तंत्राख्यायिका
1, 2 : Affe und Keil
अस्ति कश्चिद्वणिजकः ।
नगरसमीपे तेन देवताऽऽयतनं क्रियते ।
तत्र ये कर्मकारास्स्थपत्यादयः !
मध्याह्नवेलायां
आहारनिमित्तं भोजनमण्डपं अनुप्रविष्टाः ।
अकस्माच्चनुषङ्गिकं देवगृहे वानरयूथं
आगतम् ।
अथ तत्रएकस्य शिल्पिनो
अर्धस्फोटितकाष्ठस्तम्भो
अर्जुनमयः खदिरकीलकेन मध्ये
यन्त्रनिखातेनावस्तब्धो
अवतिष्ठते ।
तत्र कदाचिद्वानरयूथो गिरिशिखरादवतीर्य
स्वेच्छया
तरुशिखरप्रासादशृङ्गदारुनिचयेषु प्रक्रीडितुं
आरब्धः ।
एकस्तु तत्रासन्नविनाशश्चापलादुपविश्य
स्तम्भे यन्त्रचारं
उद्दिश्यैदं आह ।
केनायं अस्थाने कीलको निखातः ।
इति पाणिभ्यां एव सङ्गृह्यौत्पाटितुं आरब्धः ।
स्थानाच्चलिते कीले यद्वृत्तं ! तदनाख्येयं !
एवं एव भवता
ज्ञातं इति ।
1,2 Schakal und Trommel
अस्ति कश्चिद्गोमायुर् आहारविच्छेदात्
क्षुत्क्षामकण्ठ इतश्च
इतः परिभ्रमन्नुभयसैनस्यायोधनभूमिं
अपश्यत् ।
तत्र च महान्तं शब्दं अशृणोत् ।
तद्भयसंक्षुभितहृदयः किं इदं ! विनष्टो
अस्मि ! कस्यायं
शब्दः ! क्व वा कीदृशो वाएष शब्द इति !
चिन्तयता दृष्टा
गिरिशिखराकारा भेरी ।
तां च दृष्ट्वाचिन्तयत् ।
किं अयं शब्दो अस्यास्स्वाभाविकः ! उत
परप्रेरित इति ।
अथ सा यदा वायुप्रेरितैर् वृक्षाग्रैस्स्पृश्यते !
तदा शब्दं करोति !
अन्यदा न ! इति तूष्णीं आस्ते ।
स तु तस्यास्सारासारतां ज्ञातुं संनिकर्षं
उपश्लिष्टः ।
स्वयं च कौतुकादुभयोर् मुखयोर् अताडयत् !
अचिन्तयच्च।
गम्यं चएतद्भक्स्यं च मम ।
इत्यवधार्यएकदंष्ट्रया क्षुधाविष्टः
पाटितवान् ।
परुषत्वाच्च चर्मणः कथमपि न
दंष्ट्राभङ्गं अवाप्तवान् ।
प्रतिबद्धाश्च पुनर् अप्यचिन्तयत् ।
नूनं अस्या अन्तर् भक्ष्यं भविष्यतीति ।
इत्यध्यवस्य भेर्या मुखं विदार्यान्तः
प्रविष्टः ।
तस्मिन्नपि न किञ्चिदासादितवान् ।
प्रतिनिवर्तितुं अशक्तो अन्तर्लीनार्धकायो
विहस्याब्रवीत् ।
पूर्वं एव मया ज्ञातं इति ।
1,3 Drei selbstverschuldete Unf„ll
अस्ति कस्मिंश्चित् प्रदेशे परिव्राड् देवशर्मा नाम ।
तस्यानेकसाधूपपादितसूक्ष्मवासोविशेषौपचय्
आन् महत्य्-
अर्थमात्रा संवृत्ता ।
स च न कस्यचिदपि विश्वासं याति ।
अथ कदाचिदाषाढभूतिर् नाम परवित्तापहृत्
कथं इयं
अर्थमात्रास्य मया परिहर्तव्यैति
वितर्क्यावलगनरूपेण
उपगम्य तत्कालेन च विश्वासं अनयत् ।
अथ कदाचिदसौ परिव्राजकस्-
तीर्थयात्राप्रसङ्गे तेन
आषाढभूतिना सह गन्तुं आरब्धः ।
तत्र च कस्मिंश्चिद्वनौद्देशे नदीतीरे
मात्रान्तिक
आषाढभूतिं अवस्थाप्यएकान्तं
उदकग्रहणार्थं गतः ।
अपश्यच्च महन् मेषयुद्धम् ।
अनवरतयुद्धशक्तिसम्पन्नयोश्च तयोश्
शृङ्गपञ्जरान्तरौद्भूतसृग् बहु भूमौ
निपतितं दृष्ट्वा
आशाप्रतिबद्धचित्तः पिशितलोभतया गोमायुस्-
तज्जिघृक्षुस्-
सम्पीडितौद्घातात् सद्यः पञ्चत्वं अगमत् ।
अथ परिव्राड् विस्मयाविष्टो अब्रवीत् ।
जम्बुको हुडुयुद्धेनैति ।
कृतशौचश्चागतस्तं उद्देशं आषाढभूमिं
अपि
गृहीतार्थमात्रासारं अपक्रान्तं नापश्यद्-
देवशर्मा ।
केवलं त्व्
अपविद्धत्रिदण्डकाष्ठकुण्डिकापरिस्रावणकूर्-
चकाद्य्
अपश्यत् ! अचिन्तयच्च ।
क्वासावाषाढभूतिः ।
नूनं अहं तेन मुषितः ।
इत्युक्तवान् ।
वयं चाषाढभूतिनैति ।
अथासौ कपालशकलग्रन्थिकावशेषः कञ्चिद्-
ग्रामं अस्तं
गच्छति रवौ प्रविष्टः ।
प्रविशन्नेकान्तवासिनं तन्त्रवायं अपश्यत् !
आवासकं च
प्रार्थितवान् ।
तेनापि तस्यात्मीयगृहएकदेशे स्थानं निर्दिश्य
भार्या
अभिहिता ।
यावदहं नगरं गत्वा सुहृत्समेतो मधुपानं
क्र्त्वा
आगच्छामि ! तावदप्रमत्तया गृहे त्वया भाव्यम् ।
इत्यादिश्य गतः ।
अथ तस्य भार्या पुंश्चली दूतिकासञ्चोदिता
शरीरसंस्कारं कृत्वा
परिचितसकाशं गन्तुं आरब्धा ।
अभिमुखश्चास्या भर्ता
मदविलोपासमाप्ताक्षरवचनः
परिस्खलितगतिर् अवस्रस्तवासास्समायातः ।
तं च दृष्ट्वा प्रत्युत्पन्नमतिः कौशलादाकल्पं
अपनीय
पूर्वप्रकृतं एव वेषं आस्थाय
पादशौचशयनाद्यारम्भं
अकरोत् ।
कौलिकस्तु गृहं प्रविश्य निद्रावशं अगमत् ।
सुप्तप्रतिबुद्धश्चासौ तां आक्रोष्टुं आरब्धः ।
पुंश्चलि ! त्वद्गतं अपचारं सुहृदो मे वर्णयन्ति
।
भवतु ।
पुष्टं निग्रहं करिष्यामीति ।
असावपि निर्मर्यादा प्रतिवचनं दातुं आरब्धा ।
पुनर् अपि चासौ प्रतिबुद्धस्तां
मध्यस्तूणायां रज्ज्वा
सुप्रतिबद्धां कृत्वा प्रसुप्तः ।
दूतिकाएतां पुनर् गमनाय प्रचोदितवती ।
सा तूत्पन्नप्रतिभा दूतिकां
आत्मीयदर्शनसंविधानेन
बद्ध्वा कामुकसकाशं ययौ ।
असावपि प्रतिबुद्धस्तथाएव तां आक्रोष्टुं
आरब्धः ।
दूतिका तु
शङ्कितहृदयानुचितवाक्यौदाहरणभीता न
किञ्चिद्-
उक्तवती ।
तन्त्रवायस्तु शाठ्यादियं न किञ्चिन्
ममौत्तरं प्रयच्छति
इत्युत्थाय तस्यास्तीक्ष्णशस्त्रेण नासिकां
छित्त्वाब्रवीत् ।
तिष्ठएवंलक्षणा ।
कस्त्वां अधुना वार्त्तां पृच्छति ।
इत्युक्त्वा निद्रावशं उपागमत् ।
आगता च सा तन्त्रवायी दूतिकां अपृच्छत् ।
का ते वार्त्ता ।
