सूर्यस्तुतिः
(अनुष्टुप्छन्दः)
प्रातः काले च यो ब्रह्मा मध्याह्ने विष्णुरुच्यते ।
सायङ्काले च यो रुद्रस्तं सूर्यं प्रणतोऽस्म्यहम् ॥ १॥
सृष्टिस्थितिलयादीनां कारणं यस्त्रिमूर्तितः ।
जगदात्मेति यः प्रोक्तस्तं सूर्यं प्रणतोऽस्म्यहम् ॥ २॥
अञ्चतीत्यात्मनो लक्ष्म यस्मिन् स्पष्टं विभासते ।
स्वयं प्रकाशरूपोऽयस्तं सूर्यं प्रणतोऽस्म्यहम् ॥ ३॥
बाह्यं बाह्यप्रकाशेन ज्ञानेनैवान्तरं च यः ।
प्रकाशयति विश्वात्मा तं सूर्यं प्रणतोऽस्म्यहम् ॥ ४॥
यं विनैवात्र चैतन्यं न कोऽपि लभते यतः ।
सर्वचैतन्यरूपोऽयस्तं सूर्यं प्रणतोऽस्म्यहम् ॥ ५॥
क्रियाशक्तिस्तथोत्साहश्चोष्णता प्राणधारणं
यस्मात्तेजः प्रेरणा च तं सूर्यं प्रणतोऽस्म्यहम् ॥ ६॥
यस्यैव तपनाद्वृष्टिर्वृष्टेरन्नं ततः प्रजाः ।
प्रत्यक्षं दृश्यते लोके तं सूर्यं प्रणतोऽस्म्यहम् ॥ ७॥
सूयतेऽनेन विश्वं यत्सविता तेन कथ्यते
सर्वसृष्टेः कारणं यस्तं सूर्यं प्रणतोऽस्म्यहम् ॥ ८॥
सूर्याद्भवन्ति भूतानि सूर्येण पालितानि तु ।
यस्मादुपनिषद्ब्रूते तं सूर्यं प्रणतोऽस्म्यहम् ॥ ९॥
यत्प्रभा शान्तिदा रात्रौ चन्द्रे तारागणेषु च ।
निखिलं भाति यद्भासा तं सूर्यं प्रणतोऽस्म्यहम् ॥ १०॥
आदित्योऽसौ यतो ब्रह्म श्रुतिभिर्गीयते मुहुः ।
एकमेवाद्वयं तस्मात्तं सूर्यं प्रणतोऽस्म्यह्यम् ॥ ११॥
मृत्योर्मामृतं यस्तु तमसो ज्योतिरुत्तमम् ।
गमयत्यसतः सच्च तं सूर्यं प्रणतोऽस्म्यहम् ॥ १२॥
य ओमिति स्वरन्नेति स सूर्य इति कथ्यते ।
स्वरूपं यो दिशत्येवं तं सूर्यं प्रणतोऽस्म्यहम् ॥ १३॥
रज्जुसर्पस्य रज्जुर्हि सत्यरूपं यथा तथा ।
विश्वस्य सत्यरूपो यस्तं सूर्यं प्रणतोऽस्म्यहम् ॥ १४॥
यथैकस्मिन्द्विचन्द्रत्वं तथैवाज्ञानयोगतः ।
यस्मिन् जीवेश्वराभास्तं सूर्यं प्रणतोऽस्म्यहम् ॥ १५॥
यथैव व्योग्नि नीलत्वं यथा नीरं मरुस्थले ।
यस्मिन् माया तथा मिथ्या तं सूर्यं प्रणतोऽस्म्यहम् ॥ १६॥
प्रद्योतनाच्च खद्योतो लोकबन्धुस्त्रयी तनुः ।
इत्यादिनामधर्ता यस्तं सूर्यं प्रणतोऽस्म्यहम् ॥ १७॥
मित्राय रवये तुभ्यं सूर्यायामिततेजसे ।
नमो भ्राजिष्णवे तुभ्यं भानवे विश्व हेतवे ॥ १८॥
खगाय पूष्णे भर्गाय स्वर्णगर्भाय ते नमः ।
नमो मरीचये तुभ्यमादित्याय नमो नमः ॥ १९॥
दिवाकराय चार्काय सवित्रे भास्कराय च ।
नमो ज्योतिः स्वरूपाय नमो वै जातवेदसे ॥ २०॥
सहस्ररश्मये तुभ्यं घृणिने च नमो नमः ।
हिरण्मयाय दिव्याय नमो वै विश्वचक्षुषे ॥ २१॥
मार्ताण्डाय नमस्तुभ्यं नमो द्युमणयेऽनिशम् ।
चैतन्याय नमस्तुभ्यं विश्वप्राणाय ते नमः ॥ २२॥
नमस्ते ब्रह्मरूपाय नमस्ते कर्मसाक्षिणे ।
नमोऽज्ञानविनाशाय नमो ज्ञानप्रदाय च ॥ २३॥
पाहि मे पुरतो नित्यं पृष्ठतोऽधस्तथोर्ध्वतः ।
वामतस्सव्यतश्चैव सर्वतः पाहि मे सदा ॥ २४॥
अहं त्वं च त्वमेवाहं ब्रह्मणश्चैकरूपतः ।
आवयोरन्तरं नास्ति चावां सच्चित्सुखात्मकौ ॥ २५॥
आरोग्यमैश्वर्यमपारविद्यां
सद्बुद्धिमेवं च सतां सुसङ्गम् ।
भक्तिं च भुक्तिं च विमुक्तभावं
प्राप्नोति सूर्यस्तुतिपाठतश्च ॥ २६॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचिता सूर्यस्तुतिः सम्पूर्णा ।
काल - रथसप्तमी रचनास्थानं - श्री काशीक्षेत्रं संवत्सरः - १९६२
Proofread by Manish Gavkar