ग्रहणपीडापरिहारश्लोकाः

ग्रहणपीडापरिहारश्लोकाः

ग्रहणशान्तिश्लोकः - इन्द्रोऽनलो दण्डधरश्च रक्षः प्राचेतसो वायुकुबेरशर्वाः । मज्जन्मऋक्षे मम राशिसंस्थे सूर्योपरागं शमयन्तु सर्वे ॥ अथ ग्रहणपीडापरिहारश्लोकाः । योऽसौ वज्रधरो देवः आदित्यानां प्रभुर्मतः । सहस्रनयनः शक्रः ग्रहपीडां व्यपोहतु ॥ १॥ मुखं यः सर्वदेवानां सप्तार्चिरमितद्युतिः । चन्द्रसूर्योपरागोत्थां अग्निः पीडां व्यपोहतु ॥ २॥ यः कर्मसाक्षी लोकानां यमो महिषवाहनः । चन्द्रसूर्योपरागोत्थां ग्रहपीडां व्यपोहतु ॥ ३॥ रक्षो गणाधिपः साक्षात् प्रलयानलसन्निभः । उग्रः करालो निरृतिः ग्रहपीडां व्यपोहतु ॥ ४॥ नागपाशधरो देवः सदा मकरवाहनः । वरुणो जललोकेशो ग्रहपीडां व्यपोहतु ॥ ५॥ यः प्राणरूपो लोकानां वायुः कृष्णमृगप्रियः । चन्द्रसूर्योपरागोत्थां ग्रहपीडां व्यपोहतु ॥ ६॥ योऽसौ निधिपतिर्देवः खड्गशूलधरो वरः । चन्द्रसूर्योपरागोत्थां कलुषं मे व्यपोहतु ॥ ७॥ योऽसौ शूलधरो रुद्रः शङ्करो वृषवाहनः । चन्द्रसूर्योपरागोत्थां दोषं नाशयतु द्रुतम् ॥ ८॥ ॐ शान्तिः शान्तिः शान्तिः । इति ग्रहणपीडापरिहारश्लोकाः सम्पूर्णाः ।
% Text title            : Grahana PidAparihAra Shlokah
% File name             : grahaNapIDAparihArashlokAH.itx
% itxtitle              : grahaNapIDAparihArashlokAH
% engtitle              : grahaNapIDAparihArashlokAH
% Category              : navagraha
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Latest update         : December 26, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org