सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः

सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः

अनुक्रमणिका Verses and Topics

१ वन्दनम् verses 1-3 Salutations to Brahman २ साधन-चतुष्टय verses 4-15 The four indispensable qualifications ३ वस्तु-विवेकः verses 16-21 Discrimination ४ नैस्पृह्यम् verses 22-47 Desirelessness ५ असक्तबुद्धिः verses 48-69 Dispassionateness ६ निर्लोभत्वम् verses 70-94 Non-covetousness ७ शमः verses 95-103 Tranquillity ८ मनःप्रसादः verses 104-150 Serenity ९ संन्यासः verses 151-209 sannyAsaH १० श्रद्धा verses 210-217 shraddhA ११ सम्यगाधानम् verses 218-225 Concentration १२ मुमुक्षुत्वम् verses 226-296 mumukShutvam १३ अध्यारोपः verses 297-309 Superimposition १४ ईश्वरः verses 310-317 Ishvara १५ प्रत्यगात्मन् verses 318-329 Pratyagatman १६ ईश्वरः verses 330-333 Ishvara,the cause of the universe १७ पञ्चभूतसृष्टिः verses 334-337 Creation of the Five Elements १८ सूक्ष्मदेहः verses 338-341 The Subtle Body १९ अन्तःकरणम् verses 342-349 The Internal Organ २० विज्ञानमयकोशः verses 350-354 VijnAnamayakosha २१ मनोमयकोशः verses 355-374 Manomayakosha २२ प्राणमयकोशः verses 375-408 Pranamayakosha २३ पञ्चीकरणम् verses 409-416 The quintuplication of the Elements २४ इन्द्रियदेवताः verses 417-429 The deities presiding over the senses २५ जगदुत्पत्तिः verses 430-433 The Creation of the gross Universe २६ चतुर्विधं भूतजातम् verses 434-456 The four different kinds of beings २७ आत्मन् verses 457-509 The nature of the Atman described २८ अज्ञाननिवृत्तिः verses 510-519 Knowledge destroys Ignorance, not Action २९ कुमत खण्डनम् ५२०-६११ verses 520-611 Refutation of the false doctrines ३० शाश्वतलक्षणम् verses 612-617 The eternal nature of the Atman ३१ चित्स्वरूपम् verses 618-622 The intelligent nature of the Atman ३२ आनन्दस्वरूपम् verses 623-634 The blissful nature of the Atman ३३ दुःखप्रदं वस्तु सुखं दातुं न समर्हति ६३५-६७२ verses 635-672 Atman the only way to happiness ३४ अद्वितीयत्वम् verses 673-702 The non-dual nature of the Atman ३५ तत्त्वम्पदयोरर्थः verses 703-708 The meaning of the words 'That' and 'Thou' ३६ तत्पदस्य सम्यगर्थः verses 709-732 The direct meaning of the word 'That' ३७ वाच्यार्थानुपपत्तिः verses 733-759 The indirect meaning ascertained ३८ अर्थसमन्वयः verses 760-794 The unified meaning ३९ अधिकारः verses 795-818 The fitness of the aspirant ४० सविकल्पः-निर्विकल्पः समाधिः verses 819-826 Samadhi, absolute and relative ४१ समाधिलक्षणम् verses 827-865 The internal nature of samadhi ४२ श्रुत्यवगम्यं तथ्यम् verses 866-898 Deep concentration blended with the sruti ४३ समाधिरकल्पकः verses 899-908 Nirvikalpa samadhi, absolute concentration ४४ योगः verses 909-921 Yoga, or union with Brahman ४५ योगविघ्नाः verses 922-923 The obstacles to yoga ४६ स्वानुभूतिः verses 924-937 Direct experience gained by right knowledge ४७ सप्तभूमिकाः verses 938-948 The seven states of the mind ४८ ज्ञानलक्षणम् verses 949-978 The nature of knowledge ४९ विदेहमुक्तिः verses 978-1006 Videhamukti, incorporeal liberation

सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः ग्रन्थः

verses 1-3 Salutation to Brahman

॥ १ ॥ वन्दनम् ॥ अखण्डानन्दसम्बोधो वन्दनाद्यस्य जायते । गोविन्दं तमहं वन्दे चिदानन्दतनुं गुरुम् ॥ १॥ अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् । आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥ २॥ यदालम्बो दरं हन्ति सतां प्रत्यूहसम्भवम् । तदालम्बे दयालम्बं लम्बोदरपदाम्बुजम् ॥ ३॥ (अर्थतो।प्यद्वयानन्दमतीतद्वैतलक्षणम् । आत्मारामहं वन्दे श्रीगुरुं शिवविग्रहम् ॥)

