धन्यो गृहस्थाश्रमः?
रचयिता - रामस्वरूप-शास्त्री अमरः
(तालबेहट वास्तव्यः)
गृहे मिष्टान्न-पानं स्यादातिथ्यं शिवपूजनम् ।
सपर्या गुरुदेवानाम्-गृहस्थो धन्यताङ्गतः ॥ १॥
सौम्याः सुताः प्रिया भार्या सद्द्रव्यं दीर्घजीवनम् ।
परान्नेन विरक्तिः स्याद् गृहस्थस्य शुभे गृहे । २॥
न्यायसम्पादितोऽर्थोऽतिथीनां प्रिय-
स्तत्त्वज्ञानैक-निष्ठो गृहस्थोऽपि सन् ।
सत्यवादी स्वधर्मे रतः शास्त्रविन्-
मुच्यते पितृभक्तो हि संसारतः ॥ ३॥
सङ्गमः सज्जनानां गृहं पावनं
सेवकाः स्युर्निदेशे सदा तत्पराः ।
आत्मजाश्चात्मजाः स्युः सुमेधाभूतः
सुप्रिया सौम्य-सम्भाषिणी सम्मता ॥ ४॥
सद्धनं मित्रवर्गश्च सौख्यप्रदः
स्वप्रियायां रतिः पूजनं श्रीहरेः ।
सर्वदाऽऽनन्दपूर्णं स्वगेहं भवेत्
तद्गृहस्थाश्रमो धन्यधन्यो मतः ॥ ५॥
चत्वार आश्रमा यस्य गृहस्थस्य समाश्रिताः ।
दानं ज्ञानं च सम्मानं गृहस्थः कुरुतेऽनिशम् ॥ ६॥
ऋद्धि-सिद्धि-समृद्धिश्च गृहस्थस्य गृहे स्थिता ।
आयातः परमाधारः परमात्मा मनोहरः ॥ ७॥
इति ।
Encoded and proofread by Sujatha Beladakere