किं अयं प्रतिबुद्धो अभिहितवान् ।
कथय कथयैति ।
दूतिका तु कृतनिग्रहा नासिकां दर्शयन्ती
सामर्षं आह ।
शिवास्ते सर्वा वार्त्ताः ।
मुञ्च ।
गच्छामीति ।
तथा त्वनुष्ठिते नासिकां आदायापक्रान्ता ।
तन्त्रवाय्य्- अप्य्कृतकबद्धं आत्मानं
तथाएवाकरोत् ।
कौलिकस्तु यथापूर्वं एव प्रतिबुद्धस्तां आक्रोशत्
।
असावपि दुष्टा बहु धृष्टरं आह ।
धिग्घतो असि ।
को मां निरागसं विरूपयितुं समर्थः ।
शृण्वन्तु मे लोकपालाः ।
यथाहं कौमारं भर्तारं मुक्त्वा नान्यं
परपुरुषं
मनसापि वेद्मि ! तथा ममानेन सत्येनाव्यङ्ग्यं
मुखं अस्त्व्
इति ।
अथासौ मूर्खः कृतकवचनव्यामोहितचित्तः
प्रज्वाल्यौल्कां
अव्यङ्गमुखीं जायां दृष्ट्वा प्रोत्फुल्लनयनः
परिचुम्ब्य
हृष्टमना बन्धवादवमुच्य पीडितं च
परिष्वज्य शय्यां
आरोपितवान् ।
परिव्राजकस्त्वादित एवारभ्य यथावृत्तं
अर्थं अभिज्ञातवान् ।
दूतिकापि हस्तकृतनासापुटा स्वगृहं
गत्वाचिन्तयत् ।
किं अधुना कर्तव्यं इति ।
अथ तस्या भर्ता नापितो राजकुलात् प्रत्यूषस्य्
आगत्य तां भार्यां आह
।
समर्पय ! भद्रे ! क्षुरभाण्डम् ।
राजकुले कर्म कर्तव्यं इति ।
सा च दुष्टाभ्यन्तरस्थाएव क्षुरं एव प्राहिणोत् ।
स च समस्तक्षुरभाण्डासमर्पणात्
क्रोधाविष्टचित्तो
नापितस्तं एव तस्याः क्षुरं प्रतीपं प्राहिणोत्
।
अथासावार्तरवं उच्छैः कृत्वा पाणिना
नासापुटं प्रमृज्य
असृक्पातसमेतां नासिकां क्षितौ
प्रक्षिप्याब्रवीत् ।
परित्रायध्वं ! परित्रायध्वम् ।
अनेनाहं अदृष्टदोषा विरूपितैति ।
तथाभ्यागतै राजपुरुषैः
प्रत्यक्षदर्शनां तां दृष्ट्वा
विरूपां कीलपार्ष्णिलगुडैर् अतीव हतं
पश्चाद्बाहुबन्धश्
च तया सह धर्मस्थानं उपनीतो नापितः ।
पृच्छ्यमानश्चाधिकृतैः किं इदं महद्-
विशसनं स्वदारेषु
त्वया कृतं इति यदा बहुश उच्यमानो नौत्तरं
प्रयच्छति ! तदा
धर्माधिकृताश्शूले अवतंस्यतां इत्य्
आज्ञापितवन्तः ।
निष्पापं च परिव्राट् च्छूलस्थानं नीयमानं
नापितं दृष्ट्वा
सत्त्वानुकम्पया चौपलब्धतत्त्वार्थो अधिकरणं
उपगम्य
धर्मस्थानाधिकृतान् अब्रवीत् ।
नार्हथएनं अदोषकर्तारं नापितं शूले
समारोपयितुम् ।
यत्कारणं ! इदं आश्चर्यत्रयं श्रूयताम् ।
जम्बुको हुडुयुद्धेन वयं चाषाढभूतिना ।
दूतिका तन्त्रवायेन त्रयो अनर्थास्स्वयं कृतः ॥५५॥
समुपलब्धतत्त्वार्थैश्चाधिकृतैः परित्रायितो
नापित इति ।
Eन्चोदेद् प्रूफ़्रेअद् ब्य् ळर्स् ंअर्तिन् Fओस्से ल्म्फ़ोस्से अत् ओन्लिनेंओ