verses 4-15 The four indispensable qualifications

॥ २ ॥ साधन-चतुष्टय ॥ वेदान्तशास्त्रसिद्धान्तसारसङ्ग्रह उच्यते । प्रेक्षावतां मुमुक्षूणां सुखबोधोपपत्तये ॥ ४॥ अस्य शास्त्रानुसारित्वादनुबन्धचतुष्टयम् । यदेव मूलं शास्त्रस्य निर्दिष्टं तदिहोच्यते ॥ ५॥ अधिकारी च विषयः सम्बन्धश्च प्रयोजनम् । शास्त्रारम्भफलं प्राहुरनुबन्धचतुष्टयम् ॥ ६॥ चतुर्भिः साधनैः सम्यक्सम्पन्नो युक्तिदक्षिणः । मेधावी पुरुषो विद्वानधिकार्यत्र सम्मतः ॥ ७॥ विषयः शुद्धचैतन्यं जीवब्रह्मैक्यलक्षणम् । यत्रैव दृश्यते सर्ववेदान्तानां समन्वयः ॥ ८॥ एतदैक्यप्रमेयस्य प्रमाणस्यापि च श्रुतेः । सम्बन्धः कथ्यते सद्भिर्बोध्यबोधकलक्षणः ॥ ९॥ ब्रह्मात्मैकत्वविज्ञानं सन्तः प्राहुः प्रयोजनम् । येन निःशेषसंसारबन्धात्सद्यः प्रमुच्यते ॥ १०॥ प्रयोजनं सम्प्रवृत्तेः कारणं फललक्षणम् । प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ॥ ११॥ साधनचतुष्टयसम्पत्तिर्यस्यास्ति धीमतः पुंसः । तस्यैवैतत्फलसंसिद्धिर्नान्यस्य किञ्चिदूनस्य ॥ १२॥ चत्वारि साधनान्यत्र वदन्ति परमर्षयः । मुक्तिर्येषां तु सद्भावे नाभावे सिध्यति ध्रुवम् ॥ १३॥ आद्यं नित्यानित्यवस्तुविवेकः साधनं मतम् । इहामुत्रार्थफलभोगविरागो द्वितीयकम् ॥ १४॥ शमादिषट्कसम्पत्तिस्तृतीयं साधनं मतम् । तुरीयं तु मुमुक्षुत्वं साधनं शास्त्रसम्मतम् ॥ १५॥

verses 16-21 Discrimination

॥ ३ ॥ वस्तु-विवेकः ॥ ब्रह्मैव नित्यमन्यत्तु ह्यनित्यमिति वेदनम् । सोऽयं नित्यानित्यवस्तुविवेक इति कथ्यते ॥ १६॥ मृदादिकारणं नित्यं त्रिषु कालेषु दर्शनात् । घटाद्यनित्यं तत्कार्यं यतस्तन्नाश ईक्ष्यते ॥ १७॥ तथैवैतज्जगत्सर्वमनित्यं ब्रह्मकार्यतः । तत्कारणं परं ब्रह्म भवेन्नित्यं मृदादिवत् ॥ १८॥ सर्गं वक्त्यस्य तस्माद्वा एतस्मादित्यपि श्रुतिः । सकाशाद्ब्रह्मणस्तस्मादनित्यत्वे न संशयः ॥ १९॥ सर्वस्यानित्यत्वे सावयवत्वेन सर्वतः सिद्धे । वैकुण्ठादिषु नित्यत्वमतिर्भ्रम एव मूढबुद्धीनाम् ॥ २०॥ अनित्यत्वं च नित्यत्वमेवं यच्छ्रुतियुक्तिभिः । विवेचनं नित्यानित्यविवेक इति कथ्यते ॥ २१॥

