वेदान्तडिण्डिमः

वेदान्तडिण्डिमः

वेदान्तडिण्डिमास्तत्त्वमेकमुद्घोषयन्ति यत् । आस्ताम्पुरस्तात्तत्तेजः दक्षिणामूर्ति संज्ञितम् ॥ १॥ आत्मानात्मपदार्थौ द्वौ भोक्तृभोग्यत्वलक्षणौ । ब्रह्मैवात्मा न देहादिरिति वेदान्तडिण्डिमः ॥ २॥ ज्ञानाज्ञाने पदार्थौ द्वावात्मनो बन्धमुक्तिदौ । ज्ञानान्मुक्तिर्निबन्धोऽन्यदिति वेदान्तडिण्डिमः ॥ ३॥ ज्ञातृज्ञेयपदार्थौ द्वौ भास्यभासकलक्षणौ । ज्ञाता ब्रह्म जगज्ज्ञेयमिति वेदान्तडिण्डिमः ॥ ४॥ सुखदुःखपदार्थौ द्वौ प्रियविप्रियकारकौ । सुखंब्रह्म जगद्दुःखमिति वेदान्तडिण्डिमः ॥ ५॥ समष्टिव्यष्टिरूपौ द्वौ पदार्थौ सर्वसंमतौ । समष्टिरीश्वरो व्यष्टिर्जीवो वेदान्तडिण्डिमः ॥ ६॥ ज्ञानकर्मपदार्थौ द्वौ वस्तुकर्त्रात्मतन्त्रकौ । ज्ञानान्मोक्षो न कर्मभ्य इति वेदान्तडिण्डिमः ॥ ७॥ श्रोतव्याश्राव्यरूपौ द्वौ पदार्थौ सुखदुःखदौ । श्रोतव्यंब्रह्म नैवान्यदिति वेदान्तडिण्डिमः ॥ ८॥ चिन्त्याचिन्त्यपदार्थौ द्वौ विश्रान्तिश्रान्तिदायकौ । चिन्त्यंब्रह्म परंनान्यदिति वेदान्तडिण्डिमः ॥ ९॥ ध्येयाध्येयपदार्थौ द्वौ धीसमाध्यसमाधिदौ । ध्यातव्यंब्रह्म नैवान्यदिति वेदान्तडिण्डिमः ॥ १०॥ योगिनो भोगिनो वापि त्यागिनो रागिणोऽपि च । ज्ञानान्मोक्षो न सन्देह इति वेदान्तडिण्डिमः ॥ ११॥ न वर्णाश्रमसङ्केतैर्न कर्मोपासनादिभिः । ब्रह्मज्ञानं विना मोक्ष इति वेदान्तडिण्डिमः ॥ १२॥ असत्यः सर्वसंसारो रसाभासादिदूषितः । उपेक्ष्यो ब्रह्म विज्ञेयमिति वेदान्तडिण्डिमः ॥ १३॥ वृथाक्रिया वृथालापान्वृथावादान्मनोरथान् । त्यक्त्वैकंब्रह्म विज्ञेयमिति वेदान्तडिण्डिमः ॥ १४॥ स्थितो ब्रह्मात्मना जीवो ब्रह्म जीवात्मना स्थितम् । इति संपश्यतां मुक्तिरिति वेदान्तडिण्डिमः ॥ १५॥ जीवो ब्रह्मात्मना ज्ञेयो ज्ञेयं जीवात्मना परम् । मुक्तिस्तदैक्यविज्ञानादिति वेदान्तडिण्डिमः ॥ १६॥ सर्वात्मत्वात् परं ब्रह्म श्रोतुरात्मतया स्थितम् । नायासस्तत्त्वविज्ञप्त्वाविति वेदान्तडिण्डिमः ॥ १७॥ ऐहिकं चामुष्मिकं च तापान्तं कर्मसञ्चयम् । त्यक्त्वा ब्रह्मैव विज्ञेयमिति वेदान्तडिण्डिमः ॥ १८॥ अद्वैतद्वैतवादौ द्वौ सूक्ष्मस्थूलदशां गतौ । अद्वैतवादान्मोक्षः स्यादिति वेदान्तडिण्डिमः ॥ १९॥ कर्मिणो विनिवर्तन्ते निवर्तन्त उपासकाः । ज्ञानिनो न निवर्तन्त इति वेदान्तडिण्डिमः ॥ २०॥ परोक्षात्सफलं कर्म ज्ञानं प्रत्यक्षसत्फलम् । ज्ञानमेवाभ्यसेत्तस्मादिति वेदान्तडिण्डिमः ॥ २१॥ वृथा श्रमोऽयं विदुषां वृथायं कर्मिणां श्रमः । यदि न ब्रह्मविज्ञानमिति वेदान्तडिण्डिमः ॥ २२॥ अलं यागैरलं योगैरलं भोगैरलं धनैः । परस्मिन् ब्रह्मणि ज्ञात इति वेदान्तडिण्डिमः ॥ २३॥ अलं वेदैरलं शास्त्रैरलं स्मृतिपुराणकैः । परमात्मनि विज्ञाने इति वेदान्तडिण्डिमः ॥ २४॥ नर्चा न यजुषार्थोऽस्ति न साम्नार्थोऽस्ति कश्चन । जाते ब्रह्मात्मविज्ञाने इति वेदान्तडिण्डिमः ॥ २५॥ कर्माणि चित्तशुद्ध्यर्थमैकाग्र्यार्थमुपासना । मोक्षार्थं ब्रह्मविज्ञानमिति वेदान्तडिण्डिमः ॥ २६॥ सञ्चितागामिकर्माणि दह्यन्ते ज्ञानवह्निना । प्रारब्धान्यप्यनुभवादिति वेदान्तडिण्डिमः ॥ २७॥ न पुण्यकर्मणो वृद्धिर्न हानिः पापकर्मणः । नित्यासङ्गात्मनिष्ठानामिति वेदान्तडिण्डिमः ॥ २८॥ बुद्धिपूर्वाबुद्धिपूर्वकृतानां पापकर्मणाम् । प्रायश्चित्तमहो ज्ञानमिति वेदान्तडिण्डिमः ॥ २९॥ दृग्दृश्यौ द्वौ पदार्थौ तौ परस्परविलक्षणौ । दृग्ब्रह्म दृश्यं माया स्यादिति वेदान्तडिण्डिमः ॥ ३०॥ अविद्योपाधिको जीवो मायोपाधिक ईश्वरः । मायाविद्यागुणातीतं ब्रह्म वेदान्तडिण्डिमः ॥ ३१॥ साकारं च निराकारं सगुणं चागुणात्मकम् । तत्त्वं तद्ब्रह्म परममिति वेदान्तडिण्डिमः ॥ ३२॥ द्विजत्वं विध्यनुष्ठानाद्विप्रत्वं वेद पाठतः । ब्राह्मण्यं ब्रह्मविज्ञानादिति वेदान्तडिण्डिमः ॥ ३३॥ सर्वात्मना स्थितं ब्रह्म सर्वं ब्रह्मात्मना स्थितम् । न कार्यं कारणाद्भिन्नमिति वेदान्तडिण्डिमः ॥ ३४॥ सत्तास्फुरणसौख्यानि भासन्ते सर्ववस्तुषु । तस्माद्ब्रह्ममयं सर्वमिति वेदान्तडिण्डिमः ॥ ३५॥ अवस्थात्रितयं यस्य क्रीडाभूमितया स्थितम् । तदेव ब्रह्म जानीयादिति वेदान्तडिण्डिमः ॥ ३६॥ यन्नादौ यच्च नास्त्यन्ते तन्मध्ये भातमप्यसत् । अतो मिथ्या जगत्सर्वमिति वेदान्तडिण्डिमः ॥ ३७॥ यदस्त्यादौ यदस्त्यन्ते यन्मध्ये भाति तत्स्वयम् । ब्रह्मैवैकमिदं सत्यमिति वेदान्तडिण्डिमः ॥ ३८॥ पुरुषार्थत्रयाविष्टाः पुरुषाः पशवो ध्रुवम् । मोक्षार्थी पुरुषश्रेष्ठ इति वेदान्तडिण्डिमः ॥ ३९॥ घटकुड्यादिकं सर्वं मृत्तिकामात्रमेव च । तथा ब्रह्म जगत्सर्वमिति वेदान्तडिण्डिमः ॥ ४०॥ षण्निहत्य त्रयं हित्वा द्वयं भित्त्वाऽखिलातिगम् । एकं बुद्ध्वाऽश्नुते मोक्षमिति वेदान्तडिण्डिमः ॥ ४१॥ भित्वाषट् पञ्चभित्वाऽथ गत्वाग्रे चतुरस्त्रिकम् । द्वयं हित्वाश्रयेदेकमिति वेदान्तडिण्डिमः ॥ ४२॥ देहो नाहमहं देही देहसाक्षीति निश्चयात् । जन्ममृत्युप्रहीणोऽसाविति वेदान्तडिण्डिमः ॥ ४३॥ प्राणो नाहमहं देवः प्राणसाक्षीति निश्चयात् । क्षुत्पिपासोपशान्तिः स्यादिति वेदान्तडिण्डिमः ॥ ४४॥ मनो नाहमहं देवो मनःसाक्षीति निश्चयात् । शोकमोहापहानिः स्यादिति वेदान्तडिण्डिमः ॥ ४५॥ बुद्धिर्नाहमहं देवो बुद्धिसाक्षीति निश्चयात् । कर्तृभावनिवृत्तिः स्यादिति वेदान्तडिण्डिमः ॥ ४६॥ नाज्ञानं स्यामहं देवोऽज्ञानसाक्षीति निश्चयात् । सर्वानर्थनिवृत्तिः स्यादिति वेदान्तडिण्डिमः ॥ ४७॥ अहं साक्षीति यो विद्याद्विविच्यैवं पुनः पुनः । स एव मुक्तोऽसौ विद्वानिति वेदान्तडिण्डिमः ॥ ४८॥ नाहं माया न तत्कार्यं तत्साक्षी परमोऽस्म्यहम् । इति निःसंशयज्ञानान्मुक्तिर्वेदान्तडिण्डिमः ॥ ४९॥ नाहं सर्वमहं सर्वं मम सर्वमिति स्फुटम् । ज्ञाते तत्त्वे कुतो दुःखमिति वेदान्तडिण्डिमः ॥ ५०॥ देहादिपञ्चकोशस्था या सत्ता प्रतिभासते । सा सत्तात्मा न सन्देह इति वेदान्तडिण्डिमः ॥ ५१॥ देहादिपञ्चकोशस्था या स्फूर्तिरनुभूयते । सा स्फूर्तिरात्मा नैवान्यदिति वेदान्तडिण्डिमः ॥ ५२॥ देहादिपञ्चकोशस्था या प्रीतिरनुभूयते । सा प्रीतिरात्मा कूटस्थ इति वेदान्तडिण्डिमः ॥ ५३॥ व्योमादिपञ्चभूतस्था या सत्ता भासते नृणाम् । सा सत्ता परमं ब्रह्म इति वेदान्तडिण्डिमः ॥ ५४॥ व्योमादिपञ्चभूतस्था या चिदेकानुभूयते । सा चिदेव परं ब्रह्म इति वेदान्तडिण्डिमः ॥ ५५॥ व्योमादिपञ्चभूतस्था या प्रीतिरनुभूयते । सा प्रीतिरेव ब्रह्म स्यादिति वेदान्तडिण्डिमः ॥ ५६॥ देहादिकोशगा सत्ता या सा व्योमादिभूतगा । मानाभावान्न तद्भेद इति वेदान्तडिण्डिमः ॥ ५७॥ देहादिकोशगा स्फूर्तिर्या सा व्योमादिभूतगा । मानाभावान्न तद्भेद इति वेदान्तडिण्डिमः ॥ ५८॥ देहादिकोशगा प्रीतिर्या सा व्योमादिभूतगा । मानाभावान्न तद्भेद इति वेदान्तडिण्डिमः ॥ ५९॥ सच्चिदानन्दरूपत्वाद्ब्रह्मैवात्मा न संशयः । श्रुतिप्रमानुसन्धानादिति वेदान्तडिण्डिमः ॥ ६० ॥ न नामरूपे नियते सर्वत्र व्यभिचारतः । अनामरूपः सर्वः स्यादिति वेदान्तडिण्डिमः ॥ ६१॥ न जीवब्रह्मणोर्भेदः सत्तारूपेण विद्यते । सत्ताभेदे न मानं स्यादिति वेदान्तडिण्डिमः ॥ ६२॥ न जीवब्रह्मणोर्भेदः स्फूर्तिरूपेण विद्यते । स्फूर्तिभेदे न मानं स्यादिति वेदान्तडिण्डिमः ॥ ६३॥ न जीवब्रह्मणोर्भेदः प्रियरूपेण विद्यते । प्रियभेदे न मानं स्यादिति वेदान्तडिण्डिमः ॥ ६४॥ न जीवब्रह्मणोर्भेदो नाम्ना रूपेण विद्यते । नाम्नो रूपस्य मिथ्यात्वादिति वेदान्तडिण्डिमः ॥ ६५॥ न जीवब्रह्मणोर्भेदः पिण्डब्रह्माण्डभेदतः । व्यष्टेः समष्टेरेकत्वादिति वेदान्तडिण्डिमः ॥ ६६॥ ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः । जीवन्मुक्तस्तु तद्विद्वानिति वेदान्तडिण्डिमः ॥ ६७॥ अनामरूपं सकलं सन्मयं चिन्मयं प्रियम् । कुतो भेदः कुतो बन्धः इति वेदान्तडिण्डिमः ॥ ६८॥ न सत्यः कथ्यते लोको नामादेर्व्यभिचारतः । वटुः कुलट इत्यादेरिति वेदान्तडिण्डिमः ॥ ६९ ॥ नामरूपात्मकं विश्वमिन्द्रजालं विदुर्बुधाः । अनामत्वादरूपत्वादिति वेदान्तडिण्डिमः ॥ ७०॥ अभेददर्शनं मोक्षः सं सारो भेददर्शनम् । सर्ववेदान्तसिद्धान्त इति वेदान्तडिण्डिमः ॥ ७१॥ न मताभिनिवेशेन न भाषावेषमात्रतः । मुक्तिर्विनात्मविज्ञानमिति वेदान्तडिण्डिमः ॥ ७२॥ न काम्यप्रतिषिद्धाभिः क्रियाभिर्मोक्षवासना । ईश्वरानुग्रहात् सा स्यादिति वेदान्तडिण्डिमः ॥ ७३॥ अविज्ञाते जन्म नष्टं विज्ञाते जन्म सार्थकम् । ज्ञातुरात्मा न दूरे स्यादिति वेदान्तडिण्डिमः ॥ ७४॥ दशमस्य परिज्ञाने नायासोऽस्ति यथा तथा । स्वस्य ब्रह्मात्मविज्ञाने इति वेदान्तडिण्डिमः ॥ ७५॥ उपेक्ष्यौपाधिकान्दोषान्गृह्यन्ते विषया यथा । उपेक्ष्य दृश्यं तद्ब्रह्म इति वेदान्तडिण्डिमः ॥ ७६॥ सुखमल्पं बहुक्लेशं विषयग्राहिणां नृणाम् । अनन्तं ब्रह्मनिष्ठानामिति वेदान्तडिण्डिमः ॥ ७७॥ धनैर्वा धनदैः पुत्रैर्दारागारसहोदरैः । ध्रुवं प्राणहरैर्दुःखमिति वेदान्तडिण्डिमः ॥ ७८॥ सुप्तेरुत्थाय सुप्त्यन्तं ब्रह्मैकं प्रविचिन्त्यताम् । नातिदूरे नृणां मृत्युरिति वेदान्तडिण्डिमः ॥ ७९॥ पञ्चानामपि कोशानां मायानर्थात्मतोचिता । तत्साक्षिब्रह्मविज्ञानादिति वेदान्तडिण्डिमः ॥ ८० ॥ दशमस्य परिज्ञानान्नवज्ञस्य यथा सुखम् । तथा जीवस्य सत्प्राप्तिरिति वेदान्तडिण्डिमः ॥ ८१॥ नवभ्योऽस्ति परः प्रत्यङ् नैव वेद परं परम् । तद्विज्ञानाद्भवेत्तुल्या मुक्तिर्वेदान्तडिण्डिमः ॥ ८२॥ नवाभासान्नव ज्ञात्वा नवोपाधीन्नवात्मना । मिथ्या ज्ञात्वावशिष्टे तु मौनं वेदान्तडिण्डिमः ॥ ८३॥ परमे ब्रह्मणि स्वस्मिन् प्रविलाप्याखिलं जगत् । गायन्नद्वैतमात्मानमास्ते वेदान्तडिण्डिमः ॥ ८४॥ प्रतिलोमानुलोमाभ्यां विश्वारोपापवादयोः । चिन्तने शिष्यते तत्त्वमिति वेदान्तडिण्डिमः ॥ ८५॥ नामरूपाभिमानः स्यात्सं सारः सर्वदेहिनाम् । सच्चिदानन्ददृष्टिः स्यान्मुक्तिर्वेदान्तडिण्डिमः ॥ ८६॥ सच्चिदानन्दसत्यत्वे मिथ्यात्वे नामरूपयोः । विज्ञाते किमिदं ज्ञेयमिति वेदान्तडिण्डिमः ॥ ८७॥ सालम्बनं निरालम्बं सर्वालम्बावलम्बितम् । अवलम्बेनाखिलालम्ब इति वेदान्तडिण्डिमः ॥ ८८॥ न कुर्यान्न विजानीयात् सर्वं ब्रह्मेत्यनुस्मरन् । यथा सुखं तथा तिष्ठेदिति वेदान्तडिण्डिमः ॥ ८९॥ स्वकर्मपाशवशगः प्राज्ञोऽन्यो वा जनो ध्रुवम् । प्राज्ञः सुखं नयेत्कालमिति वेदान्तडिण्डिमः ॥ ९०॥ न विद्वां सं तपेच्चित्तं करणेऽकरणे ध्रुवम् । सर्वमात्मेति विज्ञानादिति वेदान्तडिण्डिमः ॥ ९१॥ नैवाभासं स्पृशेत्कर्म मिथ्योपाधिमपि स्वयम् । कुतोऽधिष्ठानमत्यच्छमिति वेदान्तडिण्डिमः ॥ ९२॥ अहोऽस्माकमलं मोहैरात्म ब्रह्मेति निर्भयम् । श्रुतिभेरीरवोऽद्यापि श्रूयते श्रुतिरञ्जनः ॥ ९३॥ वेदान्तभेरीझङ्कारः प्रतिवादिभयङ्करः । श्रूयतां ब्राह्मणैः श्रीमद्दक्षिणामूर्त्यनुग्रहात् ॥ ९४॥ इति वेदान्तडिण्डिमः सम्पूर्णः । ॐ तत्सत् । Proofread by Uma Valluri The text is generally attributed to Nrisimhasarasvati although details on him and time frame are not known. Some attribute this to Shankaracharya, as a typical practice out of reverence and commonality of Adwaita writings when an authorship is not clear. This is, however, considered doubtful to be his based on the upadeshasAhasrI composition.
% Text title            : Vedanta Dindimah
% File name             : vedAntaDiNDimaH.itx
% itxtitle              : vedAntaDiNDimaH (nRisiMhasarasvatIvirachitam)
% engtitle              : vedAntaDiNDimaH
% Category              : major_works, vedAnta
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : Nrisimhasarasvati of unknown timeframe or Shankaracharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Uma Valluri
% Indexextra            : (Translations 1, 2, 3, 4, 5, Videos 1, 2, 3, Telugu 1, 2, Kannada)
% Latest update         : May 20, 2026
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org