरणं तथा । निरुक्तं ज्योतिषं कल्पश्छन्दोविचितिरित्यपि ॥ ३॥ मीमांसा न्यायशास्त्रं च पुराणं स्मृतिरित्यपि । चत्वार्येतान्युपाङ्गानि बहिरङ्गानि तानि वै ॥ ४॥ आयुर्वेदोऽर्थवेदश्च धनुर्वेदस्तथैव च । गान्धर्ववेदश्चेत्येवमुपवेदाश्चतुर्विधाः ॥ ५॥ शिक्षा शिक्षयति व्यक्तं वेदोच्चारणलक्षणम् । वक्ति व्याकरणं तस्य संहितापदलक्षणम् ॥ ६॥ वक्ति तस्य निरुक्तं तु पदनिर्वचनं स्फुटम् । ज्योतिःशास्त्रं वदत्यत्र कालं वैदिककर्मणाम् ॥ ७॥ क्रमं कर्मप्रयोगाणां कल्पसूत्रं प्रभाषते । मात्राक्षराणां सङ्ख्योक्ता छन्दोविचितिभिस्तथा ॥ ८॥ मीमांसा सर्ववेदार्थप्रविचारपरायणा । न्यायशास्त्रं प्रमाणादिसर्वलक्षणतत्परम् ॥ ९॥ पुराणं नष्टशाखस्य वेदार्थस्योपबृंहणम् । कथारूपेण महतां पुरुषार्थप्रवर्तकम् ॥ १०॥ वर्णाश्रमानुरूपेण धर्माधर्मविभागतः । धर्मशास्त्रमनुष्ठेयधर्माणां तु नियामकम् ॥ ११॥ हेतुलिङ्गौषधस्कन्धैरायुरारोग्यदर्शकः । आयुर्वेदो ह्यनुष्ठेयः सर्वेषां तेन बोध्यते ॥ १२॥ अर्थवेदोन्नपानादिप्रदानसुखतत्परः । दक्षिणाज्यपुरोडाशचरुसम्पादनादिभिः ॥ १३॥ तत्पालनाच् चतुर्वर्गपुरुषार्थप्रसाधकः । धनुर्वेदो भवत्यत्र परिपन्थिनिरासकः ॥ १४॥ सप्तस्वरप्रयोगो हि सामगान्धर्ववेदयोः । समेतो लौकिको योगो वैदिकस्योपकारकः ॥ १५॥ अङ्गोपाङ्गोपवेदानां एवं वेदैकशेषता । चतुर्दशसु विद्यासु मीमांसैव गरीयसी ॥ १६॥ विंशत्यध्याययुक्ता सा प्रतिपाद्यार्थतो द्विधा । कर्मार्था पूर्वमीमांसा द्वादशाध्यायविस्तृता ॥ १७॥ अस्यां सूत्रं जैमिनीयं शावरं भाष्यमस्य तु । मीमांसावार्तिकं भाट्टं भट्टाचार्यकृतं हि तत् ॥ १८॥ तच्छिष्योप्यल्पभेदेन शवरस्य मतान्तरम् । प्रभाकरगुरुश्चक्रे तद्धि प्राभाकरं मतम् ॥ १९॥ भवत्युत्तरमीमांसा त्वष्टाध्यायी द्विधा च सा । देवताज्ञानकाण्डाभ्यां व्याससूत्रं द्वयोः समम् ॥ २०॥ पूर्वाध्यायचतुष्केण मन्त्रवाच्या च देवता । सङ्कर्षणोदिता तद्धि देवताकाङ्क्षमुच्यते ॥ २१॥ भाष्यं चतुर्भिरध्यायैर्भगवत्पादनिर्मितम् । चक्रे विवरणं तस्य तद्वेदान्तं प्रचक्षते ॥ २२॥ अक्षपादः कणादश्च कपिलो जैमिनिस्तथा । व्यासः पतञ्जलिश्चैते वैदिकाः सूत्रकारकाः ॥ २३॥ बृहस्पत्यार्हतौ बुद्धो वेदमार्गविरोधिनः । एतेष्व् अधिकृतान् वक्ष्ये सर्वे शास्त्रप्रवर्तकाः ॥ २४॥ वेदाप्रामाण्यसिद्धान्ता बौद्धलोकायतार्हताः । युक्त्या निरसनीयास्ते वेदप्रामाण्यवादिभिः ॥ २५॥ इति सर्वदर्शनसिद्धान्तसङ्ग्रहे प्रथमुपोद्घातप्रकरणम् ।

२. लोकायतिकपक्षप्रकरणं

लोकायतिकपक्षे तु तत्त्वं भूतचतुष्टयम् । पृथिव्यापस्तथा तेजो वायुरित्येव नापरम् ॥ १॥ प्रत्यक्षगम्यं एवास्ति नास्त्यदृष्टमदृष्टतः । अदृष्टवादिभिश्चापि नादृष्टं दृष्टमुच्यते ॥ २॥ क्वापि दृष्टमदृष्टं चेददृष्टं ब्रुवते कथम् । नित्यादृष्टं क् मत्स्यात् शशश‍ृङ्गादिभिः समम् ॥ ३॥ न कल्प्यो सुखदुःखाभ्यां धर्माधर्मौ परैरिह । स्वभावेन सुखी दुःखी जनोन्यत्रैव कारणम् ॥ ४॥ शिखिनश्चित्रयेत् को वा कोकिलान् कः प्रकूजयेत् । स्वभावव्यतिरेकेण विद्यते नात्र कारणम् ॥ ५॥ स्थूलोऽहं तरुणो वृद्धो युवेत्यादिविशेषणैः । विशिष्टो देह एवात्मा न ततोऽन्यो विलक्षणः ॥ ६॥ जडभूतविकारेषु चैतन्यं यत् तु दृश्यते । ताम्बूलपूगचूर्णानां योगाद्राग इवोत्थितम् ॥ ७॥ इहलोकात् परो नान्यः स्वर्गोऽस्ति नरको न वा । शिवलोकादयो मूढैः कल्प्यन्तेऽन्यैः प्रतारकैः ॥ ८॥ स्वर्गानुभूतिर्मृष्टाष्टिर्द्व्यष्टवर्षवधूगमः । सूक्ष्मवस्त्रसुगन्धस्रक्-चन्दनादिनिषेवणम् ॥ ९॥ नरकानुभवो वैरिशस्त्रव्याध्याद्युपद्रवः । मोक्षस्तु मरणं तच्च प्राणवायुनिवर्तनम् ॥ १०॥ अतस्तदर्थं नायासं कर्तुमर्हति पण्डितः । तपोभिरुपवासाद्यैर्मूढ एव प्रशुष्यति ॥ ११॥ पातिव्रत्यादिसङ्केतो बुद्धिमद्दुर्बलैः कृतः । सुवर्णभूमिदानादि मृष्टामन्त्रणभोजनम् । क्षुत्क्षामकुक्षिभिर्लोकैर्दरिद्रैरुपकल्पितम् ॥ १२॥ देवालयप्रयासत्रकूपारामादिकर्मणाम् । प्रशंसा कुर्वते नित्यं पान्था एव न चापरे ॥ १३॥ अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् । बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः ॥ १४॥ कृषिगोरक्षवाणिज्यदण्डनीत्यादिभिर्बुधः । दृष्टैरेव सदोपायैर्भोगाननुभवेद्भुवि ॥ १५॥ इति सर्वदर्शनसिद्धान्तसङ्ग्रहे लोकायतिकपक्षो नाम द्वितीयं प्रकरणम् ।

३. आर्हतपक्षप्रकरणं

लोकायतिकपक्षोऽयमाक्षेप्यः सर्ववादिनाम् । स्वपक्षेण क्षिपत्येष तत्पक्षं क्षपणोऽधुना ॥ १॥ अग्नेरौष्ण्यमपां शैत्यं कोकिले मधुरः स्वरः । इत्याद्येकप्रकारः स्यात् स्वभावो नापरः क्वचित् ॥ २॥ कादाचित्कं सुखं दुःखं स्वभावो नात्मनो मतः । धर्माधर्मावतस्ताभ्यामदृष्टाविति निश्चितौ ॥ ३॥ अदृष्टस्यात्र दृष्टत्वं नादृष्टत्वं भवेदिति । त्वयोक्तदोषो न स्यान्मे तत् सिध्यत्यागमाद्यतः ॥ ४॥ अदृष्टमग्निमादातुं धूमं दृष्ट्वोपधावता । धूमेनाग्न्यनुमानं तु त्वयाप्यङ्गीकृतं ननु ॥ ५॥ प्रत्यक्षेणानुमानेन पश्यन्त्यत्रागमेन च । दृष्टादृष्टं जनाः स्पष्टमाहतागमसंस्थिताः ॥ ६॥ सिद्धा बद्धा नारकीया इति स्युः पुरुषास्त्रिधा । केचित् परमसिद्धाः स्युः केचिन् मन्त्रैर्महौषधैः ॥ ७॥ गुरूपदिष्टमार्गेण ज्ञानकर्मसमुच्चयात् । मोक्षो बन्धाद्विरक्तस्य जायते भुवि कस्यचित् ॥ ८॥ अर्हतामखिलं ज्ञातुं कर्मार्जितकलेवरैः । आवृतिर्बन्धनं मुक्तिः निरावरणतात्मनाम् ॥ ९॥ पुद्गलापरसंज्ञैस्तु धर्माधर्मानुगामिभिः । परमाणुभिराबद्धाः सर्वदेहाः सहेन्द्रियैः ॥ १०॥ स्वदेहमाना ह्यात्मानो मोहाद्देहाभिमानिनः । क्रिमिकीटादिहस्त्यन्तदेहपञ्जरवर्तिनः ॥ ११॥ आत्मावरणदेहस्य वस्त्राद्यावरणान्तरम् । न त्वयं यदि गृह्णाति तस्यापीत्यनवस्थितिः ॥ १२॥ प्राणिजातमहिंसन्तो मनोवाक्कायकर्मभिः । दिगम्बराश्चरन्त्येव योगिनो ब्रह्मचारिणः ॥ १३॥ मयूरपिच्छहस्तास्ते कृतवीरासनादिकाः । पाणिपात्रेण भुञ्जाना लूनकेशाश्च मौनिनः ॥ १४॥ मुनयो निर्मलाः शुद्धाः प्रणताघौघभेदिनः । पूजाजपपरा नित्यमाचार्यानुगतास्तदा ॥ १५॥ निरावरण एवैषामीश्वरोऽनन्तशक्तिमान् । तदीयमन्त्रफलदो मोक्षमार्गोऽपि तत्कृतः । सर्वैर्विश्वसनीयः स्यात् स सर्वज्ञो जगद्गुरुः ॥ १६॥ इति सर्वदर्शनसिद्धान्तसङ्ग्रहे आर्हतपक्षो नाम तृतीयं प्रकरणम् ।

४.१ बौद्धपक्षे माध्यमिकमतं

बौद्धाः क्षपणकाचार्यप्रणीतमपि साम्प्रतम् । पक्षं प्रतिक्षिपन्त्यत्र लोकायितमतं यथा ॥ १॥ चतुर्णां मतभेदेन बौद्धशास्त्रं चतुर्विधम् । अधिकारानुरूपेण तत्र तत्र प्रवर्तकम् ॥ २॥ ज्ञानं एव हि सा बुद्धिर्न चान्तःकरणं मतम् । जानाति बुध्यते चेति पर्यायत्वप्रयोगतः ॥ ३॥ त्रयाणां बौद्धानां बुद्धिरस्त्यविवादतः । बौद्धार्थोऽस्ति द्वयोरेव विवादोऽन्यत्र तद्यथा ॥ ४॥ प्रत्यक्षसिद्धं बाह्यार्थमसौ वैभाषिकोऽब्रवीत् । बुद्ध्याकारानुमेयोऽर्थो बाह्यः सौत्रान्तिकोदितः ॥ ५॥ बुद्धिमात्रं वदत्यत्र योगाचारो न चापरम् । नास्ति बुद्धिरपीत्याह वादी माध्यमिकः किल ॥ ६॥ न सन् नासन् न सदसन् न चोभयाभ्यां विलक्षणम् । चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः ॥ ७॥ यदसत्कारणैस्तन् न जायते शशश‍ृङ्गवत् । सतश्चोत्पत्तिरिष्टा चेज्जनितं जनयेदयम् ॥ ८॥ एकस्य सदसद्भावो वस्तुनो नोपपद्यते । एकस्य सदसद्भ्योऽपि वैलक्षण्यं न युक्तिमत् । चतुष्कोटिविनिर्मुक्तं शून्यं तत्त्वमिति स्थितम् ॥ ९॥ जातिर्जातिमती भिन्ना न वेत्यत्र विचार्यते । भिन्ना चेत् सा च गृह्येत व्यक्तिभ्योऽङ्गुलवत् पृथक् ॥ १०॥ अविचारितसंसिद्धा व्यक्तिः सा पारमाणुकी । स्वरूपं परमाणूनां वाच्यं वैशेषिकादिभिः ॥ ११॥ षट्केन युगपद्योगात् परमाणोः षडंशता । षण्णां समानदेशत्वात् पिण्डः स्यादणुमात्रकः ॥ १२॥ ब्राह्मणत्वादिजातिः किं वेदपाठेन जन्यते । संस्कारैर्वा द्वयेनाथ तत् सर्वं नोपपद्यते ॥ १३॥ वेदपाठेन चेत् कश्चित् शूद्रो देशान्तरं गतः । सम्यक् पठितवेदोऽपि ब्राह्मणत्वमवाप्नुयात् ॥ १४॥ सर्वसंस्कारयुक्तोऽत्र विप्रो लोके न दृश्यते । चत्वारिंशत् तु संस्कारा विप्रस्य विहिता यतः ॥ १५॥ एकसंस्कारयुक्तश्चेद्विप्रः स्यादखिलो जनः । जातिव्यक्त्यात्मकोऽर्थोऽत्र नास्त्येवातो निरूप्यते ॥ १६॥ विज्ञानमपि नास्त्यत्र ज्ञेयाभावे समुत्थिते । अतो माध्यमिको वक्ति सर्वशून्यं विचारितम् ॥ १७॥ इति बौद्धपक्षे माध्यमिकमतम् ।

