श्रीसूर्यमङ्गलस्तोत्रम्
भास्वान् काश्यपगोत्रजोऽरुणरुचिर्यः सिंहपोऽर्कस्समित्
षट्त्रिस्थो दशशोभनो गुरुशशी भौमेषु मित्रं सदा ।
शुक्रार्की च रिपू कलिङ्गजनितश्चाऽग्नीश्वरो देवते
मध्ये वर्तुलपूर्वदिग्दिनकरः कुर्यात्सदा मङ्गलम् ॥
इति श्रीसूर्यमङ्गलस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran