श्रीसूर्यमाला
आचम्य ॥
सङ्कल्प ॥
श्रीसूर्यनारायणदेवतामुद्दिश्य, प्रीत्यर्थं
श्रीसूर्यमालास्तोत्रमहामन्त्रपठनं करिष्ये ॥
अस्य श्रीसूर्यमालास्तोत्रमहामन्त्रस्य भगवान् विसिष्ठऋषिः ।
अनुष्टुप्च्छन्दः, श्रीसूर्यनारायणो देवता ।
ह्रां बीजं, ह्रीं शक्तिः ह्रूं कीलकं
श्रीसूर्यनारायणदेवताप्रसादसिद्ध्यर्थे जपेविनियोगः ।
न्यासौ - करन्यासः हृदयन्यासः
ॐ ह्रां अघोर श्रीसूर्यनारायणाय - अङ्गुष्ठाभ्यां नमः - हृदयाय नमः ।
ॐ ह्रीं चतुर्वेदपारायणाय - तर्जनीभ्यां नमः - शिरसेस्वाहा ।
ॐ ह्रूं उग्रभयङ्कराय - मध्यमाभ्यां नमः - शिखायै वषट् ।
ॐ ह्रैं श्रीसूर्यनारायणाय - अनामिकाभ्यां नमः - कवचाय हुं ।
ॐ ह्रौं कौपीनमौञ्जीधराय - कनिष्ठिकाभ्यां नमः - नेत्रत्रयाय वौषट् ।
ॐ ह्रः सहस्रकिरणाय करतलकरपृष्ठाभ्यां नमः - अस्त्राय फट् ।
भूर्भुवस्स्वरोमिति दिग्बन्धः ।
ध्यानम् ।
हरितहयरथं दिवाकरं कनकमयाम्बुजरेणुवञ्जरम् ।
प्रतिदिनमुदये नवं नवं शरणमुपैमि हिरण्यकेतनम् ॥
देदीप्यमानमकुटं मणिकुण्डलमण्डितम् ।
ध्यायेत्सहस्रकिरणं स्तोत्रमेवमुदीरयेत् ॥
लमिति पञ्चपूजां परिकल्पयामि ।
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुदेवो महेश्वरः ।
गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवेनमः ॥
अथ मालाप्रारम्भः -
अस्य श्रीसूर्यनारायणाय-सुदर्शन-चक्रपाणिध्वजाय,
बन्धुपोषण-स्वरूपाय, सकलदिङ्मण्डलाय, शतकोटि विष्णुभुजङ्ग-
जगदाधाराय, शौर्यपराक्रमाय, नवग्रहघटनाघटनाय,
स्थलग्रहघटनाघटनाय, ग्रहनिर्मूलनाय ॐ ह्रां ह्रीं
सर्वभूतप्रेतपिशाचबद्धब्रह्मराक्षसहरणाय, अनेकराक्षस-
स्थलजन्तुखण्डनाय, परतन्त्र-परवर्म-परजपादीन् ध्वंसय विध्वंसय,
अघोरवीर श्रीसूर्यनारायणाय आत्मयस्त्रमन्त्रतन्त्रसंरक्षणाय,
मम सकलरोगनिवारणाय मारणशल्योच्चाटनादि
सर्वाङ्गक्रियाविच्छेदनाय - ॐ भग भग भुग भुग,
चण्डप्रचण्डशौर्यपराक्रमाय, बहुलोद्घटनाय,
पूर्वद्वारे बन्ध बन्ध, दक्षिणद्वारे बन्ध बन्ध
पश्चिमद्वारे बन्ध बन्ध । उत्तरद्वारे बन्ध बन्ध,
आग्नेयद्वारे बन्ध बन्ध, नैरृतिद्वारे बन्ध बन्ध,
वायव्यद्वारे बन्ध बन्ध ईशानद्वारे बन्ध बन्ध,
अष्टदिक्षु बन्ध बन्ध, नवग्रहान् बन्ध बन्ध,
स्थलग्रहान् बन्ध बन्ध, कह कह, किरि किरि,
विवि विवि, हल हल, कट कट, चट चट,
प्रचट प्रचट, स्फुर स्फुर, फेल फेल, फेट फेट,
सर्वशून्यनिवारणाय, इन्द्रजाल, महेन्द्रजाल,
रणस्तम्भन, खड्गस्तम्भन, खड्गगाण्डीवविच्छेदनाय,
आकर्षय अकर्षय, गजकर्ण-गोकर्ण तर्विद्याद्याः
धर्मविद्याः बन्ध बन्ध, भूलोक-भुवर्लोक-सुवर्लोक-
पाताललोक-प्रहरणाय ॐ फट् स्वाहा ।
अस्य सूर्यमाला अस्त्राय फट् ।
स्वर्भुवर्भूरोमिति दिग्विमोकः ।
अनेन मया कृतेन श्रीसूर्यनारायणस्तृप्यतु ।
परब्रह्मार्पणमस्तु ।
हरिः ॐ तत् सत् ।
इति श्रीसूर्यमाला सम्पाप्ता ।
Recitation of this Maala every morning rids of all planetary
afflictions.
Proofread by PSA Easwaran