सन्न्यासि स्वागतम्
The following verses are from the mahAnArAyaNopaniShad.
They are recited while welcoming sanyasis.
They are to be seen in the chapter titled Dahara Vidya
(12-3) as verses No: 4 to 7.
न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्व-मानशुः ।
परेण नाकं निहितं गुहायां विभ्राज-देतद्यतयो विशन्ति ॥ १२-३-४॥
वेदन्तविज्ञान-सुनिश्चितार्थाः सन्यास-योगाद्यतय-श्शुद्धसत्त्वाः ।
ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे ॥ १२-३-५॥
दह्रं विपापं परमेऽश्मभूतं यत्पुण्डरीकं पुरमध्यसंस्थम्।
तत्रापि दह्रं गगनं विशोक-स्तस्मिन् यदन्तस्त-दुपासितव्यम् ॥ १२-३-६॥
यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।
तस्य प्रकृति-लीनस्य यः परस्स महेश्वरः ॥ १२-३-७॥
॥ ॐ॥
Encoded and proofread by
N. Balasubramanian bbalu at satyam.net.in