verses 22-47 Desirelessness

॥ ४ ॥ नैस्पृह्यम् ॥ ऐहिकामुष्मिकार्थेषु ह्यनित्यत्वेन निश्चयात् । नैःस्पृह्यं तुच्छबुद्ध्या यत्तद्वैराग्यमितीर्यते ॥ २२॥ नित्यानित्यपदार्थविवेकात्पुरुषस्य जायते सद्यः । स्रक्चन्दनवनितादौ सर्वत्रानित्यवस्तुनि विरक्तिः ॥ २३॥ काकस्यविष्ठावदसह्यबुद्धिर्भोग्येषु सा तीव्रविरक्तिरिष्यते । विरक्तितीव्रत्वनिदानमाहुर्भोग्येषु दोषेक्षणमेव सन्तः ॥ २४॥ प्रदृश्यते वस्तुनि यत्र दोषो न तत्र पुंसोऽस्ति पुनः प्रवृत्तिः । अन्तर्महारोगवतीं विजानन्को नाम वेश्यामपि रूपिणीं व्रजेत् ॥ २५॥ अत्रापि चान्यत्र च विद्यमानपदार्थसम्मर्शनमेव कार्यम् । यथाप्रकारार्थगुणाभिमर्शनं सन्दर्शयत्येव तदीयदोषम् ॥ २६॥ कुक्षौ स्वमातुर्मलमूत्रमध्ये स्थितिं तदा विट्कृमिदंशनं च । तदीयकौक्षेयकवह्निदाहं विचार्य को वा विरतिं न याति ॥ २७॥ स्वकीयविण्मूत्रविमज्जनं तच्चोत्तानगत्या शयनं तदा यत् । बालग्रहाद्याहतिभाक्च शैशवं विचार्य को वा विरतिं न याति ॥ २८॥ स्वीयैः परैस्ताडनमज्ञभावमत्यन्तचापल्यमसत्क्रियां च । कुमारभावे प्रतिषिद्धवृत्तिं विचार्य को वा विरतिं न याति ॥ २९॥ मदोद्धतिं मान्यतिरस्कृतिं च कामातुरत्वं समयातिलङ्घनम् । तां तां युवत्योदितदुष्टचेष्टां विचार्य को वा विरतिं न याति ॥ ३०॥ विरूपतां सर्वजनादवज्ञां सर्वत्र दैन्यं निजबुद्धिहैन्यम् । वृद्धत्वसम्भावितदुर्दशां तां विचार्य को वा विरतिं न याति ॥ ३१॥ पित्तज्वरार्शःक्षयगुल्मशूलश्लेष्मादिरोगोदिततीव्रदुःखम् । दुर्गन्धमस्वास्थ्यमनूनचिन्तां विचार्य को वा विरतिं न याति ॥ ३२॥ यमावलोकोदितभीतिकम्पमर्मव्यथोच्छ्वासगतीश्च वेदनाम् । प्राणप्रयाणे परिदृश्यमानां विचार्य को वा विरतिं न याति ॥ ३३॥ अङ्गारनद्यां तपने च कुम्भीपाकेऽपि वीच्यामसिपत्रकानने । दूतैर्यमस्य क्रियमाणबाधां विचार्य को वा विरतिं न याति ॥ ३४॥ पुण्यक्षये पुण्यकृतो नभःस्थैर्निपात्यमानान्शिथिलीकृताङ्गान् । नक्षत्ररूपेण दिवश्च्युतांस्तान्विचार्य को वा विरतिं न याति ॥ ३५॥ वाय्वर्कवह्नीन्द्रमुखान्सुरेन्द्रानीशोग्रभीत्या ग्रथितान्तरङ्गान् । विपक्षलोकैः परिदूयमानान्विचार्य को वा विरतिं न याति ॥ ३६॥ श्रुत्या निरुक्तं सुखतारतम्यं ब्रह्मान्तमारभ्य महीमहेशम् । औपाधिकं तत्तु न वास्तवं चेदालोच्य को वा विरतिं न याति ॥ ३७॥ सालोक्यसामीप्यसरूपतादिभेदस्तु सत्कर्मविशेषसिद्धः । न कर्मसिद्धस्य तु नित्यतेति विचार्य को वा विरतिं न याति ॥ ३८॥ यत्रास्ति लोके गतितारतम्यमुच्चावचत्वान्वितमत्र तत्कृतम् । यथेह तद्वत्खलु दुःखमस्तीत्यालोच्य को वा विरतिं न याति ॥ ३९॥ को नाम लोके पुरुषो विवेकी विनश्वरे तुच्छसुखे गृहादौ । कुर्याद्रतिं नित्यमवेक्षमाणो वृथैव मोहान्म्रियमाणजन्तून् ॥ ४०॥ सुखं किमस्त्यत्र विचार्यमाणे गृहेऽपि वा योषिति वा पदार्थे । मायातमोऽन्धीकृतचक्षुषो ये त एव मुह्यन्ति विवेकशून्याः ॥ ४१॥ अविचारितरमणीयं सर्वमुदुम्बरफलोपमं भोग्यम् । अज्ञानामुपभोग्यं न तु तज्ज्ञानां योषिति वा पदार्थे ॥ ४२॥ गतेऽपि तोये सुषिरं कुलीरो हातुं ह्यशक्तो म्रियते विमोहात् । यथा तथा गेहसुखानुषक्तो विनाशमायाति नरो भ्रमेण ॥ ४३॥ कोशक्रिमिस्तन्तुभिरात्मदेहमावेष्ट्य चावेष्ट्य च गुप्तिमिच्छन् । स्वयं विनिर्गन्तुमशक्त एव संस्ततस्तदन्ते म्रियते च लग्नः ॥ ४४॥ यथा तथा पुत्रकलत्रमित्रस्नेहानुबन्धैर्ग्रथितो गृहस्थः । कदापि वा तान्परिमुच्य गेहाद्गन्तुं न शक्तो म्रियते मुधैव ॥ ४५॥ कारागृहस्यास्य च को विशेषः प्रदृश्यते साधु विचार्यमाणे । मुक्तेः प्रतीपत्वमिहापि पुंसः कान्तासुखाभ्युत्थितमोहपाशैः ॥ ४६॥ गृहस्पृहा पादनिबद्धश‍ृङ्खला कान्तासुताशा पटुकण्ठपाशः । शीर्षे पतद्भूर्यशनिर्हि साक्षात्प्राणान्तहेतुः प्रबला धनाशा ॥ ४७॥