४.२ बौद्धपक्षे योगाचारमतं

अत्र माध्यमिकेनोक्तं शून्यत्वं शून्यवादिना । निरालम्बनवादी तु योगाचारो निरस्यति ॥ १॥ त्वयोक्तसर्वशून्यत्वे प्रमाणं शून्यं एव ते । अतो वादेऽधिकारस्ते न परेणोपपद्यते ॥ २॥ स्वपक्षस्थापनं तद्वत् परपक्षस्य दूषणम् । कथं करोत्यत्र भवान् विपरीतं वदेन् न किम् ॥ ३॥ अविभागो हि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवान् इव लक्ष्यते ॥ ४॥ मानमेयफलाद्युक्तं ज्ञानदृष्ट्यनुसारतः । अधिकारिषु जातेषु तत्त्वमप्युपदेक्ष्यति ॥ ५॥ बुद्धिस्वरूपं एकं हि वस्त्वस्ति परमार्थतः । प्रतिमानस्य नानात्वान् न चैकत्वं विहन्यते ॥ ६॥ परिव्राट्कामुकशुनां एकस्यां प्रमदातनौ । कुणपं कामिनी भक्ष्यमिति तिस्रो विकल्पना ॥ ७॥ अथाप्येकैव सा बाला बुद्धितत्त्वं तथैव नः । तदन्यद्यत् तु जात्यादि तन्निराक्रियतां त्वया ॥ ८॥ क्षणिका बुद्धिरेका तु त्रिधा भ्रान्तैर्विकल्पिता । स्वयम्प्रकाशतत्त्वज्ञैर्मुमुक्षुभिरुपास्यते ॥ ९॥ इति बौद्धपक्षे योगाचारमतम् ।

४.३ बौद्धपक्षे सौत्रान्तिकमतं

विज्ञानमात्रमत्रोक्तं योगाचारेण धीमता । ज्ञानं ज्ञेयं विना नास्ति बाह्यार्थोऽप्यस्ति तेन नः ॥ १॥ नीलपीतादिभिश्चित्रैर्बुद्ध्याकारैरिहान्तरैः । सौत्रान्तिकमते नित्यं बाह्यार्थस्त्वनुमीयते ॥ २॥ क्षीणानि चक्षुरादीनि रूपादिष्वेव पञ्चसु । न षष्ठमिन्द्रियं तस्य ग्राहकं विद्यते बहिः ॥ ३॥ षडंशत्वं त्वयापाद्य परमाणोर्निराकृतिः । युक्तस्तेनापि बाह्यार्थो न चेद्ज्ञानं न सम्भवेत् ॥ ४॥ आकाशधातुरस्माभिः परमाणुरितीरितः । स च प्रज्ञाप्तिमात्रं स्यान् न च वस्त्वन्तरं मतम् ॥ ५॥ सर्वे पदार्थाः क्षणिका बुद्ध्याकारविजृम्भिता । इदमित्येव भावास्तेऽप्याकारानुमिताः सदा ॥ ६॥ विषयत्वविरोधस्तु क्षणिकत्वेऽपि नास्ति नः । विषयत्वं हि हेतुत्वं ज्ञानाकारार्पणक्षमम् ॥ ७॥ इति बौद्धपक्षे सौत्रान्तिकमतम् ।

४.४ बौद्धपक्षे वैभाषिकमतं

सौत्रान्तिकमतादल्पभेदो वैभाष्किके मते । प्रत्यक्षत्वं तु बाह्यस्य क्वचिदेवानुमेयता ॥ १॥ पूर्वापरानुभावेन पुञ्जीभूताः सहस्रशः । परमाणव एवात्र बाह्यार्थघनवत् स्थिताः ॥ २॥ दूरादेव वनं पश्यन् गत्वा तस्यान्तिकं पुनः । न वनं पश्यति क्वापि वल्लीवृक्षातिरेकतः ॥ ३॥ मृदो घटत्वमायान्ति कपालत्वं तु ते घटाः । कपालानि च चूर्णत्वं ते पुनः परमाणुताम् ॥ ४॥ चतुर्णामपि बौद्धानां ऐक्यमध्यात्मनिर्णये । व्यावहारिकभेदेन विवदन्ते परस्परम् ॥ ५॥ बुद्धितत्त्वे स्थिता बौद्धा बुद्धिवृत्तिर्द्विधा मता । ज्ञानाज्ञानात्मिका चेति तत्र ज्ञानात्मिका निजा ॥ ६॥ मूलाज्ञाननिमित्तान्या स्कन्धायतनधातुजा । प्रपञ्चजातमखिलं शरीरं भुवनात्मकम् ॥ ७॥ पञ्चस्कन्धा भवन्त्यत्र द्वादशायतनानि च । सर्वेषामपि बौद्धानां तथाष्टादश धातवः ॥ ८॥ ज्ञानसंस्कारसंज्ञानां वेदनारूपयोरपि । समूहः स्कन्धशब्दार्थः तत्तत्सन्ततिवाचकः ॥ ९॥ ज्ञानसन्ततिरेवात्र विज्ञानस्कन्ध उच्यते । संस्कारस्कन्ध इत्युक्तो वासनानां तु संहतिः ॥ १०॥ सुखदुःखात्मिका बुद्धिस्तथापेक्षात्मिका च सा । वेदनास्कन्ध इत्युक्तः संज्ञास्कन्धस्तु नाम यत् ॥ ११॥ रूपस्कन्धो भवत्यत्र मूर्तिभूतस्य संहतिः । रूपस्योपचयः स्तम्भकुम्भादिरणुकल्पितः ॥ १२॥ पृथिव्याः स्थैर्यरूपादि द्रवत्वादि भवेदपाम् । उष्णत्वं तेजसो धातोर्वायुधातोस्तु शीतता ॥ १३॥ एषां चतुर्णां धातूनां वर्णगन्धरसौजसाम् । पिण्डाज् जाताः पृथिव्याद्याः परमाणुचया अमी ॥ १४॥ श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणं प्रत्ययपञ्चकम् । वाक्पादपाणिपाय्वादि ज्ञेयं कारकपञ्चकम् ॥ १५॥ सामुदायिकचैतन्यं बुद्धिः स्यात् करणं मनः । कल्पितं भ्रान्तदृष्ट्यैव शरीरभुवनात्मकम् ॥ १६॥ बौद्धशास्त्रप्रमेयं तु प्रमाणं द्विविधं मतम् । कल्पनापोढमभ्रान्तं प्रत्यक्षं कल्पना पुनः ॥ १७॥ नामजातिगुणद्रव्यक्रियारूपेण पञ्चधा । लिङ्गदर्शनतो ज्ञानं लिङ्गिन्यत्रानुमानता ॥ १८॥ चतुर्विधं यदज्ञानं प्रमाणाभ्यां निवर्तते । नष्टे चतुर्विधेऽज्ञाने मूलाज्ञानं निवर्तते ॥ १९॥ मूलाज्ञाननिवृत्तौ च विशुद्धज्ञानसन्ततिः । शुद्धबुद्ध्यविशेषो हि मोक्षो बुद्धमुनीरितः ॥ २०॥ उत्पत्तिस्थितिभङ्गदोषरहितां सर्वाशयोन्मूलिनीं ग्राहोत्सर्गवियोगयोगजनितां नाभावभावान्विताम् । तामन्तद्वयवर्जितां निरुपमामाकाशवन् निर्मलां प्रज्ञां पारमितां धनस्य जननीं श‍ृण्वन्तु बुद्ध्यर्थिनः ॥ २१॥ अतिस्तुतिपरैरुक्तो यस्तु वैशेषिकादिभिः । ईश्वरो नेष्यतेऽस्माभिः स निराक्रियतेधुना ॥ २२॥ हेयोपादेयमर्थं च मोक्षोपायं च वेत्ति यः । स एव नः प्रमाणं स्यान् न सर्वज्ञस्त्वयेरितः ॥ २३॥ दूरं पश्यतु वा मा वा तत्त्वमिष्टं प्रपश्यतु । प्रमाणं दूरदर्शी चेद्वयं गृध्नान् उपास्महे ॥ २४॥ देशे पिपीलिकादीनां सङ्ख्याज्ञः कश्चिदस्ति किम् । सर्वकर्तृत्वमीशस्य कथितं नोपपद्यते ॥ २५॥ यदि स्यात् सर्वकर्तासावधर्मेऽपि प्रवर्तयेत् । अयुक्तं कारयन् लोकान् कथं युक्ते प्रवर्तयेत् ॥ २६॥ उपेक्षैव च साधूनां युक्तासाधौ क्रिया भवेत् । न क्षतक्षारविक्षेपः साधूनां साधुचेष्टितम् ॥ २७॥ ईश्वरेणैव शास्त्राणि सर्वाण्यधिकृतानि चेत् । कथं प्रमाणं तद्वाक्यं पूर्वापरपराहतम् ॥ २८॥ कारयेद्धर्ममात्रं चेदेकशास्त्रप्रवर्तकः । कथं प्रादेशिकस्यास्य सर्वकर्तृत्वमुच्यते ॥ २९॥ ईशः प्रयोजनाकाङ्क्षी जगत् सृजति वा न वा । काङ्क्षते चेदसम्पूर्णो नो चेन् नैव प्रवर्तते ॥ ३०॥ प्रवर्तते किमीशस्ते भ्रान्तवन् निष्प्रयोजने । छागादीनां पुरीषादेर्वर्तुलीकरणेन किम् ॥ ३१॥ क्रीडार्थेयं प्रवृत्तिश्चेत् क्रीडते किं नु बालवत् । अजस्रं क्रीडतस्तस्य दुःखं एव भवत्यलम् ॥ ३२॥ अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रं एव वा ॥ ३३॥ तप्तलौहाभितापाद्यैरीशेनाल्पसुखेच्छुना । प्राणिनो नरके कष्टे बत प्राणैर्वियोजिता ॥ ३४॥ वरप्रदाने शक्तश्चेत् ब्रह्महत्यादिकारिणे । स्वर्गं दद्यात् स्वतन्त्रः स्यान् नरकं सोमयाजिने ॥ ३५॥ कर्मानुगुणदाता चेदीशः स्यादखिलो जनः । दाने स्वान्तन्त्र्यहीनः सन् सर्वेशः कथमुच्यते ॥ ३६॥ एवं नैयायिकाद्युक्तसर्वज्ञेशनिराक्रिया । हेयोपादेयमात्रज्ञो ग्राह्यो बुद्धमुनिस्ततः ॥ ३७॥ चैत्यं वन्देत चैत्याद्या धर्मा बुद्धागमोदिताः । अनुष्ठेया न यागाद्या वेदाद्यागमचोदिताः ॥ ३८॥ क्रियायां देवतायां च योगे शून्यपदे क्रमात् । वैभाषिकादयो बौद्धाः स्थिताश्चत्वार एव ते ॥ ३९॥ इति बौद्धपक्षे वैभाषिकमतम् । इति सर्वदर्शनसिद्धान्तसङ्ग्रहे बौद्धपक्षो नाम चतुर्थं प्रकरणम् ।

