श्रुतिसारसमुद्धरणम्
त्रैलोक्यनाथहरिमीड्यमुदारसत्त्वं
शक्तेस्तनूजतनयं परमेष्ठिकल्पम् ।
जीमूतमुक्तविमलाम्बरचारुवर्णं
वासिष्ठमुग्रतपसं प्रणतोऽस्मि नित्यम् ॥ १॥
सकलं मनसा क्रियया जनितं
समवेक्ष्य विनाशितया तु जगत् ।
निरविद्यत कश्चिदतो निखिला-
दविनाशि कृतेन न लभ्यमिति ॥ २॥
प्रतिपित्सुरसावविनाशि पदं
यतिधर्मरतो यतिमेव गुरुम् ।
विदितात्मसतत्त्वमुपेत्य कविं
प्रणिपत्य निवेदितवान्स्वमतम् ॥ ३॥
भगवन्नुदधौ मृतिजन्मजले
सुखदुःखझषे पतितं व्यथितम् ।
कृपया शरणागतमुद्धर मा-
मनुशाध्युपसन्नमनन्यगतिम् ॥ ४॥
विनिवर्त्य रतिं विषये विषमां
परिमुच्य शरीरनिबद्धमतिम् ।
परमात्मपदे भव नित्यरतो
जहि मोहमयं भ्रममात्ममतेः ॥ ५॥
विसृजान्नमयादिषु पञ्चसु ता-
महमस्मि ममेति मतिं सततम् ।
दृशिरूपमनन्तमृतं विगुणं
हृदयस्थमवेहि सदाहमिति ॥ ६॥
जलभेदकृता बहुतेव रवे -
र्घटिकादिकृता नभसोऽपि यथा ।
मतिभेदकृता तु तथा बहुता
तव बुद्धिदृशोऽविकृतस्य सदा ॥ ७॥
दिनकृत्प्रभया सदृशेन तदा
जनधीचरितं सकले स्वचिता ।
विदितं भवताऽविकृतेन सदा
यत एवमतोऽसित एव सदा ॥ ८॥
उपरागमपेक्ष्य मतिर्विषयै-
र्विषयावधृतिं कुरुते तु यतः ।
तत एव मतेर्विदिताविदिता
विषयास्तु ततः परिणामवती ॥ ९॥
मतिवृत्तय आत्मचिता विदिताः
सततं हि यतोऽविकृतस्तु ततः ।
यदि चात्मचितिः परिणामवती
मतयो विदिताविदिताः स्युरिमाः ॥ १०॥
चरितं तु धियः सकलं सततं
विदितं भवता परिशुद्धचिता ।
मतिभेदगुणो न हि तेऽस्ति ततो
यत एवमतोऽसदृशस्तु धिया ॥ ११॥
विदितत्वमविप्रतिपन्नतया
मतिषु प्रगतं विषयेषु यथा ।
यत एवमतः परसंविदिता
विदितत्वत एव यथा विषयाः ॥ १२॥
परसंविदिताः सततं हि यतो
न विदुः स्वममी विषयास्तु ततः ।
मतयोऽपि तथा परसंविदिता
न विदुः स्वममूर्विषयास्तु यथा ॥ १३॥
विषयाकृतिसंस्थितिरेकविधा
मनसस्तु सदा व्यवहारविधौ ।
अहमित्यपि तद्विषया त्वपरा
मतिवृत्तिरवज्वलितात्मचिता ॥ १४॥
पुरुषस्य तु धर्मवदुद्भवति
स्वरसेन मतेः स्वगुणोऽपि यतः ।
अत आत्मगुणं प्रतियन्ति जना
मतिवृत्तिमिमामहमित्यबुधाः ॥ १५॥
यदि सा न भवेज्जनमोहकरी
व्यवहारमिमं न जनोऽनुभवेत् ।
विफलश्च तदा विषयानुभवो
ज्ञगुणो न हि सेति यदा विदिता ॥ १६॥
उपलभ्यघटादिनिभैव भवे-
न्मनसो यदि संस्थितिरेकविधा ।
पुरुषस्य चितिश्च न विक्रियते
मतिवृत्तिमपेक्ष्य घटादिनिभाम् ॥ १७॥
अवगन्त्रवगम्यचिदात्मधियो-
रहमित्यभिमानविहीनतया ।
स्थितयोरभिमानपुरःसरकं
व्यवहारपथं न जनोऽवतरेत् ॥ १८॥
अहमीक्ष इति प्रथमं हि धिया
सुविचिन्त्य ततो विषयाभिमुखम् ।
नयनं प्रहिणोति तथान्यदपि
श्रवणादि वियत्प्रमुखस्य गुणे ॥ १९॥
अपहाय न कश्चिदहङ्करणं
व्यवहारमुपैति कदाचिदपि ।
उपपन्नतरा हि मतेस्तु ततो
व्यवहारपथं प्रति कारणता ॥ २०॥
चितिशक्तिगुणः किमहङ्करणं
किमु बुद्धिगुणोऽथ भवेदुभयोः ।
इति चिन्त्यमिदं मनसानलसै-
रुपपत्तिभिरात्महितं यतिभिः ॥ २१॥
उपलभ्यमहङ्करणं न भवे-
त्पुरुषस्य गुणो यदि तर्हि भवेत् ।
गुणिरूपमथावयवं गुणिनो
न विहाय गुणः पृथगस्ति यतः ॥ २२॥
न गुणो गुणिनि स्थितवान्गुणिना
