वेदान्तडिण्डिमः
वेदान्तडिण्डिमास्तत्त्वमेकमुद्घोषयन्ति यत् ।
आस्ताम्पुरस्तात्तत्तेजः दक्षिणामूर्ति संज्ञितम् ॥ १॥
आत्मानात्मपदार्थौ द्वौ भोक्तृभोग्यत्वलक्षणौ ।
ब्रह्मैवात्मा न देहादिरिति वेदान्तडिण्डिमः ॥ २॥
ज्ञाननाज्ञाननपदार्थौ द्वावात्मनो बन्धमुक्तिदौ ।
ज्ञानान्मुक्तिर्निबन्धोऽन्यदिति वेदान्तडिण्डिमः ॥ ३॥
ज्ञातृज्ञेयपदार्थौ द्वौ भास्यभासकलक्षणौ ।
ज्ञानता ब्रह्म जगज्ज्ञेयमिति वेदान्तडिण्डिमः ॥ ४॥
सुखदुःखपदार्थौ द्वौ प्रियविप्रियकारकौ ।
सुखंब्रह्म जगद्दुःखमिति वेदान्तडिण्डिमः ॥ ५॥
समष्टिव्यष्टिरूपौ द्वौ पदार्थौ सर्वसंमतौ ।
समष्टिरीश्वरो व्यष्टिर्जीवो वेदान्तडिण्डिमः ॥ ६॥
ज्ञाननकर्मपदार्थौ द्वौ वस्तुकर्त्रात्मतन्त्रकौ ।
ज्ञाननान्मोक्षो न कर्मभ्य इति वेदान्तडिण्डिमः ॥ ७॥
श्रोतव्याश्राव्यरूपौ द्वौ पदार्थौ सुखदुःखदौ ।
श्रोतव्यंब्रह्म नैवान्यदिति वेदान्तडिण्डिमः ॥ ८॥
चिन्त्याचिन्त्यपदार्थौ द्वौ विश्रान्तिश्रान्तिदायकौ ।
चिन्त्यंब्रह्म परंनान्यदिति वेदान्तडिण्डिमः ॥ ९॥
ध्येयाध्येयपदार्थौ द्वौ धीसमाध्यसमाधिदौ ।
ध्यातव्यंब्रह्म नैवान्यदिति वेदान्तडिण्डिमः ॥ १०॥
योगिनो भोगिनो वापि त्यागिनो रागिणोऽपि च ।
ज्ञाननान्मोक्षो न सन्देह इति वेदान्तडिण्डिमः ॥ ११॥
न वर्णाश्रमसङ्केतैर्न कर्मोपासनादिभिः ।
ब्रह्मज्ञाननंविना मोक्ष इति वेदान्तडिण्डिमः ॥ १२॥
असत्यः सर्वसंसारो रसाभासादिदूषितः ।
उपेक्ष्यो ब्रह्म विज्ञेयमिति वेदान्तडिण्डिमः ॥ १३॥
वृथाक्रिया वृथालापान्वृथावादान्मनोरथान् ।
त्यक्त्वैकंब्रह्म विज्ञेयमिति वेदान्तडिण्डिमः ॥ १४॥
स्थितो ब्रह्मात्मना जीवो ब्रह्म जीवात्मना स्थितम् ।
इति संपश्यतां मुक्तिरिति वेदान्तडिण्डिमः ॥ १५॥
जीवो ब्रह्मात्मना ज्ञेयो ज्ञेयं जीवात्मना परम् ।
मुक्तिस्तदैक्यविज्ञाननादिति वेदान्तडिण्डिमः ॥ १६॥
सर्वात्मत्वात् परं ब्रह्म श्रोतुरात्मतया स्थितम् ।
नायासस्तत्त्वविज्ञप्त्वाविति वेदान्तडिण्डिमः ॥ १७॥
ऐहिकं चामुष्मिकं च तापान्तं कर्मसञ्चयम् ।
त्यक्त्वा ब्रह्मैव विज्ञेयमिति वेदान्तडिण्डिमः ॥ १८॥
अद्वैतद्वैतवादौ द्वौ सूक्ष्मस्थूलदशां गतौ ।
अद्वैतवादान्मोक्षः स्यादिति वेदान्तडिण्डिमः ॥ १९॥