५. वैशेषिकपक्षः

नास्तिकान् वेदबाह्यांस्तु बौद्धलोकायतार्हतान् । निराकरोति वेदार्थवादी वैशेषिकोऽधुना ॥ १॥ वेदमार्गपरिभ्रष्टा विशिष्टाः परदर्शने । बौद्धादयो विशिष्टास्ते न भवन्ति द्विजाः पुनः ॥ २॥ अतो बुद्धादिभिर्नित्यं वेदब्राह्मणनिन्दया । आत्मवञ्चकता कष्टा सर्वत्राघोषिता भुवि ॥ ३॥ प्रमाणं एव वेदाः स्युः सर्वेश्वरकृतत्वतः । स एव कर्मफलदो जीवानां पारिशेष्यतः ॥ ४॥ जीवा वा जीवकर्माणि प्रकृतिः परमाणवः । नेशते ह्यत्र जीवानां तत्तत्कर्मफलार्पणे ॥ ५॥ जीवाः कर्मफलावाप्तौ शक्ताश्चेत् स्वसुखे रताः । अप्रार्थैतानि दुःखानि वारयन्तु प्रयत्नतः ॥ ६॥ अशक्तान्यत्र कर्माणि जीवानां स्वफलार्पणे । अचेतनत्वादगतेः स्वर्गादिफलभूमिषु ॥ ७॥ नाचेतनत्वात् प्रकृतेः फलदातृत्वसम्भवः । अचेतनाः फलं दातुमशक्ताः परमाणवः ॥ ८॥ कालोऽप्यचेतनस्तेषां न हि कर्मफलप्रदः । अतोऽन्यः फलदो लोके भवत्येभ्यो विलक्षणः ॥ ९॥ स तु प्राणिविशेषांश्च देशानपि तदाश्रयान् । जानन् सर्वज्ञ एवेष्टो नान्ये बौद्धादिसम्मताः ॥ १०॥ अजानन् प्राणिनो लोके हेयोपादेयमात्रवित् । प्रादेशिको न सर्वज्ञो नास्मदादिविलक्षणः ॥ ११॥ वेदैकदेशं दृष्ट्वा तु कारीरीवृष्टिबोधकम् । अदृष्टयोश्च विश्वासः कार्यः स्वर्गापवर्गयोः ॥ १२॥ कारीरीष्ट्युक्तवृष्टिश्च द्रष्टव्यादृष्टनिर्णये । ज्योतिःशास्त्रोक्तकालस्य ग्रहणं तन्निदर्शनम् ॥ १३॥ दृष्टैकदेशप्रामाण्यं यत् तूक्तं सौगतादिभिः । तच्च वेदादपहृतं सर्वलोकप्रतारकैः ॥ १४॥ मन्त्रव्याकरणं दृष्ट्वा मन्त्रा विरचिताः पुनः । लिपिसम्मिश्रजातास्ते सिद्धमन्त्रास्तथा कृताः ॥ १५॥ बौद्धागमेभ्यो दृष्टार्था न हृता वैदिकैः क्वचित् । वेदस्यैव षडङ्गानि यतः शिक्षादिकानि वै ॥ १६॥ नान्यागमाङ्गता तेषां न क्वाप्युक्ता परैरपि । अतो वेदबलीयस्त्वं नास्तिकागमसञ्चयात् ॥ १७॥ षट्पदार्थपरिज्ञानान् मोक्षं वैशेषिका विदुः । तदन्तर्गत एवेशो जीवाः सर्वमिदं जगत् ॥ १८॥ द्रव्यं गुणस्तथा कर्म सामान्यं यत् परापरम् । विशेषः समवायश्च षट्पदार्था इहेरिताः ॥ १९॥ पृथिव्यापस्तथा तेजो वायुराकाशं एव च । दिक्कालात्ममनांसीति नव द्रव्याणि तन्मते ॥ २०॥ पृथिवी गन्धवत्यापः सरसास्तेजसः प्रभा । अनुष्णाशीतसंस्पर्शो वायुः शब्दगुणं नभः ॥ २१॥ दिक् पूर्वापरधीलिङ्गा कालः क्षिप्रचिरागतः । आत्माहम्प्रत्ययात् सिद्धो मनोऽन्तःकरणं मतम् ॥ २२॥ अयोगमन्ययोगं च मुक्ता द्रव्याश्रिता गुणाः । चतुर्विम्शतिधा भिन्ना गुणास्तेऽपि यथाक्रमात् ॥ २३॥ शब्दः स्पर्शो रसो रूपं गन्धसंयोगवेगताः । सङ्ख्याद्रवत्वसंस्कारपरिमाणविभागताः ॥ २४॥ प्रयत्नसुखदुःखेच्छाबुद्धिद्वेषपृथक्कृताः । परत्वं चापरत्वं च धर्माधर्मौ च गौरवम् ॥ २५॥ इमे गुणाश्चतुर्विम्शत्यथ कर्म च पञ्चधा । प्रसाराकुञ्चनोत्क्षेपा गत्यवक्षेपणे इति ॥ २६॥ परं चापरमित्यत्र सामान्यं द्विविधं मतम् । परं सत्तादि सामान्यं द्रव्यत्वाद्यपरं मतम् ॥ २७॥ परस्परविवेकोऽत्र द्रव्याणां यैस्तु गम्यते । विशेषा इति ते ज्ञेया द्रव्यं एव समाश्रिताः ॥ २८॥ सम्बन्धः समवायः स्यात् द्रव्याणां तु गुणादिभिः । षट् पदार्था इमे ज्ञेयास्तन्मयं सकलं जगत् ॥ २९॥ तेषां साधर्म्यवैधर्म्यज्ञानं मोक्षस्य साधनम् । द्रव्यान्तर्गत एवात्मा भिन्नो जीवपरत्वतः ॥ ३०॥ देवा मनुष्यास्तिर्यञ्चो जीवास्त्वन्यो महेश्वरः । तदाज्ञप्तक्रियां कुर्वन् मुच्यतेऽन्यस्तु बध्यते ॥ ३१॥ श्रुतिस्मृतीतिहासाद्यं पुराणं भारतादिकम् । ईश्वराज्ञेति विज्ञेया न लङ्घ्या वैदिकैः क्वचित् ॥ ३२॥ त्रिधा प्रमाणं प्रत्यक्षमनुमानागमाविति । त्रिभिरेतैः प्रमाणैस्तु जगत्कर्तावगम्यते ॥ ३३॥ तस्मात् तदुक्तकर्माणि कुर्यात् तस्यैव तृप्तये । भक्त्यैवावर्जनीयोऽसौ भगवान् परमेश्वरः ॥ ३४॥ तत्प्रसादेन मोक्षः स्यात् करणोपरमात्मकः । करणोपरमे त्वात्मा पाषाणवदवस्थितः ॥ ३५॥ दुःखसाध्यः सुखोच्छेदी दुःखोच्छेदवदेव नः । अतः संसारनिर्विण्णो मुमुक्षुर्मुच्यते जनः ॥ ३६॥ पश्चान् नैयायिकस्तर्कैः साधयिष्यति नः शिवम् । नातिभिन्नं मतं यस्मादावयोर्वेदवादिनोः ॥ ३७॥ इति सर्वदर्शनसिद्धान्तसङ्ग्रहे वैशेषिकपक्षो नाम पञ्चमं प्रकरणम् ।

६. नैयायिकपक्षः

नैयायिकस्य पक्षोऽथ सङ्क्षेपात् प्रतिपाद्यते । यत् तर्करक्षितो वेदो ग्रस्तः पाषण्डदुर्जनैः ॥ १॥ अक्षपादः प्रामाणादिषोडशार्थप्रबोधनात् । जीवानां मुक्तिमाचष्टे प्रमाणं च प्रमेयता ॥ २॥ निर्णयः संशयोऽन्यश्च प्रयोजननिदर्शने । सिद्धान्तावयवौ तर्को वादो जल्पो वितण्डता ॥ ३॥ हेत्वाभासं छलं जातिर्निग्रहस्थानमित्यपि । प्रत्य्क्षमनुमानाख्यमुपमानागमाविति ॥ ४॥ चत्वार्यत्र प्रमाणानि नोपमानं तु कस्यचित् । प्रत्यक्षमस्मदादीनामस्त्यन्यद्योगिनामपि ॥ ५॥ पश्यन्ति योगिनः सर्वमीश्वरस्य प्रसादतः । स्वभावेनेश्वरः सर्वं पश्यति ज्ञानचक्षुषा ॥ ६॥ यत्नेनापि न जानन्ति सर्वेशं मांसचक्षुषः । ईश्वरं साधयत्येतदनुमानमिति स्फुटम् ॥ ७॥ भूर्भूधरादिकं सर्वं सर्ववित् कर्तृपूर्वकम् । कार्यत्वाद्वटवच्चेति जगत्कर्तानुमीयते ॥ ८॥ कार्यत्वमप्यसिद्धं चेत् क्ष्मादेः सावयवत्वतः । घटकुड्यादिवच् चेति कार्यत्वमपि साध्यते ॥ ९॥ दृष्टान्तसिद्धदेहादेर्धर्माधर्मप्रसङ्गतः । न विशेषविरोधोऽत्र वाच्यो भट्टादिभिः क्वचित् ॥ १०॥ उत्कर्षसमजातित्वात् सम्यग्दोषो न तादृशः । कार्यत्वमात्रात् कर्तृत्वमात्रं एवान्मीयते ॥ ११॥ दृष्टान्तस्थविशेषैस्त्वं विरोधं यदि भाषसे । धूमेनाग्न्यनुमानस्य ह्यभावोऽपि प्रसज्यते ॥ १२॥ अशरीरोऽपि कुरुते शिवः कार्यमिहेच्छया । देहानपेक्षो देहं स्वं यथा चेष्टयते जनः ॥ १३॥ इच्छाज्ञानप्रयत्नाख्या महेश्वरगुणास्त्रयः । शरीररहितेऽपि स्युः परमाणुस्वरूपवत् ॥ १४॥ कार्यं क्रियां विना नात्र सा क्रिया यत्नपूर्विका । क्रियात्वात् साध्यतेऽस्माभिरस्मदादिक्रिया यथा ॥ १५॥ सर्वज्ञीयक्रियोद्भूतक्ष्मादिकार्योपपत्तिभिः । ईश्वरासत्त्वमुक्तं यन् निरस्तं पारिशेष्यतः ॥ १६॥ यथा वैशेषिकेणेशः पारिशेष्येण साधितः । तत्तर्कोऽत्रानुसन्धेयः समानं शास्त्रमावयोः ॥ १७॥ कालकर्मप्रधानादेरचैतन्यात् शिवोपरः । अल्पज्ञत्वात् तु जीवानां ग्राह्यः सर्वज्ञ एव सः ॥ १८॥ सर्वज्ञेशप्रणीतत्वाद्वेदप्रामाण्यमिष्यते । स्मृत्यादीनां प्रमाणत्वं तन्मूलत्वेन सिध्यति ॥ १९॥ श्रौतं स्मार्तं च यत् कर्म यथावदिह कुर्वताम् । स्वर्गापवर्गौ स्यातां हि नैव पाषण्डिनां क्वचित् ॥ २०॥ त्रैयम्बकादिभिर्मन्त्रैरपि देवो महेश्वरः । अनुष्ठानोपयुक्तार्थस्मारकैः प्रतिपाद्यते ॥ २१॥ कारीरीष्ट्यर्थवृष्ट्यादि दृष्ट्वा स्वर्गापवर्गयोः । विश्वासोऽदृष्टयोः कार्यः करणाद्यैः अञ्चितः ॥ २२॥ अप्रमाणमशेषं च शास्त्रं बुद्धादिकल्पितम् । स्यादनाप्तप्रणीतत्वादुन्मत्तानां यथा वचः ॥ २३॥ बीजप्ररोहरक्षायै वृतिः कण्टकिनी यथा । वेदार्थतत्त्वरक्षार्थं कृता तर्कमयी वृतिः ॥ २४॥ प्रमाणानुग्राहकस्तर्कः स कथात्रयसंयुतः । वादो जल्पो वितण्डेति तिस्र एव कथा मताः ॥ २५॥ आचार्येण तु शिष्यस्य वादस्तत्त्वबुभुत्सया । जयः पराजयो नात्र तौ तु जल्पवितण्डयोः ॥ २६॥ वादो तु प्रतिवादी च प्राश्निकस्य सभापतिः । चत्वार्यङ्गानि जल्पस्य वितण्डायास्तथैव च ॥ २७॥ सदुत्तरापरिज्ञानात् पराजयभये सति । जयेच् छलेन जात्या वा प्रतिवादो तु वादिनाम् ॥ २८॥ छलं जातिं ब्रुवाणस्य निग्रहस्थानमीरयेत् । निग्रहस्थानमित्युक्तं कथाविच्छेदकारकम् ॥ २९॥ तत्रोपचारसामान्यवाक्पूर्वं त्रिविधं छलम् । चतुर्वेदविदित्युक्ते कस्मिंश्चिद्वादिना द्विजे । किमत्र चित्रं ब्राह्मण्ये चतुर्वेदज्ञतोचिता ॥ ३०॥ एवं सामान्यदृष्ट्या तु दूषिते प्रतिवादिना । वेदवाक्यैरनेकान्तं निग्रहस्थानमप्यथ ॥ ३१॥ नववस्त्रो बटुश्चेति वाद्युक्ते तत्र वाक्छलम् । कुतोऽस्य नव वासांसीत्याचक्षाणस्य निग्रहः ॥ ३२॥ तात्पर्यवैपरीत्येन कल्पितार्थस्य बाधनम् । स्वस्य व्याघातकं वाक्यं दूषणक्षमं एव वा । उत्तरं जातिरित्याहुः चतुर्विंशतिभेदभाक् ॥ ३३॥ चतुर्विंशतिजातीनां प्रयोक्तुः प्रतिवादिनः । वक्तव्यं निग्रहस्थानमसदुत्तरवादिनः ॥ ३४॥ यथा साधर्म्यवैधर्म्यात् समोतकर्षापकर्षतः । वर्ण्यावर्ण्यविकल्पाश्च प्राप्त्यप्राप्तीति साध्यताः ॥ ३५॥ प्रसङ्गप्रतिदर्शनानुपपत्तिश्च संशयः । अर्थापत्त्यविशेषौ च हेतुप्रकरणाह्वयौ ॥ ३६॥ कार्योपलब्ध्यनुपलब्धिनित्यानित्याश्च जातयः । साम्यापादकहेतुत्वात् समताजातयो मताः । सदुत्तरापरिज्ञाने स्यादेकान्तपराजयः ॥ ३७॥ एवं जल्पवितण्डाभ्यां वेदबाह्यान् निरस्य तु । वेदैकविहितं कर्म कुर्यादीश्वरतृप्तये ॥ ३८॥ तत्प्रसादाप्तयोगेन मुमुक्षुर्मोक्षमाप्नुयात् । नित्यानन्दानुभूतिः स्यान् मोक्षे तु विषयादृते ॥ ३९॥ वरं वृन्दावने रम्ये श‍ृगालत्वं वृणोम्यहम् । वैशेषिकोक्तमोक्षात् तु सुखलेशविवर्जितात् ॥ ४०॥ यो वेदविहितैर्यज्ञैरीश्वरस्य प्रसादतः । मूर्च्छामिच्छति यत्नेन पाषाणवदवस्थितिम् ॥ ४१॥ मोक्षो हि हरिभक्त्याप्तयोगेनेति पुरोदितः । अष्टावङ्गानि योगस्य यमोऽथ नियमस्तथा ॥ ४२॥ आसनं पवनायामः प्रत्याहारोऽथ धारणम् । ध्यानं समाधिरित्येवं तत् साङ्ख्यो विस्तरिष्यति ॥ ४३॥ इति सर्वदर्शनसिद्धान्तसङ्ग्रहे नैयायिकपक्षो नाम षष्ठं प्रकरणम् ।

