सूर्यनामसप्ततिस्तोत्रम्
हंसो भानुः सहस्रांशुस्तपनस्तापनो रविः ।
विकर्तनो विवस्वांश्च विश्वकर्मा विभावसुः ॥ ७७॥
विश्वरूपो विश्वकर्ता मार्तण्डो मिहिरोंऽशुमान् ।
आदित्यश्चोष्णगुः सूर्योऽर्यमा ब्रध्नो दिवाकरः ॥ ७८॥
द्वादशात्मा सप्तहयो भास्करो हस्करः खगः ।
सुरः प्रभाकरः श्रीमाँल्लोकचक्षुर्ग्रहेश्वरः ॥ ७९॥
त्रिलोकेशो लोकसाक्षीतमोऽरिः शाश्वतः शुचिः ।
गभस्तिहस्तस्तीव्रांशुस्तरणिः सुमहोऽरणिः ॥ १.९.८०॥
द्युमणिर्हरिदश्वोऽर्को भानुमान्भयनाशनः ।
छन्दोऽश्वो वेदवेद्यश्च भास्वान्पूषा वृषाकपिः ॥ ८१॥
एकचक्ररथो मित्रो मन्देहारिस्तमिस्रहा ।
दैत्यहा पापहर्ता च धर्मो धर्मप्रकाशकः ॥ ८२॥
हेलिकश्चित्रभानुश्च कलिघ्नस्तार्क्ष्यवाहनः ।
दिक्पतिः पद्मिनीनाथः कुशेशयकरो हरिः ॥ ८३॥
घर्मरश्मिर्दुर्निरीक्ष्यश्चण्डांशुः कश्यपात्मजः ।
एभिः सप्ततिसङ्ख्याकैः पुण्यैः सूर्यस्य नामभिः ॥ ८४॥
प्रणवादि चतुर्थ्यन्तैर्नमस्कारसमन्वितैः ।
प्रत्येकमुच्चरन्नाम दृष्ट्वादृष्ट्वा दिवाकरम् ॥ ८५॥
विगृह्य पाणियुग्मेन ताम्रपात्रं सुनिर्मलम् ।
जानुभ्यामवनिं गत्वा परिपूर्य जलेन च ॥ ८६॥
करवीरादि कुसुमै रक्तचन्दनमिश्रितैः ।
दूर्वाङ्कुरैरक्षतैश्च निक्षिप्तैः पात्रमध्यतः ॥ ८७॥
दद्यादर्घ्यमनर्घ्याय सवित्रे ध्यानपूर्वकम् ।
उपमौलिं समानीय तत्पात्रं नान्यदृङ्मनाः ॥ ८८॥
प्रतिमन्त्रं नमस्कुर्यादुदयास्तमये रविम् ।
अनया नामसप्तत्या महामन्त्ररहस्यया ॥ ८९॥
एवं कुर्वन्नरो जातु न दरिद्रो न दुःखभाक् ।
व्याधिभिर्मुच्यते घोरैरपिजन्मान्तरार्जितैः ॥ १.९.९०॥
विनौषधैर्विना वैद्यैर्विनापथ्यपरिग्रहैः ।
कालेन निधनं प्राप्तः सूर्यलोके महीयते ॥ ९१॥
इति श्रीस्कादपुराणे काशीखण्डे पूर्वार्द्धे नवमाध्यायान्तर्गतं
सूर्यनामसप्ततिस्तोत्रं समाप्तम् ।
स्कन्दपुराण । काशीखण्ड । पूर्वखण्ड । अध्याय ९/७७-९१॥
skandapurANa . kAshIkhaNDa . pUrvakhaNDa . adhyAya 9/77-91..
Proofread by PSA Easwaran