विषयीक्रियते न च तस्य गुणैः ।
न हि देशकृता न च वस्तुकृता
गुणिनोऽस्ति गुणस्य भिदा तु यतः ॥ २३॥
न परस्परमग्निगुणोऽग्निगतो
विषयत्वमुपैति कदाचिदपि ।
न हि वह्निरपि स्वगुणं स्वगतं
विषयीकुरुते स्वगुणेन भुवि ॥ २४॥
कणभुग्यमचीक्लृपदात्मगुणं
गुणपूगमनित्यमनात्मगुणम् ।
अनयैव दिशा स निराक्रियतां
न हि नित्यमनित्यगुणेन गुणि ॥ २५॥
वियतः प्रभवं प्रवदन्ति यतः
श्रुतयो बहुशः खमनित्यमतः ।
उपमानमनित्यगुणं वियतो
न हि नित्यमिहास्ति कणादमते ॥ २६॥
मनसा पुरुषः पुरुषेण मनो
नभसा मुसलं मुसलेन नभः ।
न हि योगवियोगमुपैति कुतो-
ऽवयवित्वनिराकरणादमुतः ॥ २७॥
इह रज्जुघटादि हि सावयवं
समुपैति युजामितरेतरतः ।
इति दृष्टमतोऽन्यददृष्टमपि
स्वयमूह्यमिदं न परित्यजता ॥ २८॥
न हि सावयवं विगतावयवै-
र्विगतावयवं च न सावयवैः ।
उपयाति युजामिति दृष्टमिदं
यत एवमतः स्थितमुक्तमदः ॥ २९॥
न हि कल्पितभागसमागमनं
विगतावयवस्य घटेत कुतः ।
वितथत्वमतिः सुदृढा तु यतः
परिकल्पितवस्तुषु नित्यमतः ॥ ३०॥
इह वेदशिरःसु तदर्थविदः
प्रवदन्ति समस्तजगत्प्रकृतिम् ।
परमात्मपदं दृशिमात्रवपु-
र्ध्रुवमेकमतोऽन्यदनित्यमिति ॥ ३१॥
अत एव न किञ्चिदुदाहरणं
ध्रुवमस्ति परस्य विनाशिगुणम् ।
यत एवमतः स्थितमुक्तमदो
न हि नित्यमनित्यगुणेन गुणि ॥ ३२॥
उपलभ्यमहङ्करणं भवितुं
क्षमते दृशिरूपगुणो न यतः ।
विषयाकृतिरञ्जितधीगुणव-
द्विषयत्वमहङ्करणस्य ततः ॥ ३३॥
विषयप्रकृतिं प्रतिपन्नवतीं
मतिवृत्तिमहङ्करणं च मतेः ।
उभयं परिपश्यति योऽविकृतः
परमात्मसदुक्तिरसौ पुरुषः ॥ ३४॥
ननु देहभृदेष कथं भवता-
भिहितः परमात्मसदुक्तिरिति ।
न विरुद्धमवादिषमेतमहं
श्रुतिरप्यमुमर्थमुवाच यतः ॥ ३५॥
अमतं न मतेरमतस्तदिदं
यदमुत्र तदेव तु कश्चिदिति ।
श्रुतिषु प्रतिपादितमस्य दृशेः
परमात्मपदत्वममूषु भृशम् ॥ ३६॥
यदनभ्युदितं वदनेन सदा
नयनेन च पश्यति यन्न सदा ।
श्रवणेन च यन्न शृणोति सदा
मनसापि च यन्मनुते न सदा ॥ ३७॥
वदनं नयनं च तथा श्रवणं
मन एव च येन मतं सततम् ।
अवगच्छ तदेव पदं परमं
त्वमिति श्रुतिरीक्षितुरुक्तवती ॥ ३८॥
परमात्मपदत्व इयं च मया
श्रुतिरल्पकणोक्तिरिहाभिहिता ।
अणिमादिगुणं सदिति प्रकृतं
तदसि त्वमिति श्रुतिरभ्यवदत् ॥ ३९॥
नभसोऽवयवो विकृतिश्च यथा
घटिकादिनभो न भवेत्तु तथा ।
परमात्मन एष न चावयवो
विकृतिश्च शरीरभृदित्यमृषा ॥ ४०॥
करकादिनिमित्तकमेव यथा
करकाम्बरनाम भवेद्वियतः ।
परमात्मदृशेरपि नाम तथा
पुरहेतुकमेव तु जीव इति ॥ ४१॥
जनितं वियदग्रणि येन जग-
त्परमात्मसदक्षरनामभृता ।
प्रविवेश स एव जगत्स्वकृतं
खमिवेह घटं घटसृष्टिमनु ॥ ४२॥
उदपद्यत खप्रमुखं हि जग-
त्परमात्मन इत्यपि याः श्रुतयः ।
अवधार्यत आभिरभेदमतिः
परमात्मसतत्त्वसमर्पणतः ॥ ४३॥
यदि सृष्टिविधानपरं वचनं
फलशून्यमनर्थकमेव भवेत् ।
जगदित्थमजायत धातुरिति
श्रवणं पुरुषस्य फलाय न हि ॥ ४४॥
अनृतत्वमवाद्यसकृद्विकृते-
र्निरधारि सदेव तु सत्यमिति ।
श्रुतिभिर्बहुधैतदतोऽवगतं
जगतो न हि जन्म विधेयमिति ॥ ४५॥
न च तत्त्वमसीत्यसकृद्वचनं
जगतो जनिमात्रविधौ घटते ।
