ब्राह्मणैः कृतं सूर्यस्तोत्रम् २१

ब्राह्मणैः कृतं सूर्यस्तोत्रम् २१

ब्राह्मणा ऊचुः । देवदानवयक्षाणां ग्रहाणां ज्योतिषामपि । तेजसाभ्यधिकं देवं व्रजाम शरणं रविम् ॥ ६२॥ दिवि स्थितं च देवेशं द्योतयन्तं समन्ततः । वसुधामन्तरिक्षं च व्याप्नुवन्तं मरीचिभिः ॥ ६३॥ आदित्यं भास्करं भानुं सवितारं दिवाकरम् । पूषाणमर्यमाणं च स्वर्भानुं दीप्तदीधितिम् ॥ ६४॥ चतुर्युगान्तकालाग्निदुष्प्रेक्ष्यं प्रलयान्तगम् । योगीश्वरमनन्तं च रक्तं पीतं सितासितम् ॥ ६५॥ ऋषीणामग्निहोत्रेषु यज्ञदेवेष्ववस्थितम् । व्रजाम शरणं देवं तेजोराशिं तमच्युतम् । अक्षरं परमं गुह्यं मोक्षद्वारमनुत्तमम् ॥ ६६॥ छन्दोभिरश्वरूपैश्च सकृद्युक्तैर्विहङ्गमम् । उदयास्तमने युक्तं सदा मेरोः प्रदक्षिणे ॥ ६७॥ अनृतं च ऋतं चैव पुण्यतीर्थं पृथग्विधम् । विश्वस्थितिचिन्त्यं च प्रपन्नाः स्म प्रभाकरम् ॥ ६८॥ यो ब्रह्मा यो महादेवो यो विष्णुर्यः प्रजापतिः । वायुराकाशमापश्च पृथिवीगिरिसागराः ॥ ६९॥ ग्रहनक्षत्रचन्द्राद्या वानस्पत्यं द्रुमौषधम् । व्यक्ताव्यक्तेषु भूतेषु धर्माधर्मप्रवर्त्तकः ॥ ७०॥ ब्राह्मी माहेश्वरी चैव वैष्णवी चैव ते तनुः । त्रिधा यस्य स्वरूपं तु भानोर्भास्वान्प्रसीदतु ॥ ७१॥ यस्य सर्वमयस्येदमङ्गभूतं जगत्प्रभोः । स नः प्रसीदतां भास्वाञ्जगतां यश्च जीवनम् ॥ ७२॥ यस्यैकमक्षरं रूपं प्रभामण्डलदुर्दृशम् । द्वितीयमैन्दवं सौम्यं स नो भास्वान्प्रसीदतु ॥ ७३॥ ताभ्यां च तस्य रूपाभ्यामिदं विश्वं विनिर्मितम् । अग्नीषोममयं भास्वान्स नो देवः प्रसीदतु ॥ ७४॥ इति मार्कण्डेयपुराणे षडधिकशततमाध्यायान्तर्गतं ब्राह्मणैः कृतं सूर्यस्तोत्रं समाप्तम् । मार्कण्डेयपुराण । अध्याय १०६/६२-७४॥ mArkaNDeyapurANa . adhyAya 106/62-74.. Proofread by PSA Easwaran
% Text title            : Brahmanaih Kritam Surya Stotram 21
% File name             : brAhmaNaiHkRRitaMsUryastotram21.itx
% itxtitle              : sUryastotram 21 (brAhmaNaiHkRitaM mArkaNDeyapurANAntargatam devadAnavayakShANAM grahANAM jyotiShAmapi devadAnavayakShANAM grahANAM jyotiShAmapi)
% engtitle              : brAhmaNaiHkRRitaM sUryastotram 21
% Category              : navagraha, mArkaNDeyapurANa, stotra
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : mArkaNDeyapurANa | adhyAya 106/62-74||
% Indexextra            : (Scans 1, 2, 3, 4, Hindi 1, 2, 3, 4, kalyANa, English)
% Latest update         : October 22, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org