देवादिभिः कृतं सूर्यस्तोत्रम् ९
त्रैलोक्यमाकुलं वीक्ष्य भ्रममाणं सुरर्षयः ।
देवाश्च ब्रह्मणा सार्द्धं भास्वन्तमभितुष्टुवुः ॥ ८८॥
देवादय ऊचुः ।
आदिदेवोऽसि देवानां जातस्त्वं भूतये भुवः ।
स्वर्गस्थित्यन्तकालेषु त्रिधा भेदेन तिष्ठसि ॥ ८९॥
स्वस्ति तेऽस्तु जगन्नाथ घर्मवर्ष दिवाकर ।
इन्द्रादयस्तदा देवा लिख्यमानमथास्तुवन् ॥ ९०॥
जय देव जगत्स्वामिन् जयाशेष जगत्पते ।
ऋषयश्च ततः सप्त वसिष्ठात्रिपुरोगमाः ॥ ९१॥
तुष्टुवुर्विधैः स्तोत्रैः स्वस्ति स्वस्तीतिवादिनः ।
वेदोक्तिभिरथाग्य्राभिर्वालखिल्याश्च तुष्टुवुः ॥ ९२॥
अग्निराद्याश्च भास्वन्तं लिख्यमानं मुदा युताः ।
त्वं नाथ मोक्षिणां मोक्षो ध्येयस्त्वं ध्यानिनां परः ॥ ९३॥
त्वं गतिः सर्वभूतानां कर्मकाण्डविवर्त्तिनाम् ।
सम्पूज्यस्त्वं तु देवेश शं नोऽस्तु जगतां पते ॥ ९४॥
शं नोऽस्तु द्विपदे नित्यं शं नश्चास्तु चतुष्पदे ।
ततो विद्याधरगणा यक्षराक्षसपन्नगाः ॥ ९५॥
कृताञ्जलिपुटाः सर्वे शिरोभिः प्रणता रविम् ।
ऊचुस्ते विविधा वाचो मनःश्रोत्रसुखावहाः ॥ ९६॥
इति ब्रह्मपुराणे द्वात्रिंशाध्यायान्तर्गतं
देवादिभिः कृतं सूर्यस्तोत्रं समाप्तम् ।
ब्रह्मपुराण । अध्याय ३२/८९-९६॥
brahmapurANa . adhyAya 32/89-96..
Proofread by PSA Easwaran