शिशिरसमयासवः
शान्तिरेव जननी जयलक्ष्म्याः शीतलं विजयते भुवि शीलम् ।
एति सूचयितुमेतदयं द्राग् ऊष्मकं नियमयञ् शिशिरर्तुः ॥ १॥
युक्तमेव तु तपस्तपस्ययोः सञ्चकास्ति मधुमाधवं फलम् ।
उत्तरोत्तरवरं समागमं कोऽभिनन्दतु नरो न रोचनः ? ॥ २॥
स्वागतं तनुमहे शिशिरस्य यस्य सोऽस्ति मधुरः परिणामः ।
किं स एति सुभगः ? सहसा यः पर्यवस्यति तथातिदुरन्तः ॥ ३॥
साधुशान्तप्रकृतिः कमनीयः सर्वशर्मसदनो रमणीयः ।
अद्वितीयसुषमो भुवि भर्तुः शोभनो विजयते शिशिरर्तुः ॥ ४॥
यद्यपीह कुसुमानि न तानि सन्ति सन्ति कुसुमानि नतानि ।
वर्धते तदपि कालमहिम्ना हन्त ! हन्त ! कुसुमाशुग एषः ॥ ५॥
पद्मिनीषु सुमनःस्विरासु स्माभियाति मधुपोऽलघु धूर्तः ।
यो हि सोऽयमधुना मधुनाशाद् दीनदीन इव गच्छति भृङ्गीम् ॥ ६॥
इक्षुमिष्टरसमाप्य समानं चञ्चलालिरसमाप्य स मानम् ।
गन्तुमन्यफलिनं न समर्थः को नु वाऽवरमयेद् वरं त्यजन् ? ॥ ७॥
नम्रकम्रवदनोत्कलिकातो चन्द्रिकाच्छवसनेन वृताङ्गी ।
साभिसर्तुमयते रजनीयं मन्दमिन्दुदयितं दयितेव ॥ ८॥
कामुकोऽर्द्धनिशि कामयमानः कामिनीं कलति कामयमानः ।
चित्रमत्र प्रमदासमुदायः प्रेयसे यदयते समुदाय ॥ ६॥
कामनात ऋतुषु क्व नु कान्तं का मनागपि भजेत समाना ?
हन्त ! किन्तु कमनारतमेषा याचते न कमना रतवेषा ? ॥ १०॥
तूलिका न, नहि कम्बलकं वा, धातवोऽलमथ नो न, हसन्ती ।
शीतमेषु दिवसेषु विलोप्तुं सा यथास्ति नवयौवनरम्या ॥ ११॥
लालनीयललनाललनीये रत्नभेव तरला फलिताङ्गे ॥
सत्तुषारकदलीदललोला चन्द्रिका निशि चकास्ति नितान्तम् ॥ १२॥
सौम्यया सुषमयाऽसमया तत् सम्पतद् हिममथानिललोलम् ।
भाग्यभाज इह ते कृतकृत्याः सत्कलत्रमिव सङ्कलयन्ते ॥ १३॥
कम्पमानवसनोऽधिकतान्तः क्वाप्यसौ पिपतिषुश्चलपादः ।
शीतपीतवदनश्च शयालुर्द्वारपाल इव घूर्णति चन्द्रः ॥ १४॥
उन्नतो नवधनः स हिमानीमण्डितो रविकरैरधिसन्ध्यम् ।
कौतुकं कृतिषु किञ्चन कर्तुं किन्नु पारयति नो हिमशैलः ? ॥ १६॥
इति शिशिरसमयासवः सम्पूर्णः ।
Encoded and proofread by Venkata Krishna T