॥ तत्त्वसमाससूत्रवृत्तिः ॥

पञ्चविंशतितत्त्वेषु जन्मना ज्ञानमाप्तवान् । आदिसृष्टौ नमस्तस्मै कपिलाय महर्षये ॥ १ ॥ अथातस्तत्त्वसमासाख्यसाङ्ख्यसूत्राणि व्याख्यास्यामः । इह कश्चिद्ब्राह्मणस्त्रिविधेन दुःखेनाभिभूतः साङ्ख्याचार्यं कपिलमहर्षिं शरणमुपागतः । स्वकुलनामगोत्रस्वाध्यायं निवेद्याह । भगवन् किमिह परं किं याथातथ्यं किं कृत्वा कृतकृत्यः स्यामिति । कपिल उवाच कथयिष्यामि । अष्टौ प्रकृतयः ॥ १ ॥ षोडश विकाराः ॥ २ ॥ पुरुषः ॥ ३ ॥ त्रैगुण्यम् ॥ ४ ॥ सञ्चरः ॥ ५ ॥ प्रतिसञ्चरः ॥ ६ ॥ अध्यात्मम् अधिभूतम् अधिदैवतं च ॥ ७ ॥ पञ्चाभिबुद्धयः ॥ ८ ॥ पञ्चकर्मयोनयः ॥ ९ ॥ पञ्चवायवः ॥ १० ॥ पञ्चकर्मात्मानः ॥ ११ ॥ पञ्चपर्वाऽविद्या ॥ १२ ॥ अष्टाविंशतिधाऽशक्तिः ॥ १३ ॥ नवधा तुष्टिः ॥ १४ ॥ अष्टधा सिद्धिः ॥ १५ ॥ दशधा मूलिकार्थाः ॥ १६ ॥ अनुग्रहसर्गः ॥ १७ ॥ चतुर्दशविधो भूतसर्गः ॥ १८ ॥ त्रिविधो धातुसर्गः ॥ १९ ॥ त्रिविधो बन्धः ॥ २० ॥ त्रिविधो मोक्षः ॥ २१ ॥ त्रिविधं प्रमाणम् ॥ २२ ॥ त्रिविधं दुःखम् ॥ २३ ॥ एतत् परम्परया याथातथ्यमेतत् सम्यग् ज्ञात्वा कृतकृत्यः स्यान्न पुनस्त्रिविधेन दुःखेनाभिभूयते । इति तत्त्वसमासाख्यसाङ्ख्यसूत्राणि ॥ अथ का अष्टौ प्रकृतय इत्यत्रोच्यते । अव्यक्तं बुद्धिरहङ्कारः पञ्च तन्मात्राणीत्येता अष्टौ प्रकृतयः । तत्राव्यक्तं तावदुच्यते यथा लोके व्यज्यन्ते घटपटकुड्यशयनकाद्या न तथा व्यजत इत्यव्यक्तम् । श्रोत्रादिभिरिन्द्रियैर्न गृह्यत इत्यर्थः । कस्मात् अनादिमध्यान्तत्वान्निरवयवत्वाच्च ॥ अशब्दमस्पर्शमरूपमव्ययं तथा च नित्यं रसगन्धवर्जितम् । अनादिमध्यं महतः परं ध्रुवं प्रधानमेतत् प्रवदन्ति सूरयः ॥ सूक्ष्ममलिङ्गमचेतनमनादिनिधनं तथाप्रसवधर्मि निरवयवमेकमेव हि साधारणमेतदव्यक्तम् । अव्यक्तस्यामी पर्यायशब्दा भवन्ति । अव्यक्तं प्रधानं ब्रह्म परं ध्रुवं बहुधानकमक्षरं क्षेत्रं तमःप्रसूतमिति । का बुद्धिरत्रोच्यते । अध्यवसायो बुद्धिः । सोयमध्यवसायो गवादिषु द्रव्येषु यस्मात् प्रतिपत्तिः । एवमेतन्नान्यथा । गौरेवायं नाश्वः । स्थाणुरेवायं न पुरुषः । इत्येषा बुद्धिः । अस्यास्तु बुद्धेरष्टौ रूपाणि भवन्ति धर्मो ज्ञानं वैराग्यमैश्वर्यमिति । तत्र धर्मो नामाधर्मविपर्ययः श्रुतिस्मृतिविहितः शिष्टाचाराविरुद्धः शुभलक्षणः । ज्ञानं नामाज्ञानविपर्ययस्तत्त्वभावभूतानां सम्बोधः । वैराग्यं नामावैराग्यविपर्ययः शब्दादिविषयेष्वप्रसक्तिः । ऐश्वर्यं नामानैश्वर्यविपर्ययोऽणिमादयोऽष्टगुणाः । एतानि सात्त्विकानि चत्वारि । अधर्मोऽज्ञानमवैराग्यमनैश्वर्यमिति अधर्मो नाम धर्मविपर्ययः श्रुतिस्मृतिविरुद्धः शिष्टाचारविरुद्धोऽशुभलक्षणः । अज्ञानं नाम ज्ञानविपर्ययस्तत्त्वभावभूतानामनवबोधः । अवैराग्यं नाम वैराग्यविपर्यः शब्दादिविषयेष्वभिषङ्गः । अनैश्वर्यं नामैश्वर्यविपर्ययोऽणिमादिरहितत्वम् । एतानि तामसानि चत्वारि । तत्र धर्मेण निमित्तेनोर्ध्वगमनम् । ज्ञानेन निमित्तेन मोक्षः । वैराग्येण निमित्तेन प्रकृतिलयः । ऐश्वर्यनिमित्तेनाऽप्रतिहतगतिर्भवति । एवमेषाष्टरूपा बुद्धिर्व्याख्याता । बुद्धेरमी पर्यायशब्दा भवन्ति । मनो मतिर्महान् ब्रह्मा ख्यातिः प्रज्ञा श्रुतिर्धृतिः । प्रज्ञानं सन्ततिः स्मृतिर्धीर्बुद्धिः परिकथ्यते ॥ अत्राह कोऽहङ्कार इत्युच्यते । अभिमानोऽहङ्कारः । अहं शब्दे अहं स्पर्शे अहं रूपे अहं रसे । अहं गन्धे अहं स्वामी धनवानहमीश्वरः ॥ १॥ अहं भोगी अहं धर्मेऽभिषिक्तोऽसौ मया हतः । अहं हनिष्ये बलिभिः परैरित्येवमादिकः ॥ २॥ योऽयमभिमानप्रत्ययो सोऽहङ्कारः । अहङ्कारस्याऽमी पर्यायशब्दाः । अहङ्कारो वैकारिकस्तैजसो भूतादिः सानुमानो निरनुमानश्चेति ॥ अत्राह कानि पञ्चतन्मात्राणीत्युच्यते । अहङ्कारान्वितानि पञ्चतन्मात्राणि शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं चेति पञ्चतन्मात्राणि । तत्र तावच्छब्दतन्मात्राणि शब्देष्वेवोपलभ्यन्ते उदात्तानुदात्तस्वरितकम्पितषड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादादयः शब्दविशेषादुपलभ्यन्ते । तस्माच्छब्दतन्मात्रेऽविशेषः । अथ स्पर्शतन्मात्राणि स्पर्शेष्वेवोपलभ्यन्ते तत्र मृदुकठिनकर्कशपिच्छिलशीतोष्णादयः स्पर्शविशेषा उपलभ्यन्ते । तस्मात् स्पर्शतन्मात्रेऽविशेषः । रूपतन्मात्राणि रूपेष्वेवोपलभ्यन्ते । तत्र शुक्लरक्तकृष्णहरितपीतहारिद्रमाञ्जिष्ठादयो रूपविशेषा उपलभ्यन्ते । तस्माद्रूपतन्मात्रेऽविशेषः । तथा रसतन्मात्राणि रसेष्वेवोपलभ्यन्ते । तत्र कटुतिक्तकषायक्षारमधुराम्ललवणादयो रसविशेषा उपलभ्यन्ते । तस्माद्रसतन्मात्रेऽविशेषः । अथ गन्धतन्मात्राणि गन्ध एवोपलभ्यन्ते । तत्र सुरभिरसुरभिश्च गन्धविशेषा उपलभ्यन्ते । तस्माद् गन्धतन्मात्रेऽविशेषः । एवमेतत्पञ्चतन्मात्राणि सूचितानि । अथैषां पर्यायशब्दाः । तन्मात्राण्यविशेषाणि महाभूतप्रकृतयो भोग्यान्यणवः शान्तघोरमूढानीति । एवमेता अव्यक्तबुद्ध्यहंकारतन्मात्रसञ्ज्ञिता अष्टौ प्रकृतयो व्याख्याताः । अथ कस्मात् प्रकृतयः । प्रकुर्वन्तीति प्रकृतयः । अथ ते के षोडशविकारा इत्यत्रोच्यते । एकादशेन्द्रियाणि पञ्चमहाभूतान्येते षोडशविकाराः । तत्रेन्द्रियाणि तावदुच्यन्ते । श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणमिति पञ्च बुद्धीन्द्रियाणि । श्रोत्रं स्वविषयं शब्दं गृह्णाति त्वक्स्पर्शविषयं चक्षू रूपविषयं रसना रसविषयं घ्राणं गन्धविषयमिति । वाक्पाणिपादपायूपस्थाख्यानि पञ्च कर्मेन्द्रियाणि स्वं स्वं कर्म कुर्वन्ति । तत्र वाग्वचनमुच्चरति । हस्तौ कर्म कुरुतः । पादौ विहरणम् । पायुर्विसर्गम् । उपस्थमानन्दम् । उभयात्मकं मनः । स्वसंकल्पविकल्पवृत्ती कुरुते । एवनेकादशेन्द्रियाणि व्याख्यातानि । अथैषां पर्यायाः । इन्द्रियाणि करणानि वैकारिकाणि खानि नियतानि पदानि अवधृतानि अणूनि अक्षाणीति । अथ कानि पञ्चमहाभूतानीत्यत्रोच्यते । पृथिव्यप्तेजोवाय्वाकाशानीति महाभूतानि । तत्र पृथिवी धारणभावेन प्रवर्तमाना चतुर्णामुपकारं करोति । आपो जलानि संग्रहभावेन प्रवर्त्तमानाश्चतुर्णामुपकारं कुर्वन्ति । तेजः पाचकभावेन प्रवर्तमानं चतुर्णामुपकारं करोति । वायुर्वाहनभावेन प्रवर्तमानश्चतुर्णामुपकारं करोति । आकाशमवकाशदानेन प्रवर्तमानं चतुर्णामुपकारं करोति । शब्दस्पर्शरूपरसगन्धवती पञ्चगुणा पृथिवी । शब्दस्पर्शरूपरसवत्यश्चतुर्गुणा