परमात्मपदानुमतिं तु यदा
जनयेत्पुरुषस्य तदा घटते ॥ ४६॥
स्थिरजङ्गमदेहधियां चरितं
परिपश्यति योऽविकृतः पुरुषः ।
परमात्मसदुक्तिरसाविति य-
द्भणितं तदतिष्ठिपमित्थमहम् ॥ ४७॥
पृथगेव यदाक्षरतो मतिवि-
न्मकरोदकवन्न घटाम्बरवत् ।
न विरोत्स्यति तत्त्वमसीति तदा
वचनं कथमेष त इत्यपि च ॥ ४८॥
न तु वस्तुसतत्त्वविबोधनकृ-
द्विनिवर्तयदप्रतिबोधमिदम् ।
सदुपासनकर्मविधानपरं
यत एवमतो न विरोत्स्यति मे ॥ ४९॥
मनादिषु कारणदृष्टिविधिः
प्रतिमासु च देवधियां करणम् ।
स्वमतिं ह्यनपोह्य यथा तु तथा
त्वमसीह सदात्ममतिर्वचनात् ॥ ५०॥
अथ वा त्वमिति ध्वनिवाच्यमिदं
सदसीति वदेद्वचनं गुणतः ।
विभयं पुरुषं प्रवदन्ति यथा
मृगराडयमीश्वरगुप्त इति ॥ ५१॥
यदि वा स्तुतये सदसीति वदे-
न्मघवानसि विष्णुरसीति यथा ।
त्वमिति श्रुतिवाच्यसतत्त्वकता-
मथ वा सत एव वदेद्वचनम् ॥ ५२॥
यदि तत्त्वमिति ध्वनिनाभिहितः
परमात्मसतत्त्वक एव सदा ।
किमिति स्वकमेष न रूपमवे-
त्प्रतिबोध्यत एव यतो वचनैः ॥ ५३॥
अत एव हि जीवसदात्मकतां
न हि तत्त्वमसीति वदेद्वचनम् ।
यदपीदृशमन्यदतो वचनं
तदपि प्रथयेदनयैव दिशा ॥ ५४॥
त्वदुदाहृतवाक्यविलक्षणता
वचनस्य हि तत्त्वमसीति यतः ।
अत एव न दृष्टिविधानपरं
सत एव सदात्मकतागमकम् ॥ ५५॥
इतिशब्दशिरस्कपदोक्तमति-
र्विहिता मनादिषु तैर्वचनैः ।
न विधानमिहास्ति तथा वचने
सुविलक्षणमेतदतो वचनात् ॥ ५६॥
मनसो वियतः सवितृप्रभृतेः
प्रवदन्ति न तानि सदात्मकताम् ।
मनादि हि मुख्यमुपास्यतया
प्रवदन्ति यतोऽक्षरदृष्टियुतम् ॥ ५७॥
करको न मृदः पृथगस्ति यथा
मनादि सतोऽस्ति तथा न पृथक् ।
इति वस्तुसतत्त्वकता तु यदा
विधिशब्द इतिश्च तदा तु वृथा ॥ ५८॥
मनादि समानविभक्तितया
विधिशब्दमितिं च विहाय यदि ।
जनकेन सता सह योगमिया-
दनृतं तदिति स्फुटमुक्तमभूत् ॥ ५९॥
ननु जीवसतोरपि तत्त्वमिति
स्फुटमेकविभक्त्यभिधानमिदम् ।
कथमस्य शरीरभृतोऽनृतता
न भवेदविभक्तविभक्तियुजः ॥ ६०॥
प्रकृतेरभिधानपदेन यदा
विकृतेरभिधानमुपैति युजाम् ।
अनृतत्वमतिस्तु तदा विकृतौ
मृदयं घट इत्यभिधासु यथा ॥ ६१॥
विकृतित्वमवादि मनःप्रभृते-
र्बहुशः श्रुतिषु प्रकृतेस्तु सतः ।
अत एव समानविभक्तितया
मनादि सुवेद्यमसत्यमिति ॥ ६२॥
जनितत्वमवादि न हि श्रुतिभि-
र्जनकेन सतास्य शरीरभृतः ।
मनादिविकारविलक्षणतां
प्रतियन्ति शरीरभृतस्तु ततः ॥ ६३॥
यदजीजनदम्बरपूर्वमिदं
जगदक्षरमीक्षणविग्रहकम् ।
प्रविवेश तदेव जगत्स्वकृतं
स च जीवसमाख्य इति श्रुतयः ॥ ६४॥
परमात्मविकारविभक्तमति-
र्न भवत्यत एव शरीरभृतः ।
यत एव विकारविभिन्नमति-
र्न भवत्यत एव मृषात्वमतिः ॥ ६५॥
अविभक्तविभक्त्यभिधानकृता
परमात्मपदेन शरीरभृतः ।
न भवेदिह तत्त्वमसिप्रभृतौ
लवणं जलमित्यभिधासु यथा ॥ ६६॥
परमात्मविकारनिराकरणं
कृतमस्य शरीरभृतस्तु यतः ।
परमेश्वररूपविलक्षणता
न मनागपि देहभृतोऽस्ति ततः ॥ ६७॥
ननु जीवसतोरणुमात्रमपि
स्वगतं न विशेषणमस्ति यदा ।
वद तत्त्वमसीति तदा वचनं
किमु वक्ति तथैष त इत्यपि च ॥ ६८॥
स्वगतं यदि भेदकमिष्टमभू-
दणुमात्रमपीश्वरदेहभृतोः ।
