अर्जुनकृतं सूर्यस्तोत्रम् २२
अर्जुन उवाच ।
जयति किरणमाली भासुरः श्रान्तसप्तिः
सकलभुवनधामा प्राग्दिगन्ताट्टहासः ।
भवति विगतपापं कीर्तनादेव यस्य
प्रचुरकलुषदोषैर्ग्रस्तमङ्गं नराणाम् ॥ ५४॥
ब्रह्माद्यैर्मुनिभिरभिष्टुतं पतङ्गं
कः स्तोतुं कविरभिवाञ्छते प्रकामम् ।
स्तोष्येऽहं तदपि सुविस्तरात्सुबुद्धे
किं दीपो ज्वलति हि नोदिते शशाङ्के ॥ ५५॥
शास्त्रार्थकामनिपुणैर्मुनिभिः स्तुतस्य
किं वस्तु यन्न रचितं विविधैः प्रयोगैः ।
द्वैपायनप्रभृतिभिर्मुनिभिः पुराणै-
रापीतसारमिह भाति जगत्समस्तम् ॥ ५६॥
कामं तथाप्यहमतीव विचार्य ब्रुद्ध्या
भानोस्त्रिलोकगुरुपूजितपादयुग्मम् ।
वृत्तैः स्फुटार्थमधुराक्षरसन्धियुक्तै-
स्त्वां वै विचित्रगतिभिः परिकीर्तयिष्ये ॥ ५७॥
तावज्जगद्भवति निश्चलमेव सर्वं
तावत्क्रियाश्च विविधा न च यान्ति सिद्धिम् ।
यावच्च नाथ कमलामलमण्डल त्व-
मुत्तिष्ठसे व्यपनयन्किरणैस्तमांसि ॥ ५८॥
तावन्न भान्ति शिखराणि महीरुहाणां
गुच्छैस्तु फुल्लवनमीलितलोचनानि ।
सुप्तानि बोधयसि षट्चरणाकुलानि
यावन्न भाभिरमलाभिरनुत्तमाभिः ॥ ५९॥
उद्यन्तमम्बरतले सुरसिद्धसङ्घाः
सब्रह्मदैत्यमुनिकिन्नरनागयक्षाः ।
त्वामर्चयन्ति विबुधाः प्रणतैः शिरोभि-
श्चञ्चत्किरीटमणिभाभिरनुत्तमाभिः ॥ १.३२.६०॥
अस्तं गते त्वयि जगद्भवति प्रसुप्तं
भूयस्त्वयि प्रतपति प्रतिबोधमेति ।
एवं सदा वरद लोकहितार्थहेतो-
रेकस्त्वमेव भगवंस्तिमिरस्य हन्ता ॥ ६१॥
उत्साहशक्तिनयशौर्यसमन्वितानां
सेवाप्रयोगरचनाविधितत्पराणाम् ।
कार्याणि यन्न फलदानि भवन्ति पुंसां
हेतुस्त्वभक्तिरिह नाथ तवेति नूनम् ॥ ६२॥
यत्संयुगेषु रथकुञ्जरकुन्तशक्ति-
नाराचचक्रशरतोमरभीमखड्गैः ।
क्षिप्रं नराः समुपयान्ति विजित्य शत्रून्
सर्वं सदा प्रणतवत्सल वेष्टितं ते ॥ ६३॥
कान्तारदुर्गविषमेष्वपि वर्तमाना
ऋक्षेभसिंहबहुकण्टकतस्करेषु ।
तृष्णान्विताश्च बहुशोकविमूढचित्ता-
स्त्वत्कीर्तनाद्धि गतमृत्युभया भवन्ति ॥ ६४॥
तेजोराशिस्त्वमिह शरणं सर्वतो दुःखितानां
त्वत्तुल्योऽन्यो जगति सकले नास्ति कश्चिद्दयालुः ।
त्वय्येकस्मिन्भवति सकला भक्तिरन्विष्यमाणा
त्वामासाद्य प्रभवति कुतो व्याधिदुःखं नराणाम् ॥ ६५॥
कः कुष्ठाभिहतः क्व चारिभिरथो को व्याधिभिः पीडितः
के पङ्ग्वन्धजडाः क्व शीर्णचरणः को वा विपन्नक्रियः ।
इत्येवं प्रसमीक्ष्य देव कृपया दोषात्परित्रायसे
कस्यान्यस्य परोपकारनिरता चेष्टा यथैषा तव ॥ ६६॥
धर्मः परत्र किल तिष्ठति सेवितोऽसौ
कालान्तरेण विबुधा वरदा भवन्ति ।
त्वं सेवितः प्रणतवत्सल भूतिकामैः
सद्यः प्रयच्छसि फलं यदभीप्सितं तैः ॥ ६७॥
विभ्रान्तकान्तहरिणीसदृशेक्षणाभिः
कान्तोरुहारमणिकुण्डलमेखलाभिः ।
तेषां भवन्ति भवनानि विलासिनीभि-
र्येषां नृणां त्वमसि वै वरदः प्रसन्नः ॥ ६८॥
यैस्त्वं नरैः सकृदपि प्रणतः कथञ्चित्
ध्यातोऽथवा भुवननाथ तथान्तकाले ।
निष्कल्मषा जगति दुष्कृतिनो भवन्ति
ते निर्मलाः सुकृतिनो गतिमाप्नुवन्ति ॥ ६९॥
ये त्वां कुतर्कमतिभिर्न नमन्ति भक्त्या
