ग्रहध्यानम्
चन्द्रध्यानम् ।
कर्पूरस्फटिकावदातमनिशं पूर्णेन्दुबिम्बाननं
मुक्तादामविभूषितेन वपुषा निर्मूलयन्तं तमः ।
हस्ताभ्यां कुमुदं वरं च दधतं नीलालकोद्भासितं
स्वस्याङ्कस्थमृगोदिताश्रयगुणं सोमं सुधाब्धिं भजे ॥
कुजध्यानम् ।
विन्ध्येशं ग्रहदक्षिणप्रतिमुखं रक्तत्रिकोणाकृतिं
दोर्भिः स्वीकृतशक्तिशूलसगदं चारूढमेषाधिपम् ।
भारद्वाजमुपात्तरक्तवसनच्छत्रश्रिया शोभितं
मेरोर्दिव्यगिरेः प्रदक्षिणकरं सेवामहे तं कुजम् ॥
बुधध्यानम् ।
आत्रेयं महदाधिपं ग्रहगणस्येशानभागस्थितं
बाणाकारमुदङ्मुखं शरलसत्तूणीरबाणासनम् ।
पीतस्रग्वसनद्वयध्वजरथच्छत्रश्रिया शोभितं
मेरोर्दिव्यगिरेः प्रदक्षिणकरं सेवामहे तं बुधम् ॥
गुरुध्यानम् ।
रत्नाष्टापदवस्त्रराशिममलं दक्षात्किरन्तं करा-
दासीनं विपणौ करं निदधतं रत्नादिराशौ परम् ।
पीतालेपनपुष्पवस्त्रमखिलालङ्कारसम्भूषितं
विद्यासागरपारगं सुरगुरुं वन्दे सुवर्णप्रभम् ॥
शुक्रध्यानम् ।
श्वेताम्भोजनिषण्णमापणतटे श्वेताम्बरालेपनं
नित्यं भक्तजनायसम्प्रददतं वासो मणीन् हाटकम् ।
वामेनैव करेण दक्षिणकरे व्याख्यानमुद्राङ्कितं
शुक्रं दैत्यवरार्चितं स्मितमुखं वन्दे सिताङ्गप्रभम् ॥
शनीश्वरध्यानम् ।
ध्यायेन्नीलशिलोच्चयद्युतिनिभं नीलारविन्दासनं
देवं दीप्तविशाललोचनयुतं नित्यक्षुधाकोपिनम् ।
निर्मांसोदरशुष्कदीर्घवपुषं रौद्राकृतिं भीषणं
दीर्घस्मश्रुजटायुतं ग्रहपतिं सौरं सदाहं भजे ॥
%Need Surya, Rahu, Ketu dhyAna verses
Proofread by PSA Easwaran