॥ समाससूत्र सर्वोपकारिणी टीका ॥

यद्वाग्विभूतिरमलाखिलतत्त्वजाता- न्नानाद्य तत्त्वममलं परिबोधयन्ती । श्रेयः करोति जगतां भगवन्तमाद्यं तं श्रीमहर्षिकपिलं प्रभुमानतोऽस्मि ॥ १॥ उद्दिधीर्षुस्तदुन्नीतसूत्रतत्त्वार्थबुद्धये । सर्वोपकारिणीं कुर्वे टीकां गुणवशंवदः ॥ २॥ अथात्रानादिक्लेशकर्मवासनासमुद्रनिपतिताननाथदीनानुद्दिधीर्षुः परमकृपालुः स्वतःसिद्धतत्त्वज्ञानो महर्षिर्भगवान् कपिलो द्वाविंशतिसूत्राण्युपादिक्षत् । सूचनात् सूत्रमिति हि व्युत्पत्तिः । तत एतैः समस्ततत्त्वानां सकलषष्टितन्त्रार्थानां च सूचनं भवति । इतश्चेदं सकलसांख्यतीर्थमूलभूतं तीर्थान्तराणि चैतत्प्रपञ्चभूतान्येव । सूत्रषडध्यायी तु वैश्वानरावतारमहर्षिभगवत्कपिलप्रणीता इयं तु द्वाविंशतिसूत्री तस्या अपि बीजभूता नारायणावतारमहर्षिभगवत्कपिलप्रणीतेति वृद्धाः । तत्रादौ प्रथमसूत्रत्रयेण सकलप्रपञ्चमूलभूतानि पञ्चविंशतितत्त्वानि सूचयति । अष्टौ प्रकृतयः ॥ १ ॥ षोडश विकाराः ॥ २ ॥ पुरुषः ॥ ३ ॥ अयमर्थः सांख्यसिद्धान्ते पञ्चविंशतिस्तत्त्वानि । तत्र मूलप्रकृतिः महत्तत्त्वम् अहङ्कारः शब्दतन्मात्रा स्पर्शतन्मात्रा रूपतन्मात्रा रसतन्मात्रा गन्धतन्मात्रा चेत्यष्टौ प्रकृतयः सन्ति । अत्र तत्त्वान्तरारम्भकत्वं प्रकृतित्वम् अतश्च महदादीनां सप्तानां पूर्वपूर्वविकृतित्वेऽपि न अतिः लक्षणसमन्वयात् । पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणि मनः गगनपवनज्वलनसलिलधरण्याख्यानि पञ्च भूतानि चैतानि षोडश विकाराः विकृतय एव न तत्त्वान्तारारम्भकाणि सर्वं वाक्यं सावधारणमिति न्यायात् । पुरुषः पञ्चविंशतितमं तत्त्वम् । अयं च न प्रकृतिर्न विकृतिः ताभ्यः पृथक्कृत्य निरूपणात् । अनेन जडत्वपरिणामित्वकर्तृत्वादिधर्मवद्भ्यः प्रकृत्यादिभ्यः पुरुषस्य वैलक्षण्यमपि सूचितं भवति तथा च कारिका । मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ इति । नन्वेतेभ्योऽतिरिक्ता अन्येऽपि बहवो घटपटादयः पदार्था दृश्यन्ते तत्कथमेषामुपपत्तिरत आह । त्रैगुण्यसञ्चारः ॥ ४ ॥ त्रिगुण एव त्रैगुण्यं सत्त्वरजस्तमांसि तेषां सञ्चारः मत्तकपोतकण्ठन्यायेन प्रतिक्षणं विलक्षणपरिणामो वर्त्तत इति शेषः । अनेन मूलप्रकृतिस्त्रिगुणात्मिका त्रित्वेन च भेदबोधकेन गुणाः परस्परविरुद्धस्वभावाः प्रीत्यप्रीतिविषादात्मकाः सञ्चारेण च सङ्गतसम्यक्चरणार्थकेन तेषां नित्यसभावः पुरुषार्थे जननीये कार्यानुसारेण परस्परसहायता च । ततश्च प्रकृतेर्महदादीनां भूतेभ्यश्च घटपटादिसकलपदार्थानां त्रिगुणलक्षणपरिणामादेव संसिद्धिः कार्योत्पादश्च नापूर्वः किन्त्वाविर्भावमात्रं सूक्ष्मकारणरूपेण स्थितस्य स्थूलकार्यक्षमरूपेण विपरिणाम इति सद्व्याप्तिवादश्च इत्येते सिद्धान्ताः संसूचिता भवन्तीति बोध्यम् ॥ ननु गुणानामनवरतपरिणतिस्वभावत्वात् कदाचिदपि दृश्यजातादर्शनं न स्यात् ततश्च प्रलयोच्छेदः स्यादत आह । प्रतिसञ्चरः ॥ ५ ॥ यथा सृष्टिप्रक्रियानिर्वाहकस्त्रिगुणपरिणमस्तथा प्रतिसञ्चारः प्रतिकूलोपि विपरिणामोस्ति तथा च प्रतिलोमपरिणामेन तत्तत्कार्याणां स्वस्वकारणे लये जाते त्रिगुणायाः प्रकृतेः साम्यस्थितिरेव प्रलय इति सूचितम् । तदा च समानपरिणामत्वेन वैलक्षण्यानाविर्भाव इति भावः ॥ अथ जायमानस्य सुखदुःखादेर्विवेकार्थं त्रैविध्यं वक्तुमेकेनादावान्तरमाह । अध्यात्मम् ॥ ६ ॥ आत्मानमधिकृत्येत्यध्यात्मम् तद्द्विविधं शारीरं मानसं चेति शारीरं वातपित्तश्लेष्मवैषम्यनिमित्तं मानसं कामक्रोधलोभमोहेर्ष्याविषयविशेषदर्शनादर्शननिमित्तम् । एतदुभयमपि आन्तरोपायसाध्यत्वादध्यात्ममित्युच्यते ॥ बाह्यभेदद्वयमाह द्वाभ्याम् । अधिभूतम् ॥ ७ ॥ मानुषपशुपक्षिसरीसृपस्थावरादिभूतान्यधिकृत्य तदधिभूतमित्यर्थः ॥ आधिदैवम् ॥ ८ ॥ यक्षराक्षसविनायकग्रहाद्यावेशनिमित्तमेतत् । इदं द्वयमपि बाह्योपायसाध्यत्वाद्बाह्यमित्युक्तम् ॥ ननु सत्स्वपि विलक्षणेषु बहुषु पदार्थेषु पुरुषस्य तत्सम्बन्धाभावात् कथं ततो दुःखमतस्तत्सामग्रीं निरूपयिषुरादौ बुद्धीन्द्रियाण्याह । पञ्चाभिबुद्धयः ॥ ९ ॥ अभितो बुद्ध्यन्ते ज्ञायन्ते वस्तून्याभिरित्यभिबुद्धयः बुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनत्वगाख्यानि रूपशब्दगन्धरसस्पर्शबोधकानि ॥ अनेन च ज्ञानद्वारा योगं दर्शयितुं कर्मेन्द्रियाण्याह । पञ्च कर्मयोनयः ॥ १० ॥ पञ्च इन्द्रियाणि कर्मयोनयः कर्मणां वचनादानविहरणोत्सर्गानन्दानां योनयः कारणानि तानि च वाक्पाणिपादपायूपस्थाख्यानि । अनेन कर्मणा तत्तद्विषयसान्निध्येन तत्तत्सम्बन्धः सूचितः ॥ अथ महदहङ्कारमनसामध्यवसायाभिमानसङ्कल्पा असाधारण्यो वृत्तयः ताभिर्विनेन्द्रियद्वारा विषयग्रहासम्भवात् तैस्तद्ग्रहोक्त्या तासां निरूपितप्रायत्वेन तत्साधारणी वृत्तिराह । पञ्च वायवः ॥ ११ ॥ पञ्चसंख्याकाः प्राणापानसमानोदानव्यानाख्याः वायवः महदहङ्कारमनसां साधारणवृत्तयः जीवनसाधनानि । तत्र प्राणो नासाग्रहृन्नाभिपादाङ्गुष्ठवृत्तिः अपानः कृकाटिकापृष्ठपायुपार्श्वोपस्थवृत्तिः समानो हृन्नाभिसर्वसन्धिवृत्तिः उदानो हृत्कण्ठतालुमूर्द्धभ्रूमध्यवृत्तिः व्यानस्त्ववृत्तिरिति ॥ पञ्चानमौपयोगमाह । पञ्च कर्मात्मानः ॥ १२ ॥ भुक्तपीताहारजलादेरसरुधिरादेश्च यथायथं प्रापणमेषां कर्म तदेकानुमेयत्वेन तत्स्वरूपात्मकता (?) इत्यर्थः ॥ १२॥ नन्वस्तु ज्ञानक्रियाद्वारा महदभिमानसर्वसङ्कल्पानां विषययोगित्वं पुरुषस्य स्वपरिणामितया तन्न घटते इत्याशङ्कां विनिवर्तयिषुराह । पञ्चपर्वाविद्या ॥ १३ ॥ अनात्मस्वात्मख्यातिरविद्या सा च विद्याविरोधिनी पञ्चपर्वा भवति तानि च पर्वाणि अविद्यास्मितारागद्वेषाभिनिवेशाख्यानि । तथा च यदविद्यया विपर्ययेणावधार्यते वस्तु अस्मितादयस्तत्स्वभावास्तदभिनिविशन्ते ततश्चात्मनो विवेकेन तत्सम्बन्ध इति भावः ॥ १३॥ पञ्चाशद्भेदेशु प्रत्ययसर्गेषु पञ्चविपर्यया निरूपिताः अधुना विशिष्टेष्वष्टाविंशतिमशक्तिमाह । अष्टाविंशतिधाऽशक्तिः ॥ १४ ॥ इन्द्रियवधा एकादश वुद्धिवधाश्च सप्तदश इत्येताः अशक्तय उच्यन्ते । इन्द्रियवधा यथा । बाधिर्यं कुष्ठताऽन्धत्वं जडताऽजिघ्रता तथा । मूकताकौण्यपङ्गुत्वक्लैब्योदावर्तमन्दताः । इति बुद्धिवधास्तु नवतुष्टीनामष्टसिद्धीनां च विपर्ययाद्भवन्ति तदित्थं जाता अशक्तयोऽष्टाविंशतिधेति ॥ १४॥ प्रसक्ते तुष्टिसिद्धी एवाह द्वाभ्याम् । नवधा तुष्टिः ॥ १५ ॥ यथोक्तम् । आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः । बाह्याः विषयोपरमात् पञ्च नव तुष्टयोभिहिताः ॥ इति अस्यार्थः विवेकसाक्षात्कारो हि प्रकृतिपरिणामभेदः तं च सैव करोतीति कृतं ध्यानाभ्यासेनेति केनचिदुपदिष्टे तत्र तुष्टिः प्रकृत्याख्या १, अथ प्रकृतेः सर्वान् प्रत्यविशेषान्न केवलं तत एव विवेकसाक्षात्कारः किन्तु प्रव्रज्ययेत्युपदिष्टे तुष्टिरुपादानाख्या २, प्रव्रज्यापि कालविशेषणादरेणैव विवेकं जनयत्यलमुत्तप्ततया इत्युपदिष्टे तुष्टिः कालाख्या ३, भाग्येनैव विवेकख्यातिरिति तुष्टिर्भाग्याख्या ४, इत्येताश्चतस्रः प्रकृतिव्यतिरिक्तमात्मानमधिकृत्य जायन्त इत्याध्यात्मिक्य उच्यन्ते । विषयाः शब्दस्पर्शरूपरसगन्धाख्याः पञ्च तेषु अर्जनरक्षणक्षयभोगहिंसादोषदर्शनं तत उपरमा विरतयोपि पञ्च ते च महदहङ्कारादीननात्मन आत्मनोभिमन्यमानस्य वैराग्ये सत्युत्पद्यन्तेऽतो बाह्या उच्यन्ते । इमाश्च नव उक्तविपर्ययाः ५ अशक्तिभिः २८ सह द्विचत्वारिंशत् ४२ सिद्धिपरिपन्थित्वाद्धेयाः ॥ १५॥ अष्टधासिद्धिः ॥ १६ ॥ तद्यथा ऊहः शब्दोध्ययनं ३ दुःखविघातास्त्रयः ६ सुहृत्प्राप्तिः ७ दानञ्च ८ सिद्धयोष्टाविति तत्रोपदेशमन्तरेण तत्त्वज्ञानस्य स्वयमूहाद्या असिद्धिः सा प्रथमा १ अन्यदीयशास्त्रपाठमाकर्ण्य ज्ञानोत्पत्तौ शब्दाख्या द्वितीया २ अध्ययनतस्तत्त्वज्ञाने तृतीया ३ आध्यात्मिकाधिदैविकाधिभौतिकदुःखत्रयविघातेन तत्त्वज्ञाने जाते सिद्धित्रयम् ६ ज्ञानवत्सुहृदो लाभेन तत्त्वज्ञाने सुहृत्प्राप्त्याख्या सप्तमी ७ धनादिनाराधिते ज्ञानिनि तत्त्वज्ञानेऽष्टमी ८ अत्र दुःखविघातरूपाणां तिसृणां सिद्धीनां मुख्यत्वमितरासां तदुपायत्वाद्गौणत्वं बोभ्यम् । पञ्चविपर्ययादारभ्याष्टसिद्धिपर्यन्तमेते प्रत्ययसर्गाः तेषु प्रकृतिप्रत्ययान्यताख्यातिप्रेप्सुभिर्द्विचत्वारिंशदादितो हेयाः सिद्धयस्तु उपादेया इति तत्स्वरूपव्याक्रिययैव सूचितं भवति ॥ १६॥ प्रत्ययसर्गमभिधाय प्रकृतिसर्गमाह । दश मूलिकार्थाः ॥ १७ ॥ दश अर्थाः पदार्थाः मूलिकाः सन्ति मूलं प्रकृतिः पुरुषश्च तावाश्रयत्वेन विद्येते येषाम् अथवा मूलं स्वभावः स प्रयोजकत्वेनास्ति येषामिति मूलिका मूलप्रकृतौ पुरुषे च विद्यमाना इति यावत् तथा च राजवार्त्तिकम् । प्रधानास्तित्वमेकत्वमर्थवत्त्वमथान्यता । पारार्थ्यं च तथा नैक्यं वियोगो योग एव च ॥ शेषवृत्तिरकर्त्तृत्वं मौलिकार्थाः स्मृता दश ॥ अत्रैकत्वमर्थवत्त्वं पारार्थ्यं प्रधाने अन्यत्वं प्रकृत्यपेक्षया अकर्तृत्वं बहुत्वं पुरुषे अस्तित्वं योगो वियोगश्चोभयोः । शेषवृत्तिः अङ्गाङ्गिभावेन गुणानां वृत्तिः स्थूलसूक्ष्मशरीरयोरिति । अत्र प्रकृतिपुरुषयोः साधर्म्यवैधर्म्यनिरूपणेन द्वयोः पार्थक्येन ज्ञानं प्रकृतिपुरुषान्यताख्यातिबीजमिति सूचितं भवति । तथा चैतेषां धर्माणां तत्तत्स्वभावभूतत्वेन प्रकृतिसर्गताव्यवहार इति ॥ १७॥ ननु बुद्ध्यादिभिरेव त्रिगुणात्मकैः सकलकार्यसिद्धौ किमधिकप्रकृत्यङ्गीकारेण अत आह । अनुग्रहसर्गः ॥ १८ ॥ बुद्ध्यादिभिः स्वकार्येऽहङ्कारादौ जनयितव्ये प्रकृतेरनुग्रहसहायोपेक्ष्यते अन्यथा बुद्धिः क्षीणा सती नालमहङ्कारं जनयितुमिति सकलोपि सर्गस्तदनुग्रहमूलक एवेत्यर्थः । अयमेव प्रकृत्यापूर इत्युच्यते तथा च प्रकृत्यैवायं सर्गो नेश्वरेण नापि ब्रह्मोपादानो नाप्यकारणो नेश्वराधिष्ठितप्रकृतित इति सूच्यते ॥ १८॥ तन्मात्रसर्गमाह । चतुर्दशविधो भूतसर्गः ॥ १९ ॥ देवतैर्यग्योनमानुष्यभेदेन भूतसर्गश्चतुर्दशप्रकारको भवति । तच्चेत्थम् ब्राह्मप्राजापत्यैन्द्रपैत्रगान्धर्वयाक्षराक्षसपैशाचभेदेनाष्टविधो दैवः पशुमृगपक्षिस्थावरसरीसृपभेदेन पञ्चविधस्तैर्यग्योन एकविधो मानुष्य इति ॥ १९॥ ननु पुरुषार्थशिरोमणीभूतमोक्षतत्त्वाकाङ्क्षा सति बन्धस्वरूपज्ञान एवोपपद्यतेऽतो बन्धानेवाह । त्रिविधो बन्धः ॥ २० ॥ विपर्ययादतत्त्वज्ञानाज्जायमानो बन्धस्त्रिविधः । प्राकृतो वैकृतो दाक्षिणश्चेति । तत्र पुरुषधिया प्रकृत्युपासनं प्राकृतो बन्धः । तथा भूतेन्द्रियाहङ्कारबुद्ध्युपासनं वैकृतः पुरुषतत्त्वमजानतः केवलमिष्टापूर्तकारिणो दाक्षिण इति त्रयाणामिति पुरुषस्वरूपवेदकत्वाभावे बन्धकत्वम् ॥ २०॥ नन्वेतदज्ञानत्रयनिवृत्तौ कीदृशो मोक्षो जायत इत्याह । त्रिविधो मोक्षः ॥ २१ ॥ इष्टापूर्तादिकर्मस्वसारतां पुरुषस्वरूपोपलब्धेरेव सारतां बुद्ध्यमानस्य प्रथमः ततो भूतेन्द्रियादिष्वपि विकारतां ततः पृथगात्मानं जानतः प्रकृतिरूपस्तृतीयः । यद्यपि प्रथमद्वितीयौ न तात्त्विकमोक्षौ तथाप्यैकदेशिकान्यताख्यत्या तावद्बन्धापगमेन मोक्षत्वव्यवहार इति द्रष्टव्यम् । अत्र बन्धमोक्षसंसाराः प्रकृतावेव न पुरुषे सवासनक्लेशकर्माशयानामपरिणामिनि पुरुषेऽसम्भवात् तथा च भृत्यजयपराजययोः स्वामिन्युपचारात् प्रकृतिगतानां बन्धादीनां पुरुषे उपचार एव भोगापवर्गयोः प्रकृतिगतयोरपि विवेकाग्रहात् पुरुषसम्बन्धः सुसाधितो भवति । एवं च धर्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्यानैश्वर्यैः सप्तभी रूपैः प्रकृतिर्भोगापवर्गरूपपुरुषार्थं प्रत्यात्मानं बध्नाति तत्त्वज्ञानेन विवेकख्यात्या एकेन रूपेण विमोचयति इतीदृशस्य तत्त्वज्ञानस्याभ्यासादादरनैरन्तर्यदीर्घकालसेवितात् सत्त्वपुरुषान्यतासाक्षात्कारि केवलं ज्ञानमुत्पद्यते तेनानादिरपि विपर्ययवासना प्रतिबध्यते ततश्चाध्यवसायाभिमानसङ्कल्पालोचनानि अन्तराणि बाह्याश्च सर्वे व्यापारा आत्मनि प्रतिषिद्धा भवन्ति अयमेव मोक्ष इति सिद्धान्तः ॥ २१॥ ननु पुरुषप्रकृत्यादीनामलक्ष्याणां लक्ष्याणां च घटपटादीनामखिलप्रमेयाणां लौकिकैः कथमनुभवो विधेयोऽत आह । त्रिविधं प्रमाणम् ॥ २२ ॥ असन्दिग्धाविपरीतानधिगतविषया चित्तवृत्तिर्बोधश्च पौरुषेयः फलं प्रमा तस्याः करणं प्रमाणम् । तत् त्रिविधं प्रत्यक्षानुमानशब्दभेदात् । एतेनाधिकान्युपमानादीनि नैयायिकाद्यभ्युपगतानि प्रमाणानि एष्वेवान्तर्भवन्तीति नातिरिक्तान्युपयुज्यन्ते । तत्रार्थसन्निकृष्टमिन्द्रियं प्रत्यक्षम् । व्याप्यव्यापकभावपक्षधर्मताज्ञानपूर्वकमनुमानम् । आप्तवचनाद्वेदादिरूपाच्छब्दमिति । विशेषत एषां लक्षणोदाहरणान्याकरादवसेयानीति शिवम् ॥ २२॥ एकस्मिंस्त्रिगुणात्मतत्त्वयुतितो जाता द्विधा साप्यतो द्वित्वं प्राप्य प्रकाशयत्यविरतं भोगापवर्गौ स्वतः । इत्येवं परिसूचयन् मतिमतां मोहापहं कापिलं सूत्राणाममलं द्विकद्वयमिदं जीयाच्चिरं चेतसि ॥ इति सर्वोपकारिणी संक्षिप्तकापिलसूत्रवृत्तिः समाप्ता ॥ Encoded and proofread by Dhaval Patel drdhaval2785 at gmail.com

% Text title            : sarvopakAriNI sarvopakAriNI with TIkA
% File name             : sarvopakAriNI.itx
% itxtitle              : samAsasUtram sarvopakAriNI TIkA sahitam
% engtitle              : samAsasUtra sarvopakAriNI with TIkA
% Category              : major_works
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Dhaval Patel drdhaval2785 at gmail.com
% Proofread by          : Dhaval Patel drdhaval2785 at gmail.com
% Source                : sAnkhyasaNgrahaH 1918
% Latest update         : September 15, 2014
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP