कायस्थकृतं सूर्यस्तोत्रम् २५
मन्ये सूर्यः स्वयं नारायणो मे कृपयाऽद्भुतः ॥ ४९॥
प्रकाशमागतस्त्वत्र भक्तानुग्रहकारकः ।
नमः सहस्ररूपाय नमः सहस्ररश्मये ॥ ५०॥
नमो भक्तकृपाकर्त्रे नमः सहस्रचक्षुषे ।
नमो जगत्प्रकाशाय सर्वभूतप्रचक्षुषे ॥ ५१॥
परब्रह्मस्वरूपाय मोक्षदात्रे नमो नमः ।
नमस्तेजोऽभिहन्त्रे च रोगहन्त्रे नमो नमः ॥ ५२॥
इत्युक्त्वा निपपाताऽसावूर्जव्रतोऽस्य पादयोः ।
इति श्रीलक्ष्मीनारायणीयसंहिता । खण्ड २। अध्याय २६३-अध्यायान्तर्गतं
कायस्थकृतं सूर्यस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड २। अध्याय २६३/४९-५२॥
lakShmInArAyaNIyasaMhitA . khaNDa 2. adhyAya 263/49-52..
Proofread by PSA Easwaran