कर्मिणो विनिवर्तन्ते निवर्तन्त उपासकाः ।
ज्ञाननिनो न निवर्तन्त इति वेदान्तडिण्डिमः ॥ २०॥
परोक्षात्सफलं कर्म ज्ञाननं प्रत्यक्षसत्फलम् ।
ज्ञाननमेवाभ्यसेत्तस्मादिति वेदान्तडिण्डिमः ॥ २१॥
वृथा श्रमोऽयं विदुषां वृथायं कर्मिणां श्रमः ।
यदि न ब्रह्मविज्ञानमिति वेदान्तडिण्डिमः ॥ २२॥
अलं यागैरलं योगैरलं भोगैरलं धनैः ।
परस्मिन् ब्रह्मणि ज्ञानत इति वेदान्तडिण्डिमः ॥ २३॥
अलं वेदैरलं शास्त्रैरलं स्मृतिपुराणकैः ।
परमात्मनि विज्ञानत इति वेदान्तडिण्डिमः ॥ २४॥
नर्चा न यजुषार्थोऽस्ति न साम्नार्थोऽस्ति कश्चन ।
जाते ब्रह्मात्मविज्ञानन इति वेदान्तडिण्डिमः ॥ २५॥
कर्माणि चित्तशुद्ध्यर्थमैकाग्र्यार्थमुपासना ।
मोक्षार्थं ब्रह्मविज्ञाननमिति वेदान्तडिण्डिमः ॥ २६॥
सञ्चितागामिकर्माणि दह्यन्ते ज्ञाननवह्निना ।
प्रारब्धान्यप्यनुभवादिति वेदान्तडिण्डिमः ॥ २७॥
न पुण्यकर्मणो वृद्धिर्न हानिः पापकर्मणः ।
नित्यासङ्गात्मनिष्ठानामिति वेदान्तडिण्डिमः ॥ २८॥
बुद्धिपूर्वाबुद्धिपूर्वकृतानां पापकर्मणाम् ।
प्रायश्चित्तमहो ज्ञाननमिति वेदान्तडिण्डिमः ॥ २९॥
दृग्दृश्यौ द्वौ पदार्थौ तौ परस्परविलक्षणौ ।
दृग्ब्रह्म दृश्यं माया स्यादिति वेदान्तडिण्डिमः ॥ ३०॥
अविद्योपाधिको जीवो मायोपाधिक ईश्वरः ।
मायाविद्यागुणातीतं ब्रह्म वेदान्तडिण्डिमः ॥ ३१॥
साकारं च निराकारं सगुणं चागुणात्मकम् ।
तत्त्वं तद्ब्रह्म परममिति वेदान्तडिण्डिमः ॥ ३२॥
द्विजत्वं विध्यनुष्ठानाद्विप्रत्वं वेद पाठतः ।
ब्राह्मण्यं ब्रह्मविज्ञाननादिति वेदान्तडिण्डिमः ॥ ३३॥
सर्वात्मना स्थितं ब्रह्म सर्वं ब्रह्मात्मना स्थितम् ।
न कार्यं कारणाद्भिन्नमिति वेदान्तडिण्डिमः ॥ ३४॥
सत्तास्फुरणसौख्यानि भासन्ते सर्ववस्तुषु ।
तस्माद्ब्रह्ममयं सर्वमिति वेदान्तडिण्डिमः ॥ ३५॥
अवस्थात्रितयं यस्य क्रीडाभूमितया स्थितम् ।
तदेव ब्रह्म जानीयादिति वेदान्तडिण्डिमः ॥ ३६॥
यन्नादौ यच्च नास्त्यन्ते तन्मध्ये भातमप्यसत् ।
अतो मिथ्या जगत्सर्वमिति वेदान्तडिण्डिमः ॥ ३७॥
यदस्त्यादौ यदस्त्यन्ते यन्मध्ये भाति तत्स्वयम् ।
ब्रह्मैवैकमिदं सत्यमिति वेदान्तडिण्डिमः ॥ ३८॥
पुरुषार्थत्रयाविष्टाः पुरुषाः पशवो ध्रुवम् ।