अपनेतुमशक्यमदो वचनै-
रमुनास्य पृथक्त्वनिषेधपरैः ॥ ६९॥
इह यस्य च यो गुण आत्मगतः
स्वत एव न जातु भवेत्परतः ।
वचनेन न तस्य निराकरणं
क्रियते स गुणः सहजस्तु यतः ॥ ७०॥
वचनं त्ववबोधकमेव यत-
स्तत एव न वस्तुविपर्ययकृत् ।
न हि वस्त्वपि शब्दवशात्प्रकृतिं
प्रजहात्यनवस्थितिदोषभयात् ॥ ७१॥
यत एवमतो विषयस्य गुणं
विषयेण सहात्मनि मूढधिया ।
अधिरोपितमप्स्विव भूमिगुणं
प्रतिषेधति तत्त्वमसीति वचः ॥ ७२॥
अत एव न दृष्टिविधानपरं
गुणवादपरं च न तद्वचनम् ।
स्तुतिवाद्यपि नैतदुपास्यतया
विधिरत्र न देहभृतोऽस्ति यतः ॥ ७३॥
सत एव हि नाम जगत्प्रकृते-
रुपधानवशादिह जीव इति ।
अत एव न जीवसतत्त्वकतां
प्रकृतस्य सतः प्रतिपादयति ॥ ७४॥
यदि जीवसतत्त्वकतां गमये-
दणिमादिगुणस्य जगत्प्रकृतेः ।
अणिमादिगुणोक्तिरतोऽस्य मृषा
यदि वास्य शरीरभृदात्मकता ॥ ७५॥
न च संसृतिहेतुनिराकरणं
कृतमस्य शरीरभृतोऽभिमतम् ।
परमेश्वरमात्मतया ब्रुवता
वचनेन च तत्त्वमसीत्यमुना ॥ ७६॥
त्वमसीति पदद्वयमेति युजां
तदिति ध्वनिना सह तत्त्वमिति ।
क्रियया सह नामपदं समिया-
न्निरपेक्षमुपैत्यनया हि युजाम् ॥ ७७॥
न हि नामसहस्रमपि क्रियया
रहितं किमपि प्रतिपादयति ।
प्रतिपादकमेषु लिङादि भवे-
द्विहितादिमतेर्जनकं हि यतः ॥ ७८॥
भगवानपि मध्यममेव यतो
विनियच्छति युष्मदि नित्यमतः ।
प्रथमं त्वमसीति पदे समित-
श्चरमं त्वसिना समियात्तदिति ॥ ७९॥
पुरुषोऽभिहितस्त्वमसीति यदा
किमसानि वदेति तदाभिमुखः ।
श्रवणाय भवेदणिमादिगुणं
सदिति प्रकृतं तदसीति वदेत् ॥ ८०॥
त्वमिति ध्वनिनाभिहितस्य यत-
स्तदिति श्रुतिवाच्यसदात्मकताम् ।
अवदद्वचनं तत एव सतो
न हि जीवसतत्त्वकतां वदति ॥ ८१॥
विषयाभिमुखानि शरीरभृतः
स्वरसेन सदा करणानि यतः ।
स्वकमेष न रूपमवैति ततः
प्रतिबोध्यत एव ततो वचनैः ॥ ८२॥
वचनं च पराञ्चिपुरःसरकं
बहु वैदिकमत्र तथा स्मरणम् ।
विषयेषु च नावमिवाम्भसि य-
न्मनसेन्द्रियरश्मिविनिग्रहवत् ॥ ८३॥
इयता हि न देहभृतोऽस्ति भिदा
परमात्मदृशेरिति वाच्यमिदम् ।
स्थितिकाल इहापि च सृष्टिमुखे
सदनन्यतया श्रुत एष यतः ॥ ८४॥
द्वयमप्यविरोधि शरीरभृतो
वचनीयमिदं रघुनन्दनवत् ।
उपदेशमपेक्ष्य सदात्ममतिः
परमात्मसतत्त्वकता च सदा ॥ ८५॥
सदुपासनमस्य विधेयतया
वचनस्य मम प्रतिभाति यतः ।
अत एव न जीवसदात्मकतां
प्रतिबोधयतीत्यवदत्तदसत् ॥ ८६॥
सदुपास्स्व(?) इति श्रुतिरत्र न ते
तदसि त्वमिति श्रुतिरेवमियम् ।
यत एवमतो न विधित्सतता
सदुपासनकर्मण इत्यमृषा ॥ ८७॥
यदि तस्य कुतश्चिदिहानयनं
क्रियते तदनर्थकमेव भवेत् ।
पुरुषेण कृतस्य यतः श्रुतिता
न भवेदिति वेदविदां स्मरणम् ॥ ८८॥
किमरे पुरुषं प्रतिबोधयितुं
स्वकमर्थमशक्तमिदं वचनम् ।
यदतोऽन्यत आनयनं क्रियते
भवता श्रवणेन विनापि विधेः ॥ ८९॥
श्रुतहानिरिहाश्रुतक्लृप्तिरपि
श्रुतिवित्समयो न भवेत्तु यतः ।
श्रुतिभक्तिमता श्रुतिवक्त्रगतं
ग्रहणीयमतो न तु बुद्धिवशात् ॥ ९०॥
पुरुषस्य शरीरगतात्ममतिं
मृतिसम्भवहेतुमनर्थकरीम् ।
अपनीय सदात्ममतिं दधती
महते पुरुषस्य हिताय भवेत् ॥ ९१॥