७. प्रभाकरपक्षः

प्रभाकरगुरोः पक्षः सङ्क्षेपादथ कथ्यते । तुष्टाव पूर्वमीमांसामाचार्यस्पर्धयापि यः ॥ १॥ वेदैकविहितं कर्म मोक्षदं नापरं गुरोः । बध्यते स हि लोकस्तु यः काम्यप्रतिषिद्धकृत् ॥ २॥ विध्यर्थवादमन्त्रैश्च नामधेयैश्चतुर्विधः । वेदो विधिप्रधानोऽयं धर्माधर्मावबोधकः ॥ ३॥ आत्मा ज्ञातव्य इत्यादिविधयस्त्व् आरुणे स्थिताः । यथावदात्मनां तत्र बोधं विदधते स्फुटम् ॥ ४॥ बुद्धीन्द्रियशरीरेभ्यो भिन्न आत्मा विभुर्ध्रुवः । नानाभूतः प्रतिक्षेप्त्रमर्थज्ञानेषु भासते ॥ ५॥ घटं जानाम्यहं स्पष्टमित्यत्र युगपत् त्रयम् । घटो विषयरूपेण कर्ताहम्प्रत्ययागतः । स्वयम्प्रकाशरूपेण ज्ञानं भाति जनस्य हि ॥ ६॥ करणोपरमान् मुक्तिमाह वैशेषिको यथा । दुःसहासारसंसारसागरोत्तरणोत्सुकः ॥ ७॥ प्रयत्नसुखदुःखेच्छाधर्माधर्मादिनाशतः । पाषाणवदवस्थानमात्मनो मुक्तिमिच्छति ॥ ८॥ दुःखसाध्यसुखोच्छेदो दुःखोच्छेदवदिष्यते । नित्यानन्दानुभूतिश्च निर्गुणस्य न चेष्यते ॥ ९॥ न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । अन्यः संन्यासैनां मार्गो जाघटीति न कर्मिणाम् ॥ १०॥ तस्मात् यागादयो धर्माः कर्तव्या विहिता यतः । अन्यथा प्रत्यवायः स्यात् कर्मण्येवाधिकारिणाम् ॥ ११॥ कर्ममात्रैकशरणाः श्रेयः प्राप्स्यन्त्यनुत्तमम् । न देवता चतुर्थ्यन्तविनियोगादृते परा ॥ १२॥ वेदबाह्यान् निराकृत्य भट्ट् । एणैर्गते पथि । चक्रे प्रभाकरः शास्त्रं गुरुः कर्माधिकारिणाम् ॥ १३॥ इति सर्वदर्शनसिद्धान्तसङ्ग्रहे प्रभाकरपक्षो नाम सप्तमं प्रकरणम् ।

८. भट्टाचार्यपक्षः

बौद्धादिनास्तिकध्वस्तवेदमार्गं पुरा किल । भट्टाचार्यः कुमारांशः स्थापयामास भूतले ॥ १॥ त्यक्त्वा काम्यनिषिद्धे द्वे विहिताचरणान् नरः । शुद्धान्तःकरणो ज्ञानी परं निर्वाणं ऋच्छति ॥ २॥ काम्यकर्माणि कुर्वाणैः काम्यकर्मानुरूपतः । जनित्वैवोपभोक्तव्यं भूयः काम्यफलं नरैः ॥ ३॥ कृमिकीटादिरूपेण जनित्वा तु निषिद्धकृत् । निषिद्धफलभोगौ स्यादधोऽधो नरकं व्रजेत् ॥ ४॥ अतो विचार्य विज्ञेयौ धर्माधर्मौ विपश्चिता । चोदनैकप्रमाणौ तौ न प्रत्यक्षादिगोचरौ ॥ ५॥ विध्यर्थवादमन्त्रैश्च नामधेयैश्चतुर्विधः । वेदो विधिप्रधानोऽयं धर्माधर्मावबोधकः ॥ ६॥ निवर्तकं निषिद्धाद्यत् पुंसां धर्मप्रवर्तकम् । वाक्यं तच्चोदना वेदे लिड्लोट्तव्यादिलाञ्छितम् ॥ ७॥ निषिद्धनिन्दकं यत् तु विहितार्थप्रशंसकम् । वाक्यमत्रार्थवादः स्याद्विध्यंशत्वात् प्रमाणकम् ॥ ८॥ कर्माङ्गभूता मन्त्राः स्युरनुष्ठेयप्रकाशकाः । यागादेर्नामभूतानि नामधेयानि हि श्रुतौ ॥ ९॥ आत्मा ज्ञातव्य इत्यादिविधयस्त्व् आरुणेषु ये । बोधं विदधते ब्रह्मण्यात्मनां परमात्मनि ॥ १०॥ दूषयन्त्यनुमानाभ्यां बौद्धा वेदमपि स्फुटम् । तन्मूललब्धधर्मादेरपलापस्तु सिध्यति ॥ ११॥ वेदोऽप्रमाणं वाक्यत्वाद्रथ्यापुरुषवाक्यवत् । अथानाप्तप्रणीतत्वादुन्मत्तानां यथा वचः ॥ १२॥ तदयुक्तमिमौ हेतू भवेतामप्रयोजकौ । वाक्यत्वमात्राद्वेदस्य न भवत्यप्रमाणता ॥ १३॥ अनाप्तपुरुषोक्तत्वं हेतुस्ते न प्रयोजकः । स्यादनाप्तोक्ततामात्रादप्रामाण्यं न च श्रुतेः ॥ १४॥ नित्यवेदस्य चानाप्तप्रणीतत्वं न दुष्यति । विप्रलम्भादयो दोषा विद्यन्ते पुङ्गिरां सदा ॥ १५॥ वेदस्यापौरुषेयत्वाद्दोषाशङ्कैव नास्ति नः । वेदस्यापौरुषेयत्वं केचिन् नैयायिकादयः ॥ १६॥ दूषयन्तीश्वरोक्त् । अत्वान् मन्यमानाः प्रमाणताम् । पौरुषेयो भवेद्वेदो वाक्यत्वाद्भारतादिवत् ॥ १७॥ सर्वेश्वरप्रणीतत्वे प्रामाण्यमपि सुस्थितम् । प्रामाण्यं विद्यते नेति पौरुषेयेषु युज्यते ॥ १८॥ वेदे वक्तुरभावाच्च तद्वार्तापि सुदुर्लभा । वेदस्य नित्यता प्रोक्ता प्रामाण्येनोपयुज्यते ॥ १९॥ सर्वेश्वरप्रणीतत्वं प्रामाण्यस्यैव कारणम् । तदयुक्तं प्रमाणेन केनात्रेश्वरकल्पना ॥ २०॥ स यद्यागमकल्पः स्यान् नित्योऽनित्यः किमागमः । नित्यश्चेत् तं प्रतीशस्य केयं कर्तृत्वकल्पना ॥ २१॥ अनित्यागमपक्षे स्यादन्योऽन्याश्रयदूषणम् । आगमस्य प्रमाणत्वमीश्वरोक्त्येश्वरस्ततः ॥ २२॥ आगमात् सिध्यतीत्येवमन्योऽन्याश्रयदूषणम् । स्वत एव प्रमाणत्वमतो वेदस्य सुस्थिरम् ॥ २३॥ धर्माधर्मौ च वेदैकगोचरावित्यपि स्थितम् । ननु वेदं विना साक्षात्कारामलकवत् स्फुटम् ॥ २४॥ पश्यन्ति योगिनो धर्मं कथं वेदैकमानता । तदयुक्तं न योगी स्यादस्मदादिविलक्षणः ॥ २५॥ सोऽपि पञ्चेन्द्रियैः पश्यन् विषयं नातिरिच्यते । प्रत्यक्षमनुमानाख्यमुपमानमनन्तरम् ॥ २६॥ अर्थापत्तिरभावश्च न धर्मं बोधयन्ति वै । तत्तदिन्द्रिययोगेन वर्तमानार्थबोधकम् ॥ २७॥ प्रत्यक्षं न हि गृह्णाति सोऽप्यतीतमनागतम् । धर्मेण नित्यसम्बन्धिरूपस्याभावतः क्वचित् ॥ २८॥ नानुमानमपि व्यक्तं धर्माधर्मावबोधकम् । धर्मादिसदृशाभावादुपमानमपि क्वचित् ॥ २९॥ सादृश्यग्राहकं नैव धर्माधर्मावबोधकं सुखस्य कारणं धर्मो दुःखस्याधर्म इत्यपि ॥ ३०॥ अर्थापत्त्यात्र सामान्यमात्रे ज्ञाने न दुष्यति । सामान्यमननुष्ठेयं किं चातीतं तदा भवेत् ॥ ३१॥ यागादयो ह्यनुष्ठेया विशेषा विधिचोदिताः । अभावाख्यं प्रमाणं न पुण्यापुण्यप्रकाशकम् ॥ ३२॥ प्रमाणपञ्चकाभावे तत् सदा वर्तते यतः । वेदैकगोचरौ तस्माद्धर्माधर्माविति स्थितम् ॥ ३३॥ वेदैकविहितं कर्म मोक्षदं नापरं ततः । मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः ॥ ३४॥ नित्यनैमित्तिके कुर्यात् प्रत्यवायजिहासया । आत्मा ज्ञातव्य इत्यादिविधिभिः प्रतिपादिते ॥ ३५॥ जीवात्मनां प्रबोधस्तु जायते परमात्मनि । प्रत्याहारादिकं योगमभ्यस्यन् विहितक्रियः ॥ ३६॥ मनः करणकेनात्मा प्रत्यक्षेणावसीयते । भिन्नाभिन्नात्मकस्त्व् आत्मा गोवत् सदसदात्मनः ॥ ३७॥ जीवरूपेण भिन्नोऽपि त्वभिन्नः पररूपतः । असत् स्यात् जीवरूपेण सद्रूपः पररूपतः ॥ ३८॥ शावलेयादिगोष्वेव यथा गोत्वं प्रतीयते । परमात्म त्वनुस्यूतवृत्तिर्जीवेऽपि बुध्यताम् ॥ ३९॥ त्रैयाम्बिकादिभिर्मन्त्रैः पूज्यो ध्येयो मुमुक्षुभिः । ध्यात्वैवारोपिताकारं कैवल्यं सोऽधिगच्छति ॥ ४०॥ परानन्दानुभूतिः स्यान् मोक्षे तु विषयादृते । विषयेषु विरक्ताः स्युर्नित्यानन्दानुभूतितः । गच्छन्त्यपुनरावृत्तिं मोक्षं एव मुमुक्षवः ॥ ४१॥ इति सर्वदर्शनसिद्धान्तसङ्ग्रहे भट्टाचार्यपक्षो नाम अष्टमं प्रकरणम् ।