रोमाञ्चकञ्चुकशताकुलितैः शरीरैः ।
ते निर्धनाः परगृहेष्ववभूतमन्नं
क्षुत्क्षामकण्ठवदनाः परितर्कयन्ति ॥ १.३२.७०॥
उदधिजलतरङ्गक्षोभलोलाक्षियुग्मैः
सफणिमणिमयूखोद्भासितैर्लेलिहद्भिः ।
प्रणिपतितशिरोभिर्नागमुख्यैरजस्रं
श्रुतिभिरनुपमाभिः स्तूयसे पुष्कलाभिः ॥ ७१॥
तव सुरवर गच्छतोऽनुसरन्ति
त्रिदशनदीकमलोद्गतानि वातैः ।
कनककमलरेणुपिञ्जरितानि
भ्रमरकुलानि पतङ्ग चामराणि ॥ ७२॥
तत्त्वध्यानं जलनिधिनिवहे स्थित्वा स्थित्वा चरणनिवहैः ।
आजीवार्थं प्रतपसि भगवन्कस्ते तुल्यस्त्रिभुवनसमये ॥ ७३॥
उदयाद्रिनितम्बसंस्थितस्य ह्युदयेष्वस्तमयेषु चावृतस्य ।
किरणास्तपनीयसप्रभास्ते विलसन्तस्तडितो विडम्बयन्ति ॥ ७४॥
यथा यथा व्रजति रथस्तवाम्बरे विपाटयन्घनतिमिरौघसञ्चयान् ।
तथा तथा क्षुभितमहानिलासृतं प्रतीयते मुहुरिव दुन्दुभिर्यथा ॥ ७५॥
चारुपद्मविनिमीलितेक्षणां चक्रवाककलहंसमेखलाम् ।
कामिनीमिव रतिश्रमालसां तां विबोधयसि पद्मिनीं करैः ॥ ७६॥
नीललोलमतिकान्तमुत्पलं भृङ्गतुङ्गचरणाकुलीकृतम् ।
त्वत्प्रभाभिरनुरागरञ्जितं पद्मरागमिव शोभते भृशम् ॥ ७७॥
स्फुरच्छशाङ्कहारनिर्मलं त्वदंशपूरितम् ।
विभात्यतीव कान्तमम्बरं बृहच्च पाटलम् ॥ ७८॥
हरिसि त्वमेव तापमिह तावदुदेत्य नॄणां
भवति च यावदेव किरणैस्तव पूर्णमिदम् ।
ऋषिभिर्मुनिभिरुदारधीभिः शाश्वतमार्गपरैर्वरद
न शक्यते तव गुणस्तुतिराश्रयितुम् ॥ ७९॥
त्वं विष्णुस्त्वं शशाङ्कस्त्वमसुरमथनः शण्मुखस्त्वं धनेश-
स्त्वं कालस्त्वं च धाता क्षितिधरमलयापाश्रयस्त्वं हुताशः ।
ओङ्कारस्त्वं द्विजानां त्वमिह जलनिधित्वं शरस्त्वं च रुद्र-
स्त्वं मुख्यस्त्वं पयोदो व्रतयमनियमास्त्वं जगत्सर्वमेव ॥ १.३२.८०॥
त्वमनिन्द्य गोपते त्रिपुरमथन मन्मथ-
दाहकरस्त्वमसुरभीमदर्पहा पाहि माम् ।
त्रिदशाधिपकमलवराननस्त्वमिह देवगुरुर्भगवां-
स्त्रिभुवनमण्डलेऽस्ति कतमस्तव तुल्यगुणः ॥ ८१॥
आदित्य भास्कर दिवाकर सप्तसप्ते
मार्तण्ड सूर्य हरिदश्वपते च भानो ।
अश्रान्तवाहन खरूप गभस्तिमालिं-
स्त्वां लोकनाथ शरणं प्रतिपद्यतेऽसौ ॥ ८२॥
प्राग्दिग्वधूतिलकभासुरकर्णपूर-
मन्दाकिनीदयितनाथ जगत्प्रदीप ।
हेमाद्रितापन नभस्तलहारिरत्न-
सन्ध्याङ्गनावदनराग नमो नमस्ते ॥ ८३॥
ब्रह्मैव सत्यशुभमङ्गललोकनाथ
व्योमाम्बुजेश मुनिसंस्तुत विश्वमूर्ते ।
आर्तस्य शोकहर किङ्करपालकश्च
त्वं मे प्रसीद भगवञ्छरणागतस्य ॥ ८४॥
कृत्वाञ्जलिं शिरसि पङ्कजकुड्मलाभं
यत्संस्तुतस्त्वमिह देव मयाद्य भक्त्या ।
तेन प्रभो भव ममोपरि सौम्यमूर्ति-
र्धर्मे मतिं कुरु सदा श्रियमूर्जितां च ॥ ८५॥
नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे ।
त्रयीमयाय त्रिगुणात्मधारणे विरञ्चिनारायणशङ्करात्मने ॥ ८६॥
इति श्रीस्कन्दपुराणे आवन्त्यखण्डे अवन्तीक्षेत्रमाहात्म्ये द्वात्रिंशाध्यायान्तर्गतं
अर्जुनकृतं सूर्यस्तोत्रं समाप्तम् ।
स्कन्दपुराण । आवन्त्यखण्ड । आवन्त्यखण्ड । अध्याय ३२/५४-८६॥
skandapurANa . AvantyakhaNDa . AvantyakhaNDa . adhyAya 32/54-86..
Proofread by PSA Easwaran