भौममङ्गलस्तोत्रम्
भौमो दक्षिणदिक्-त्रिकोणयमदिग्-विघ्नेश्वरो रक्तभः ।
स्वामी वृश्चिकमेषयोः सुरगुरुश्चार्कः शशी सौहृदः ॥ १॥
ज्ञोऽरिः षट् त्रिफलप्रदश्च वसुधा स्कन्दौ क्रमाद्देवते
भारद्वाजकुलोद्भवः क्षितिसुतः कुर्यात्सदामङ्गलम् ॥ २॥
प्रार्थना
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां नैव हि जानामि क्षमस्व परमेश्वर ॥ १॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥ २॥
कुज कुप्रभवोऽपि त्वं मङ्गलः परिगद्यसे ।
अमङ्गलं निहत्याशु सर्वदा यच्छ मङ्गलम् ॥ ३॥
अनया पूजया भौमदेवः प्रीयताम् ।
ॐ अङ्गारकाय नमः ॐ लोहिताय नमः ॐ भौमाय नमः ।
ॐ शान्तिः ॐ शान्तिः ॐ शान्तिः ॐ ॥
इति श्रीभौममङ्गलस्तोत्रं सम्पूर्णम् ॥
Proofread by PSA Easwaran