विनिवर्तत एव शरीरगता
विपरीतमतिः पुरुषस्य तदा ।
वचनेन तु तत्त्वमसीति यदा
प्रतिबोध्यत एष त इत्यपि च ॥ ९२॥
यदि नापनयेच्छ्रुतिरात्ममतिं
पुरुषस्य शरीरगतामनृताम् ।
तदहम्मतिहेतुककर्मगतिं
सुखदुःखफलामवशोऽनुभवेत् ॥ ९३॥
यदि तत्त्वमसीति वदेद्वचनं
सदुपासनकर्म न तत्त्वमिति ।
पुरुषस्य फलं सदुपासनतो
विमृशामि भविष्यति कीदृगिति ॥ ९४॥
पुरुषस्य तु मर्त्यगुणस्य भवे-
त्सदुपासनया न सदात्मकता ।
न कथञ्चिदपि प्रजहाति यतः
प्रकृतिं सहजामिह कश्चिदपि ॥ ९५॥
यदि देहभृदेष सदात्मकतां
प्रगमिष्यति वै सदुपासनया ।
न च हास्यति रूपमसौ हि निजं
यत ऐक्यमतिर्न भरत्युभयोः ॥ ९६॥
रसविद्धमयः प्रकृतिं सहजां
प्रविहाय यथा कनकत्वमियात् ।
पुरुषोऽपि तथा सदुपासनया
प्रतिपत्स्यत एव सदात्मकताम् ॥ ९७॥
अयसोऽवयवानभिभूय रसः
स्थितवाननलानुगृहीतिमनु ।
कनकत्वमतिं जनयत्ययसि
प्रतिपन्नमयो न तु काञ्चनताम् ॥ ९८॥
उदकावयवानभिभूय पयो
रजतावयवांश्च यथा कनकम् ।
विपरीतमतिं जनयत्युदके
रजते च तथायसि हेममतिम् ॥ ९९॥
रसवीर्यविपाकविनाशमनु
प्रविनश्यति काञ्चनताप्ययसः ।
कृतकं हि न नित्यमिति प्रगतं
समवेतमवश्यमपैति यतः ॥ १००॥
अमृतत्वमसत्पुरुषस्य यदि
क्रियते सदुपासनया यजिवत् ।
यजिकार्यवदन्तवदेव भवे-
त्कृतकस्य यतो विदिताध्रुवता ॥ १०१॥
पुरुषस्य सतश्च विधर्मकयोः
सदुपासनया न भवेत्समितिः ।
यदि सङ्गतिरिष्यत एव तयो-
रवियुक्ततया न चिरं वसतः ॥ १०२॥
फलमीदृगिदं सदुपासनतः
पुरुषस्य भविष्यति नान्यदतः ।
न च तन्निरवद्यतयाभिमतं
विदुषां बहुदोषसमीक्षणतः ॥ १०३॥
सदुपासनकर्मविधानपरं
न भवेदत एव हि तद्वचनम् ।
अहमस्मि शरीरमिदं च ममे-
त्यविवेकमतिं विनिवर्तयति ॥ १०४॥
सकलोपनिषत्सु शरीरभृतः
परमात्मपदैकविभक्तितया ।
उपदेशवचांस्यनयैव दिशा
गमयेन्मतिमानभियुक्ततया ॥ १०५॥
द्रविडोऽपि च तत्त्वमसीति वचो
विनिवर्तकमेव निरूपितवान् ।
शबरेण विवर्धितराजशिशो-
र्निजजन्मविदुक्तिनिदर्शनतः ॥ १०६॥
यत एवमतः स्वशरीरगता-
महमित्यविवेकमतिं सुदृढाम् ।
प्रविहाय यदक्षरमद्वयकं
त्वमवेहि तदक्षरमात्मतया ॥ १०७॥
न मनो न मतिः करणानि च नो
न रजो न तमो न च सत्त्वमपि ।
न मही न जलं न च वह्निरपि
श्वसनो न नभश्च पदं परमम् ॥ १०८॥
अमनस्कमधीकमनिन्द्रियकं
विरजस्कमसत्त्वतमस्कमपि ॥
अमहीजलवह्न्यनिलाम्बरकं
परमक्षरमात्मतयाश्रय भोः ॥ १०९॥
करणानि हि यद्विषयाभिमुखं
प्रगमय्य मतिर्विषयेषु चरेत् ।
तदु जागरितं प्रवदन्ति बुधा
न तदस्ति ममेत्यवगच्छ दृशेः ॥ ११०॥
करणानि यदोपरतानि तदा
विषयानुभवाहितवासनया ।
विषयेण विना विषयप्रतिमं
स्फुरणं स्वपनं प्रवदन्ति बुधाः ॥ १११॥
करणस्य धियः स्फुरणेन विना
विषयाकृतिकेन तु या स्थितता ।
प्रवदन्ति सुषुप्तिममुं हि बुधा
विनिवृत्ततृषः श्रुतितत्त्वविदः ॥ ११२॥
इति जागरितं स्वपनं च धियः
क्रमतोऽक्रमतश्च सुषुप्तिरपि ।
न कदाचिदपि त्रयमस्ति ममे-
त्यवगच्छ सदास्मि तुरीयमिति ॥ ११३॥
यदु जागरितप्रभृति त्रितयं
परिकल्पितमात्मनि मूढधिया ।
अभिधानमिदं तदपेक्ष्य भवे-
त्परमात्मपदस्य तुरीयमिति ॥ ११४॥
यदपेक्ष्य भवेदभिधानमिदं
