धौम्यप्रोक्तं सूर्याष्टोत्तरशतनामस्तोत्रम्

धौम्यप्रोक्तं सूर्याष्टोत्तरशतनामस्तोत्रम्

वैशम्पायन उवाच । श‍ृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः । क्षणं च कुरु राजेन्द्र सर्वं वक्ष्याम्यशेषतः ॥ १६॥ धौम्येन तु यथा प्रोक्तं पार्थाय सुमहात्मने । नाम्नामष्टशतं पुण्यं तच्छृणुष्व महामते ॥ १७॥ ॐ सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः । गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥ १८॥ पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् । सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥ १९॥ इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः । ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥ २०॥ वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः । धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ॥ २१॥ कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः । कला काष्ठा मुहूर्ताश्च पक्षा मासा ऋतुस्तथा ॥ २२॥ संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः । पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ २३॥ लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः । वरुणः सागरोंऽशुश्च जीमूतो जीवनोऽरिहा ॥ २४॥ भूताश्रयो भूतपतिः सर्वभूतनिषेवितः । मणिः सुवर्णो भूतादिः कामदः सर्वतोमुखः ॥ २५॥ जयो विशालो वरदः शीघ्रगः प्राणधारणः । धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ॥ २६॥ द्वादशात्मारविन्दाक्षः पिता माता पितामहः । स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ २७॥ देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः । चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषान्वितः ॥ २८॥ एतद्वै कीर्तनीयस्य सूर्यस्यैव महात्मनः । नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना ॥ २९॥ इति महाभारते आरण्यपर्वणि ३ अध्यायान्तर्गतं धौम्यप्रोक्तं सूर्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् । महाभारत । अरण्यपर्व । अध्याय ३/१८-२८॥ mahAbhArata . araNyaparva . adhyAya 3/18-28.. Proofread by PSA Easwaran
% Text title            : Dhaumyaproktam Surya Ashtottarashata Nama Stotram 4
% File name             : dhaumyaproktaMsUryAShTottarashatanAmastotram.itx
% itxtitle              : sUryAShTottarashatanAmastotram 4 (dhaumyaproktaM mahAbhAratAntargatam sUryo.aryamA bhagastvaShTA pUShArkaH savitA raviH)
% engtitle              : dhaumyaproktaM sUryAShTottarashatanAmastotram 4
% Category              : navagraha, mahAbhArata, aShTottarashatanAma, stotra
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : mahAbhArata | araNyaparva | adhyAya 3/18-28||
% Indexextra            : (Scans 1, 2, 3, 4, 5, Gujarati, Bengali, Hindi)
% Latest update         : November 15, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org