श्रीकृष्णकृतं सूर्याष्टोत्तरशतस्तोत्रम्स्तोत्रम्
श्रीकृष्ण उवाच ।
आदित्यं भास्करं भानुं रविं सूर्यं दिवाकरम् ।
दिवाकरं दिवानाथं तपनं तपतां वरम् ॥ २॥
वरेण्यं वरदं विष्णुमनघं वासवानुजम् ।
बलवीर्यं सहस्रांशुं सहस्रकिरणद्युतिम् ॥ ३॥
मयूखमालिनं विश्वं मार्तण्डं चण्डरोचिषम् ।
सदातीतं सुभास्वन्तं सप्तसप्तिं सुखोदयम् ॥ ४॥
देवदेवमहिर्बुध्न्यं धाम्नां निधिमनुत्तमम् ।
तपोब्रह्ममयालोकं लोकपालमपाम्पतिम् ॥ ५॥
जगत्प्रबोधजनकं जगद्बीजं जगत्प्रभुम् ।
अर्कं निःश्रेयसपरं कारणं श्रेयसां परम् ॥ ६॥
इनं प्रभाविणं पुण्यं पतङ्गं प्लवगेश्वरम् ।
दातारं वाञ्छितार्थानां दृष्टादृष्टफलप्रदम् ॥ ७॥
गृहं गृहकरं हंसं हरिदश्वं हुताशनम् ।
मङ्गल्यं मङ्गलं गेयं ध्रुवं धर्मप्रबोधनम् ॥ ८॥
भवसम्भावितभावं भूतभव्यभवात्मकम् ।
दुर्गमं दुर्गतिहरं हरनेत्रं त्रयीमयम् ॥ ९॥
त्रैलोक्यतिलकं तीर्थं तरणिं सर्वतोमुखम् ।
तेजोराशिसुनिर्वाणं विश्वेशं धाम साम्प्रतम् ॥ १.३३.१०॥
कल्पं कल्पानलं कालं कालचक्रं क्रतुप्रियम् ।
भूषणं मरुतं सूर्यं मणिरत्नं सुलोचनम् ॥ ११॥
त्वष्टारं विष्टरं विश्वं सदसत्कर्मसाक्षिकम् ।
सवितारं सहस्राक्षं प्रजापालमधोक्षजम् ॥ १२॥
ब्रह्माणं वासरारम्भे रक्तवर्णं महाद्युतिम् ।
शुक्लं मध्यन्दिने रुद्रं श्यामं विष्णुं दिनक्षये ॥ १३॥
नाम्नामष्टशतं दिव्यं विष्णुना समुदाहृतम् ।
य इदं प्रयतो भूत्वा पठेद्भक्त्या समाहितः ॥ १४॥
न तस्य विपदः क्वापि सर्वत्रापि शुभा गतिः ।
धनधान्यसुखावाप्तिः पुत्रलाभश्च जायते ॥ १५॥
तेजः प्रज्ञां परं लाभं ज्ञानं च लभते गतिम् ॥
इति श्रीस्कन्दपुराणे आवन्त्यखण्डे अवन्तीक्षेत्रमाहात्म्ये
त्रयस्त्रिंशाध्यायान्तर्गतं श्रीकृष्णकृतं सूर्याष्टोत्तरसताम-
स्तोत्रं समाप्तम् ।
स्कन्दपुराण । आवन्त्यखण्ड । आवन्त्यखण्ड । अध्याय ३३/२-१५॥
skandapurANa . AvantyakhaNDa . AvantyakhaNDa . adhyAya 33/2-15..
Proofread by PSA Easwaran