अर्जुनकृतं सूर्यस्तोत्रम् २२

अर्जुनकृतं सूर्यस्तोत्रम् २२

अर्जुन उवाच । जयति किरणमाली भासुरः श्रान्तसप्तिः सकलभुवनधामा प्राग्दिगन्ताट्टहासः । भवति विगतपापं कीर्तनादेव यस्य प्रचुरकलुषदोषैर्ग्रस्तमङ्गं नराणाम् ॥ ५४॥ ब्रह्माद्यैर्मुनिभिरभिष्टुतं पतङ्गं कः स्तोतुं कविरभिवाञ्छते प्रकामम् । स्तोष्येऽहं तदपि सुविस्तरात्सुबुद्धे किं दीपो ज्वलति हि नोदिते शशाङ्के ॥ ५५॥ शास्त्रार्थकामनिपुणैर्मुनिभिः स्तुतस्य किं वस्तु यन्न रचितं विविधैः प्रयोगैः । द्वैपायनप्रभृतिभिर्मुनिभिः पुराणै- रापीतसारमिह भाति जगत्समस्तम् ॥ ५६॥ कामं तथाप्यहमतीव विचार्य ब्रुद्ध्या भानोस्त्रिलोकगुरुपूजितपादयुग्मम् । वृत्तैः स्फुटार्थमधुराक्षरसन्धियुक्तै- स्त्वां वै विचित्रगतिभिः परिकीर्तयिष्ये ॥ ५७॥ तावज्जगद्भवति निश्चलमेव सर्वं तावत्क्रियाश्च विविधा न च यान्ति सिद्धिम् । यावच्च नाथ कमलामलमण्डल त्व- मुत्तिष्ठसे व्यपनयन्किरणैस्तमांसि ॥ ५८॥ तावन्न भान्ति शिखराणि महीरुहाणां गुच्छैस्तु फुल्लवनमीलितलोचनानि । सुप्तानि बोधयसि षट्चरणाकुलानि यावन्न भाभिरमलाभिरनुत्तमाभिः ॥ ५९॥ उद्यन्तमम्बरतले सुरसिद्धसङ्घाः सब्रह्मदैत्यमुनिकिन्नरनागयक्षाः । त्वामर्चयन्ति विबुधाः प्रणतैः शिरोभि- श्चञ्चत्किरीटमणिभाभिरनुत्तमाभिः ॥ १.३२.६०॥ अस्तं गते त्वयि जगद्भवति प्रसुप्तं भूयस्त्वयि प्रतपति प्रतिबोधमेति । एवं सदा वरद लोकहितार्थहेतो- रेकस्त्वमेव भगवंस्तिमिरस्य हन्ता ॥ ६१॥ उत्साहशक्तिनयशौर्यसमन्वितानां सेवाप्रयोगरचनाविधितत्पराणाम् । कार्याणि यन्न फलदानि भवन्ति पुंसां हेतुस्त्वभक्तिरिह नाथ तवेति नूनम् ॥ ६२॥ यत्संयुगेषु रथकुञ्जरकुन्तशक्ति- नाराचचक्रशरतोमरभीमखड्गैः । क्षिप्रं नराः समुपयान्ति विजित्य शत्रून् सर्वं सदा प्रणतवत्सल वेष्टितं ते ॥ ६३॥ कान्तारदुर्गविषमेष्वपि वर्तमाना ऋक्षेभसिंहबहुकण्टकतस्करेषु । तृष्णान्विताश्च बहुशोकविमूढचित्ता- स्त्वत्कीर्तनाद्धि गतमृत्युभया भवन्ति ॥ ६४॥ तेजोराशिस्त्वमिह शरणं सर्वतो दुःखितानां त्वत्तुल्योऽन्यो जगति सकले नास्ति कश्चिद्दयालुः । त्वय्येकस्मिन्भवति सकला भक्तिरन्विष्यमाणा त्वामासाद्य प्रभवति कुतो व्याधिदुःखं नराणाम् ॥ ६५॥ कः कुष्ठाभिहतः क्व चारिभिरथो को व्याधिभिः पीडितः के पङ्ग्वन्धजडाः क्व शीर्णचरणः को वा विपन्नक्रियः । इत्येवं प्रसमीक्ष्य देव कृपया दोषात्परित्रायसे कस्यान्यस्य परोपकारनिरता चेष्टा यथैषा तव ॥ ६६॥ धर्मः परत्र किल तिष्ठति सेवितोऽसौ कालान्तरेण विबुधा वरदा भवन्ति । त्वं सेवितः प्रणतवत्सल भूतिकामैः सद्यः प्रयच्छसि फलं यदभीप्सितं तैः ॥ ६७॥ विभ्रान्तकान्तहरिणीसदृशेक्षणाभिः कान्तोरुहारमणिकुण्डलमेखलाभिः । तेषां भवन्ति भवनानि विलासिनीभि- र्येषां नृणां त्वमसि वै वरदः प्रसन्नः ॥ ६८॥ यैस्त्वं नरैः सकृदपि प्रणतः कथञ्चित् ध्यातोऽथवा भुवननाथ तथान्तकाले । निष्कल्मषा जगति दुष्कृतिनो भवन्ति ते निर्मलाः सुकृतिनो गतिमाप्नुवन्ति ॥ ६९॥ ये त्वां कुतर्कमतिभिर्न नमन्ति भक्त्या रोमाञ्चकञ्चुकशताकुलितैः शरीरैः । ते निर्धनाः परगृहेष्ववभूतमन्नं क्षुत्क्षामकण्ठवदनाः परितर्कयन्ति ॥ १.३२.७०॥ उदधिजलतरङ्गक्षोभलोलाक्षियुग्मैः सफणिमणिमयूखोद्भासितैर्लेलिहद्भिः । प्रणिपतितशिरोभिर्नागमुख्यैरजस्रं श्रुतिभिरनुपमाभिः स्तूयसे पुष्कलाभिः ॥ ७१॥ तव सुरवर गच्छतोऽनुसरन्ति त्रिदशनदीकमलोद्गतानि वातैः । कनककमलरेणुपिञ्जरितानि भ्रमरकुलानि पतङ्ग चामराणि ॥ ७२॥ तत्त्वध्यानं जलनिधिनिवहे स्थित्वा स्थित्वा चरणनिवहैः । आजीवार्थं प्रतपसि भगवन्कस्ते तुल्यस्त्रिभुवनसमये ॥ ७३॥ उदयाद्रिनितम्बसंस्थितस्य ह्युदयेष्वस्तमयेषु चावृतस्य । किरणास्तपनीयसप्रभास्ते विलसन्तस्तडितो विडम्बयन्ति ॥ ७४॥ यथा यथा व्रजति रथस्तवाम्बरे विपाटयन्घनतिमिरौघसञ्चयान् । तथा तथा क्षुभितमहानिलासृतं प्रतीयते मुहुरिव दुन्दुभिर्यथा ॥ ७५॥ चारुपद्मविनिमीलितेक्षणां चक्रवाककलहंसमेखलाम् । कामिनीमिव रतिश्रमालसां तां विबोधयसि पद्मिनीं करैः ॥ ७६॥ नीललोलमतिकान्तमुत्पलं भृङ्गतुङ्गचरणाकुलीकृतम् । त्वत्प्रभाभिरनुरागरञ्जितं पद्मरागमिव शोभते भृशम् ॥ ७७॥ स्फुरच्छशाङ्कहारनिर्मलं त्वदंशपूरितम् । विभात्यतीव कान्तमम्बरं बृहच्च पाटलम् ॥ ७८॥ हरिसि त्वमेव तापमिह तावदुदेत्य नॄणां भवति च यावदेव किरणैस्तव पूर्णमिदम् । ऋषिभिर्मुनिभिरुदारधीभिः शाश्वतमार्गपरैर्वरद न शक्यते तव गुणस्तुतिराश्रयितुम् ॥ ७९॥ त्वं विष्णुस्त्वं शशाङ्कस्त्वमसुरमथनः शण्मुखस्त्वं धनेश- स्त्वं कालस्त्वं च धाता क्षितिधरमलयापाश्रयस्त्वं हुताशः । ओङ्कारस्त्वं द्विजानां त्वमिह जलनिधित्वं शरस्त्वं च रुद्र- स्त्वं मुख्यस्त्वं पयोदो व्रतयमनियमास्त्वं जगत्सर्वमेव ॥ १.३२.८०॥ त्वमनिन्द्य गोपते त्रिपुरमथन मन्मथ- दाहकरस्त्वमसुरभीमदर्पहा पाहि माम् । त्रिदशाधिपकमलवराननस्त्वमिह देवगुरुर्भगवां- स्त्रिभुवनमण्डलेऽस्ति कतमस्तव तुल्यगुणः ॥ ८१॥ आदित्य भास्कर दिवाकर सप्तसप्ते मार्तण्ड सूर्य हरिदश्वपते च भानो । अश्रान्तवाहन खरूप गभस्तिमालिं- स्त्वां लोकनाथ शरणं प्रतिपद्यतेऽसौ ॥ ८२॥ प्राग्दिग्वधूतिलकभासुरकर्णपूर- मन्दाकिनीदयितनाथ जगत्प्रदीप । हेमाद्रितापन नभस्तलहारिरत्न- सन्ध्याङ्गनावदनराग नमो नमस्ते ॥ ८३॥ ब्रह्मैव सत्यशुभमङ्गललोकनाथ व्योमाम्बुजेश मुनिसंस्तुत विश्वमूर्ते । आर्तस्य शोकहर किङ्करपालकश्च त्वं मे प्रसीद भगवञ्छरणागतस्य ॥ ८४॥ कृत्वाञ्जलिं शिरसि पङ्कजकुड्मलाभं यत्संस्तुतस्त्वमिह देव मयाद्य भक्त्या । तेन प्रभो भव ममोपरि सौम्यमूर्ति- र्धर्मे मतिं कुरु सदा श्रियमूर्जितां च ॥ ८५॥ नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे । त्रयीमयाय त्रिगुणात्मधारणे विरञ्चिनारायणशङ्करात्मने ॥ ८६॥ इति श्रीस्कन्दपुराणे आवन्त्यखण्डे अवन्तीक्षेत्रमाहात्म्ये द्वात्रिंशाध्यायान्तर्गतं अर्जुनकृतं सूर्यस्तोत्रं समाप्तम् । स्कन्दपुराण । आवन्त्यखण्ड । आवन्त्यखण्ड । अध्याय ३२/५४-८६॥ skandapurANa . AvantyakhaNDa . AvantyakhaNDa . adhyAya 32/54-86.. Proofread by PSA Easwaran
% Text title            : Arjunakritam Surya Stotram 22
% File name             : arjunakRRitaMsUryastotram22.itx
% itxtitle              : sUryastotram 22 (arjunakRitaM skandapurANAntargatam jayati kiraNamAlI bhAsuraH shrAntasaptiH jayati kiraNamAlI bhAsuraH shrAntasaptiH)
% engtitle              : arjunakRRitaM sUryastotram 22
% Category              : navagraha, skandapurANa, stotra
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : skandapurANa | AvantyakhaNDa | AvantyakhaNDa | adhyAya 32/54-86||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, 8, English)
% Latest update         : June 24, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org