मोक्षार्थी पुरुषश्रेष्ठ इति वेदान्तडिण्डिमः ॥ ३९॥
घटकुड्यादिकं सर्वं मृत्तिकामात्रमेव च ।
तथा ब्रह्म जगत्सर्वमिति वेदान्तडिण्डिमः ॥ ४०॥
षण्निहत्य त्रयं हित्वा द्वयं भित्त्वाऽखिलातिगम् ।
एकं बुद्ध्वाऽश्नुते मोक्षमिति वेदान्तडिण्डिमः ॥ ४१॥
भित्वाषट् पञ्चभित्वाऽथ गत्वाग्रे चतुरस्त्रिकम् ।
द्वयं हित्वाश्रयेदेकमिति वेदान्तडिण्डिमः ॥ ४२॥
देहो नाहमहं देही देहसाक्षीति निश्चयात् ।
जन्ममृत्युप्रहीणोऽसाविति वेदान्तडिण्डिमः ॥ ४३॥
प्राणो नाहमहं देवः प्राणसाक्षीति निश्चयात् ।
क्षुत्पिपासोपशान्तिः स्यादिति वेदान्तडिण्डिमः ॥ ४४॥
मनो नाहमहं देवो मनःसाक्षीति निश्चयात् ।
शोकमोहापहानिः स्यादिति वेदान्तडिण्डिमः ॥ ४५॥
बुद्धिर्नाहमहं देवो बुद्धिसाक्षीति निश्चयात् ।
कर्तृभावनिवृत्तिः स्यादिति वेदान्तडिण्डिमः ॥ ४६॥
नाज्ञाननं स्यामहं देवोऽज्ञाननसाक्षीति निश्चयात् ।
सर्वानर्थनिवृत्तिः स्यादिति वेदान्तडिण्डिमः ॥ ४७॥
अहं साक्षीति यो विद्याद्विविच्यैवं पुनः पुनः ।
स एव मुक्तोऽसौ विद्वानिति वेदान्तडिण्डिमः ॥ ४८॥
नाहं माया न तत्कार्यं तत्साक्षी परमोऽस्म्यहम् ।
इति निःसं शयज्ञाननान्मुक्तिर्वेदान्तडिण्डिमः ॥ ४९॥
नाहं सर्वमहं सर्वं मम सर्वमिति स्फुटम् ।
ज्ञानते तत्त्वे कुतो दुःखमिति वेदान्तडिण्डिमः ॥ ५०॥
देहादिपञ्चकोशस्था या सत्ता प्रतिभासते ।
सा सत्तात्मा न सन्देह इति वेदान्तडिण्डिमः ॥ ५१॥
देहादिपञ्चकोशस्था या स्फूर्तिरनुभूयते ।
सा स्फूर्तिरात्मा नैवान्यदिति वेदान्तडिण्डिमः ॥ ५२॥
देहादिपञ्चकोशस्था या प्रीतिरनुभूयते ।
सा प्रीतिरात्मा कूटस्थ इति वेदान्तडिण्डिमः ॥ ५३॥
व्योमादिपञ्चभूतस्था या सत्ता भासते नृणाम् ।
सा सत्ता परमं ब्रह्म इति वेदान्तडिण्डिमः ॥ ५४॥
व्योमादिपञ्चभूतस्था या चिदेकानुभूयते ।
सा चिदेव परं ब्रह्म इति वेदान्तडिण्डिमः ॥ ५५॥
व्योमादिपञ्चभूतस्था या प्रीतिरनुभूयते ।
सा प्रीतिरेव ब्रह्म स्यादिति वेदान्तडिण्डिमः ॥ ५६॥
देहादिकोशगा सत्ता या सा व्योमादिभूतगा ।
मानाभावान्न तद्भेद इति वेदान्तडिण्डिमः ॥ ५७॥
देहादिकोशगा स्फूर्तिर्या सा व्योमादिभूतगा ।
मानाभावान्न तद्भेद इति वेदान्तडिण्डिमः ॥ ५८॥
देहादिकोशगा प्रीतिर्या सा व्योमादिभूतगा ।