९. कपिलवासुदेवसाङ्ख्यपक्षः

साङ्ख्यदर्शनसिद्धान्तः सङ्क्षेपादथ कथ्यते । साङ्ख्यशास्त्रं द्विधाभूतं सेश्वरं च निरीश्वरम् ॥ १॥ चक्रे निरीश्वरं साङ्ख्यं कपिलोऽन्यत् पतञ्जलिः । कपिलो वासुदेवः स्यादनन्तः स्यात् पतञ्जलिः ॥ २॥ ज्ञानेन मुक्तिं कपिलो योगेनाह पतञ्जलिः । योगी कपिलपक्षोक्तं तत्त्वज्ञानमपेक्षते ॥ ३॥ श्रुतिस्मृतीतिहासेषु पुराणे भारतादिके । साङ्ख्योक्तं दृश्यते स्पष्टं तथा शैवागमादिषु ॥ ४॥ व्यक्ताव्यक्तविवेकेन पुरुषस्यैव वेदनात् । दुःखत्रयनिवृत्तिः स्यादेकान्तात्यन्ततो न्णम् ॥ ५॥ दुःखमाध्यात्मिकं चाधिभौतिकं चाधिदैविकम् । आध्यात्मिकं मनोदुःखं व्याधयः पिटकादयः ॥ ६॥ आधिभौतिकं दुःखं स्यात् कीतादिप्राणिसम्भवम् । वर्षातपादिसम्भूतं दुःखं स्यादाधिदैविकम् ॥ ७॥ एकान्तात्यन्ततो दुःखं निवर्तेतात्मवेदनात् । उपायान्तरतो मोक्षः क्षयातिशयसंयुतः ॥ ८॥ न चौषधैर्न यागाद्यैः स्वर्गादिफलहेतुभिः । त्रैगुण्यविषयैर्मोक्षः तत्त्वज्ञानादृते परैः ॥ ९॥ पञ्चविंशतितत्त्वानि व्यक्ताव्यक्तादिकानि यः । वेत्ति तस्यैव विस्पष्टमात्मज्ञानं भविष्यति ॥ १०॥ पञ्चविंशतितत्त्वज्ञो यत्र कुत्राश्रमे वसेत् । जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥ ११॥ पञ्चविंशतितत्त्वानि पुरुषः प्रकृतिर्महान् । अहङ्कारश्च शब्दश्च स्पर्शरूपरसास्तथा ॥ १२॥ गन्धः श्रोत्रं त्वक् च चक्षुर्जिह्वा घ्राणं च वागपि । पाणिः पादस्तथा पायुरुपस्थश्च मनस्तथा ॥ १३॥ पृथिव्यापस्तथा तेजो वायुराकाशमित्यपि । सर्वं हि प्रकृतेः कार्यं नित्यैका प्रकृतिर्जडा ॥ १४॥ प्रकृतेस्त्रिगुणावेशादुदासीनोऽपि कर्तृवत् । स चेतनावत् तद्योगात् सर्गः पङ्ग्वन्धयोगवत् ॥ १५॥ प्रकृतिर्गुणसाम्यं स्याद्गुणाः सत्त्वं रजस्तमः । सत्त्वोदये सुखं प्रीतिः शान्तिर्लज्जाङ्गलाघवम् । क्षमा धृतिरकार्पण्यं दमो ज्ञानप्रकाशनम् ॥ १६॥ रजोगुणोदये लोभः सन्तापः कोपविग्रहौ । अभिमानो मृषावादः प्रवृत्तिर्दम्भ इत्यपि ॥ १७॥ तमोगुणोदये तन्द्रो मोहो निद्राङ्गगौरवम् । आलस्यमप्रबोधश्च प्रमादश्चैवमादयः ॥ १८॥ व्यासाभिप्रेतसिद्धान्ते वक्ष्येऽहं भारते स्फुटम् । त्रैगुण्यविततिं सम्यग् विस्तरेण यथातथम् ॥ १९॥ प्रकृतेः स्यान् महांस्तस्मादहङ्कारस्ततोऽप्यभूत् । तन्मात्राख्यानि पञ्च स्युः सूक्ष्मभूतानि तानि हि ॥ २०॥ शब्दः स्पर्शस्तथा रूपं रसो गन्ध इतीरिताः । खवाय्वग्न्यम्बुपृथ्व्यः स्युः सूक्ष्मा एव न चापरे ॥ २१॥ पटः स्याच् छुक्लतन्तुभ्यः शुक्ल एव यथा तथा । त्रिगुणानुगुणं तस्मात् तत्त्वसृष्टिरपि त्रिधा ॥ २२॥ सत्त्वात्मकानि सृष्टानि तेभ्यो ज्ञानेन्द्रियाण्यथ । श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणमित्यत्र पञ्चकम् । तैः शब्दस्पर्शरूपाणि रसगन्धौ प्रवेत्त्यसौ ॥ २३॥ रजोगुणोद्भवानि स्युस्तेभ्यः कर्मेन्द्रियाण्यथ । वाक्पाणिपादसंज्ञानि पायूपस्थौ तथैव च ॥ २४॥ वचनादानगमनविसर्गानन्दकर्म च । मनोऽन्तःकरणाख्यं स्यात् ज्ञेयं एकादशेन्द्रियम् ॥ २५॥ तमोगुणोद्भवान्येभ्यो महाभूतानि जज्ञिरे । पृथिव्यापस्तथा तेजो वायुराकाश इत्यपि ॥ २६॥ पञ्चविंशतितत्त्वानि प्रोक्तान्येतानि वै मया । एतान्येव विशेषेण ज्ञातव्यानि गुरोर्मुखात् ॥ २७॥ आत्मानः प्रलये लीनाः प्रकृतौ सूक्ष्मदेहिनः । गुणकर्मवशाद्ब्रह्मस्थावरान्तस्वरूपिणः ॥ २८॥ प्रकृतौ सूक्ष्मरूपेण स्थितं एवाखिलं जगत् । अभिव्यक्तं भवत्येव नासदुत्पत्तिरिष्यते ॥ २९॥ असदुत्पत्तिपक्षे च शशश‍ृङ्गादि सम्भवेत् । असत्तैलं तिलादौ चेत् सिकताभ्योऽपि तद्भवेत् ॥ ३०॥ जनितं जनयेच् चेति यस्तु दोषस्त्वयेरितः । अभिव्यक्तिमते न स्यादभिव्यञ्जककारणैः ॥ ३१॥ आत्मानो बहवः साध्या देहे देहे व्यवस्थिताः । एकश्चेद्युगपत् सर्वे म्रियेरन् सम्भवन्तु वा ॥ ३२॥ पश्येयुर्युगपत् सर्वे पुंस्येकस्मिन् प्रपश्यति । अतः स्यादात्मनानात्वमद्वैतं नोपपद्यते ॥ ३३॥ आत्मा ज्ञातव्य इत्यादिविधिभिः प्रतिपादितः । निवृत्तिरूपधर्मः स्यान् मोक्षदोऽन्यः प्रवर्तकः ॥ ३४॥ अग्निष्टोमादयो यज्ञाः काम्याः स्युर्विहिता अपि । प्रवृत्तिधर्मास्ते ज्ञेया यतः पुंसां प्रवर्तकाः ॥ ३५॥ धर्मेणोर्ध्वगतिः पुंसामधर्मात् स्यादधोगतिः । ज्ञानेनैवापवर्गः स्यादज्ञानाद्बध्यते नरः ॥ ३६॥ ब्रह्मार्पणतया यज्ञाः कृतास्ते मोक्षदा यदि । अयज्ञत्वप्रसङ्गः स्यान् मन्त्रार्थस्यान् यथाकृते ॥ ३७॥ तस्माद्यागादयो धर्माः संसारेषु प्रवर्तकाः । निषिद्धेभ्योऽपि कर्तव्याः पुंसां सम्पत्तिहेतवः ॥ ३८॥ इति सर्वदर्शनसिद्धान्तसङ्ग्रहे कपिलवासुदेवसाङ्ख्यपक्षो नाम नवमं प्रकरणम् ।

१०. पतञ्जलिसेश्वरसाङ्ख्यपक्षः अथवा पतञ्जलिपक्षः

अथ सेश्वरसाङ्ख्यस्य वक्ष्ये पक्षं पतञ्जलेः । पतञ्जलिरनन्तः स्याद्योगशास्त्रप्रवर्तकः ॥ १॥ पञ्चविंशतितत्त्वानि पुरुषं प्रकृतेः परम् । जानतो योगसिद्धिः स्याद्योगाद्दोषक्षयो भवेत् ॥ २॥ पञ्चविंशतितत्त्वानि पुरुषं प्रकृतिर्महान् । अहङ्कारश्च तन्मात्रा विकाराश्चापि षोडश । महाभूतानि चेत्येतदृषिणैव सुविस्तृतम् ॥ ३॥ ज्ञानमात्रेण मुक्तिः स्यादित्यालस्यस्य लक्षणम् । ज्ञानिनोऽपि भवत्येव दोषैर्बुद्धिभ्रमः क्वचित् ॥ ४॥ गुरूपदिष्टविद्यातो नष्टाविद्योऽपि पूरुषः । देहदर्पणदोषांस्तु योगेनैव विनाशयेत् ॥ ५॥ सम्यग् ज्ञातो रसो यद्वद्गुडादेर्नानुभूयते । पित्तज्वरयुतैस्तस्माद्दोषान् एव विनाशयेत् ॥ ६॥ गुरूपदिष्टविद्यस्य विरक्तस्य नरस्य तु । दोषक्षयकरस्तस्माद्योगादन्यो न विद्यते ॥ ७॥ अव्दियोपात्तकर्तृत्वात् कामात् कर्माणि कुर्वते । ततः कर्मविपाकेन जात्यायुर्भोगसम्भवः ॥ ८॥ पञ्चक्लेशास्त्वविद्या च रागद्वेषौ तदुद्भवौ । अस्मिताभिनिवेशौ च तत्राविद्यैव कारणम् ॥ ९॥ आत्मबुद्धिरविद्या स्यादनात्मनि कलेवरे । पञ्चभूतात्मको देहो देही त्वात्मा ततोऽपरः ॥ १०॥ तज्जन्यपुत्रपौत्रादिसन्तानेऽपि ममत्वधीः । अविद्या देहभोग्ये वा गृहक्षेत्रादिके तथा ॥ ११॥ नष्टाविद्योऽथ तन्मूलरागद्वेषविवर्जितः । मुक्तये योगमभ्यस्येदिहामुत्रफलास्पृहः ॥ १२॥ चित्तवृत्तिनिरोधे स्याद्योगः स्वस्मिन् व्यवस्थितिः । वृत्तयो नात्र वर्ण्यन्ते क्लिष्टाक्लिष्टविभेदिताः ॥ १३॥ क्रियायोगं प्रकुर्वीत साक्षाद्योगप्रवर्तकम् । क्रियायोगस्तपो मन्त्रजपो भक्तिर्दृढेश्वरे ॥ १४॥ क्लेशकर्मविपाकादिशून्यः सर्वज्ञ ईश्वरः । स कालेनानवच्छेदाद्ब्रह्मादीनां गुरुर्मतः ॥ १५॥ तद्वाचकः स्यात् प्रणवस्तज्जपो वाच्यभावनम् । योगान्तरायनाशः स्यात् तेन प्रत्यङ्मनो भवेत् ॥ १६॥ आलस्यं व्याधयस्तीव्राः प्रमादस्त्यानसंशयः । अनवस्थितचित्तत्वमश्रद्धा भ्रान्तिदर्शनम् ॥ १७॥ दुःखानि दौर्मनस्यं च विषयेषु च लोलता । श्वासप्रश्वासदोषौ च देहकम्पो निरङ्कुशः । इत्येवमादयो दोषा योगविघ्नाः स्वभावतः ॥ १८॥ ईश्वरप्रणिधानेन तस्माद्विघ्नान् विनाशयेत् । मैत्र्यादिभिर्मनःशुद्धिं कुर्याद्योगस्य साधनम् ॥ १९॥ मैत्रीं कुर्यात् सुधीलोके करुणां दुःखिते जने । धर्मेऽनुमोदनं कुर्यादुपक्षां एव पापिनाम् ॥ २०॥ भगवत्क्षेत्रसेवा च सज्जनस्य च सङ्गतिः । भगवच्चरिताभ्यासो भावना प्रत्यगात्मनः ॥ २१॥ इत्येवमादिभिर्यत्नैः संशुद्धं योगिनो मनः । शक्तं स्यादतिसूक्ष्माणां महतामपि भावने ॥ २२॥ योगाङ्गकारणाद्दोषे नष्टे ज्ञानप्रकाशनम् । अष्टावङ्गानि योगस्य यमोऽथ नियमस्तथा ॥ २३॥ आसनं पवनायामः प्रत्याहारोऽथ धारणा । ध्यानं समाधिरित्येवं तानि विस्तरतो यथा ॥ २४॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ । यमाः पञ्च भवन्त्येते जात्याद्यनुगुणा मताः ॥ २५॥ नियमाः शौचसन्तोषतपोमन्त्रेशसेवनाः । यमस्य नियमस्यापि सिद्धौ वक्ष्ये फलानि च ॥ २६॥ अहिंसायाः फलं तस्य सन्निधौ वैरवर्जनम् । सत्यादमोघवाक्त्वं स्यादस्तेयाद्रत्नसङ्गतिः ॥ २७॥ ब्रह्मचर्याद्वीर्यलाभो जन्मधीरपरिग्रहात् । शौचात् स्वाङ्गेऽजुगुप्सा स्याद्दुर्जनस्पर्शवर्जनम् ॥ २८॥ सत्त्वशुद्धिः सौमनस्यं ऐकात्मेन्द्रियवश्यते । आत्मदर्शनयोग्यत्वं मनःशौचफलं भवेत् ॥ २९॥ अनुत्तमसुखावाप्तिः सन्तोषाद्योगिनो भवेत् । इन्द्रियाणां तु कायस्य सिद्धिः स्यात् तपसः फलम् ॥ ३०॥ इन्द्रियस्य तु सिद्ध्या स्याद्दूरालोकादिसम्भवः । कायसिद्ध्याणिमादि स्यात् तस्य दिव्यशरीरिणः ॥ ३१॥ जपेन देवताकर्षः समाधिस्त्व् ईशसेवया । आसनं स्यात् स्थिरसुखं द्वन्द्वनाशस्ततो भवेत् ॥ ३२॥ पद्मभद्रमयूराख्यैर्वीरस्वस्तिककुक्कुटैः । आसनैर्योगशास्त्रोक्तैरासितव्यं च योगिभिः ॥ ३३॥ प्राणापाननिरोधः स्यात् प्राणायामस्त्रिधा हि सः । कर्तव्यो योगिनो तेन रेचपूरककुम्भकैः ॥ ३४॥ रेचनाद्रेचको वायोः पूरणात् पूरको भवेत् । सम्पूर्णकुम्भवत् स्थानादचलः स तु कुम्भकः ॥ ३५॥ प्राणायामश्चतुर्थः स्याद्रेचपूरककुम्भकान् । हित्वा निजस्थितिर्वायोरविद्यापापनाशिनी ॥ ३६॥ इन्द्रियाणां च चरतां विषयेभ्यो निवर्तनम् । प्रत्याहारो भवेत् तस्य फलमिन्द्रियवश्यता ॥ ३७॥ चित्तस्य देशबन्धः स्याद्धारणा द्विविधा हि सा । देशबाह्यान्तरत्वेन बाह्यः स्यात् प्रातिमादिकः ॥ ३८॥ देशाभ्यन्तरो ज्ञेयो नाभिचक्रहृदादिकः । चित्तस्य बन्धनं तत्र वृत्तिरेव न चापरम् ॥ ३९॥ नाभिचक्रादिदेशेषु प्रत्यय्स्यैकतानता । ध्यानं समाधिस्तत्रैव त्वात्मनः शून्यवत् स्थितिः ॥ ४०॥ धारणादित्रये त्व् एकविषये पारिभाषिकी । संज्ञा संयम इत्येषा त्रयोच्चारणलाघवात् ॥ ४१॥ योगिनः संयमजयात् प्रज्ञालोकः प्रवर्तते । संयमस्य तु कर्तव्यो विनियोगोऽत्र भूमिषु ॥ ४२॥ पञ्चभ्योऽपि यमादिभ्यो धारणादित्रयं भवेत् । अन्तरङ्गं हि निर्बीजसमाधिः स्यात् ततः परम् ॥ ४३॥ अजित्वा त्वपरां भूमिं नारोहेद्भूमिं उत्तराम् । अजित्वारोहणे भूमेर्योगिनः स्युरुपद्रवाः ॥ ४४॥ हिक्काश्वासप्रतिश्यायकर्णदन्ताक्षिवेदनाः । मूकताजडताकासशिरोरोगज्वरास्त्व् इति ॥ ४५॥ यस्येश्वरप्रसादेन योगो भवति तस्य तु । न रोगाः सम्भवत्येते येऽधरोत्तरभूमिजाः ॥ ४६॥ एक एवाखिलो धर्मो बाल्यकौमारयौवनैः । वार्धकेन तु कालेन परिणामाद्विनश्यति ॥ ४७॥ पराग्भूतस्य यातीडापिङ्गलाभ्यामहर्निशम् । कालस्तं शमयेत् प्रत्यग् अभियातः सुषुम्णया ॥ ४८॥ मुक्तिमार्गः सुषुम्णा स्यात् कालस्तत्र हि वञ्चितः । चन्द्रादित्यात्मकः कालस्तयोर्मार्गद्वयं स्फुटम् ॥ ४९॥ क्षीरात् समुद्धृतं त्वाज्यं न पुनः क्षीरतां व्रजेत् । पृथक्कृतो गुणेभ्यस्तु भूयो नात्मा गुणी भवेत् ॥ ५०॥ यथा नीता रसेन्द्रेण धातवः शातकुम्भताम् । पुनरावृत्तये न स्युस्तद्वदात्मापि योगिनाम् ॥ ५१॥ नाडीचक्रगतिर्ज्ञेया योगमभ्यस्यतां सदा । सुषुम्णा मध्यवंशास्थिद्वारेण तु शिरोगता ॥ ५२॥ इडा च पिङ्गला घ्राणप्रदेशे सव्यदक्षिणे । इडा चन्द्रस्य मार्गः स्यात् पिङ्गला तु रवेस्तथा ॥ ५३॥ कुहूरधोगता लिङ्गं वृषणं पायुमप्यसौ । विश्वोदरा धारणा च सव्येतरकरी क्रमात् ॥ ५४॥ सव्येतराङ्गी विज्ञेयौ हस्तिजिह्वा यशस्विनी । सरस्वती तु जिह्वा स्यात् सुषुम्नापृष्ठनिर्गता ॥ ५५॥ तत्पार्श्वयोः स्थितौ कर्णौ शङ्खिनी च पयस्विनी । गान्धारी सव्यनेत्रं स्यान् नेत्रं पूषा च दक्षिणम् ॥ ५६॥ ज्ञानकर्मेन्द्रियाणि स्युर्नाड्यः कण्ठाद्विनिःसृताः । नाड्यो हि योगिनां ज्ञेयाः सिरा एव न चापराः ॥ ५७॥ प्राणादिवायुसञ्चारो नाडीष्वेव यथा तथा । ज्ञातव्यो योगशास्त्रेषु तद्व्यापारश्च दृश्यताम् ॥ ५८॥ योगी तु संयमस्थाने संयमात् सर्वविद्भवेत् । पूर्वजातिपरिज्ञानं संस्कारे संयमाद्भवेत् ॥ ५९॥ हस्त्यादीनां बलानि स्युर्हस्त्यादिस्थानसंयमात् । मैत्र्यादि लभते योगी मैत्र्यादिस्थानसंयमात् ॥ ६०॥ चन्द्रे स्यात् संयमात् तस्य तारकाव्यूहवेदनम् । ध्रुवे तद्गतिविज्ञानं सूर्ये स्याद्भुवनेषु धीः ॥ ६१॥ कायव्यूहपरिज्ञानं नाभिचक्रे तु संयमात् । क्षुत्पिपासानिवृत्तिः स्यात् कण्ठकूपे तु संयमात् ॥ ६२॥ कूर्मनाड्यां भवेत् स्थैर्यं ऊर्ध्वज्योतिषि सिद्धधीः । जिह्वाग्रे रससंवित् स्यान् नासाग्रे गन्धवेदनम् ॥ ६३॥ अभ्यासादनिशं तस्माद्देहकान्तिः शुभाकृतिः । क्षुदादिविनिवृत्तिश्च जायते वत्सरार्धतः ॥ ६४॥ संवत्सरेण विविधा जायन्ते योगसिद्धयः । यथेष्टचरितं ज्ञानमतीताद्यर्थगोचरम् ॥ ६५॥ स्वदेहेन्द्रियसंशुद्धिर्जरामरणसङ्क्षयः । वैराग्येण निवृत्तिः स्यात् संसारे योगिनोऽचिरात् ॥ ६६॥ अणिमाद्यष्टकं तस्य योगसिद्धस्य जायते । तेन मुक्तिविरोधो न शिवस्येव यथा तथा ॥ ६७॥ अणिमा लघिमा चैव महिमा प्राप्तिरीशिता । प्राकाम्यं च तथेशित्वं वशित्वं यत्र कामदम् ॥ ६८॥ इति सर्वदर्शनसिद्धान्तसङ्ग्रहे पतञ्जलिसेश्वरसाङ्ख्यपक्षो नाम दशमं प्रकरणम् ।

