नवग्रहस्तोत्रम्
वेदैर्ज्योतिर्मयत्वे जगति परिणमद्भिस्सदात्मप्रसूतै-
र्द्ध्वान्तं निर्मूलयद्भिर्बुधवरहृदये बोधभावं दधानैः ।
त्रैलोक्यं भासयन्तं रविमखिलसुरैः स्तूयमानप्रभावं
मृत्युग्रस्तात्मनां नो हृदयरुगगदङ्कारमाद्यं प्रपद्ये ॥ १॥
पुंसामुद्दामजन्मान्तरसुकृतपरीपाकयोगैकलभ्य-
स्सम्पद्विद्यायुरोजांसि विमलकिरणो यत्कटाक्षः करोति ।
सारस्सर्वग्रहाणामनिमिषसदसा स्वादनीयस्वरूपः
सोमस्त्राणाय नस्तादुतितरमहिमा रोहिणीप्राणनाथः ॥ २॥
सत्वं यस्य प्रसादाद्भवति तनुभृतमप्रकम्प्यं विपद्भिः
स्फूर्ज्जद्वैरिप्रपञ्चत्रुटनपटुतरप्रक्रमो विक्रमश्च ।
चित्राकल्पप्रदीपाकृतिरतिसुकुमारः कुमारो धरण्याः
नित्यानन्दाय भूयादुरुदुरितवनाङ्गारकोऽङ्गारको नः ॥ ३॥
वेदे शास्त्रे पुराणे चतुरतरकलानां कलापे च दाक्ष्यं
पुंसां वक्त्रोक्तिचाटुप्रहसनरसिकत्वञ्च यस्सन्तनोति ।
सर्वज्ञः शर्ववामेक्षणजनिरमराराधितश्रीमदङ्घ्रिः
श्रीमान् निश्रेयसाय प्रभवतु विशदागाधबोधो बुधो नः ॥ ४॥
प्रत्यक्षीभूतलोकत्रयविमलदृगालोकिताशेषमूर्ति -
र्न्नीतिप्राकारसंरक्षीतरिपुपरिषद्दुर्गमस्वर्गमार्गः ।
भद्रं दद्यात् ग्रहाणामुरुतरमहसामग्रणी रासरागै-
र्योगीन्द्रैस्सेव्यमानः सुरगुरुरमराधीश्वराणां गुरुर्न्नः ॥ ५॥
तुष्टे यस्मिन् समस्तासुरनिकरगुरौ नीतिशास्त्रप्रवीणे
लोकोऽयं सत्कलत्राद्यखिलसुखसमृद्धिं प्रयातीक्षणेन ।
रुष्टेतत् प्रत्यवायं व्रजति च सततं नन्द्यमानप्रवृत्तिः
पायाद्दुष्कर्मभूभृत्कुलदलनकलाभार्गवो भार्गवो नः ॥ ६॥
चण्डश्चण्डीशखण्डद्युतिरमितजटाजूटतुङ्गोत्तमाङ्गो
द्राघीयश्मश्रुजालोज्ज्वलमुखकमलो मङ्गलः पिङ्गलाक्षः ।
चण्डांशोरंशजन्मा कृशतनुरतिशूरश्शनैः सञ्चरिष्णुः
ब्रह्मण्यः क्रूरकर्मा मम शनिरशनैः श्रेयसे बोभवीतु ॥ ७॥
विष्णोर्विश्वेश्वरस्यासुरकुलविमतव्रातकल्पान्तवह्ने-
श्चक्रं यत्कण्ठनालादसुरसमुपयातिं न वैयात्यमाप ।
यस्यैतौ पुष्पवन्तावभिनवकबलिभावमाद्यं दधानौ
भद्रं नः सैंहिकेयो ग्रहगणगणनासु प्रतीपप्रयाणः ॥ ८॥
ब्रह्मण्याः कमलोद्भवस्य तनया निर्द्धूतवैश्वानर-
ज्ज्वालाजालसहोदरोरुमहसः सर्वग्रहाग्रेसराः ।
आनन्दोदयहेतवो रिपुकुलप्रोत्सादजीवातवो
दुःखैकार्णवसेतवः प्रणमतां ते केतवः पान्तु नः ॥ ९॥
इति नवग्रहस्तोत्रं सम्पूर्णम् ।
श्री नवग्रहेभ्यो नमः ॥
Encoded by Mohan Chettoor
Proofread by Mohan Chettoor, Narayanaswami Pallasena