मानाभावान्न तद्भेद इति वेदान्तडिण्डिमः ॥ ५९॥
सच्चिदानन्दरूपत्वाद्ब्रह्मैवात्मा न सं शयः ।
श्रुतिप्रमानुसन्धानादिति वेदान्तडिण्डिमः ॥ ६० ॥
न नामरूपे नियते सर्वत्र व्यभिचारतः ।
अनामरूपः सर्वः स्यादिति वेदान्तडिण्डिमः ॥ ६१॥
न जीवब्रह्मणोर्भेदः सत्तारूपेण विद्यते ।
सत्ताभेदे न मानं स्यादिति वेदान्तडिण्डिमः ॥ ६२॥
न जीवब्रह्मणोर्भेदः स्फूर्तिरूपेण विद्यते ।
स्फूर्तिभेदे न मानं स्यादिति वेदान्तडिण्डिमः ॥ ६३॥
न जीवब्रह्मणोर्भेदः प्रियरूपेण विद्यते ।
प्रियभेदे न मानं स्यादिति वेदान्तडिण्डिमः ॥ ६४॥
न जीवब्रह्मणोर्भेदो नाम्ना रूपेण विद्यते ।
नाम्नो रूपस्य मिथ्यात्वादिति वेदान्तडिण्डिमः ॥ ६५॥
न जीवब्रह्मणोर्भेदः पिण्डब्रह्माण्डभेदतः ।
व्यष्टेः समष्टेरेकत्वादिति वेदान्तडिण्डिमः ॥ ६६॥
ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः ।
जीवन्मुक्तस्तु तद्विद्वानिति वेदान्तडिण्डिमः ॥ ६७॥
अनामरूपं सकलं सन्मयं चिन्मयं प्रियम् ।
कुतो भेदः कुतो बन्धः इति वेदान्तडिण्डिमः ॥ ६८॥
न सत्यः कथ्यते लोको नामादेर्व्यभिचारतः ।
वटुः कुलट इत्यादेरिति वेदान्तडिण्डिमः ॥ ६९ ॥
नामरूपात्मकं विश्वमिन्द्रजालं विदुर्बुधाः ।
अनामत्वादरूपत्वादिति वेदान्तडिण्डिमः ॥ ७०॥
अभेददर्शनं मोक्षः सं सारो भेददर्शनम् ।
सर्ववेदान्तसिद्धान्त इति वेदान्तडिण्डिमः ॥ ७१॥
न मताभिनिवेशेन न भाषावेषमात्रतः ।
मुक्तिर्विनात्मविज्ञाननमिति वेदान्तडिण्डिमः ॥ ७२॥
न काम्यप्रतिषिद्धाभिः क्रियाभिर्मोक्षवासना ।
ईश्वरानुग्रहात् सा स्यादिति वेदान्तडिण्डिमः ॥ ७३॥
अविज्ञानते जन्म नष्टं विज्ञानते जन्म सार्थकम् ।
ज्ञानतुरात्मा न दूरे स्यादिति वेदान्तडिण्डिमः ॥ ७४॥
दशमस्य परिज्ञानने नायासोऽस्ति यथा तथा ।
स्वस्य ब्रह्मात्मविज्ञानन इति वेदान्तडिण्डिमः ॥ ७५॥
उपेक्ष्यौपाधिकान्दोषान्गृह्यन्ते विषया यथा ।
उपेक्ष्य दृश्यं तद्ब्रह्म इति वेदान्तडिण्डिमः ॥ ७६॥
सुखमल्पं बहुक्लेशं विषयग्राहिणां नृणाम् ।
अनन्तं ब्रह्मनिष्ठानामिति वेदान्तडिण्डिमः ॥ ७७॥
धनैर्वा धनदैः पुत्रैर्दारागारसहोदरैः ।
ध्रुवं प्राणहरैर्दुःखमिति वेदान्तडिण्डिमः ॥ ७८॥
सुप्तेरुत्थाय सुप्त्यन्तं ब्रह्मैकं प्रविचिन्त्यताम् ।
