यमकभारतम्

यमकभारतम्

ध्यायेत्परमानन्दं यन्माता पतिमयदपरमानन्दम् । (ध्यायेत्तं परमानन्दम्) उज्झितपरमानं दम्पत्याद्याद्याश्रमैस्सदैव परमानन्दम् ॥ १॥ यस्य करालोऽलं चक्रं कालः परस्य हि करालोलम् । यस्य गदा पवमानस्सन् यो व्यासोऽभवत्सदापवमानः ॥ २॥ यस्य रमा न मनोगं जगृहे विश्वम्भरापि नमनोऽगम् । यस्य पुमानानन्दं भुङ्क्ते यद्धाम कपतिमानानन्दम् ॥ ३॥ परमेषु यदा तेजः परमेषु चकार वासुदेवोऽजः । मानधि बिभ्रत्सु मनो माऽनधिमासीन्न वासुदेवोऽजः ॥ ४॥ सोऽजनि देवक्यन्ते यस्मादनुकम्पनावदेव क्यन्ते । अवदन्देव क्यं ते भुवनं हि सुराः सदैव देवक्यन्ते ॥ ५॥ नीतो वसुदेवेन स्वततेन स गोकुलं सवसुदेवेन । (सुवसुदेवेन) तत्र यशोदा तनयं मेने कृष्णं स्वकीयमवदातनयम् ॥ ६॥ ववृधे गोकुलमध्याद्यो देवो विश्वमद्भुताकुलमध्यात् । तत्र च पूतनिकाया वधमकरोद्यन्निजाः सुपूतनिकायाः ॥ ७॥ अधुनोच्छकटं लोली पादाङ्गुष्ठेन वातपेशशकटं लोली । अतनोद्रक्षामस्य स्वाज्ञानाद्गोपिका सदेरक्षामस्य ॥ ८॥ मुखलालनलोला तन्मुखगं जगदचष्ट सालनलोलातत् । नाध्यैन्मायामस्य जगत्प्रभोः स्वधिकतततमायामस्य ॥ ९॥ (स्वाधिकतततमायामस्य) तस्य सुशर्माण्यकरो दरिणो गर्गः सदुक्तिकर्माण्यकरोत् । अवदन्नामानमयं जगदादिं वासुदेवनामानमयम् ॥ १०॥ तस्य सखा बलनामा ज्येष्ठो भ्राताऽथ यन्निजाबलना मा । यस्य च पर्यङ्कोऽयं पूर्वतनो विष्णुमजसपर्यं कोऽयम् ॥ ११॥ तेन हतो वातरयस्तृणचक्रो नाम दितिसुतोऽवातरयः । हरमाणो बालतमं स्वात्मानं कण्ठरोधिनाऽबालतमम् ॥ १२॥ सोऽवनिमध्ये रङ्गन्नरिदरयुग्बालरूपमध्येरङ्गन् । अमुषन्नवनीतमदः स्वगोकुले गोपिकासु नवनीतमदः ॥ १३॥ (सगोकुले) तन्माता कोपमिता तमनुससारात्मवादवाकोपमिता । (तमनुससारात्मवाकोपमिता) जगृहे सानमनं तं देवं तच्चिन्तयैव सानमनन्तम् ॥ १४॥ अथ सान्तरितामानं विष्णुं विश्वोद्भवं सदान्तरितामानम् । अनयद्दामोदरतां योऽरमयत्सुन्दरी निजामोदरताम् ॥ १५॥ चक्रे सोऽर्जुननाशं प्राप्नोति यत्स्मृतिः सदार्जुनना शम् । तौ च गतौ निजमोकस्तेनैव नुतेन यन्निजानिजमोकः ॥ १६॥ (यन्निजोऽनिजमोकः) अथ वृन्दावनवासं गोपाश्चक्रुर्जगत्क्षिताऽवनवासम् । तत्र बकासुरमारः शौरिरभून्नित्यसंश्रितासुरमारः ॥ १७॥ अहनद्वत्सतनूकं योपाल्लोकं स्वयत्नवत्सतनूकम् । सोपाद्वत्सानमरस्सहाग्रजो गोपवत्सवत्सानमरः ॥ १८॥ स विभुः श्रीमानहिके ननर्त यस्य श्रमानमामानहिके । अकरोन्नद्युदकान्तं कान्तं नीत्वोरगं सनाद्युदकान्तम् ॥ १९॥ हत्वा धेनुकमूढं बलात्प्रलम्बं च खेट् सधेनुकमूढम् । व्रजमावीदमृताशः पीत्वा वह्निं चरस्थितादमृताशः ॥ २०॥ (चरस्थिरादमृताशः) गिरिणा रक्षापि कृता व्रजस्य तेन स्वरक्षरक्षापिकृता । शक्राय व्यञ्जयता स्वां शक्तिं विश्वमात्मनाऽव्यञ्जयता ॥ २१॥ रेमे गोपीष्वरिहा स मन्मथाक्रान्तसुन्दरीपीष्वरिहा । पूर्णानन्दैकतनुः स विश्वरुक्पावनोऽप्यनन्दैकतनुः ॥ २२॥ (विश्वरुक्पावनोऽप्यानन्दैकतनुः) अथ हतयोर्गलिकेश्योः श्वफल्कजप्रापितः पुरी गलिकेश्योः । भङ्क्त्वा धनुराजवरं जघान तेनैव च स्वयं राजवरम् ॥ २३॥ मृत्नन् गजमुग्रबलं सबलो रङ्गं विवेश सृतिमुग्रबलम् । (श्रुतिमुग्रबलम्) हत्वा मल्लौ बलिनौ कंसं च विमोक्षितौ ततौ लौ बलिनौ ॥ २४॥ (विमोक्षिता ततौ रौ बलिनौ) प्रादात्सान्दीपनये मृतपुत्रं ज्ञानदीपसान्दीपनये । गुर्वर्थेऽज्ञानतमःप्रभेदिता नित्यसम्भृताऽऽज्ञानतमः ॥ २५॥ जित्वा मागधराजं तोषितमकरोत्सदात्मयोगधराजम् । अनुकुर्वन्निजसदनं चक्रे रम्यां पुरं सुबोधनिजसदनम् ॥ २६॥ (रम्यं) प्रसभं सगजबलस्य क्षत्रस्योच्चैस्समगधराजबलस्य । मानं शिशुपालवरं हत्वा भैष्मीमवापा शिशुपालवरम् ॥ २७॥ (भैष्मीमवाप) हंसो डिबिकश्चपलावमुना संसूदितौ यवनकश्च पला । कीर्तिर्विमला विरता प्रतता विश्वाधिपावनीलाविरता ॥ २८॥ सत्याजाम्बवतीर्या भार्या विन्दाद्या भानुसाम्बवतीर्याः । प्रद्युम्नं मोदरतः प्राप ज्येष्ठं हरिः सुतं मोदरतः ॥ २९॥ यत्परिवारतयेशा जाता देवा नृपात्मनाऽरतयेशाः । यद्भरितं विषसर्पप्रभृतिध्वान्तं न मारुतिं विषसर्प ॥ ३०॥ येन हिडिम्बबकाद्या रक्षोधीशा निपातिता बबकाद्याः । भीमे प्रीतिममेयां व्यञ्जयता तेन शेषपाति ममे याम् ॥ ३१॥ अथ कृष्णावरणे तान् प्राप्तान्राज्ञोऽश‍ृणोत्सदावरणेतान् । द्रष्टुं यातस्सबलस्तां चानैषीत्पृथासुतांस्ततः सबलः ॥ ३२॥ तानिन्द्रस्थलवासांश्चक्रे कृष्णः पुरो निजस्थलवासान् । (कृष्णः परो) स्वबलोद्रेचितमानैर्जुगोप धर्मं च तैः पराचितमानैः ॥ ३३॥ वालिवधानुनयाय प्रणयी सख्यं सुसन्दधेऽनुनयाय । वासवजेन विशेषात् तेनैव पुनर्नृजन्मजेन विशेषात् ॥ ३४॥ मातुः परिभवहाऽन्यै राज्ञा द्युसदामितश्च परिभवहान्यै । अभवन्नरकमुरारिर्योऽवासीदत्समस्तनरकमुरारिः ॥ ३५॥ (अभवन्नरकमुरारिर्योऽवात्सी) नीतो दिवि देववरै रेमे सत्यासमन्वितोऽदेववरैः । सर्वर्तुवने शशिना निशि सत्यां वासरे वनेऽशशिना ॥ ३६॥ सुरतरुमापालिमतात् प्रकाशयन् शक्तिमात्मनः पालिमतात् । सुरवरवीरेषु दरी प्रधानजीवेश्वरः परेषुदरी ॥ ३७॥ पुरमभियायारिदरी दत्त्वा भद्रां पृथासुतायारिदरी । शक्रपुरीमभियातः प्रादाद्वह्नेर्वनं सतामभियातः ॥ ३८॥ शिवभक्तप्रवराद्यं पुमान्न सेहे गिरी शविप्रवराद्यम् । (गिरि) तं स्वात्मेन्द्रवरेण व्यधुनोद्भीमेन धूतरुद्रवरेण ॥ ३९॥ यस्याज्ञाबलसारैः पार्थैर्दिग्भ्यो हृतं धनं बलसारैः । जित्वा क्ष्मामविशेषां प्रसह्य भूपान् समस्तकामविशेषाम् ॥ ४०॥ अथ पार्थान् क्रतुराजं प्रापयदमरेट् सरुद्रशक्रतुराजम् । पूजा तेनावापि छिन्नश्चैद्यः सृतिं गतेनावापि ॥ ४१॥ निहतौ सौभकरूशौ शीतो भातश्च येन तौ भकरूशौ । अजयद्रुद्रं च रणे बाणार्थेऽवनतिपतितकचन्द्रं चरणे ॥ ४२॥ असृजज्ज्वरमुग्रतमःक्षयप्रदो लीलयाऽघिवरमुग्रतमः । क्रीडामात्रं विश्वं प्रकाशयन्नात्मनः स विहरकमात्रं विश्वम् ॥ ४३॥ यस्यावेशोरुबलान्न्यहनत्पार्थोऽसुरान्प्रजेशोरुबलान् । वरदानादस्यैव जगत्प्रभोरीरणात्समनुगतनादस्यैव ॥ ४४॥ यस्यावेशात्सबलः प्रचकर्ष पुरं प्रसह्य चेशात्सबलः । कुरुपतिनाम नु यमुनाऽऽकृष्टा येनाहुरर्ह्यमतनु यमुना(१) ॥ ४५॥ (येनाहुरर्घ्यमतनु) (१. अतनु यं उना, य अर्थात् पूज्य, उ अर्थात् रुद्रं) यद्बलवान् क्रोधवशान्निनाय नाशं वृकोदरः क्रोधवशान् । लेभेऽचान्यागम्यं स्थानं पुष्पाणि धाम चान्यागम्यम् ॥ ४६॥ यद्वलभारवहत्वान्नाचलदुरगादिभिः सुभारवहत्वात् । धर्मादरिहाऽपि पदं भीमो येनैव साहसं रिहाऽऽपि पदम् ॥ ४७॥ (लिहाऽऽपि) न हि नहुषोऽलं नहितुं धर्मो द्रौणिस्तथेतरोऽलं नहितुम् । नो राट् कर्णो ब्रह्मवरी येन ध्वस्तोऽस्त्रमग्रहीत्सब्रह्मवरी ॥ ४८॥ (सुब्रह्मवरी) क्षात्रं धर्मं स्ववता गुरुवृत्त्यै केशवाज्ञया च चरमं स्ववता । सर्वं सेहेऽमनसा भीमेनैशैकमानिना हेमनसा ॥ ४९॥ (भीमेनेशैकमानिना) यद्भक्तप्रवरेण प्रोतः स्वस्मिन् स कीचकः प्रवरेण ॥ पतितास्तस्य सहायाः कृष्णार्थे मानिनः समस्य सहायाः ॥ ५०॥ यद्भक्त्याऽनुगृहीतौ पार्थो भीमश्च गोनृपौ नु गृहीतौ । ऋणमुक्त्यै सुव्यत्यस्त्यै क्रमशो वीरावमुञ्चतां सुव्यत्यस्त्यै ॥ ५१॥ यद्भक्त्याऽमितयालं कृष्णा कार्ये विवेश कृष्णाऽऽकार्ये । यामीरार्घतनुत्वान्नापाद्भीमादृतेऽपि नाऽपाद्भीमात् ॥ ५२॥ यां स्प्रष्टुमिच्छन्तमजातशत्रुं न्यवारयत्स्वःस्थमजातशत्रुम् । शंरूपा ने नित्यरतेरियं श्रीरिति स्म देवेड्यदितेरियं श्रीः ॥ ५३॥ (शंरूप्य) मनसामनसाऽमनसा मनसा यमनन्तमजस्रमवेदनुया । विलयं विलयं विलयं विलयन्निखिलं त्वशुभं प्रचकार च या ॥ ५४॥ (प्रचकार च यः) सोऽगाद्दूतमुखेन प्रमुणेदं वर्तते यदूतमुखेन । पार्थार्थे बहुतनुतां यत्र प्रकाशयत् स्वयं सबहुतनुताम् ॥ ५५॥ (प्राकाशयत्) गुरुकर्णनदीजादीनवधीच्चक्षुर्बलेन जनदीजादी । (जनदीजान्) शक्त्या निजया परवान् स्वजनानुद्रेचयन्ननन्तयाऽपरवान् ॥ ५६॥ यस्य सुनीतिसहायान्न रिपून्मेनेऽर्जुनः समेतसहा यान् । अकरोच्चासु परासुप्रततिं सेनासु धावनासुपरासु ॥ ५७॥ येन जयद्रथमारः पार्थः शत्रूनवापतद्रथमारः । (पात्रा) यद्विरहादपि देहे स रथः शश्वत् स्थितेः सदादपि देहे ॥ ५८॥ यद्भरितो भरताभः प्रभुरम्भाभावितोऽभिभरताभः । भीमो रभसाऽभिभवी प्रसभं भाभाभिभूर्भासा भिभवी ॥ ५९॥ यदनुग्रहपूर्णत्वाद् भीमः सर्वानरीननहिपूर्णत्वाऽऽत् । (यदनुग्रहिपूर्णत्वाद्) अदहद्बाहुबलेन क्रोधाग्नावाहितान्निजाहुबलेन ॥ ६०॥ कृष्णाभीमाप्ततमः शीर्णं येन स्वकीयहृदयमाप्ततमः । धृतराष्ट्रसुतानवधीद् भीमेन स्थापितो मनसि सुसुतानवधीत् ॥ ६१॥ भीमनिपातितदेहानदर्शयत्स्वानरीन् विपातितदेहान् । (भीमविपाटित, विपाटितदेहान्) कृष्णाया हितकारी सम्यग्घीरप्रियः सदाऽहितकारी ॥ ६२॥ (सम्यग्गीरप्रियः) अथ हरिणाऽपीतबलं द्रौणेरस्त्रं महारिणा पीतबलम् । दधताऽवासोमरणं नीतं चक्रेऽभिमन्युजं सोमरणम् ॥ ६३॥ तस्य च रक्षा सुकृता जनार्दनेनेशशेषकेक्षासुकृता । पार्थेषु प्रेमवता नित्यं भर्त्राऽसुतासुविप्रेमवता ॥ ६४॥ ज्ञानं परमं प्रादाद्भीष्मगतः सृतिविमोक्षचरमं प्रादात् । पाण्डुसुतानामधिकं चक्रे वेदं गुणोत्तरं स्वनामधिकम् ॥ ६५॥ तेनावापि सुजातैर्हरिमेधस्तुरगावर्तनेऽपि सुजातैः । (सुजातैर्हयमेधस्तुरगावर्तनेऽपि) पाण्डुसुतैः सवसूकैराप्तैर्व्यासात्मना च सुसवसूकैः ॥ ६६॥ तदनु सुपाण्डुतनूजै रेमे क्ष्मां पालयन् सुपाण्डुतनूजैः । अनुपमसुखरूपोऽजः परमः श्रीवल्लभः स्वधिकरूपोजः ॥ ६७॥ (सति सुखरूपोजः) सुगतिं परमामददान्निजयोग्यां ज्ञानिसुततिपरमामददात् । (चरमामददान्निजयोग्यां ज्ञानिसुततिम्परमामददात्) पार्थानां सयदूनां स पितृप्रेष्यादिनामिनां सयदूनाम् ॥ ६८॥ रेमे तत्रापिसुखी परमोऽनन्तो ननन्द तत्रापिसुखी । प्राणेनेन्दिरया च प्रयुतो नित्यं महागुणेन्दिरया च ॥ ६९॥ एवं सर्वाणि हरे रूपाणि श्रीपतेः सुपर्वाणिहरेः । पूर्णसुखानि सुभान्ति प्रततानि निरन्तराणि सुभान्ति ॥ ७०॥ राम राम महाबाहो माया ते सुदुरासदा । वादसादद को लोके पादावेव तवासजेत् ॥ ७१॥ जेत्सवातव वेदापाकेलोकोदद सादवा । दासरादुसुतेयामाहोबाहा मम राम रा ॥ ७२॥ (राम राः) देवानां पतयो नित्यं नो मतं यस्य जानते । (मतं यस्य न जानते) तस्मै देव नमस्येऽहं भवतेऽसुरमारये ॥ ७३॥ समस्तदेवजन कवासुदेवपरामृत । वासुदेव परामृत ज्ञानमूर्ते नमोऽस्तु ते ॥ ७४॥ देवादे देवलोकप पूर्णानन्दमहोदघे । सर्वज्ञेश रमानाथ देवाऽऽदेदेवलोकप ॥ ७५॥ योनिर्ममेशेषपुराणविद्यां योनिर्ममेशेषपुराणविद्याम् । योनिर्ममेशेषपुराणविद्यां योनिर्ममेशेषपुराणविद्याम् ॥ ७६॥ अनन्तपारामितविक्रमेश प्रभो रमापारमनन्तपार । महागुणाढ्यापरिमेयसत्त्व रमालयाशेषमहागुणाढ्य ॥ ७७॥ भाभाभाभाभाभाभाभाभाभाभाभाभाभाभाभा । भाभाभाभाभाभाभाभाभामाभाभाभाभाभाभा ॥ ७८॥ नैव परः केशवतः परमादस्मात्समश्च सुकेशवतः । सोऽयं शपथवरो नः शश्वत्सन्धारितः सुशपथवरोऽनः ॥ ७९॥ कृष्णकथेयं यमिता सुखतीर्थेनोदिताऽनने ने यं यमिता । (सुखतीर्थेनोदिताऽनेने) भक्तिमता परमेशे सर्वोद्रेकात्सदानुताऽऽप रमेशे ॥ ८०॥ (सर्वोद्रेकात्सदावताऽऽप) इति नारायणनामा सुखतीर्थंसुपूजितः सुरायणना मा । (सुऽवकतीर्थेसुपूजितः नारायणना) पूर्णगुणाधिक पूर्णज्ञानेच्छाभक्तिभिः स्वधिक पूर्ण ॥ ८१॥ (पूर्णगुणैरधिक पूर्णज्ञानेच्छाशक्तिभिः स्वधिक पूर्णः) ॥ इति श्रीमद्मध्वाचार्यविरचितं यमकभारतं सम्पूर्णम् ॥ कृष्णकथा Proofread Vani V.
% Text title            : yamakabhAratam by madhvAchArya
% File name             : yamakabhAratammadhvAchArya.itx
% itxtitle              : yamakabhAratam (madhvAchAryavirachitam)
% engtitle              : yamakabhAratam by madhvAchArya
% Category              : major_works, sAhitya, krishna
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% SubDeity              : krishna
% Author                : Madhvacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Vani V.
% Indexextra            : (Scan, meaning)
% Latest update         : January 24, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org