verses 48-69 Dispassionateness

॥ ५ ॥ असक्तबुद्धिः ॥ आशापाशशतेन पाशितपदो नोत्थातुमेव क्षमः कामक्रोधमदादिभिः प्रतिभटैः संरक्ष्यमाणोऽनिशम् । सम्मोहावरणेन गोपनवतः संसारकारागृहा- न्निर्गन्तुं त्रिविधेषणापरवशः कः शक्नुयाद्रागिषु ॥ ४८॥ कामान्धकारेण निरुद्धदृष्टिर्मुह्यत्यसत्यप्यबलास्वरूपे । न ह्यन्धदृष्टेरसतः सतो वा सुखत्वदुःखत्वविचारणास्ति ॥ ४९॥ श्लेष्मोद्गारि मुखं स्रवन्मलवती नासाश्रुमल्लोचनं स्वेदस्रावि मलाभिपूर्णमभितो दुर्गन्धदुष्टं वपुः । अन्यद्वक्तुमशक्यमेव मनसा मन्तुं क्वचिन्नार्हति स्त्रीरूपं कथमीदृशं सुमनसां पात्रीभवेन्नेत्रयोः ॥ ५०॥ दूरादवेक्ष्याग्निशिखां पतङ्गो रम्यत्वबुद्ध्या विनिपत्य नश्यति । यथा तथा नष्टदृगेष सूक्ष्मं कथं निरीक्षेत विमुक्तिमार्गम् ॥ ५१॥ कामेन कान्तां परिगृह्य तद्वज्जनोऽप्ययं नश्यति नष्टदृष्टिः । मांसास्थिमज्जामलमूत्रपात्रं स्त्रियं स्वयं रम्यतयैव पश्यति ॥ ५२॥ काम एव यमः साक्षात्कान्ता वैतरणी नदी । विवेकिनां मुमुक्षूणां निलयस्तु यमालयः ॥ ५३॥ यमालये वापि गृहेऽपि नो नृणां तापत्रयक्लेशनिवृत्तिरस्ति । किञ्चित्समालोक्य तु तद्विरामं सुखात्मना पश्यति मूढलोकः ॥ ५४॥ यमस्य कामस्य च तारतम्यं विचार्यमाणे महदस्ति लोके । हितं करोत्यस्य यमोऽप्रियः सन्कामस्त्वनर्थं कुरुते प्रियः सन् ॥ ५५॥ यमोऽसतामेव करोत्यनर्थं सतां तु सौख्यं कुरुते हितः सन् । कामः सतामेव गतिं निरुन्धन्करोत्यनर्थं ह्यसतां तु का कथा ॥ ५६॥ विश्वस्य वृद्धिं स्वयमेव काङ्क्षन्प्रवर्तकं कामिजनं ससर्ज । तेनैव लोकः परिमुह्यमानः प्रवर्धते चन्द्रमसेव चाब्धिः ॥ ५७॥ कामो नाम महाञ्जगद्भ्रमयिता स्थित्वान्तरङ्गे स्वयं स्त्रीपुंसावितरेतराङ्गकगुणैर्हासैश्च भावैः स्फुटम् । अन्योन्यं परिमोह्य नैजतमसा प्रेमानुबन्धेन तौ बद्ध्वा भ्रामयति प्रपञ्चरचनां संवर्धयन्ब्रह्महा ॥ ५८॥ अतोऽन्तरङ्गस्थितकामवेगाद्भोग्ये प्रवृत्तिः स्वत एव सिद्धा । सर्वस्य जन्तोर्ध्रुवमन्यथा चेदबोधितार्थेषु कथं प्रवृत्तिः ॥ ५९॥ तेनैव सर्वजन्तूनां कामना बलवत्तरा । जीर्यत्यपि च देहेऽस्मिन्कामना नैव जीर्यते ॥ ६०॥ अवेक्ष्य विषये दोषं बुद्धियुक्तो विचक्षणः । कामपाशेन यो मुक्तः स मुक्तेः पथि गोचरः ॥ ६१॥ कामस्य विजयोपायं सूक्ष्मं वक्ष्याम्यहं सताम् । सङ्कल्पस्य परित्याग उपायः सुलभो मतः ॥ ६२॥ श्रुते दृष्टेऽपि वा भोग्ये यस्मिन्कस्मिंश्च वस्तुनि । समीचीनत्वधीत्यागात्कामो नोदेति कर्हिचित् ॥ ६३॥ कामस्य बीजं सङ्कल्पः सङ्कल्पादेव जायते । बीजे नष्टेऽङ्कुर इव तस्मिन्नष्टे विनश्यति ॥ ६४॥ न कोऽपि सम्यक्त्वधिया विनैव भोग्यं नरः कामयितुं समर्थः । यतस्ततः कामजयेच्छुरेतां सम्यक्त्वबुद्धिं विषये निहन्यात् ॥ ६५॥ भोग्ये नरः कामजयेच्छुरेतां सुखत्वबुद्धिं विषये निहन्यात् । यावत्सुखत्वभ्रमधीः पदार्थे तावन्न जेतुं प्रभवेद्धि कामम् ॥ ६६॥ सङ्कल्पानुदये हेतुर्यथाभूतार्थदर्शनम् । अनर्थचिन्तनं चाभ्यां नावकाशोऽस्य विद्यते ॥ ६७॥ रत्ने यदि शिलाबुद्धिर्जायते वा भयं ततः । समीचीनत्वधीर्नैति नोपादेयत्वधीरपि ॥ ६८॥ यतार्थदर्शनं वस्तुन्यनर्थस्यापि चिन्तनम् । सङ्कल्पस्यापि कामस्य तद्वधोपाय इष्यते ॥ ६९॥

