मातृपञ्चकम् सार्थम्
अथ श्री मातृपञ्चकम् ।
मुक्तामणि त्वं नयनं ममेति
राजेति जीवेति चिर सुत त्वम् ।
इत्युक्तवत्यास्तव वाचि मातः
ददाम्यहं तण्डुलमेव शुष्कम् ॥ १॥
अम्बेति तातेति शिवेति तस्मिन्
प्रसूतिकाले यदवोच उच्चैः ।
कृष्णेति गोविन्द हरे मुकुन्द
इति जनन्यै अहो रचितोऽयमञ्जलिः ॥ २॥
आस्तां तावदियं प्रसूतिसमये दुर्वारशूलव्यथा
नैरुच्यं तनुशोषणं मलमयी शय्या च सांवत्सरी ।
एकस्यापि न गर्भभारभरणक्लेशस्य यस्याक्षमः
दातुं निष्कृतिमुन्नतोऽपि तनयस्तस्यै जनन्यै नमः ॥ ३॥
गुरुकुलमुपसृत्य स्वप्नकाले तु दृष्ट्वा
यतिसमुचितवेशं प्रारुदो मां त्वमुच्चैः ।
गुरुकुलमथ सर्वं प्रारुदत्ते समक्षं
सपदि चरणयोस्ते मातरस्तु प्रणामः ॥ ४॥
न दत्तं मातस्ते मरणसमये तोयमपिवा
स्वधा वा नो दत्ता मरणदिवसे श्राद्धविधिना ।
न जप्त्वा मातस्ते मरणसमये तारकमनु-
रकाले सम्प्राप्ते मयि कुरु दयां मातुरतुलाम् ॥ ५॥
Without Sandhi
अथ श्री मातृपञ्चकम् ।
मुक्तामणि त्वं नयनं मम इति राज इति जीव
इति चिर सुत त्वम् ।
इत्युक्तवत्याः तव वाचि मातः ददामि अहं
तण्डुलम् एव शुष्कम् ॥ १॥
अम्बा इति तात इति शिव इति तस्मिन्
प्रसूतिकाले यदवोच उच्चैः ।
कृष्णेति गोविन्द हरे मुकुन्द इति जनन्यै
अहो रचितोऽयं अञ्जलिः ॥ २॥
आस्तं तावद् इयं प्रसूतिसमये दुर्वारशूलव्यथा
नैरुच्यं तनुशोषणं मलमयी शय्या च संवत्सरी ।
एकस्यापि न गर्भभार भरण क्लेशस्य यस्य अक्षमः
दातुं निष्कृतिं उन्नतोऽपि तनयः तस्यै जनन्यै नमः ॥ ३॥
गुरुकुलमुपसृत्य स्वप्नकाले तु दृष्ट्वा
यतिसमुचितवेशं प्रारुदो मां त्वमुच्चैः ।
गुरुकुलमथ सर्वं प्रारुदत् ते समक्षं
सपदि चरणयोस्ते मातरस्तु प्रणामः ॥ ४॥
न दत्तं मातस्ते मरणसमये तोयमपिवा
स्वधा वा नो दत्ता मरणदिवसे श्राद्धविधिना ।
न जप्त्वा मातस्ते मरणसमये तारकमनुः
अकाले सम्प्राप्ते मयि कुरु दयां मातुरतुलाम् ॥ ५ ॥
इति श्रीमत् शङ्कराचार्य विरचितं मातृपञ्चकम् ।
᳚You are the pearl of my eyes, my prince, may you live long, son!᳚
In your mouth, that spoke these words, O Mother!,
I now offer dry grains of rice. (1)
᳚Mother!! Father!! Shiva!!᳚ with these words You cried out
loudly the time of child birth - ᳚KrishNa! Govinda! Hare! Mukunda!᳚.
To that mother I now bow with folded hands offering funerary libations. (2)
At the time of giving birth to me, O Mother!, you suffered from
unbearable pain. You did not speak about the suffering of your
body nor of your painful condition while lying in the bed for
almost a year. For even one of the sufferings that you underwent
during pregnancy, O Mother!, a son is unable to offer atonement.
To that mother I offer my salutations! (3)
When in a dream, you saw me dressed like an ascetic, You cried aloud
and came to the school. The whole school then immediately cried before
you. At your feet, O Mother ! I offer my obeisance! (4)
I did not offer you water at the time of your death, Oh Mother! I did
not even offer the oblations as per funerary rites on the day of your
death ! Nor did I repeat the mantra that delivers one across the ocean of
this world! Alas! I have come at an inappropriate time! O Mother! Bestow
upon me your unequalled compassion. (5)
Encoded and translated by Darshan Bhatt darshanbhatt@hotmail.com