नातिदूरे नृणां मृत्युरिति वेदान्तडिण्डिमः ॥ ७९॥
पञ्चानामपि कोशानां मायानर्थात्मतोचिता ।
तत्साक्षिब्रह्मविज्ञाननादिति वेदान्तडिण्डिमः ॥ ८० ॥
दशमस्य परिज्ञाननान्नवज्ञस्य यथा सुखम् ।
तथा जीवस्य सत्प्राप्तिरिति वेदान्तडिण्डिमः ॥ ८१॥
नवभ्योऽस्ति परः प्रत्यङ् नैव वेद परं परम् ।
तद्विज्ञाननाद्भवेत्तुल्या मुक्तिर्वेदान्तडिण्डिमः ॥ ८२॥
नवाभासान्नव ज्ञानत्वा नवोपाधीन्नवात्मना ।
मिथ्या ज्ञानत्वावशिष्टे तु मौनं वेदान्तडिण्डिमः ॥ ८३॥
परमे ब्रह्मणि स्वस्मिन् प्रविलाप्याखिलं जगत् ।
गायन्नद्वैतमात्मानमास्ते वेदान्तडिण्डिमः ॥ ८४॥
प्रतिलोमानुलोमाभ्यां विश्वारोपापवादयोः ।
चिन्तने शिष्यते तत्त्वमिति वेदान्तडिण्डिमः ॥ ८५॥
नामरूपाभिमानः स्यात्सं सारः सर्वदेहिनाम् ।
सच्चिदानन्ददृष्टिः स्यान्मुक्तिर्वेदान्तडिण्डिमः ॥ ८६॥
सच्चिदानन्दसत्यत्वे मिथ्यात्वे नामरूपयोः ।
विज्ञानते किमिदं ज्ञेयमिति वेदान्तडिण्डिमः ॥ ८७॥
सालम्बनं निरालम्बं सर्वालम्बावलम्बितम् ।
अवलम्बेनाखिलालम्ब इति वेदान्तडिण्डिमः ॥ ८८॥
न कुर्यान्न विजानीयात् सर्वं ब्रह्मेत्यनुस्मरन् ।
यथा सुखं तथा तिष्ठेदिति वेदान्तडिण्डिमः ॥ ८९॥
स्वकर्मपाशवशगः प्राज्ञोऽन्यो वा जनो ध्रुवम् ।
प्राज्ञः सुखं नयेत्कालमिति वेदान्तडिण्डिमः ॥ ९०॥
न विद्वां सं तपेच्चित्तं करणेऽकरणे ध्रुवम् ।
सर्वमात्मेति विज्ञानदिति वेदान्तडिण्डिमः ॥ ९१॥
नैवाभासं स्पृशेत्कर्म मिथ्योपाधिमपि स्वयम् ।
कुतोऽधिष्ठानमत्यच्छमिति वेदान्तडिण्डिमः ॥ ९२॥
अहोऽस्माकमलं मोहैरात्म ब्रह्मेति निर्भयम् ।
श्रुतिभेरीरवोऽद्यापि श्रूयते श्रुतिरञ्जनः ॥ ९३॥
वेदान्तभेरीझङ्कारः प्रतिवादिभयङ्करः ।
श्रूयतां ब्राह्मणैः श्रीमद्दक्षिणामूर्त्यनुग्रहात् ॥ ९४॥
इति वेदान्तडिण्डिमः सम्पूर्णः ।
ॐ तत्सत् ।
The text is generally attributed to
Nrisimhasarasvati although details
on him and time frame are not known.
Some attribute this to Shankaracharya,
as a typical practice out of reverence and
commonality of Adwaita writings when an
authorship is not clear. This is,
however, considered doubtful to be his
based on the upadeshasAhasrI composition.