आपः । शब्दस्पर्शरूपवत् त्रिगुणं तेजः । शब्दस्पर्शवान् द्विगुणो वायुः । शब्दवदेकगुणमाकाशम् । एवमाख्यातानि पञ्च महाभूतानि । अथैषां पर्यायाः । भूतानि भूतविशेषाः विकाराः आकृतयः तनवः विग्रहाः शान्ताः घोराः मूढाः इत्येते षोडशविकारा व्याख्याताः । अथाह कः पुरुष इत्युच्यते । पुरुषोऽनादिः सूक्ष्मः सर्वगतश्चेतनोऽगुणो नित्यो द्रष्टा भोक्ताऽकर्त्ता क्षेत्रविदमलोऽप्रसवधर्मी चेति । अथाह कस्मात् पुरुषः पुराणात् पुरिशयनात् पुरोहितवृत्तित्वाच्च पुरुषः । अथ कस्मादनादिः । नास्यादिरन्तो मध्यो वा विद्यत इत्यनादिः । कस्मात् सूक्ष्मः । निरवयवत्वादतीन्द्रियत्वात् सूक्ष्मः । कस्मात् सर्वगतः । सर्वं प्राप्तमनेन नास्य गगनमस्तीति सर्वगतः । कस्माच्चेतनः । सुखदुःकमोहोपलब्धिमत्त्वात् । कस्मादगुणः । सत्त्वरजस्तमांस्यस्मिन्न सन्त्यतोऽगुणः । कस्मान्नित्यः अकृतकत्वादनुत्पादकत्वाच्च । कस्माद् द्रष्टा । प्रकृतिविकारानुपलम्भेन इति । कस्माद्भोक्ता । चेतनभावात् सुखदुःखपरिज्ञानाच्च । कस्मादकर्ता । उदासीनत्वादगुणत्वाच्च । कस्मात् क्षेत्रविद् । क्षेत्रेभ्यो गुणान् वेत्तीति क्षेत्रविद् । अथ कस्मादमलः । शुभाशुभकर्माण्यस्मिन् पुरुषे न सन्तीत्यमलः । कस्मादप्रसवधर्मी । निर्बीजत्वात् । न किञ्चिदुत्पादयतीत्यर्थः । एवमेष सांख्यपुरुषो व्याख्यातः । अथास्य पुरुषस्य पर्यायाः । पुरुषः आत्मा पुमान् पुंगुणः बहुलः जन्तुः जीवः क्षेत्रज्ञः नरः कविः ब्रह्म अक्षरः प्राणः अजः यः कः सः एषः । एवमेतानि पञ्चविंशतितत्त्वानि व्याख्यातानि । अष्टौ प्रकृतयः षोडशविकाराः पुरुषश्चेति ॥ पञ्चविंशतितत्त्वज्ञो यत्र कुत्राश्रमे रतः । जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥ अत्राह पुरुषः किं कर्ता अकर्त्ता वेति । यदि कर्त्ता पुरुषः स्यात् तदा शुभानि कुर्यात् । ननु वृत्तित्रयं लोके दृष्टं पुरुषस्य ततः किं गुणानां कर्तृताऽसिद्धा ? धर्माख्यं सौहित्यं यमनियमनिषेवणं प्रख्यानम् । ज्ञानैश्वर्यविरागाः प्रकाशनमिति सात्त्विकी वृत्तिः ॥ रागः क्रोधो लोभः परपरिवादोऽतिरौद्रताऽतुष्टिः । विकृताकृतिपारुष्यं प्रख्यातैषा तु राजसी वृत्तिः ॥ प्रमादमदविषादा नास्तिक्यं स्त्रीप्रसङ्गिता निद्रा । आलस्यं नैर्घृण्यमशौचमिति तामसी वृत्तिः ॥ एतद्वृत्तित्रयं दृष्ट्वा लोके गुणानां कर्तृत्वं सिद्धमिति चाकर्त्ता पुरुषः सिद्धो भवति ॥ प्रवर्त्तमानान् प्रकृतेरिमान् गुणान् रजस्तमोभ्यां विपरीतदर्शनात् । अहं करोमीत्यबुधोऽभिमन्यते तृणस्य कुब्जीकरणेऽप्यनीश्वरः ॥ सर्वमिदं मया कृतं ममेदमिति वदन्नभिमानादबुध उन्मत्तः कर्तृवद्भवति अत्राह । प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ अनादित्वान्निर्गुणत्वात् परमात्माऽयमव्ययः । शरीरस्थोऽपि कौन्तय न करोति न लिप्यते ॥ एवम् । प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ तत्राह किमयमेकः पुरुषो बहवो वेत्युच्यते । सुखदुःखमोहसङ्करविशुद्धकरणपाटवजन्ममरणकरणानां नानात्वात् पुरुषबहुत्वं सिद्धं लोकाश्रमवर्णभेदाच्च । यद्येकः पुरुषः स्यादेकस्मिन् सुखिनि सर्व एव सुखिनः स्युः । एकस्मिन् दुःखिनि सर्व एव दुःखिनः स्युः । एकस्मिन् करणपाटवे सर्वेषामेव करणपाटवं स्यात् । एकस्मिञ्जाते सर्व एव जायेरन् । एकस्मिन् मृते सर्व एव म्रियेरन्निति । न चैवम् इतश्च बहवः पुरुषाः सिद्धाः । आकृतिगर्भाशयभावसङ्गतिशरीरविभागे लिङ्गबहुत्वात् । एवं तावत् सांख्याचार्याः कपिलासुरिपञ्चशिखपतञ्जलिप्रभृतयो बहून् पुरुषान् वर्णयन्ति । वेदान्तवादिन आचार्या हरिहरहिरण्यगर्भव्यासादय एकमेवात्मानं वर्णयन्ति । कस्मादेवं तदाह । पुरुष एवेदं सर्वं भूतं यच्च भाव्यम् । उतामृतत्वस्येशानो यदन्येनातिरोहति ॥ तदेवाग्निस्तदादित्यस्तद्वायुस्तद्धि चन्द्रमाः । तदेव शुक्रं तद्ब्रह्म तदापः सः प्रजापतिः ॥ तदेव सत्यममृतं स मोक्षः सा परा गतिः ॥ तदक्षरं तत् सवितुर्वरेण्यं यस्मात्परं नापरमस्ति किञ्चित् ॥ यस्मान्नाणीयो न ज्यायोऽस्ति कश्चिद् वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् । सर्वतः पाणिपादान्तं सर्वतोक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्त्य तिष्ठति ॥ सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । सर्वेषां प्रभुमीशानं सर्वस्य शरणं महत् ॥ सर्वतः सर्वतत्त्वानि सर्वात्मा सर्वसम्भवः । सर्वं विलीयते यस्मिन् तद्ब्रह्म मुनयो विदुः ॥ एक एव हि भूतात्मा देहे देहे व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ स हि सर्वेषु भूतेषु स्थावरेषु चरेषु च । वसत्येको महानात्मा येन सर्वमिदं ततम् ॥ एकोयमात्मा जगतामेकेन बहुधा कृतः । पृथग् वदन्ति चात्मानं ज्ञानादिकप्रवर्तने ॥ ब्राह्मणे कृमिकीटेषु श्वपाके शुनि हस्तिनि । पशुगोदंशमशके समं पश्यन्ति पण्डिताः ॥ एक एव यथा सूत्रं सुवर्णे वर्तते पुनः । मुक्तामणिप्रवालेषु मृण्मये रजते तथा ॥ तद्वद् गोषु मनुष्येषु तद्वद्धस्तिमृगादिषु । एकोयमात्मा विज्ञेयः सर्वत्रैव व्यवस्थितः ॥ अत्राह किं त्रैगुण्यं नामोच्यते । सत्त्वरजस्तमांसीति त्रिगुणा एव त्रैगुण्यम् । सत्त्वं नाम प्रसादलाघवप्रसन्नताभिषङ्गप्रीतितुष्टितितिक्षासन्तोषादिलक्षणमनन्तभेदं समासतः सुखात्मकम् । रजो नाम शोकतापस्वेदस्तम्भोद्वेगरोषमानादिलक्षणमनन्तभेदं समासतो दुःखात्मकम् । तमो नामाऽऽच्छादनावरणबीभत्सदैन्यगौरवालस्यनिद्राप्रमादादिलक्षणमनन्तभेदं समासतो मोहात्मकम् । एतत् त्रैगुण्यं व्याख्यातम् । सत्त्वं प्रकाशकं विद्याद्रजो विद्यात् प्रवर्तकम् । तमोऽप्रकाशकं विद्यात्त्रैगुण्यन्नाम संज्ञितम् ॥ अत्राह कः सञ्चरः प्रतिसञ्चरश्च । अत्रोच्यते । उत्पत्तिः सञ्चरः प्रलयः प्रतिसञ्चरः । तत्रोत्पत्तिर्नामाव्यक्तात् प्रागुपदिष्टात् सर्वतः पुरुषेण परेणाधिष्ठिता बुद्धिरुत्पद्यते । अष्टगुणा बुद्धिः । बुद्धितत्त्वादहङ्कार उत्पद्यते । स चाहंकारस्त्रिविधो वैकारिकस्तैजसो भूतादिरिति । तत्र वैकारिकादहंकारादेव इन्द्रियाणि चोत्पद्यन्ते । भूतादेस्तन्मात्राणि । तैजसादुभयम् । तन्मात्रेभ्यो भूतानीति सञ्चरः । प्रतिसञ्चरो नाम भूतानि तन्मात्रेषु लीयन्ते । तन्मात्राणीन्द्रियाणि चाहंकारे । अहंकारो बुद्धौ । बुद्धिरव्यक्ते । तदव्यक्तं क्वचिन्न लीयते । कस्मादनुत्पद्यमानत्वात् प्रकृतिं पुरुषञ्चैव विद्ध्यनादि इत्येवं प्रतिसञ्चरो व्याख्यातः । तत्राह किं तदध्यात्ममधिभूतमधिदैवतं चेति । तत्रोच्यते । बुद्धिरध्यात्मम् बोद्धव्यमधिभूतं ब्रह्मा तत्राधिदैवतम् । अहंकारोऽध्यात्मं मन्तव्यमधिभूतं रुद्रस्तत्राधिदैवतम् । मनोऽध्यात्मं संकल्पितव्यमधिभूतं चन्द्रस्तत्राधिदैवतम् । श्रोत्रमध्यात्मं श्रोतव्यमधिभूतमाकाशस्तत्राधिदैवतम् । त्वगध्यात्मं स्पर्शयितव्यमधिभूतं वायुस्तत्राधिदैवतम् । चक्षुरध्यात्मं द्रष्टव्यमधिभूतमादित्यस्तत्राधिदैवतम् । जिह्वाध्यात्मं रसयितव्यमधिभूतं वरुणस्तत्राधिदैवतम् । घ्राणमध्यात्मं घ्रातव्यमधिभूतं पृथ्वी तत्राधिदैवतम् । वागध्यात्मं वक्तव्यमधिभूतं अग्निस्तत्राधिदैवतम् । पाणी अध्यात्मं ग्रहीतव्यमधिभूतमिन्द्रस्तत्राधिदैवतम् । पादावाध्यात्मं गन्तव्यमधिभूतं विष्णुस्तत्राधिदैवतम् । पायुरध्यात्ममुत्स्रष्टव्यमधिभूतं मित्रस्तत्राधिदैवतम् । उपस्थमध्यात्ममानन्दयितव्यमधिभूतं प्रजापतिस्तत्राधिदैवतम् । एवमेतत् त्रयोदशविधस्य करणस्याध्यात्ममधिभूतमधिदैवतं व्याख्यातम् । तत्त्वानि यो वेदयते यथावद् गुणस्वरूपाण्यधिदैवतं च । विमुक्तपाप्मा गतदोषसङ्घो गुणांस्तु भुङ्क्ते न गुणैः स भज्यते ॥ अथ कास्ताः पञ्चाभिबुद्धय उच्यते । व्यवसायोऽभिमानेच्छा कर्तव्यता क्रियेति । अभिमुखी बुद्धिरिदं करणीयं मयेति व्यवसायो बुद्धिक्रिया । आत्मपरात्मस्वरूपप्रत्ययाभिमुखोऽभिमानोऽहंकारो बुद्धेः क्रिया । इच्छा वाञ्छा सङ्कल्पो मनसो बुद्धिक्रिया । शब्दादिविषयालोचनश्रवणादिलक्षणकर्तव्यता बुद्धीन्द्रियाणां बुद्धिक्रिया । वचनादिलक्षणबुद्धिक्रिया कर्मेन्द्रियाणां सा क्रियेति । एवमेताः पञ्चाभिबुद्धयो व्याख्याताः । अथ कास्ताः पञ्चकर्मयोनय उच्यन्ते । धृतिः श्रद्धा सुखाऽविविदिषा विविदिषा च पञ्चकर्मयोनयः । बाह्यकर्माणि संकल्प्य प्रतीतं योऽभिरक्षति । तन्निष्ठस्तत्प्रतिष्ठश्च धृतेरेतद्धि लक्षणम् ॥ स्वाध्यायो ब्रह्मचर्यं च यजनं याजनं तपः । दानं प्रतिग्रहो होमः श्रद्धाया लक्षणं स्मृतम् ॥ सुखार्थं यस्तु सेवेत ब्रह्मकर्मतपांसि च । प्रायश्चित्तपरो नित्यं सुखेयं परिकीर्तिता ॥ विषयमधुमिश्रितान्तःकारणत्वमविविदिषा । विविदिषा च ध्यानिनां प्रज्ञानयोनिः । एकत्वं च पृथक्त्वं च नित्यं चैवमचेतनम् । सूक्ष्मं सत्कार्यमक्षोभ्यं ज्ञेया विविदिषा च सा ॥ कार्यकारणक्षयकरी विविदिषा प्राकृतिकी वृत्तिः । धृतिः श्रद्धा सुखाऽविविदिषा चतस्रो बन्धाय विदिषैका मोक्षाय । एवमेता पञ्च कर्मयोनयो व्याख्याताः । अत्राह के पञ्चवायव उच्यन्ते । प्राणोपानः समानश्च उदानो व्यान एव च । इत्येते वायवः पञ्च शरीरेषु शरीरिणाम् । तत्र प्राणो नाम वायुर्मुखनासिकाधिष्ठाता प्रणयनात्प्रक्रमणाच्च प्राण इत्यभिधीयते । अपानो नाम वायुर्नाभ्यधिष्ठितापनयनादधोगमनाच्चापान इत्यभिधीयते । समानो नाम वायुर्हृदधिष्ठाता समनयनात् सङ्गमनाच्च समान इत्यभिधीयते । उदानो नाम वायुः कण्ठाधिष्ठाता ऊर्ध्वगमनादुत्क्रमणाच्चोदान इत्यभिधीयते । व्यानो नाम वायुः सन्ध्यधिष्ठाता विक्षेपणाद्विजृम्भणाच्च व्यान इत्यभिधीयते । इति पञ्चवायवो व्याख्याताः । अत्राह के ते पञ्चकर्मात्मान इत्युच्यते । वैकारिकस्तैजसो भूतादिः सानुमानो निरनुमानश्च । तत्र वैकारिकः शुभकर्मकर्ता । तैजसोऽशुभकर्मकर्ता । भूतादिर्मूढकर्मकर्ता । सानुमानः शुभमूढकर्मकर्ता । निरनुमानोऽशुभमूढकर्मकर्ता चैवं पञ्चकर्मात्मानो व्याख्याताः । अत्राह का सा पञ्चपर्वाऽविद्येत्युच्यते । तमो मोहो महामोहस्तामिश्रोऽन्धतमिस्रश्चेति । तत्र तमोमोहावुभावष्टात्मकौ । महामोहो दशात्मकः । तामिस्रोन्धतामिस्रश्चाष्टादशात्मकौ । तमो नामाष्टसु प्रकृतिष्वव्यक्तबुद्ध्यहंकारपञ्चतन्मात्रसंज्ञितास्वनात्मस्वात्माभिमानस्तम इत्यभिधीयते । मोहो नामाणिमाद्यष्टैश्वर्यप्राप्तये योऽभिमान उत्पद्यते स मोह इत्यभिधीयते । महामोहो नाम दृष्टानुश्रविकेषु शब्दादिविषयेषु दशसु वृत्तिषु मुक्तोहमिति मन्यते स महामोह इत्यभिधीयते । तामिस्रो नामाष्टगुणैश्वर्येऽणिमाद्ये दशविधे च विषये यो द्वेषोऽप्रतिहतस्तत्र यद् दुःखमुत्पद्यतेऽसौ तामिस्र इत्यभिधीयते । अन्धतामिस्रो नामाष्टगुणैश्वर्येऽणिमाद्ये दशविधे च विषये सिद्धे मरणकाले यो विषाद उत्पद्यते सोऽन्धतामिस्र इत्यभिधीयते । एवमेषा पञ्चपर्वाऽविद्या द्विषष्टिभेदा व्याख्याताः । अत्राह का साऽष्टाविंशतिधाऽशक्तिरत्रोच्यते । एकादशेन्द्रियवधाः सप्तदश तुष्टिसिद्धि(बुद्धि)वधाः । एषाष्टाविंशतिधाऽशक्तिरिति । तत्रेन्द्रियवधास्तावदुच्यन्ते । श्रोत्रे बाधिर्यं जिह्वायां जडत्वं त्वचि कुष्ठित्वं चक्षुष्यरूपत्वं नासिकायामघ्राणत्वं वाचि मूकत्वं हस्तयोः कुणित्वं पादयोः पङ्गुत्वं वागिन्द्रिय उदावर्त उपस्थेन्द्रिये क्लैब्यं मनस्युन्माद इत्येकादशेन्द्रियवधाः । सप्तदशतुष्टिसिद्धिवधा नाम विपर्ययास्तुष्टिसिद्धीनाम् । तुष्टिविपर्ययास्तावदुच्यन्ते । तत्र नास्ति प्रधानमिति या प्रतिपत्तिरनन्ता । एवमहमित्यात्मज्ञाने तामसलीना तथाहंकारस्यादर्शनमविद्या । नैव सन्ति तन्मात्राणि भूतकारणानीत्यवृष्टिः । विषयाणामर्जने प्रवृत्तिरसुतारा । रक्षणे तु प्रवृत्तिरसुपारा च । क्षयदोषमदृष्ट्वाऽर्थे प्रवृत्तिरसुनेत्रा । भोगा शक्तिरसुमरीचिका । हिंसादोषमपश्यतो भोगारम्भोऽनुत्तमाम्भसिका । इति तुष्टिविपर्यया नवधाऽतुष्टयो व्याख्याताः । अथ सिद्धिविपर्यया असिद्धयोऽष्टौ चाभिधीयन्ते । नानात्वं भूतमात्रस्यैकात्वमाविर्भूतमतारमुच्यते । शब्दमात्रश्रवणाद्विपरीतग्रहणमासुतारं यथा नानात्वज्ञो मुक्त इति श्रुत्वा विपरीतं प्रतिपन्नो नानात्वज्ञो ह्यमुक्त इति । अध्ययनश्रवणाभिनिविष्टस्यापि जडत्वादसच्छास्त्रोपहतबुद्धित्वाद्वा पञ्चविंशतितत्त्वज्ञानसिद्धिर्न भवति तदाऽतारतारं तदज्ञानम् । कस्यचिदाध्यात्मिकेन दुःखेनाभिभूतस्यापि संसारेऽनुद्वेगादजिज्ञासोर्न ज्ञानं तत्प्रमादम् । एवमप्रमुदिताप्रमोदमानयोश्चान्योन्ययोर्द्वयमपरं द्रष्टव्यम् । सुहृदुपदिष्टेऽप्यनिश्चयबुद्धेरज्ञानम् परस्परमसम्पा । असम्पावचनादथवा पराङ्मुखे गुरौ दुर्भाग्यस्य ज्ञानासिद्धिस्तदज्ञानमसत्प्रमुदितमिति । एवमेते सिद्धिविपर्यया असिद्धयोऽष्टौ व्याख्याताः । एवमेषाऽष्टविंशतिधाऽशक्तिर्व्याख्याता । अत्राह का सा नवधा तुष्टिरत्रोच्यते । प्रकृतिं परमार्थत्वेन परिकल्प्य परितुष्टे माध्यस्थं लभते तस्य