नवग्रहस्तोत्रम्

नवग्रहस्तोत्रम्

वेदैर्ज्योतिर्मयत्वे जगति परिणमद्भिस्सदात्मप्रसूतै- र्द्ध्वान्तं निर्मूलयद्भिर्बुधवरहृदये बोधभावं दधानैः । त्रैलोक्यं भासयन्तं रविमखिलसुरैः स्तूयमानप्रभावं मृत्युग्रस्तात्मनां नो हृदयरुगगदङ्कारमाद्यं प्रपद्ये ॥ १॥ पुंसामुद्दामजन्मान्तरसुकृतपरीपाकयोगैकलभ्य- स्सम्पद्विद्यायुरोजांसि विमलकिरणो यत्कटाक्षः करोति । सारस्सर्वग्रहाणामनिमिषसदसा स्वादनीयस्वरूपः सोमस्त्राणाय नस्तादुतितरमहिमा रोहिणीप्राणनाथः ॥ २॥ सत्वं यस्य प्रसादाद्भवति तनुभृतमप्रकम्प्यं विपद्भिः स्फूर्ज्जद्वैरिप्रपञ्चत्रुटनपटुतरप्रक्रमो विक्रमश्च । चित्राकल्पप्रदीपाकृतिरतिसुकुमारः कुमारो धरण्याः नित्यानन्दाय भूयादुरुदुरितवनाङ्गारकोऽङ्गारको नः ॥ ३॥ वेदे शास्त्रे पुराणे चतुरतरकलानां कलापे च दाक्ष्यं पुंसां वक्त्रोक्तिचाटुप्रहसनरसिकत्वञ्च यस्सन्तनोति । सर्वज्ञः शर्ववामेक्षणजनिरमराराधितश्रीमदङ्घ्रिः श्रीमान् निश्रेयसाय प्रभवतु विशदागाधबोधो बुधो नः ॥ ४॥ प्रत्यक्षीभूतलोकत्रयविमलदृगालोकिताशेषमूर्ति - र्न्नीतिप्राकारसंरक्षीतरिपुपरिषद्दुर्गमस्वर्गमार्गः । भद्रं दद्यात् ग्रहाणामुरुतरमहसामग्रणी रासरागै- र्योगीन्द्रैस्सेव्यमानः सुरगुरुरमराधीश्वराणां गुरुर्न्नः ॥ ५॥ तुष्टे यस्मिन् समस्तासुरनिकरगुरौ नीतिशास्त्रप्रवीणे लोकोऽयं सत्कलत्राद्यखिलसुखसमृद्धिं प्रयातीक्षणेन । रुष्टेतत् प्रत्यवायं व्रजति च सततं नन्द्यमानप्रवृत्तिः पायाद्दुष्कर्मभूभृत्कुलदलनकलाभार्गवो भार्गवो नः ॥ ६॥ चण्डश्चण्डीशखण्डद्युतिरमितजटाजूटतुङ्गोत्तमाङ्गो द्राघीयश्मश्रुजालोज्ज्वलमुखकमलो मङ्गलः पिङ्गलाक्षः । चण्डांशोरंशजन्मा कृशतनुरतिशूरश्शनैः सञ्चरिष्णुः ब्रह्मण्यः क्रूरकर्मा मम शनिरशनैः श्रेयसे बोभवीतु ॥ ७॥ विष्णोर्विश्वेश्वरस्यासुरकुलविमतव्रातकल्पान्तवह्ने- श्चक्रं यत्कण्ठनालादसुरसमुपयातिं न वैयात्यमाप । यस्यैतौ पुष्पवन्तावभिनवकबलिभावमाद्यं दधानौ भद्रं नः सैंहिकेयो ग्रहगणगणनासु प्रतीपप्रयाणः ॥ ८॥ ब्रह्मण्याः कमलोद्भवस्य तनया निर्द्धूतवैश्वानर- ज्ज्वालाजालसहोदरोरुमहसः सर्वग्रहाग्रेसराः । आनन्दोदयहेतवो रिपुकुलप्रोत्सादजीवातवो दुःखैकार्णवसेतवः प्रणमतां ते केतवः पान्तु नः ॥ ९॥ इति नवग्रहस्तोत्रं सम्पूर्णम् । श्री नवग्रहेभ्यो नमः ॥ Encoded by Mohan Chettoor Proofread by Mohan Chettoor, Narayanaswami Pallasena
% Text title            : Navagraha Sutram 5
% File name             : navagrahastotram.itx
% itxtitle              : navagrahastotram 5 (vedairjyotirmayatve)
% engtitle              : navagrahastotram 5
% Category              : navagraha
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mohan Chettoor
% Proofread by          : Mohan Chettoor, Narayanaswami Pallasena
% Indexextra            : (Malayalam)
% Latest update         : June 9, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org