सप्तसप्तिसप्तकम्
(चामर)
ध्वान्त-दन्ति-केसरी हिरण्य-कान्ति-भासुरः
कोटि-रश्मि-भूषितस्तमोहरोऽमितद्युतिः ।
वासरेश्वरो दिवाकरः प्रभाकरः खगो
भास्करः सदैव पातु मां विभावसू रविः ॥ १॥
यक्ष-सिद्ध- किन्नरादि-देवयोनि-सेवितं
तापसैरृषीश्वरैश्च नित्यमेव वन्दितम् ।
तप्त-काञ्चनाभमर्कमादिदैवतं रविं
विश्व-चक्षुषं नमामि सादरं महाद्युतिम् ॥ २॥
भानुना वसुन्धरा पुरैव निमिता, तथा
भास्करेण तेजसा सदैव पालिता मही ।
भूर्विलीनतां प्रयाति काश्यपेयवर्चसा
तं रवि भजाम्यहं सदैव भक्तिचेतसा ॥ ३॥
अंशुमालिने तथा च सप्त-सप्तये नमो
बुद्धिदायकाय शक्तिदायकाय ते नमः ।
अक्षराय दिव्य-चक्षुषेऽमृताय ते नमः
शङ्ख-चक्र-भूषणाय विष्णु-रूपिणे नमः ॥ ४॥
भानवीय-भानुभिर्नभस्तलं प्रकाशते
भास्करस्य तेजसा निसर्ग एष वर्धते ।
भास्करस्य भा सदैव मोदमातनोत्यसौ
भास्करस्य दिव्य-दीप्तये सदा नमो नमः ॥ ५॥
अन्धकार-नाशकोऽसि रोगनाशकस्तथा
भो ममापि नाशयाशु देह-चित्त-दोषताम् ।
पाप-दुःख-दैन्यहारिणं नमामि भास्करं
शक्ति-धैर्य-बुद्धि-मोद-दायकाय ते नमः ॥ ६॥
भास्करं दयार्णवं मरीचिमन्तमीश्वरं
लोकरक्षणाय नित्यमुद्यतं तमोहरम् ।
चक्रवाक-युग्म-योग-कारिणं जगत्पतिं
पद्मिनीमुखारविन्द-कान्तिवर्धनं भजे ॥ ७॥
सप्तसप्ति-सप्तकं सदैव यः पठेन्नरो
भक्तियुक्तचेतसा हृदि स्मरन् दिवाकरम् ।
अज्ञता-तमो विनाश्य तस्य वासरेश्वरो
नीरुजं तथा च तं करोत्यसौ रविः सदा ॥ ८॥
इति श्री आपटीकरविरचितं सप्तसप्तिसप्तकं सम्पूर्णम् ।
Encoded and proofread by Mandar Mali aryavrutta gmail.com