परमात्मपदस्य तुरीयमिति ।
तदसत्यमसत्यगुणश्च ततः
परिनिर्मितवारणचेष्टितवत् ॥ ११५॥
गगनप्रमुखं पृथिवीचरमं
विषयेन्द्रियबुद्धिमनःसहितम् ।
जनिमज्जगदेतदभूतमिति
श्रुतयः प्रवदन्त्युपमानशतैः ॥ ११६॥
कफपित्तसमीरणधातुधृतं
कुशरीरमिदं सततं हि यथा ।
प्रभवप्रभृति प्रलयान्तमिदं
जगदग्निरवीन्दुधृतं हि तथा ॥ ११७॥
जगतः स्थितिकारणमित्थमिदं
प्रथितं रविवह्निशशित्रितयम् ।
स्मृतिवेदजनेषु भृशं प्रथितं
श्रुतिरीरितवत्यनृतं तदिति ॥ ११८॥
यदु रोहितशुक्लसुकृष्णमिदं
ज्वलनादिषु रूपमवैति जनः ।
तदु तैजसमाप्यमथान्नमिति
ब्रुवती त्रयमेव तु सत्यमिति ॥ ११९॥
रुचकप्रमुखं कनकादिमयं
रुचकाद्यभिधाननिमित्तमपि ।
असदित्यवगम्यत एव यतो
व्थभिचारवती रुचकादिमतिः ॥ १२०॥
न कदाचिदपि व्यभिचारवती
कनकादिमतिः पुरुषस्य यतः ।
तत एव हि सत्यतयाभिमतं
कनकादिविपर्यय एषु न हि ॥ १२१॥
रुचकादिसमं ज्वलनादि भवे-
दनृतत्वगुणेन तु सत्यतया ।
अरुणप्रमुखं ज्वलनप्रभृति-
प्रकृतित्रितयं कनकादिसमम् ॥ १२२॥
अनयोपमयानृततामवद-
च्छ्रुतिरग्निदिवाकरचन्द्रमसाम् ।
अमृषात्वमपि श्रुतिरुक्तवती
त्रितयस्य तु रक्तपुरःसरिणः ॥ १२३॥
अनृतत्वमिदं ज्वलनप्रभृते-
र्यदवादि भवेत्तदुदाहरणम् ।
वितथा विकृतिः सततं सकला
न तथा प्रकृतिः श्रुतिनिश्चयतः ॥ १२४॥
प्रदिदर्शयिषुर्वसनस्य यथा
वितथत्वमपास्यति तन्तुगुणम् ।
अपकृष्य तु तन्तुसमं त्रितयं
ज्वलनप्रमुखस्य तथोक्तवती ॥ १२५॥
अवनिप्रमुखं वियदन्तमिदं
विकृतिस्तु परस्य भवत्यपरम् ।
अनृतं त्वपरं विकृतिस्तु यतो-
ऽवितथं तु परं प्रकृतिस्तु यतः ॥ १२६॥
अत एतदसेधि सदुक्ति परं
न मृषेति मृषा तु ततोऽन्यदिति ।
इति सिद्धमतो यदवादि मया
जनिमज्जगदेतदभूतमिति ॥ १२७॥
मनसोऽप्यनृतत्वमसेध्यमुतः
प्रतिपादितहेतुत एव भवेत् ।
चरितं च तदीयमसत्यमतः
परिनिर्मितवारणचेष्टितवत् ॥ १२८॥
ननु नाभ्यवदच्छ्रुतिरुद्भवनं
मनसस्तु सतो न च खप्रमुखात् ।
कथमस्य भवेदनृतत्वगति-
र्मनसो भगवन्वद निश्चयतः ॥ १२९॥
ननु सप्तम आत्मन उद्भवनं
मनसोऽभिदधावसुनापि सह ।
कथमस्य भवेदमृषात्वगति-
र्मनसो विकृतित्वगुणस्य वद ॥ १३०॥
असुना करणैर्गगनप्रमुखैः
सह मुण्डक उद्भवनं मनसः ।
पुरुषात्परमात्मन उक्तमतो
वितथं मन इत्यवधारय भोः ॥ १३१॥
मनसोऽन्नमयत्वमवादि यत-
स्तत एव हि भूतमयत्वगतिः ।
कुशरीरवदेव ततोऽपि भृशं
वितथं मन इत्यवधारय भोः ॥ १३२॥
कुरु पक्षमिमं गगनप्रमुखं
जनिमत्सकलं न हि सत्यमिति ।
प्रथमं चरमं च न चास्ति यतो
रुचकादिवदित्युपमां च वद ॥ १३३॥
कनके रुचकादि न पूर्वमभू-
च्चरमं च न विद्यत इत्यनृतम् ।
अधुनापि तथैव समस्तमिदं
जनिमाद्वियदादि भवेदनृतम् ॥ १३४॥
कनकादिषु यद्युषजातमभू-
द्रुचकप्रमुखं पृथगेव ततः ।
अधिकं परिमाणममीषु कुतो
न भवेदिति वाच्यमवश्यमिदम् ॥ १३५॥
कनकप्रभृतेर्व्यतिरिक्तमतो
रुचकादि न विद्यत एव कुतः ।
पृथगग्रहणात्कनकप्रभृते-
रिति कारणमेव सदन्यदसत् ॥ १३६॥
ननु नाम पृथग्विकृतेः प्रकृते-
रथ रूपमथापि च कार्यमतः ।
कथमव्यतिरिक्ततयावगमः
प्रकृतेर्विकृतेरिति वाच्यमिदम् ॥ १३७॥
