बृहस्पतिप्रोक्तं सूर्यकवचम्

बृहस्पतिप्रोक्तं सूर्यकवचम्

बृहस्पतिरुवाच । इन्द्र श‍ृणु प्रवक्ष्यामि कवचं परमाद्भुतम् । यद्धृत्वा मुनयः पूता जीवन्मुक्ताश्च भारते ॥ १९॥ कवचं बिभ्रतो व्याधिर्न भिया याति सन्निधिम् । यथा दृष्ट्वा वैनतेयं पलायन्ते भुजङ्गमाः ॥ २०॥ शुद्धाय गुरुभक्ताय स्वशिष्याय प्रकाशयेत् । खलाय परशिष्याय दत्त्वा मृत्युमवाप्नुयात् ॥ २१॥ जगद्विलक्षणस्यास्य कवचस्य प्रजापतिः । ऋषिश्छन्दश्च गायत्री देवो दिनकरः स्वयम् । व्याधिप्रणाशे सौन्दर्ये विनियोगः प्रकीर्त्तितः ॥ २२॥ सद्योरोगहरं सारं सर्वपापप्रणाशनम् । ॐ क्लीं ह्रीं श्रीं श्रीसूर्याय स्वाहा मे पातु मस्तकम् ॥ २३॥ अष्टादशाक्षरो मन्त्रः कपालं मे सदाऽवतु । ॐ ह्रीं ह्रीं श्रीं श्रीं सूर्याय स्वाहा मे पातु नासिकाम् ॥ २४॥ चक्षुर्मे पातु सूर्यश्च तारकां च विकर्तनः । भास्करो मेऽधरं पातु दन्तान्दिनकरः सदा ॥ २५॥ प्रचण्डः पातु गण्डं मे मार्तण्डः कर्णमेव च । मिहिरश्च सदा स्कन्धे जङ्घे पूषा सदाऽवतु ॥ २६॥ वक्षः पातु रविः शश्वन्नाभिं सूर्यः स्वयं सदा । कङ्कालं मे सदा पातु सर्वदेवनमस्कृतः ॥ २७॥ करौ पातु सदा ब्रध्नः पातु पादौ प्रभाकरः । विभाकरो मे सर्वाङ्गं पातु सन्ततमीश्वरः ॥ २८॥ इति ते कथितं वत्स कवचं सुमनोहरम् । जगद्विलक्षणं नाम त्रिजगत्सु सुदुर्लभम् ॥ २९॥ पुरा दत्तं च मनवे पुलस्त्येन तु पुष्करे । मया दत्तं च तुभ्यं तद्यस्मै कस्मै न देहि भोः ॥ ३०॥ व्याधितो मुच्यसे त्वं च कवचस्य प्रसादतः । भवानरोगी श्रीमांश्च भविष्यति न संशयः ॥ ३१॥ लक्षवर्षहविष्येण यत्फलं लभते नरः । तत्फलं लभते नूनं कवचस्यास्य धारणात् ॥ ३२॥ इदं कवचमज्ञात्वा यो मूढो भास्करं यजेत् । दशलक्षप्रजप्तोऽपि मन्त्रसिद्धिर्न जायते ॥ ३३॥ इति श्रीब्रह्मवैवर्तपुराणे गणपतिखण्डे एकोनविंशा- ध्यायान्तर्गतं बृहस्पतिप्रोक्तं सूर्यकवचं समाप्तम् । ब्रह्मवैवर्तपुराण । गणपतिखण्ड । अध्याय १९/२३-२९॥ brahmavaivartapurANa . gaNapatikhaNDa . adhyAya 19/23-29.. Proofread by PSA Easwaran
% Text title            : Brihaspatiproktam Surya Kavacham 6
% File name             : bRRihaspatiproktaMsUryakavacham.itx
% itxtitle              : sUryakavacham 6 (bRihaspatiproktaM brahmavaivartapurANAntargatam indra shRiNu pravakShyAmi kavachaM paramAdbhutam)
% engtitle              : bRRihaspatiproktaM sUryakavacham 6
% Category              : navagraha, brahmavaivartapurANa, kavacha
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : brahmavaivartapurANa | gaNapatikhaNDa | adhyAya 19/23-29||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, English 1, 2)
% Latest update         : March 5, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org