सूर्यस्तोत्रम् ६
%९
स्फोटककुष्ठमुखार्तिहरो हृद्रोगहरोऽघहरोऽरिहरो हृत् ।
मामकमाशु विशोध्य विवस्वान् पात्वतनुस्त्रितनुः स हि भास्वान् ॥ १॥
ध्येय इनः सविता स च सन्मतिदो गतिदो वरभावः ।
भर्ग इदं वपुरस्य वरेण्यं तिष्ठतु मे हृदयेऽमितपुण्यम् ॥ २॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं सूर्यस्तोत्रं सम्पूर्णम् ।