verses 70-94 Non-covetousness

॥ ६ ॥ निर्लोभत्वम् ॥ धनं भयनिबन्धनं सततदुःखसंवर्धनं प्रचण्डतरकर्दनं स्फुटितबन्धुसंवर्धनम् । विशिष्टगुणबाधनं कृपणधीसमाराधनं न मुक्तिगतिसाधनं भवति नापि हृच्छोधनम् ॥ ७०॥ राज्ञोभयं चोरमयं प्रमादाद्भयं तथा ज्ञातिभयं च वस्तुतः । धनं भयग्रस्तमनर्थमूलं यतः सतां नैव सुखाय कल्पते ॥ ७१॥ आर्जने रक्षणे दाने व्यये वापि च वस्तुतः । दुःखमेव सदा नॄणां न धनं सुख साधनम् ॥ ७२॥ सतामपि पदार्थस्य लाभाल्लोभः प्रवर्धते । विवेको लुप्यते लोभात्तस्मिंल्लुप्ते विनश्यति ॥ ७३॥ दहत्यलाभे निःस्वत्वं लाभे लोभो दहत्यमुम् । तस्मात्सन्तापकं वित्तं कस्य सौख्यं प्रयच्छति ॥ ७४॥ भोगेन मत्तता जन्तोर्दानेन पुनरुद्भवः । वृथैवोभयथा वित्तं नास्त्येव गतिरन्यथा ॥ ७५॥ धनेन मदवृद्धिः स्यान्मदेन स्मृतिनाशनम् । स्मृतिनाशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ७६॥ सुखयति धनमेवेत्यन्तराशापिशाच्या दृढतरमुपगूढो मूढलोको जडात्मा । निवसति तदुपान्ते सन्ततं प्रेक्षमाणो व्रजति तदपि पश्चात्प्राणमेतस्य हृत्वा ॥ ७७॥ सम्पन्नोऽन्धवदेव किञ्चिदपरं नो वीक्षते चक्षुषा सद्भिर्वर्जितमार्ग एव चरति प्रोत्साहितो बालिशैः । तस्मिन्नेव मुहुः स्खलन्प्रतिपदं गत्वान्धकूपे पत- त्यस्यान्धत्वनिवर्तकौषधमिदं दारिद्र्यमेवाञ्जनम् ॥ ७८॥ लोभः क्रोधश्च दम्भश्च मदो मत्सर एव च । वर्धते वित्तसम्प्राप्त्या कथं तच्चित्तशोधनम् ॥ ७९॥ अलाभाद्विगुणं दुःखं वित्तस्य व्ययसम्भवे । ततोऽपि त्रिगुणं दुःखं दुर्व्यये विदुषामपि ॥ ८०॥ नित्याहितेन वित्तेन भयचिन्तानपायिना । चित्तस्वास्थ्यं कुतो जन्तोर्गृहस्थेनाहिना यथा ॥ ८१॥ कान्तारे विजने वने जनपदे सेतौ निरीतौ च वा चोरैर्वापि तथेतरैर्नरवरैर्युक्तो वियुक्तोऽपि वा । निःस्वः स्वस्थतया सुखेन वसति ह्याद्रीयमाणो जनैः क्लिश्नात्येव धनी सदाकुलमतिर्भीतश्च पुत्रादपि ॥ ८२॥ तस्मादनर्थस्य निदानमर्थः पुमर्थसिद्धिर्न भवत्यनेन । ततो वनान्ते निवसन्ति सन्तः संन्यस्य सर्वं प्रतिकूलमर्थम् ॥ ८३॥ श्रद्धाभक्तिमतीं सतीं गुणवतीं पुत्राञ्श्रुतान्सम्मता- नक्षय्यं वसुधानुभोगविभवैः श्रीसुन्दरं मन्दिरम् । सर्वं नश्वरमित्यवेत्य कवयः श्रुत्युक्तिभिर्युक्तिभिः संन्यस्यन्त्यपरे तु तत्सुखमिति भ्राम्यन्ति दुःखार्णवे ॥ ८४॥ सुखमिति मलराशौ ये रमन्तेऽत्र गेहे क्रिमय इव कलत्रक्षेत्रपुत्रानुषक्त्या । सुरपद इव तेषां नैव मोक्षप्रसङ्ग- स्त्वपि तु निरयगर्भावासदुःखप्रवाहः ॥ ८५॥ येषामाशा निराशा स्याद्दारापत्यधनादिषु । तेषां सिध्यति नान्येषां मोक्षाशाभिमुखी गतिः ॥ ८६॥ सत्कर्मक्षतपाप्मनां श्रुतिमतां सिद्धात्मनां धीमताम् var शुद्धात्मां नित्यानित्यपदार्थशोधनमिदं युक्त्या मुहुः कुर्वताम् । तस्मादुत्थमहाविरक्त्यसिमतां मोक्षैककाङ्क्षावतां धन्यानां सुलभं स्त्रियादिविषयेष्वाशालताच्छेदनम् ॥ ८७॥ संसारमृत्योर्बलिनः प्रवेष्टुं द्वाराणि तु त्रीणि महान्ति लोके । कान्ता च जिह्वा कनकं च तानि रुणद्धि यस्तस्य भयं न मृत्योः ॥ ८८॥ मुक्तिश्रीनगरस्य दुर्जयतरं द्वारं यदस्त्यादिमं तस्य द्वे अररे धनं च युवती ताभ्यां पिनद्धं दृढम् ॥ कामाख्यार्गलदारुणा बलवता द्वारं तदेतत्त्रयं धीरो यस्तु भिनत्ति सोऽर्हति सुखं भोक्तुं विमुक्तिश्रियः ॥ ८९॥ आरूढस्य विवेकाश्वं तीव्रवैराग्यखड्गिनः । तितिक्षावर्मयुक्तस्य प्रतियोगी न दृश्यते ॥ ९०॥ विवेकजां तीव्रविरक्तिमेव मुक्तेर्निदानं निगदन्ति सन्तः । तस्माद्विवेकी विरतिं मुमुक्षुः सम्पादयेत्तां प्रथमं प्रयत्नात् ॥ ९१॥ पुमानजातनिर्वेदो देहबन्धं जिहासितुम् । न हि शक्नोति निर्वेदो बन्धभेदो महानसौ ॥ ९२॥ वैराग्यरहिता एव यमालय इवालये । क्लिश्नन्ति त्रिविधैस्तापैर्मोहिता अपि पण्डिताः ॥ ९३॥ शमो दमस्तितिक्षोपरतिः श्रद्धा ततः परम् । समाधानमिति प्रोक्तं षडेवैते शमादयः ॥ ९४॥

