अदितिकृतं सूर्यस्तोत्रम् ८
अदितिरुवाच ।
नमस्तुभ्यं परं सूक्ष्मं सुपुण्यं बिभ्रतेऽतुलम् ।
धाम धामवतामीशं धामाधारं च शाश्वतम् ॥ १२॥
जगतामुपकाराय त्वामहं स्तौमि गोपते ।
आददानस्य यद्रूपं तीव्रं तस्मै नमाम्यहम् ॥ १३॥
ग्रहीतुमष्टमासेन कालेनाम्बुमयं रसम् ।
बिभ्रतस्तव यद्रूपमतितीव्रं नतास्मि तत् ॥ १४॥
समेतमग्निसोमाभ्यां नमस्तस्मै गुणात्मने ।
यद्रुपं ऋग्यजुःसाम्नामैक्येन तपते तव ॥ १५॥
विश्वमेतत्त्रयीसंज्ञं नमस्तस्मै विभावसो ।
यत्तु तस्मात्परं रूपमोमित्युक्त्वाभिसंहितम् ॥ १६॥
इति ब्रह्मपुराणे द्वात्रिंशाध्यायान्तर्गतं
अदितिकृतं सूर्यस्तोत्रं समापेतम् ।
ब्रह्मपुराण । अध्याय ३२/१२-१६॥
brahmapurANa . adhyAya 32/12-16..
Proofread by PSA Easwaran