राहुमङ्गलस्तोत्रम्
राहुः सिंहलदेशजश्च निरृतिः कृष्णाङ्गशूर्पासनो ।
यः पैठीनसिगोत्रसम्भवसमिद्दूर्वामुखो दक्षिणः ॥ १॥
यः सर्पाद्यधिदैवते च निरृतिः प्रत्याधिदेवः सदा ।
षट्त्रिस्थः शुभकृच्च सिंहिकसुतः कुर्यात्सदा मङ्गलम् ॥ २॥
प्रार्थना
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां नैव हि जानामि क्षमस्व परमेश्वर ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥
महाशिरा महावक्त्रो दीर्घदंष्ट्रो महाबलः ।
अतनुश्चोर्ध्वकेशश्च पीडां हरतु मे तमः ॥
अनया पूजया राहुः प्रीयताम् ।
ॐ राहवे नमः ॐ तमसे नमः ॐ सैंहिकाय नमः । ॐ
शान्तिः ॐ शान्तिः ॐ शान्तिः ॐ ॥
इति श्रीराहुमङ्गलस्तोत्रं सम्पूर्णम् ॥
Proofread by PSA Easwaran