चन्द्रमङ्गलस्तोत्रम्
चन्द्रः कर्कटकप्रभुः सितनिभश्चात्रेयगोत्रोद्भवम् ।
आग्नेयश्चतुरस्रवा षण्मुखश्चापोऽप्युमाधीश्वरः ।
षट्सप्तानि दशैक शोभनफलः शौरिप्रियोऽर्को गुरुः ।
स्वामी यामुनदेशजो हिमकरः कुर्यात्सदा मङ्गलम् ॥
प्रार्थना
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाविधिं न हि जानामि क्षमस्व परमेश्वर ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥
रोहणीश सुधामूर्ते सुधारूप सुधाशन ।
सोम सौम्यो भवास्माकं सर्वारिष्टं निवारय ॥
ॐ अनया पूजया चन्द्रदेवःप्रीयताम् ॥
॥ ॐ चन्द्राय नमः ॐ शशाङ्काय नमः ॐ सोमाय नमः ॥
॥ ॐ शान्तिः ॐ शान्तिः ॐ शान्तिः ॐ ॥
इति श्रीचन्द्रमङ्गलस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran