नवग्रहमङ्गलस्तोत्रम्

नवग्रहमङ्गलस्तोत्रम्

भास्वान् काश्यपगोत्रजोऽरुणरुचिः सिंहाधिपोऽर्कः समित् षट्त्रिस्थो दशमः शुभो गुरुशशी क्षोणीज मित्रं सदा । शुक्रार्कीतु रिपू कलिङ्गविषयेशोऽग्नीश्वरौ देवते मध्ये वर्तुल पूर्व दिङ्मुख इनः कुर्यात् सदा मङ्गलम् ॥ १॥ चन्द्रः कर्कट राशिपः सितरुचिः स्वच्छोत्रि गोत्रोद्भवो वह्नयाशा चतुरस्र वारुणमुखस्त्वापःशिवा देवते । षट्सप्ताग्नि दशाद्यगः शुभफलो नारिर्बुधार्क प्रियः स्यातां यामुनदेश पर्णसमिधः कुर्यात् सदा मङ्गलम् ॥ २॥ भौमो याम्य मुखस्त्रिकोणनिलयोऽवन्तीश्वरः खादिरः त्विध्मोवृश्चिक मेषपोऽस्य सुहृदः सूर्येन्दुजीवाः स्मृताः । ज्ञोऽरिः षट् त्रिणगः शुभोथ वसुधा स्कन्दौ क्रमात् देवते भारद्वाज कुलोद्भवः क्षितिसुतः कुर्यात् सदा मङ्गलम् ॥ ३॥ सौम्यः पीत उदङ्मुखः समिदपामार्गोऽत्रि गोत्रोद्भवो बाणेशानदिशौ हितो रवि सितौ शत्रुः स्मृतः शीतगुः । कन्यायुग्मपतिर्दशाष्टमचतुः षण्नेत्रगः शोभनो देवौ केशवपूरुषौ मग धपः कुर्यात् सदा मङ्गलम् ॥ ४॥ जीवत्वाङ्गिरसः कुबेर वदनो दीर्घाब्धि कोणे स्थितः पीतोश्वत्थ समिच्च सिन्धुविषयः शक्रोविधिर्देवते । सूर्येन्दु क्षितिजप्रियो बुधसितौशत्रू धनुर्मीनपः सप्ताङ्कद्विसुते हितः सुरगुरुः कुर्यात् सदा मङ्गलम् ॥ ५॥ शुक्रोभार्गव गोत्रजः सितनिभः पूर्वामुखः पञ्चको- णस्थोऽस्थो तुल गोपतिः खलु महाराष्ट्रेश औदुम्बरी । इन्द्राणी मघवासुरौ बुधशनिमित्रे रवीन्दू अरी षट्सप्ताभ्र कुवर्जिते शुभफलः कुर्यात् सदा मङ्गलम् ॥ ६॥ मन्दः पाशिमुखः शमीसमिदथो सौराष्ट्रपः काश्यपो नक्रादि द्वयपो हितो बुधसितौ सूर्येन्दुभौमाः पराः । स्थानं पश्चिमदिक् प्रजापतियमौ देवौ धनुष्यासनः षट्त्रिस्थः शुभकृत् शमी रविसुतः कुर्यात् सदा मङ्गलम् ॥ ७॥ राहुर्बर्बर देशपः तिमिरभो नैरृत्य शूर्पासनो यः पैठीनसि गोत्रजः खलु समिद्दूर्वामुखं दक्षिणे । कालः प्रत्यधिदेवतास्त्वधिसुरः सोऽरि चन्द्र स्थितः षट्त्रिस्थः शुभदोऽर्धकाय उदितः कुर्यात् सदा मङ्गलम् ॥ ८॥ केतुजैमिनि गोत्रजः कुशसमित् वायव्य कोणेस्थितः चित्राङ्क ध्वजलाञ्छनो हि भगवन् यो दक्षिणाशा मुखः । ब्रह्मादि त्रिदशालयः सुरपतिः सच्चित्रगुप्तः खगः षट्त्रिस्थश्च शुभः पलाश सदृशः कुर्यात् सदा मङ्गलम् ॥ ९॥ इत्येवं ग्रहमङ्गलाष्टकमिदं लोकोपकारप्रदम् पापौघ प्रशमं महत् सुखकरं सौभाग्य संवर्धनम् । यः प्रातः श‍ृणुयात् पठेदनुदिनं श्रीकालिदासोचितम् स्तोत्रं मङ्गलदायकं परिपठन् प्राप्नोत्यभीष्टं महत् ॥ १०॥ इति श्रीकालिदासोचितं नवग्रहमङ्गलस्तोत्रं सम्पूर्णम् । नवग्रहमङ्गलाष्टकम् Version 2 भास्वान् काश्यपगोत्रजोऽरुणरुचिर्यस्सिंहपोऽर्कस्समि- त्षट्त्रिस्थोऽदशशोभनो गुरुशशी भौमास्सुमित्रास्सदा । शुक्रो मन्दरिपुः कलिङ्गजनपश्चाग्नीश्वरौ देवते मध्येवर्तुलपूर्वदिग्दिनकरः कुर्यात्सदा मङ्गलम् ॥ १॥ चन्द्रः कर्कटकप्रभुस्सितनिभश्चात्रेयगोत्रोद्भव- श्चात्रेयश्चतुरश्रवारुणमुखश्चापे उमाधीश्वरः । षट्सप्ताग्नि दशैकशोभनफलो नोरिर्बुधार्कौप्रियौ स्वामी यामुनजश्च पर्णसमिधः कुर्यात्सदा मङ्गलम् ॥ २॥ भौमो दक्षिणदिक्त्रिकोणयमदिग्विन्ध्येश्वरः खादिरः स्वामी वृश्चिकमेषयोस्सु गुरुश्चार्कश्शशी सौहृदः । ज्ञोऽरिष्षट्त्रिफलप्रदश्च वसुधास्कन्दौ क्रमाद्देवते भारद्वाजकुलोद्वहोऽरुणरुचिः कुर्यात्सदा मङ्गलम् ॥ ३॥ सौम्यः पीत उदङ्मुखस्समिदपामार्गो त्रिगोत्रोद्भवो बाणेशानदिशस्सुहृद्रविसुतश्शेषास्समाश्शीतगोः । कन्यायुग्मपतिर्दशाष्टचतुरष्षण्णेत्रगश्शोभनो विष्णुर्देव्यधिदेवते मगधपः कुर्यात्सदा मङ्गलम् ॥ ४॥ जीवश्चाङ्गिरगोत्रजोत्तरमुखो दीर्घोत्तराशास्थितः पीतोऽश्वत्थसमिच्चसिन्धुजनितश्चापोऽथ मीनाधिपः । सूर्येन्दुक्षितिजाः प्रिया बुधसितौ शत्रू समाश्चापरे सप्त द्वे नव पञ्चमे शुभकरः कुर्यात्सदा मङ्गलम् ॥ ५॥ शुक्रोभार्गवगोत्रजस्सितरुचिः पूर्वामुखः पूर्वदिक् पाञ्चालस्थ वृषस्तुलाधिपमहाराष्ट्राधिपौदुम्बरः । इन्द्राणीमघवाबुधश्च रविजो मित्रोर्क चन्द्रावरी षष्ठत्रिर्दशवर्जितेभृगुसुतः कुर्यात्सदा मङ्गलम् ॥ ६॥ मन्दः कृष्णनिभः सपश्चिममुखः सौराष्ट्रपः काश्यप- स्स्वामी नक्रसुकुम्भयोर्बुधसितौ मित्रौ कुजेन्दूद्विषौ । स्थानम्पश्चिमदिक्प्रजापतियमौ देवौ धनुष्यासनौ- ष्षट्त्रिस्थश्शुभकृच्छमीरविसुतः कुर्यात्सदा मङ्गलम् ॥ ७॥ राहुस्सिंहलदेशपो निरृतिः कृष्णाङ्गशूर्पासनः यःपैठीनसगोत्रसम्भवसमिद्दूर्वामुखो दक्षिणः । यस्सर्पः पशुदैवतोऽखिलगतस्स्वाम्याद्विशेषप्रद षट्त्रिस्थश्शुभकृच्च सिंहकसुतः कुर्यात्सदा मङ्गलम् ॥ ८॥ केतुर्जैमिनिगोत्रजः कुशसमिद्वायव्यकोणेस्थितः चित्राङ्कध्वजलाञ्छनोहिभगवान्यो दक्षिणाशामुखः । ब्रह्माचैवतु चित्रगुप्तपतिमान्प्रीत्याधिदेवस्सदा- षट्त्रिस्थशुभः कृच्च बर्बरपतिः कुर्यात्सदा मङ्गलम् ॥ ९॥ इति नवग्रहमङ्गलस्तोत्रं सम्पूर्णम् । नवग्रहमङ्गलाष्टकम् The stotra has at least nine verses but is also called as aShTakam, perhaps mistakenly.
% Text title            : Navagraha Mangala Stotram or Mangalashtakam 1
% File name             : navagrahamangalastotram.itx
% itxtitle              : navagrahamaNgalastotram 1 athavA navagrahamaNgalAShTakam 1 (bhAsvAn kAshyapagotrajo.aruNaruchiH)
% engtitle              : Navagraha Mangala Stotram Mangalashtakam 1
% Category              : navagraha, nava, mangala, aShTaka
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha 
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : This has at least 9 verses but is mistakenly called aShTakam as well
% Latest update         : September 18, 2022
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org