तुष्ट्या सा तान्त्रिकी संज्ञाऽम्भ इति । अपरो बुद्धिं परमार्थवेन प्रतिपद्य परितुष्टस्तस्यास्तुष्टेः शलिला इति संज्ञा । अन्योऽहंकारं परमार्थत्वेनाभ्युपगम्य परितुष्टस्त--- पगे १३४-१३५ मिस्सिन्ग् सङ्घातपरार्थत्वादिति पुरुषास्तित्वं सिद्धम् । भेदानां परिमाणात् कारणमस्त्यव्यक्तमिति पर्यायद्वयेन प्रधानस्यास्तित्वं सिद्धम् । हेतुमदनित्यमित्येकत्वं सिद्धम् । प्रीत्यप्रीतिविषादात्मका इत्यर्थवत्त्वं सिद्धम् । नानाविधैरुपायैरिति परार्थत्वं सिद्धम् । त्रिगुणमविवेकि विषय इत्यन्यत्वं सिद्धम् । तस्माच्च विपर्यासादित्यकर्तृत्वं सिद्धम् । पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्यापीति योगसिद्धिः । प्राप्ते शरीरभेदे चरितार्थत्वादिति वियोगसिद्धिः । जन्ममरणकरणानामिति पुरुषबहुत्वं सिद्धम् । चक्रभ्रमिवदिति शेषवृत्तिः सिद्धा । एते दशमूलिकार्था व्याख्याताः । एतेषां दशानां प्रागुपदिष्टानां च पञ्चाशत्प्रत्ययाः । एते च षष्टिपदार्थाः षष्टितन्त्रमित्युच्यते । अत्राह कोऽनुग्रहसर्गः अत्रोच्यते । बाह्यान् पञ्चतन्मात्रेभ्यश्चोत्पाद्यानुग्रहसर्गध्यानोत्पन्नेनाधारवर्जितान् पुत्रान् दृष्ट्वा तेभ्यस्तन्मात्रेभ्योऽनुग्रहसर्गमसृजद्ब्रह्मा । अत्राह कश्चतुर्दशविधो भूतसर्ग इत्यत्रोच्यते । अष्टविकल्पो दैवः पैशाचो राक्षसो याक्षो गान्धर्व ऐन्द्रः प्राजापत्यो ब्राह्म इत्यष्टौ देवयोनयः । पञ्चधा तिर्यग्योनश्च पशुपक्षिमृगसरीसृपस्थावरा इति । गवादिमूषकान्ताः पशवः । गरुडादिमशकान्ताः पक्षिणः । सिंहादिशृगालान्ताः मृगाः । शेषादिकीटान्ताः सरीसृपाः । पर्वतादितृणान्ताः स्थावराः । मानुष्यं चैकविधं ब्राह्मणादिचाण्डालान्तम् । अष्टविकल्पो दैवस्तिर्यग्योनश्च पञ्चधा भवति । मानुष्यश्चैकविधः समासतो भौतिकः सर्गः ॥ समासतो ये त्रिधाः सर्गाः तत्राह कस्त्रिविधो धातुसर्गः अत्रोच्यते सूक्ष्माः मातापितृजाः प्रभूता इति । ज्ञानेन्द्रियपञ्चप्राणबुद्धिमनसां गणः सूक्ष्मः । लिङ्गशरीराणीत्यर्थः । मातापितृजा षाट्कौशिकाः तत्र मातृतो लोमलोहितमांसानि पितृतः स्नाय्वस्थिमज्जान इति षट्को गणः । प्रभूताः पञ्चमहाभूतानि महाभूते घटादीनां निवेश इति त्रिविधो धातुसर्गो व्याख्यातः । एतत्संसारमण्डलमुक्तम् ॥ अत्राह कस्त्रिविधो बन्द्य इत्यत्रोच्यते । प्रकृतिबन्धो वैकारिकबन्धो दक्षिणाबन्धश्चेति । तत्र प्रकृतिबन्धो नामाष्टौ प्रकृतयस्ताः परतेनाभिमन्यमानस्य प्रकृतिलयः प्रकृतिबन्ध इत्युच्यते । तत्र वैकारिकबन्धो नाम प्रव्रजितानां लौकिकानां वैकारिकैरिन्द्रियैर्वशीकृतानां शब्दादिविषये प्रशक्तानामजितेन्द्रियाणामज्ञानिनां काममोहितानां वैकारिकबन्ध इत्युच्यते । दक्षिणाबन्धो नाम ब्रह्मचारिगृहस्थभिक्षुवैखानसानां काममोहोपहतचेतसामभिमानपूर्विकां दक्षिणां प्रयच्छतां दक्षिणाबन्ध इत्युच्यते । इति त्रिविधो बन्धो व्याख्यातः । उक्तं च । प्राकृतेन तु बन्धेन तथा वैकारिकेण च । दक्षिणाभिस्तृतीयेन बन्धोयं च निगद्यते ॥ अत्राह कस्त्रिविधो मोक्ष इत्यत्रोच्यते । ज्ञानोद्रेकादिन्द्रियरागोपशमात् कृत्स्नक्षयाच्चेति । ज्ञानोद्रेकादिन्द्रियरागोपशमात् स्वधर्माधर्मक्षयो भवति धर्माधर्मक्षयाच्च कैवल्यमिति । उक्तं च । आद्यो हि मोक्षो ज्ञानेन द्वितीयो रागसंक्षयात् । कृत्स्नक्षयात् तृतीयस्तु व्याख्यातं मोक्षलक्षणम् ॥ किं त्रिविधं प्रमाणमित्यत्रोच्यते । दृष्टमनुमानमाप्तवचनं चेति एतत् त्रिविधं प्रमाणम् । दृष्टं तावद्व्याख्यायते यावदिन्द्रियाणां पञ्चेन्द्रियार्थाः प्रत्यक्षा एव दृष्टम् । अनुमानम् प्रमाणं लिङ्गदर्शने जायमानं ज्ञानम् । यथा मेघोदयेन वृष्टिः साध्यते बकपङ्क्तिभिः सलिलम् धूमेनाग्निः तदनुमानम् । प्रत्यक्षेणानुमानेन वा योर्थो न साध्यते स आप्तवचनात् साध्यते । यथेन्द्रो देवानां राजा उत्तराः कुरवः सौवर्णो मेरुः स्वर्गेऽप्सरस इति । त इन्द्रादयः प्रत्यक्षानुमानासाध्याश्च वसिष्टादयो मुनयो वदन्ति सन्तीन्द्रादयः आगमोप्यस्ति । स्वकर्मण्यभियुक्तो यो रागद्वेषविवर्जितः । ज्ञानवान् शीलसम्पन्न आप्तो ज्ञेयस्तु तादृशः ॥ एवमेतत् त्रिविधं प्रमाणमभिहितम् । अत्राह तेन त्रिविधेन प्रमाणेन किं साध्यते अत्रोच्यते । यथा लोके मानेन प्रस्थादिना धान्यानि मीयन्ते । तुलया चन्दनादीनि द्रव्याणि । एवमनेन तत्त्वभावभूतानि प्रमीयन्ते । त्रिविधेन दुःखेनाभिभूतो ब्राह्मणः कपिलमहर्षिशरणमुपागतः अत्राह । किं त्रिविधं दुःखमित्यत्रोच्यते । आध्यात्मिकमाधिभौतिकमाधिदैविकमिति । तत्राध्यात्मिकं द्विविधं शारीरं मानसं चेति । शरीरे भवं शारीरम् मनसि भवं मानसं चेति । तत्र शारीरं नाम वातपित्तश्लेष्मणां वैषम्याद्यद्दुःखमुत्पद्यते ज्वरातिसारविसूचिकामूर्छादिकं तच्छारीरमुच्यते । कामक्रोधलोभमोहमदेर्ष्यादिकं प्रियवियोगादिकं तन्मानसमित्युच्यते । अधिभूतेभ्यो भवमाधिभौतिकम् । मानुषपशुमृगसरीसृपस्थावरेभ्यो यद्दुःखमुत्पद्यते तदाधिभौतिकम् । अधिदेवेभ्यो जातमाधिदैविकम् । शीतोष्णवातवर्षासन्निपातादिनिमित्तं यद्दुःखमुत्पद्यते तदाधिदैविकम् । अनेन त्रिविधेन दुःखेनाभिभूतस्य ब्राह्मणस्य जिज्ञासोत्पना । ज्ञातुमिच्छा जिज्ञासा । यथा तृषितस्य पानीयं पातुमिच्छा पिपासा । एतत्समासतो निःश्रेयसं ज्ञानम् । यज्ज्ञात्वा पुनर्जन्म न स्यादिति ॥ एतन्महर्षेर्विज्ञानं कपिलस्य महात्मनः । यच्छ्रुत्वा ब्राह्मणः श्रेयः कृतकृत्योऽभवत् तदा ॥ सांख्यसूत्रक्रमेणैषा व्याख्याता क्रमदीपिका । अनुष्टुपछन्दसा चात्र ज्ञेयं श्लोकशतत्रयम् ॥ इति श्रीतत्त्वसमासाख्या सूत्रवृत्तिः समाप्ता ॥ Eन्चोदेद् अन्द् प्रूफ़्रेअद् ब्य् ढवल् Pअतेल् द्र्धवल्२७८५ अत् ग्मैल्ॅओम्
% Text title            : tattvasamAsasUtravRtti
% File name             : tattvasamAsasUtravRtti.itx
% itxtitle              : tattvasamAsasUtravRittiH
% engtitle              : tattvasamAsasUtravRittiH
% Category              : sUtra, major_works
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Dhaval Patel drdhaval2785 at gmail.com
% Proofread by          : Dhaval Patel drdhaval2785 at gmail.com
% Source                : sAnkhyasaNgrahaH 1918
% Latest update         : September 15, 2014
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP