एकश्लोकीनवग्रहस्तोत्रम् ३
आरोग्यं प्रददातु नो दिनकरः चन्द्रोयशो निर्मलं
भूतिं भूमिसुतो सुधांशुतनयः प्रज्ञां गुरुर्गौरवम् ।
काव्यः कोमलवाग्विलासमतुलं मन्दो मुदं सर्वदा
राहुर्बाहुबलं विरोधशमनं केतुः कुलस्योन्नतिम् ॥
इत्येकश्लोकी नवग्रहस्तोत्रं समाप्तम् ।