देवैः कृता सूर्यस्तुतिः
देवा ऊचुः ।
भवान् प्रसूतिर्जगतः पुराणः क्षयामलैव प्रदहन् जगन्ति ।
समुत्थितो नाथ शमं प्रयाहि मा देवलोकान् प्लुष कर्मसाक्षिन् ॥ १०॥
त्वया ततं सर्वत एव तेजः प्रतापिना सूर्य यजुःप्रवृत्ते ।
तिग्मं रथाङ्गं तव देवकल्पं कालाख्यमध्वान्तकरं वदन्ति ॥ ११॥
प्रभाकरस्त्वं रविरादिदेव आत्मा समस्तस्य चराचरस्य ।
पितामहस्त्वं वरुणो यमश्च भूतं भविष्यच्च वदन्ति सिद्धाः ॥ १२॥
ध्वान्तं प्रणु त्वं सुरलोकपूज्य प्रयाहि शान्तिं पितरो वदन्ति ।
वेदान्तवेद्योऽसि मखेषु देव त्वं हूयसे विष्णुरसि प्रसह्य ।
इति स्तुतस्तैः सुरनाथ भक्त्या प्रपाहि शम्भो न इति प्रसह्य ॥ १३॥
एवमुक्तस्तदा देवैः सौम्यां मूर्त्तिमथाकरोत् ।
प्रकाशत्वं जगामाशु देवतानां महाप्रभः ॥ १४॥
इति वराहपुराणे षड्विंशाध्यायान्तर्गता देवैः कृता सूर्यस्तुतिः समाप्ता ।
वराहपुराण । अध्याय २६/१०-१४॥
varAhapurANa . adhyAya 26/10-14..
Proofread by PSA Easwaran