इह वीरणतन्तुसुवर्णमृदः
कटशाटकहारघटाकृतयः ।
उपलब्धृजनैरुपलब्धिमिता
न भिदास्ति ततः प्रकृतेर्विकृतेः ॥ १३८॥
विकृतिर्यदि नास्ति पृथक्प्रकृते-
र्न घटेत भिदाप्यभिधाप्रभृतेः ।
इति धीर्विफला तव येन जनै-
र्विविदे नयनेन मृदाद्यभिदा ॥ १३९॥
ननु रूपमथो अपि कार्यमथो
अभिधापि नटस्य पृथग्विदिता ।
न पृथक्त्वमुपैति नटः किमिति
प्रतिवाच्यमवश्यमिदं कुशलैः ॥ १४०॥
असतो न कथञ्चन जन्म भवे-
त्तदसत्त्वत एव खपुष्पमिव ।
न सतोऽस्ति भवः पुरतोऽपि भवा-
द्यत आत्मवदेव सदिष्टमिति ॥ १४१॥
कपिलासुरिपञ्चशिखादिमतं
परिगृह्य वदेद्यदि कश्चिदिदम् ।
न कदाचन जन्म वदामि सतः
प्रवदामि तु यच्छृणु तत्त्वमपि ॥ १४२॥
प्रकृतावविशिष्टतया यदभू-
दधुना तु तदेव विशेषयुतम् ।
निरवद्यमिदं प्रतिभाति मम
प्रवदात्र विरोधमवैषि यदि ॥ १४३॥
सदयुज्यत येन गुणेन पुरा
प्रकृतौ स इहास्ति न चेति वद ।
यदि विद्यत एव पुरा प्रकृता-
वधुनापि विशेषयुतत्वमसत् ॥ १४४॥
यदि नास्ति पुरा स गुणः प्रकृता-
वसदुद्भवनं भवतोऽभिमतम् ।
जननेन च सत्त्वमुपात्तवतो
जनिमत्त्वत एव विनष्टिरपि ॥ १४५॥
भवतोऽभिमतं परिहर्तुमिदं
न कथञ्चन शक्यत इत्यमुतः ।
कणभक्षमतेन समत्वमिदं
भवतोऽभिमतं शनकैरगमत् ॥ १४६॥
असतो भवनं नशनं च सतः
कणभोजिमतं विदितं कविभिः ।
उपपत्तिविरुद्धतया सुभृशं
तदभाणि मयापि विरुद्धतया ॥ १४७॥
प्रतिषिद्धमिदं कणभोजिमतं
हरिणापि समस्तगुरोर्गुरुणा ।
वचनेन तु नासत इत्यमुना
ब्रुवता च पृथातनयाय हितम् ॥ १४८॥
असतश्च सतश्च न जन्म भवे-
दिति पूर्वमवाद्युपपत्तियुतम् ।
सदसच्च न जायत एव कुतो
न हि वस्तु तथाविधमास्ति यतः ॥ १४९॥
सदसत्त्वमतीत्य मनःप्रभृते-
र्न कथञ्चन वृत्तिरिहास्ति यतः ।
तत एव मनःप्रमुखस्य भवो
न भवेदिति सर्वसुवेदमिति ॥ १५०॥
यदि नाम कथञ्चिदमुष्य भवः
सदसत्त्वमपेक्ष्य भविष्यति वः ।
अमृषात्वममुष्य तथापि न तु
श्रुतिरस्य मृषात्वमुवाच यतः ॥ १५१॥
मनसोऽनृततैवमवादि यत-
स्तत एव हि तस्य मृषा चरितम् ।
यत एव मृषा मनसश्चरितं
तत एव पुरोदितसिद्धिरभूत् ॥ १५२॥
यदपेक्ष्य तु नाम भवेत्त्रितयं
परमात्मपदस्य तुरीयमिति ।
तदसत्यमसत्यगुणस्तु यतः
परिनिर्मितसर्पविसर्पणवत् ॥ १५३॥
निखिलस्य मनःप्रमुखस्य यतो
वितथत्वमवादि पुरा तु मया ।
श्रुतियुक्तिबलेन ततोऽद्वयकं
परमक्षरमेव सदन्यदसत् ॥ १५४॥
यदपूर्वमबाह्यमनन्तरकं
न च किञ्चन तस्य भवत्यपरम् ।
इति वेदवचोऽनुशशास यतो
वितथं परतोऽन्यदतः प्रगतम् ॥ १५५॥
प्रतिषिध्य यतो बहिरन्तरपि
स्वविलक्षणमात्मन उक्तवती ।
अवबोधघनत्वमतोऽन्यदस-
ल्लवणैकरसत्वनिदर्शनतः ॥ १५६॥
लवणैकरसत्वसमं भणितं
स्वविलक्षणवस्तुनिषेधनतः ।
अवबोधघनं परमात्मपदं
त्वमवेहि तदस्मि सदाहमिति ॥ १५७॥
अणु नो न च तद्विपरीतगुणं
न च ह्रस्वमतो न च दीर्घमपि ।
प्रतिषिद्धसमस्तविशेषणकं
परमक्षरमात्मतयाश्रय भोः ॥ १५८॥
असुबुद्धिशरीरगुणान्षडिमा-
नविवेकिजनैर्दृशिधर्मतया ।
प्रतिपन्नतमान्प्रविहाय शनै-
र्दृशिमात्रमवेहि सदाहमिति ॥ १५९॥
अहिनिर्ल्वयनीमहिरात्मतया
जगृहे परिमोक्षणतस्तु पुरा ।
परिमुच्य तु तामुरगः स्वबिले