verses 95-103 Tranquillity

॥ ७ ॥ शमः ॥ एकवृत्त्यैव मनसः स्वलक्ष्ये नियतस्थितिः । शम इत्युच्यते सद्भिः शमलक्षणवेदिभिः ॥ ९५॥ उत्तमो मध्यमश्चैव जघन्य इति च त्रिधा । निरूपितो विपश्चिद्भिः तत्तल्लक्षणवेदिभिः ॥ ९६॥ स्वविकारं परित्यज्य वस्तुमात्रतया स्थितिः । मनसः सोत्तमा शान्तिर्ब्रह्मनिर्वाणलक्षणा ॥ ९७॥ प्रत्यक्प्रत्ययसन्तानप्रवाहकरणं धियः । यदेषा मध्यमा शान्तिः शुद्धसत्त्वैकलक्षणा ॥ ९८॥ विषयव्यापृतिं त्यक्त्वा श्रवणैकमनस्स्थितिः । मनसश्चेतरा शान्तिर्मिश्रसत्त्वैकलक्षणा ॥ ९९॥ प्राच्योदीच्याङ्गसद्भावे शमः सिध्यति नान्यथा । तीव्रा विरक्तिः प्राच्याङ्गमुदीच्याङ्गं दमादयः ॥ १००॥ कामः क्रोधश्च लोभश्च मदो मोहश्च मत्सरः । न जिताः षडिमे येन तस्य शान्तिर्न सिध्यति ॥ १०१॥ शब्दादिविषयेभ्यो यो विषवन्न निवर्तते । तीव्रमोक्षेच्छया भिक्षोस्तस्य शान्तिर्न सिध्यति ॥ १०२॥ येन नाराधितो देवो यस्य नो गुर्वनुग्रहः । न वश्यं हृदयं यस्य तस्य शान्तिर्न सिध्यति ॥ १०३॥