११. वेदव्यासोक्तो भारतपक्षः

सर्वशास्त्राविरोधेन व्यासोक्तो भारते द्विजैः । गृह्यते साङ्ख्यपक्षाद्धि वेदसारोऽथ वैदिकैः ॥ १॥ पुरुषः प्रकृतिश्चेति द्वयात्मकमिदं जगत् । परः शयानस्तन्मात्रपुरे तु पुरुषः स्मृतः ॥ २॥ तन्मात्राः सूक्ष्मभूतानि प्रायस्ते त्रिगुणाः स्मृताः । प्रकृतिर्गुणसाम्यं स्याद्गुणाः सत्त्वं रजस्तमः ॥ ३॥ बन्धः पुंसो गुणावेशो मुक्तिर्गुणाविवेकधीः । गुणस्वभावैरात्मा स्यादुत्तमो मध्यमोऽधमः ॥ ४॥ उत्तमः सात्त्विकः श्लेष्मप्रकृतिः स जलात्मकः । राजसो मध्यमो ह्यात्मा स पित्तप्रकृतिर्मतः ॥ ५॥ अधमस्तामसो वातप्रकृतिर्यत् तमो मरुत् । सत्त्वं शुक्लं रजो रक्तं धूम्रं कृष्णं तमो मतम् ॥ ६॥ जलाग्निपवनात्मानः शुक्लरक्तासितास्ततः । तत्तदाकारचेष्टाद्यैर्लक्ष्यन्ते सात्त्विकादयः ॥ ७॥ प्रियङ्गुदुर्वाशस्त्राब्जहेमवर्णः कफात्मकः । गूढास्थिबन्धः सुस्निग्धपृथुवक्षा बृहत्तमः ॥ ८॥ गम्भीरो मांसलः सौम्यो गजगामी महामनाः । मृदङ्गनादो मेधावी दयालुः सत्यवाग् ऋजुः ॥ ९॥ क्षुत्तृड् दुःखपरिक्लेशैरतप्तो घर्मतस्तथा । अनेकपुत्रभृत्याढ्यो भूरिशुक्रो रतिक्षमः ॥ १०॥ धर्मात्मा मितभाषी च निष्ठुरं वक्ति न क्वचित् । बाल्येऽप्यरोदनोलोलो न बुभूक्षार्दितो भृशम् ॥ ११॥ भूङ्क्तेऽल्पं मधुरं कोष्णं तथापि बलवानसौ । अप्रतीकारतो वैरं चिरं गूढं वहत्यसौ ॥ १२॥ धृतिर्बुद्धिः स्मृतिः प्रीतिः सुखं लज्जाङ्गलाघवम् । आनृण्यं समतारोग्यमकार्पण्यमचापलम् ॥ १३॥ इष्टापूर्तविशेषाणां क्रतूनामविकत्थनम् । दानेन चानुग्रहणमस्पृहा च परार्थतः ॥ १४॥ सर्वभूतदया चेति गुणैर्ज्ञेयोऽत्र सात्त्विकः । रजोगुणपरिच्छेद्यो राजसोत्र यथा जनः ॥ १५॥ रजः पित्तं तदेवाग्निरग्निस्तत् पित्तजस्तु वा । तीव्रतृष्णो बुभुक्षार्तः पैत्तिकोऽमितभोजनः ॥ १६॥ पिङ्गकेशोऽल्परोमा च ताम्रवक्त्राङ्घ्रिहस्तकः । घर्मासहिष्णुरुष्णाङ्गः स्वेदनः पूतिगन्धयुक् ॥ १७॥ स्वस्थो विरेचनादेवं मृदुकोष्ठोऽतिकोपनः । शूरः सुचरितो मानी क्लेशभीरुश्च पण्डितः ॥ १८॥ माल्यानुलेपनादीच्छुरतिस्वच्छोज्ज्वलाकृतिः । अल्पशुक्लोऽल्पकामश्च कामिनीनामनीप्सितः ॥ १९॥ बाल्येपि पलितं धत्ते रक्तरोमाथ नीलिकाम् । बली साहसिको भोगी संप्राप्तविभवः सदा ॥ २०॥ भुङ्क्तेऽतिमधुरं चार्द्रं भक्ष्यं कट्वम्लनिस्पृहः । नात्युष्णभोजी पानीयमन्तरा प्रचुरं पिबन् ॥ २१॥ नेत्रं तन्व् अल्पपक्ष्मास्य भवेच्छीतजलप्रियः । कोपेनार्काभितापेन रागमाशु प्रयाति च ॥ २२॥ अत्यागित्वमकारुण्यं सुखदुःखोपसेवनम् । अहङ्कारादसत्कारश्चिन्ता वैरोपसेवनम् ॥ २३॥ परभार्यापहरणं ह्रीनाशोऽनार्जवं त्विति । राजसस्य गुणाः प्रोक्तास्तामसस्य गुणा यथा ॥ २४॥ अधर्मस्तामसो ज्ञेयस्तामसो वातिको जनः । अधन्यो मत्सरो चोरः प्राकृतो नास्तिको भृशम् ॥ २५॥ दीर्घस्फुटितकेशान्तः कृशः कृष्णोऽतिलोमशः । अस्निग्धविरलस्थूलदन्तो धूसरविग्रहः ॥ २६॥ चञ्चलास्य धृतिर्बुद्धिश्चेष्टा दृष्टिर्गतिः स्मृतिः । सौहार्दमस्थिरं तस्य प्रलापोऽसङ्गतः सदा ॥ २७॥ बह्वाशी मृगयाशीलो मलिष्ठः कलहप्रियः । शीतासहिष्णुश्चपलो दोषधीर्जर्जरस्वरः ॥ २८॥ सन्नसक्तचलालापो गीतवाद्यरतः सदा । मधुराद्युपभोगी च भक्ष्यपक्वाम्लसस्पृहः ॥ २९॥ अल्पपित्तकफः प्रेक्ष्योऽस्वल्पनिद्रोऽल्पजीवनः । एवमादिगुणैर्ज्ञेयस्तामसो वातिको जनः ॥ ३०॥ पञ्चभूतगुणान् वक्ष्ये त्रैगुण्यान् नातिभेदिनः । जङ्गमानां च सर्वेषां शरीरे पञ्च धातवः । प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते ॥ ३१॥ त्वक् च मांसं तथास्थीनि मज्जा स्नायुश्च पञ्चमः । इत्येतदिह सङ्घातं शरीरे पृथिवीमयम् ॥ ३२॥ तेजो ह्यग्निस्तथा क्रोधश्चक्षुरुष्मा तथैव च । अग्निर्जरयते यच्च पञ्चाग्नेयाः शरीरिणः ॥ ३३॥ श्रोत्रं घ्राणं तथाप्यञ्च हृदयं कोष्ठं एव च । आकाशात् प्राणिनां एते शरीरे पञ्च धातवः ॥ ३४॥ श्लेष्मा पित्तमथ खेदो वसा शोणितं एव च । इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा ॥ ३५॥ प्राणात् प्रणीयते देही व्यानाद्व्यायच्छते तथा । गच्छत्यपानोऽधश्चैव समानो हृद्यवस्थितः ॥ ३६॥ उदानादुच्छ्वसिति च प्रतिभेदाच्च भाषते । इत्येते वायवः पञ्च चेष्टयन्तीह देहिनम् ॥ ३७॥ इष्टश्चानिष्टगन्धश्च मधुरः कटुरेव च । निर्हारी सङ्गतः स्निग्धो रुक्षो विशद एव च । एवं नवविधो ज्ञेयः पार्थिवो गन्धविस्तरः ॥ ३८॥ मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा । एवं षड्विधविस्तारो रसो वारिमयः स्मृतः ॥ ३९॥ ह्रस्वो दीर्घस्तथा स्थूलश्चतुरस्रोऽथ वृत्तवान् । शुक्लः कृष्णस्तथा रक्तो नीलः पीतोऽरुणस्तथा ॥ ४०॥ कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो मृदुदारुणः । एवं षोडशविस्तारो ज्योतीरूपो गुणः स्मृतः ॥ ४१॥ उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च । तथा खरो मृदू रूक्षो लघुर्गुरुतरोऽपि च । एव्ग् द्वादशविस्तारो वायव्यो गुण उच्यते ॥ ४२॥ षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा । धैवतो निषधश्चैव सप्तैते शब्दजा गुणाः ॥ ४३॥ आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह । अव्याहतैश्चेतयते न वेत्ति विषमस्थितैः ॥ ४४॥ आप्याय्यन्ते च ते नित्यं धातवस्तैस्तु पञ्चभिः । आपोऽग्निर्मरुतश्चैव नित्यं जाग्रति देहिषु ॥ ४५॥ चतुर्व्यूहात्मको विष्णुश्चतुर्धैवाकरोज्जगत् । ब्रह्मक्षत्रियविट्शूद्रांश्चतुर्वर्णान् गुणात्मकान् ॥ ४६॥ विप्रः शुक्लो नृपो रक्तः पीतो वैश्योऽन्त्यजोसितः । विस्तृत्य धर्मशास्त्रे हि तेषां कर्म समीरितम् ॥ ४७॥ एकस्मिन्न् एव वर्णे तु चातुर्वर्ण्ये गुणात्मकम् । मोक्षधर्मेऽधिकारित्वसिद्धये मुनिरभ्यधात् ॥ ४८॥ स कर्मदेवतायोगज्ञानकाण्डेष्व् अनुक्रमात् । प्रवर्तयति तत्कर्मपरिपाकक्रमं विदन् ॥ ४९॥ ऋजवः शुद्धवर्णाभाः क्षमावन्तो दयालवः । स्वधर्मनिरता ये स्युस्ते द्विजेषु द्विजातयः ॥ ५०॥ कामभोगप्रियास्तीक्ष्णाः क्रोधनाः प्रियसाहसाः । त्यक्तस्वधर्मा रक्ताङ्गास्ते द्विजा क्षत्रतां गताः ॥ ५१॥ गोषु वृत्तिं समाधाय पीताः कृष्युपजीविनः । स्वधर्मान् नानुतिष्ठन्ति ते द्विजा वैश्यतां गताः ॥ ५२॥ हिंसानृतप्रिया लुब्धाः सर्वकर्मोपजीविनः । कृष्णाः शौचपरिभ्रष्टास्ते द्विजाः शूद्रतां गताः ॥ ५३॥ समयाचारनिःशेषकृत्यभेदैर्विमोहयन् । मोक्षदो विष्णुरेव स्याद्देवदैतेयरक्षसाम् ॥ ५४॥ चतुर्भिर्जन्मभिर्मुक्तिर्द्वेषेण भजतस्तव । भवेदिति वरो दत्तः पुण्डरीकाय विष्णुना ॥ ५५॥ रजःसत्त्वतमोमार्गैस्तदात्मानः स्वकर्मभिः । प्राप्यते विष्णुरेवैको देवदैत्यनिशाचरैः ॥ ५६॥ ब्रह्मविष्णुहराख्याभिः सृष्टिस्थितिलयानपि । हरिरेव करोत्येको रजःसत्त्वतमोवशात् ॥ ५७॥ सात्त्विकास्त्रिदशाः सर्वे त्वसुरा राजसा मताः । तामसा राक्षसा शीलप्रकृत्याकृतिवर्णतः ॥ ५८॥ धर्मः सुराणां पक्षः स्यादधर्मोऽसुररक्षसाम् । पिशाचादेरधर्मः स्यादेषां लक्ष्म रजस्तमः ॥ ५९॥ ईश्वराज्ज्ञानमन्विच्छेच्छ्रियमिच्छेद्धुताशनात् । आरोग्यं भास्करादिच्छेन्मोक्षमिच्छेज्जनार्दनात् ॥ ६०॥ यस्मिन् पक्षे तु यो जातः सुरो वाप्यसुरोऽपि वा । स्वधर्म एव तस्य स्यादधर्मेऽप्यत्र धर्मवित् ॥ ६१॥ वेदत्रयोक्ता ये धर्मास्तेऽनुष्ठेयास्तु सात्त्विकैः । अधर्मोऽथर्ववेदोक्तो राजसैस्तामसैः श्रितः ॥ ६२॥ विष्णुक्रमणपर्यन्तो योगोऽस्माकं यथा तथा । राजसैस्तामसैर्ब्रह्मरुद्राव् इज्यौ तु तद्गुणौ ॥ ६३॥ निजधर्मपथायाताननुगृह्णात्यसौ हरिः । मुच्यते निजधर्मेण परधर्मो भयावहः ॥ ६४॥ एक एव परो विष्णुः सुरासुरनिशाचरान् । त्रिगुणानुगुणं नित्यमनुगृह्णाति लीलया ॥ ६५॥ इति सर्वदर्शनसिद्धान्तसङ्ग्रहे वेदव्यासोक्तो भारतपक्षो नामैकादशं प्रकरणम् ।

१२. वेदान्तपक्षः

वेदान्तशास्त्रसिद्धान्तः सङ्क्षेपादथ कथ्यते । तदर्थप्रवणाः प्रायः सिद्धान्ताः परवादिनाम् ॥ १॥ ब्रह्मार्पणकृतैः पुण्यैर्ब्रह्मज्ञानाधिकारिभिः । तत् त्वमस्यादिवाक्यार्थो ब्रह्म जिज्ञास्यते बुधैः ॥ २॥ नित्यानित्यविवेकित्वमिहामुत्रफलास्पृहा । शमो दमो मुमुक्षुत्वं यस्य तस्याधिकारिता ॥ ३॥ तत् त्वमस्येव नान्यस्त्वं तच्छब्दार्थः परेश्वरः । त्वंशब्दार्थो पुरोवर्ती तिर्यङ्मर्त्यादिकोऽपरः ॥ ४॥ तादात्म्यमसि शब्दार्थो ज्ञेयस्तत्त्वम्पदार्थयोः । सोऽयं पुरुष इत्यादि वाक्ये तादात्म्यवन् मतः ॥ ५॥ स्यान् मतं तत् त्वमस्यादिवाक्यं सिद्धार्थबोधनात् । कथं प्रवर्तकं पुंसां विधिरेव प्रवर्तकः ॥ ६॥ आत्मा ज्ञातव्य इत्यादिविधिभिः प्रतिपादिताः । यजमानाः प्रशस्यन्ते तत्त्ववादैरिहारुणैः ॥ ७॥ बुद्धीन्द्रियशरीरेभ्यो भिन्न आत्मा विभुर्ध्रुवः । नानाभूतः प्रतिक्षेत्रमर्थवित्तिषु भासते ॥ ८॥ व्यर्थातो ब्रह्मजिज्ञासा वाक्यस्यान्यपरत्वतः । अत्र ब्रूमः समाधानं न लिङ् एव प्रवर्तकः ॥ ९॥ इष्टसाधनताज्ञानादपि लोकः प्रवर्तते । पुत्रस्ते जात इत्यादौ विधिरूपो न तादृशः ॥ १०॥ आत्मा ज्ञातव्य इत्यादिविधयस्त्व् आरुणे स्थिताः । बोधं विदधते ब्रह्मण्यज्ञानाद्भ्रान्तचेतसाम् ॥ ११॥ स्यादेतत् काम्यकर्माणि प्रतिसिद्धानि वर्जयन् । विहितं कर्म कुर्वाणः शुद्धान्तःकरणः पुमान् । स्वयं एव भवेज्ज्ञानी गुरुवाक्यानपेक्षया ॥ १२॥ तदयुक्तं न विज्ञानं कर्मभिः केवलैर्भवेत् । गुरुप्रसादजन्यं हि ज्ञानमित्युक्तमारुणैः ॥ १३॥ प्रत्यक् प्रवणतां बुद्धेः कर्माण्युत्पाद्य शक्तितः । कृतार्थान्यस्तमायान्ति प्रावृडन्ते घना इव ॥ १४॥ प्रत्यक्प्रवणबुद्धेस्तु ब्रह्मज्ञानाधिकारिणः । स्यादेव ब्रह्मजिज्ञासा तत् त्वमस्यादिभिर्गुरोः ॥ १५॥ तत् त्वमस्यादि वाक्यौघो व्याख्यातो हि पुनः पुनः । गुर्वनुग्रहहीनस्य नात्मा सम्यक् प्रकाशते ॥ १६॥ आत्माविद्यानिमित्तोत्थः प्रपञ्चः पाञ्चभौतिकः । निवर्तते यथा तुच्छं शरीरभुवनात्मकम् । तथा ब्रह्मविवर्तं तु विज्ञेयमखिलं जगत् ॥ १७॥ वेदान्तोक्तात्मविज्ञानविपरीतमतिस्तु या । आत्मन्यविद्या सानादिः स्थूलसूक्ष्मात्मना स्थिता ॥ १८॥ आत्मनः खं ततो वायुर्वायोरग्निस्ततो जलम् । जलात् पृथिव्यभूद्भूमेर्व्रीह्याद्यौषधयोऽभवन् ॥ १९॥ औषधिभ्योऽन्नमन्नात् तु पुरुषः पञ्चकोशवान् । अपञ्चीकृततन्मात्रः सूक्ष्मभूतात्मको जनः । स्थूलीभवती तद्भेदस्तिर्यङ्नरसुरात्मकः ॥ २०॥ धर्माधिक्ये तु देवत्वं तिर्यक्त्वं स्यादधर्मतः । तयोः साम्ये मनुष्यत्वमिति त्रेधा तु कर्मभिः ॥ २१॥ त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः । सप्तान्नपरिणामाः स्युः पुंस्त्रीत्वमपि न स्वतः ॥ २२॥ शुक्राधिक्ये पुमान् गर्भे रक्ताधिक्ये वधूस्तथा । नपुंसकं तयोः साम्ये मातुः सञ्जायते सदा ॥ २३॥ मज्जास्थिस्नायवः शुक्राद्रक्तात् त्वङ्मांसशोणिताः । षट्कोशाख्यं भवेदेतत् पितुर्मातुस्त्रयं त्रयम् ॥ २४॥ बुभुक्षा च पिपासा च शोकमोहौ जरामृतौ । षडूर्मयः प्राणबुद्धिदेहेषु स्याद्द्वयं द्वयम् ॥ २५॥ आत्मत्वेन भ्रमन्त्यत्र वादिनः कोशपञ्चके । अन्नप्राणमनोज्ञानमयाः कोशास्तथात्मनः ॥ २६॥ आनन्दमयकोशश्च पञ्चकोशा इतीरिताः । मयङ्विकारे विहित इत्यानन्दमयोऽभ्यसन् ॥ २७॥ गृह्णात्यन्नमयात्मानं देहं लोकायतः खलु । देहैः परिमितं प्राणमयमारहता विदुः ॥ २८॥ विज्ञानमयमात्मानं बौद्धा गृह्णन्ति नापरम् । आनन्दमयमात्मानं वैदिकाः केचिदूचिरे ॥ २९॥ अहङ्कारात्मवादी तु प्राह प्रायो मनोमयम् । कर्तृत्वादिभिरस्पृष्टो ग्राह्य अन्यथाविन्मते ॥ ३०॥ कर्तृत्वं कर्मकाण्डस्थैर्देवताकाण्डमाश्रितैः । अवश्याश्रयणीयं हि नान्यथा कर्म सिध्यति ॥ ३१॥ वसन्ते ब्राह्मणोऽत्राग्नीन् आदधीतेति वै विधौ । देहो वात्मविशिष्टो वा कोधिकारी तु कर्मणि ॥ ३२॥ अचेतनत्वाद्देहस्य स्वर्गकामाद्यसम्भवात् । न जाघटीति कर्तृत्वं नाशित्वात् तत्र कर्मणि ॥ ३३॥ आत्मनो ब्राह्मणत्वादिजातिरेव न विद्यते । जातिवर्णाश्रमावस्थाविकारेभ्योऽपि सोऽपरः ॥ ३४॥ विशिष्टो नापरः कश्चिद्विद्यते देहदेहिनोः । अतः काल्पनिकः कर्ता विज्ञेयस्तत्र कर्मणि ॥ ३५॥ नेति नेत्युच्यमाने तु पञ्चकोशे क्रमेण यः । भासते तत्परं ब्रह्म स्यादविद्या ततोऽन्यथा ॥ ३६॥ आत्मस्वरूपमाच्छाद्य विक्षेपान् सा करोत्यलम् । अहङ्काराख्यविक्षेपः कामात् कर्मफलं सदा ॥ ३७॥ मूलभूतोऽखिलभ्रान्तेर्बिभ्राणो दुःखसन्ततिम् । व्यवहारान् करोत्युच्चैः सर्वान् लौकिकवैदिकान् । मातृमानप्रमेयादिभिन्नान् सर्वस्य सत्यवत् ॥ ३८॥ निष्क्रियस्य त्वसङ्गस्य चिन्मात्रस्यात्मनः खलु । स्वतो न व्यवहारोऽयं सम्भवत्यनपेक्षिणः ॥ ३९॥ जडश्चेतत्यहङ्कारश्चैतन्याध्यासनाद्ध्रुवम् । अन्यवस्त्वन्तराध्यासादात्मान्यत्वेन भासते ॥ ४०॥ इदं अंशो द्विधाभूतस्तत्र प्राणः क्रियाश्रयः । ज्ञानाधारोऽपरो बुद्धिर्मन इत्यंश ईरितः ॥ ४१॥ तस्य चेष्टादयोऽपीष्टाः प्राणाद्याः पञ्च वायवः । करणाद्याः क्रियाभेदवागादिद्वारकास्तथा । द्विधान्तःकरणं बुद्धिर्मनः कार्यवशादिह ॥ ४२॥ आत्मैव केवलः साक्षादहम्बुद्धौ तु भाति चेत् । कृशोऽस्मीति मतौ भाति केवलो नेति तद्वद ॥ ४३॥ कृशादयोऽत्र दृश्यत्वान् नात्मधर्मा यथा मताः । मुखादयोऽपि देहस्था नात्मधर्मास्तथैव च ॥ ४४॥ मातृमानप्रमेयेभ्यो भिन्न आत्मात्मविन्मते । तथैव चोपपाद्यः स्यान् निरस्य परवादिनः ॥ ४५॥ अनात्मा विषयश्चेति प्रतिपाद्यो न कस्यचित् । घटोऽहमिति कस्यापि प्रतिपत्तेरभावतः ॥ ४६॥ रूपादिमत्त्वाद्दृश्यत्वाज्जडत्वाद्भौतिकत्वतः । अन्नवच् चादनीयत्वात् श्वादेर्नात्मा कलेवरम् ॥ ४७॥ देहतो व्यतिरेकेण चैतन्यस्य प्रकाशनात् । अतस्त्वन्नमयो देहो नात्मा लोकायतेरितः ॥ ४८॥ प्राणोऽप्यात्मा न वायुत्वाज्जडत्वाद्बाह्यवायुवत् । इन्द्रियाणि न चात्मा स्यात् करणत्वात् प्रदीपवत् ॥ ४९॥ चञ्चलत्वान् मनो नात्मा सुषुप्तौ तदसम्भवात् । सुखे पर्यवसानां च सुखं एवात्मविग्रहः ॥ ५०॥ धत्तेऽन्नमयमात्मानं प्राणः प्राणं मनो मनः । सच्चिदानन्दगोविन्दपरमात्म वहत्यसौ ॥ ५१॥ यदा बाह्येन्द्रियैरात्मा भुङ्क्तेऽर्थान् स्वपराङ्मुखान् । तदा जाग्रदवस्था स्यादात्मनो विश्वसंज्ञिता ॥ ५२॥ बाह्येन्द्रियगृहीतार्थान् मनोमात्रेण वै यदा । भुङ्क्ते स्वप्नांस्तदा ज्ञेया तैजसाख्या परात्मनः ॥ ५३॥ अविद्यातिमिरग्रस्तमनस्यात्मन्यवस्थिते । सुषुप्त्यवस्था विज्ञेया प्राज्ञाख्यानन्दसंज्ञिता ॥ ५४॥ स्वापेऽपि तिष्ठति प्राणो मृतभ्रान्तिनिवृत्तये । अन्यथा श्वादयोऽश्नन्ति संस्करिष्यन्ति वानले ॥ ५५॥ स्वापेऽप्यानन्दसद्भावो भवत्येवोत्थितो यतः । सुखमस्वाप्समित्येवं परामृशति वै स्मरन् ॥ ५६॥ स्यान् मतं विषयाभावान् न तद्विषयजं सुखम् । वैद्यत्वान् न निजं तेन दुःखाभावे सुखभ्रमः । प्रतियोगिन्यदृष्टेऽपि सर्वाभावोऽपि गृह्यते ॥ ५७॥ यतोऽन्यस्मै पुनः पृष्टः सर्वाभावं प्रभाषते । न्यायेनानेन भावानां ज्ञानाभावोऽनुभूयते ॥ ५८॥ अत्र ब्रूमः समाधानं दुःखाभावो न गृह्यते । प्रबुद्धेनेति सुप्तस्य नाज्ञानं प्रति साक्षिता ॥ ५९॥ प्रतियोग्यग्रहात् स्वापे दुःखस्य प्रतियोगिता । अभावाख्यं प्रमाणं तु नास्ति प्राभाकरे मते ॥ ६०॥ नैयायिकमतेऽभावः प्रत्यक्षान् नातिरिच्यते । सुखदुःखादिनिर्मुक्तेर्मोक्षे पाषाणवत् स्थितम् । आत्मानं प्रवदन् वादी मूर्खः किं न वदत्यसौ ॥ ६१॥ स्थितमज्ञानसाक्षित्वं नित्यानन्दत्वमात्मनः । वदत्यत्रात्मनानात्वं देहेषु प्रतिवादिनः ॥ ६२॥ एकश्चेति सर्वभूतेषु पुंसि कस्मिन् मृते सति । सर्वे म्रियेरन् जायेरन् जाते कुर्युश्च कुर्वति ॥ ६३॥ एवं विरुद्धधर्मा हि दृश्यन्ते सर्वजन्तुषु । अतः सर्वशरीरेषु नानात्वं चात्मनां स्थितम् ॥ ६४॥ विरुद्धधर्मदृष्ट्यैव पुंसां भेदस्त्वयेरितः । विरुद्धधर्मा दृष्टा क्व देहे वात्मनि वा वद ॥ ६५॥ देहे चेद्देहनानात्वं सिद्धं किं तेन चात्मनि । चिद्रूपात्मनि भेदश्चेत् पुंस्येकस्मिन् प्रसज्यते ॥ ६६॥ एकस्येन्दोरपां पात्रेष्व् अनेकत्वं यथा तथा । अनेकदेहेष्वेकात्मप्रतिभासस्तथा मतः ॥ ६७॥ आत्मान्यः पञ्चकोशेभ्यः षड्भावेभ्यः षडूर्मितः । देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितः ॥ ६८॥ एकः सकलदेहेषु निर्विकारो निरञ्जनः । नित्योऽकर्ता स्वयञ्ज्योतिर्विभुर्भोगविवर्जितः ॥ ६९॥ ब्रह्मात्मा निर्गुणः शुद्धो बोधमात्रतनुः स्वतः । अविद्योपाधिकः कर्ता भोक्ता रागादिदूषितः ॥ ७०॥ अहङ्कारादिदेहान्तः कलुषीकृतविग्रहः । यथोपाधिपरिच्छिन्नो बन्धकाष्टकवेष्टितः । ब्रह्मादिस्थावरान्तेषु भ्रमन् कर्मवशानुगः ॥ ७१॥ कर्मणा पितृलोकादि निषिद्धैर्नरकादिकम् । विद्यया ब्रह्मसायुज्यं तद्धीनः क्षुद्रतां गतः ॥ ७२॥ एक एव परो जीवः स्वकल्पितजगत्त्रयः । बन्धमुक्तादिभेदश्च स्वप्नवद्घटनामियात् ॥ ७३॥ अथवा बहवो जीवाः संसाराज्ञानभागिनः । अनादित्वादविद्याया अन्योन्याश्रयता नहि ॥ ७४॥ व्यष्टिदेहादिदं युक्तं द्वयमित्यपरं मतम् । समष्टिदृष्ट्या त्व् एकत्वं व्यष्टिदृष्ट्या त्वनेकता ॥ ७५॥ साक्षी सद्वारनिर्द्वारसम्बन्धानां जडात्मनाम् । विज्ञानाज्ञानरूपेण सदा सर्वज्ञतां गतः ॥ ७६॥ मायामात्रः सुषुप्त्यादौ स्वचिताज्ञानकञ्चुकः । जन्मान्तरानुभूतानामपि संस्मरणक्षमः ॥ ७७॥ तत्प्रापकवशादत्र तारतम्यविशेषभाक् । अवस्थापञ्चकातीतः प्रमाता ब्रह्मविन्मतः ॥ ७८॥ प्रसाधनमित्येव मानसामान्यलक्षणम् । तत्परिच्छेदभेदेन तदेवं द्विविधं मतम् ॥ ७९॥ निवर्तकमविद्याया इति वा मानलक्षणम् । सशेषाशेषभेदेन तदेवं द्विविधं मतम् । तत् त्वमस्यादि वाक्योत्थमशेषाज्ञानबाधकम् ॥ ८०॥ प्रत्यक्षमनुमानाख्यं उपमानं तथागमः । अर्थापत्तिरभावश्च प्रमाणानि षडेव हि ॥ ८१॥ व्यावहारिकनामानि भवन्त्येतानि नात्मनि । स्वसंवेद्योऽप्रमेयोऽपि लक्ष्यते वाङ्मनोऽतिगः ॥ ८२॥ हिरण्यगर्भपक्षस्तु वेदान्तान् नातिभिद्यते । आनन्दः पुरुषोऽज्ञानं प्रकृतिस्तन्मते मता ॥ ८३॥ ज्ञानं द्विधा स्थितं प्रत्यक् पराग् इति हि भेदतः । आनन्दाभिमुखं प्रत्यग् बाह्यार्थाभिमुखं पराक् ॥ ८४॥ आत्माज्ञानविवर्तः स्याद्भूततन्मात्रपञ्चकम् । तन्मात्रपञ्चकाज् जातमन्तःकरणपञ्चकम् ॥ ८५॥ मनोबुद्धिरहङ्कारश्चित्तं ज्ञातृत्वमित्यपि । पार्थिवः स्यादहङ्कारो ज्ञातृत्वमवकाशजम् ॥ ८६॥ करणद्वयं एतत् तु कर्तृत्वेनावभासते । बुद्धिः स्यात् तैजसी चित्तमाप्यं स्याद्वायुजं मनः ॥ ८७॥ भूम्याद्येकैकभूतस्य विज्ञेयं गुणपञ्चकम् । अहङ्कारो भुवः प्राणो घ्राणं गन्धश्च पायुना ॥ ८८॥ चित्तापानौ तथा जिह्वा रसोपस्थावपां गुणाः । बुद्ध्युदानौ तथा चक्षूरूपपादास्तु तैजसाः ॥ ८९॥ मनो वायोर्व्यानचर्मस्पर्शाः पाणिर्गुणास्तथा । ज्ञातृत्वं च समानश्च श्रोत्रं शब्दश्च वाक् खजाः ॥ ९०॥ एकैकसूक्ष्मभूतेभ्यः पञ्च पञ्चापरे गुणाः । अस्थि चर्म तथा मांसं नाडी रोमाणि भूगुणाः ॥ ९१॥ मूत्रं श्लेष्मा तथा रक्तं शुक्रं मज्जा त्वपां गुणाः । निद्रा तृष्णा क्षुधा ज्ञेया मैथुनालस्यमग्निजा ॥ ९२॥ प्रचालस्तरणारोहैर्वायोरुत्थानरोधने । कामक्रोधौ लोभभये मोहो व्योमगुणास्तथा ॥ ९३॥ उक्तोऽवधूतमार्गश्च कृष्णेनैवोद्धवं प्रति । श्रीभागवतसंज्ञे तु पुराणे दृश्यते हि सः ॥ ९४॥ सर्वदर्शनसिद्धान्तान् वेदान्तास्तान् इमान् क्रमात् । श्रुत्वार्थवित् सुसंक्षिप्तान् तत्त्वतः पण्डितो भुवि ॥ ९५॥ इति श्रीमच्छङ्कराचार्यविरचिते सर्वदर्शनसिद्धान्तसङ्ग्रहे वेदान्तपक्षो नाम द्वादशप्रकरणम् । इति सर्वदर्शनसिद्धान्तसङ्ग्रहः सम्पूर्णः ।
% Text title            : sarvasiddhAntasangrahaH
% File name             : sarvasiddhAntasangrahaH.itx
% itxtitle              : sarvasiddhAntasaNgrahaH (shaNkarAchAryavirachitaH)
% engtitle              : sarvasiddhAntasangrahaH
% Category              : major_works, shankarAchArya, sangraha
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Shankaracharya ??
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das, jagat) jankbrz at yahoo.com
% Source                : Edition used Prema Sundar Bose, Calcutta, 1929
% Indexextra            : (Scan 1, 2, English, Thesis)
% Acknowledge-Permission: https://grantha.jiva.org
% Latest update         : July 15, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org