न पुनः समवेक्षत आत्मतया ॥ १६०॥
अविवेकत आत्मतया विदितं
कुशरीरमिदं भवताप्यहिवत् ।
अहिवत्त्यज देहमिमं त्वमपि
प्रतिपद्य चिदात्मकमात्मतया ॥ १६१॥
रजनीदिवसौ न रवेर्भवतः
प्रभया सततं युत एष यतः ।
अविवेकविवेकगुणावपि तौ
भवतो न रवेरिव नित्यदृशेः ॥ १६२॥
परिशुद्धविबुद्धविमुक्तदृशे-
रविवेकविवेकविवर्जनतः ।
मम बन्धविमोक्षगुणौ भवतो
न कदाचिदपीत्यवगच्छ भृशम् ॥ १६३॥
न मम ग्रहणोज्झनमस्ति मया
न परेण दृशेरिति निश्चिनु भोः ।
न हि कस्यचिदात्मनि कर्म भवे-
न्न च कश्चिदिहास्ति मदन्य इति ॥ १६४॥
अहमस्मि चरस्थिरदेहधियां
चरितस्य सदेक्षक एक इति ।
न भवेदत एव मदन्य इति
त्वमवेहि सुमेध इदं सुदृढम् ॥ १६५॥
गगने विमले जलदादिमले
सति वासति वा न भिदास्ति यथा ।
त्वयि सर्वगते परिशुद्धदृशौ
न भिदास्ति तथा द्वयभेदकृता ॥ १६६॥
अनृतं द्वयमित्यवदाम पुरा
व्यवहारमपेक्ष्य तु गीतमिदम् ।
अनृतेन न सत्यमुपैति युजां
न मरीचिजलेन नदी ह्रदिनी ॥ १६७॥
बहुनाभिहितेन किमु क्रियते
शृणु सङ्ग्रहमत्र वदामि ततः ।
त्वयि जागरितप्रभृति त्रितयं
परिकल्पितमित्यसदेव सदा ॥ १६८॥
परिकल्पितमित्यसदित्युदितं
मन इत्यभिशब्दितमागमतः ।
उपपत्तिभिरेव च सिद्धमतो
भवतोऽन्यदशेषमभूतमिति ॥ १६९॥
यदबाह्यमनन्तरमेकरसं
यदकार्यमकारणमद्वयकम् ।
यदशेषविशेषविहीनतरं
दृशिरूपमनन्तमृतं तदसि ॥ १७०॥
इयदेव मयोपनिषत्सु पदं
परमं विदितं न ततोऽस्त्यधिकम् ।
इति पिप्पलभक्ष इवाभ्यवद-
द्ध्यवशिष्टमतिं विनिवारयितुम् ॥ १७१॥
इतरोऽपि गुरुं प्रणिपत्य जगौ
भगवन्निति तारितवानसि माम् ।
अवबोधतरेण समुद्रमिमं
मृतिजन्मजलं सुखदुःखझषम् ॥ १७२॥
अधुनास्मि सुनिर्वृत आत्मरतिः
कृतकृत्य उपेक्षक एकमनाः ।
प्रहसान्विषयान्मृगतोयसमा-
न्विचरामि महीं भवता सहितः ॥ १७३॥
तव दास्यमहं भृशमामरणा-
त्प्रतिपद्य शरीरधृतिं भगवन् ।
करवाणि मया शकनीयमिदं
तव कर्तुमतोऽन्यदशक्यमिति ॥ १७४॥
गुरुशिष्यकथाश्रवणेन मया
श्रुतिवच्छ्रुतिसारसमुद्धरणम् ।
कृतमित्थमवैति य एतदसौ
न पतत्युदधौ मृतिजन्मजले ॥ १७५॥
भगवद्भिरिदं गुरुभक्तियुतैः
पठितव्यमपाठ्यमतोऽन्यजनैः ।
गुरुभक्तिमतः प्रतिभाति यतो
गुरुणोक्तमतोऽन्यभजन्न पठेत् ॥ १७६॥
निगमोऽपि च यस्य इतिप्रभृति-
र्गुरुभक्तिमतः कथितं गुरुणा ।
प्रतिभाति महात्मन इत्यवद-
त्पठितव्यमतो गुरुभक्तियुतैः ॥ १७७॥
येषां धीसूर्यदीप्त्या प्रतिहतमगमन्नाशमेकान्ततो मे
ध्वान्तं स्वान्तस्य हेतुर्जननमरणसन्तानदोलाधिरूढेः ।
येषां पादौ प्रपन्नाः श्रुतिशमविनयैर्भूषिताः शिष्यसङ्घाः
सद्यो मुक्ताः स्थितास्तान्यतिवरमहितान्यावदायुर्नमामि ॥ १७८॥
भूः पादौ यस्य खं चोदरमसुरनिलश्चन्द्रसूर्यौ च नेत्रे
कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः ।
अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यै-
श्चित्रं रंरम्यते तं त्रिभुवनवपुषं विष्णुमीशं नमामि ॥ १७९॥
इति श्री तोटकाचार्यविरचितं श्रुतिसारसमुद्धरणं समाप्तम् ॥
The text is composed in a meter called toTaka.
Encoded and proofread by Sunder Hattangadi