verses 104-150 Serenity

॥ ८ ॥ मनःप्रसादः ॥ मनःप्रसादसिद्ध्यर्थं साधनं श्रूयतां बुधैः । मनःप्रसादो यत्सत्त्वे यदभावे न सिध्यति ॥ १०४॥ ब्रह्मचर्यमहिंसा च दया भूतेष्ववक्रता । विषयेष्वतिवैतृष्ण्यं शौचं दम्भविवर्जनम् ॥ १०५॥ सत्यं निर्ममता स्थैर्यमभिमानविवर्जनम् । ईश्वरध्यानपरता ब्रह्मविद्भिः सहस्थितिः ॥ १०६॥ ज्ञानशास्त्रैकपरता समता सुखदुःखयोः । मानानासक्तिरेकान्तशीलता च मुमुक्षुता ॥ १०७॥ यस्यैतद्विद्यते सर्वं तस्य चित्तं प्रसीदति । न त्वेतद्धर्मशून्यस्य प्रकारान्तरकोटिभिः ॥ १०८॥ स्मरणं दर्शनं स्त्रीणां गुणकर्मानुकीर्तनम् । समीचीनत्वधीस्तासु प्रीतिः सम्भाषणं मिथः ॥ १०९॥ सहवासश्च संसर्गोऽष्टधा मैथुनं विदुः । एतद्विलक्षणं ब्रह्मचर्यं चित्तप्रसादकम् ॥ ११०॥ अहिंसा वाङ्मनःकायैः प्राणिमात्राप्रपीडनम् । स्वात्मवत्सर्वभूतेषु कायेन मनसा गिरा ॥ १११॥ अनुकम्पा दया सैव प्रोक्ता वेदान्तवेदिभिः । करणत्रितयेष्वेकरूपताऽवक्रता मता ॥ ११२॥ ब्रह्मादिस्थावरान्तेषु वैराग्यं विषयेष्वनु । यथैव काकविष्ठायां वैराग्यं तद्धि निर्मलम् ॥ ११३॥ बाह्यमाभ्यन्तरं चेति द्विविधं शौचमुच्यते । मृज्जलाभ्यां कृतं शौचं बाह्यं शारीरकं स्मृतम् ॥ ११४॥ अज्ञानदूरीकरणं मानसं शौचमान्तरम् । अन्तःशौचे स्थिते सम्यग्बाह्यं नावश्यकं नृणाम् ॥ ११५॥ ध्यानपूजादिकं लोके द्रष्टर्येव करोति यः । पारमार्थिकधीहीनः स दम्भाचार उच्यते ॥ ११६॥ पुंसस्तथानाचरणमदम्भित्वं विदुर्बुधाः । यत्स्वेन दृष्टं सम्यक्च श्रुतं तस्यैव भाषणम् ॥ ११७॥ सत्यमित्युच्यते ब्रह्म सत्यमित्यपिभाषणम् । देहादिषु स्वकीयत्वदृढबुद्धिविसर्जनम् ॥ ११८॥ निर्ममत्वं स्मृतं येन कैवल्यं लभते बुधः । गुरुवेदान्तवचनैर्निश्चितार्थे दृढस्थितिः ॥ ११९॥ तदेकवृत्त्या तत्स्थैर्यं नैश्चल्यं न तु वर्ष्मणः । विद्यैश्वर्यतपोरूपकुलवर्णाश्रमादिभिः ॥ १२०॥ सञ्जाताहङ्कृतित्यागस्त्वभिमानविसर्जनम् । त्रिभिश्च करणैः सम्यघित्वा वैषयिकीं क्रियाम् ॥ १२१॥ स्वात्मैकचिन्तनं यत्तदीश्वरध्यानमीरितम् । छायेव सर्वदा वासो ब्रह्मविद्भिः सहस्थितिः ॥ १२२॥ यद्यदुक्तं ज्ञानशास्त्रे श्रवणादिकमेषु यः । निरतः कर्मधीहीनो ज्ञाननिष्ठः स एव हि ॥ १२३॥ धनकान्ताज्वरादीनां प्राप्तकाले सुखादिभिः । विकारहीनतैव स्यात्सुखदुःखसमानता ॥ १२४॥ श्रेष्ठं पूज्यं विदित्वा मां मानयन्तु जना भुवि । इत्यासक्त्या विहीनत्वं मानानासक्तिरुच्यते ॥ १२५॥ सच्चिन्तनस्य सम्बाधो विघ्नोऽयं निर्जने ततः । स्थेयमित्येक एवास्ति चेत्सैवैकान्तशीलता ॥ १२६॥ संसारबन्धनिर्मुक्तिः कदा झटिति मे भवेत् । इति या सुदृढा बुद्धिरीरिता सा मुमुक्षुता ॥ १२७॥ ब्रह्मचर्यादिभिर्धर्मैर्बुद्धेर्दोषनिवृत्तये । दण्डनं दम इत्याहुर्दमशब्दार्थकोविदाः ॥ १२८॥ तत्तद्वृत्तिनिरोधेन बाह्येन्द्रियविनिग्रहः । योगिनो दम इत्याहुर्मनसः शान्तिसाधनम् ॥ १२९॥ इन्द्रियेष्विन्द्रियार्थेषु प्रवृत्तेषु यदृच्छया । अनुधावति तान्येव मनो वायुमिवानलः ॥ १३०॥ इन्द्रियेषु निरुद्धेषु त्यक्त्वा वेगं मनः स्वयम् । सत्त्वभावमुपादत्ते प्रसादस्तेन जायते ॥ प्रसन्ने सति चित्तेऽस्य मुक्तिः सिध्यति नान्यथा ॥ १३१॥ मनःप्रसादस्य निदानमेव निरोधनं यत्सकलेन्द्रियाणाम् । बाह्येन्द्रिये साधु निरुध्यमाने बाह्यार्थभोगो मनसो वियुज्यते ॥ १३२॥ तेन स्वदौष्ट्यं परिमुच्य चित्तं शनैः शनैः शान्तिमुपाददाति । चित्तस्य बाह्यार्थविमोक्षमेव मोक्षं विदुर्मोक्षणलक्षणज्ञाः ॥ १३३॥ दमं विना साधु मनःप्रसाद- हेतुं न विद्मः सुकरं मुमुक्षोः । दमेन चित्तं निजदोषजातं विसृज्य शान्तिं समुपैति शीघ्रम् ॥ १३४॥ प्राणायामाद्भवति मनसो निश्चलत्वं प्रसादो यस्याप्यस्य प्रतिनियतदिग्देशकालाद्यवेक्ष्य । सम्यग्दृष्ट्या क्वचिदपि तया नो दमो हन्यते तत् कुर्याद्धीमान्दममनलसश्चित्तशान्त्यै प्रयत्नात् ॥ १३५॥ सर्वेन्द्रियाणां गतिनिग्रहेण भोग्येषु दोषाद्यवमर्शनेन । ईशप्रसादाच्च गुरोः प्रसादा- च्छान्तिं समायात्यचिरेण चित्तम् ॥ १३६॥ आध्यात्मिकादि यद्दुःखं प्राप्तं प्रारब्धवेगतः । अचिन्तया तत्सहनं तितिक्षेति निगद्यते ॥ १३७॥ रक्षा तितिक्षासदृशी मुमुक्षो- र्न विद्यतेऽसौ पविना न भिद्यते । यामेव धीराः कवचीव विघ्ना- var धृत्वा न्सर्वांस्तृणीकृत्य जयन्ति मायाम् ॥ १३८॥ क्षमावतामेव हि योगसिद्धिः स्वाराज्यलक्ष्मीसुखभोगसिद्धिः । क्षमाविहीना निपतन्ति विघ्नै- र्वातैर्हता पर्णचया इव द्रुमात् ॥ १३९॥ तितिक्षया तपोदानं यज्ञस्तीर्थं व्रतं श्रुतम् । भूतिः स्वर्गोऽपवर्गश्च प्राप्यते तत्तदर्थिभिः ॥ १४०॥ ब्रह्मचर्यमहिंसा च साधूनामप्यगर्हणम् । पराक्षेपादिसहनं तितिक्षोरेव सिध्यति ॥ १४१॥ साधनेष्वपि सर्वेषु तितिक्षोत्तमसाधनम् । यत्र विघ्नाः पलायन्ते दैविका अपि भौतिकाः ॥ १४२॥ तितिक्षोरेव विघ्नेभ्यस्त्वनिवर्तितचेतसः । सिध्यन्ति सिद्धयः सर्वा अणिमाद्याः समृद्धयः ॥ १४३॥ तस्मान्मुमुक्षोरधिका तितिक्षा सम्पादनीयेप्सितकार्यसिद्ध्यै । तीव्रा मुमुक्षा च महत्युपेक्षा चोभे तितिक्षासहकारिकारणम् ॥ १४४॥ तत्तत्कालसमागतामयततेः शान्त्यै प्रवृत्तो यदि स्यात्तत्तत्परिहारकौषधरतस्तच्चिन्तने तत्परः । तद्भिक्षुः श्रवणादिधर्मरहितो भूत्वा मृतश्चेत्ततः किं सिद्धं फलमाप्नुयादुभयथा भ्रष्टो भवेत्स्वार्थतः ॥ १४५॥ योगमभ्यस्यतो भिक्षोर्योगाच्चलितचेतसः । प्राप्य पुण्यकृतांलोकानित्यादि प्राह केशवः ॥ १४६॥ न तु कृत्वैव संन्यासं तूष्णीमेव मृतस्य हि । पुण्यलोकगतिं ब्रूते भगवान्न्यासमात्रतः ॥ १४७॥ न च संन्यसनादेव सिद्धिं समधिगच्छति । इत्यनुष्ठेयसन्त्यागात्सिद्ध्यभावमुवाच च ॥ १४८॥ तस्मात्तितिक्षया सोढ्वा तत्तद्दुःखमुपागतम् । कुर्याच्छक्त्यनुरूपेण श्रवणादि शनैः शनैः ॥ १४९॥ प्रयोजनं तितिक्षायाः साधितायाः प्रयत्नतः । प्राप्तदुःखासहिष्णुत्वे न किञ्चिदपि दृश्यते ॥ १५०॥

verses 151-209 sa.nnyAsaH

॥ ९ ॥ संन्यासः ॥ साधनत्वेन दृष्टानां सर्वेषामपि कर्मणाम् । विधिना यः परित्यागः स संन्यासः सतां मतः ॥ १५१॥ उपरमयति कर्माणीत्युपरतिशब्देन कथ्यते न्यासः । न्यासेन हि सर्वेषां श्रुत्या प्रोक्तो विकर्मणां त्यागः ॥ १५२॥ कर्मणा साध्यमानस्यानित्यत्वं श्रूयते यतः । कर्मणानेन किं नित्यफलेप्सोः परमार्थिनः ॥ १५३॥ उत्पाद्यमाप्यं संस्कार्यं विकार्यं परिगण्यते । चतुर्विधं कर्मसाध्यं फलं नान्यदितः परम् ॥ १५४॥ नैतदन्यतरं ब्रह्म कदा भवितुमर्हति । स्वतःसिद्धं सर्वदाप्तं शुद्धं निर्मलमक्रियम् ॥ १५५॥ न चास्य कश्चिज्जनितेत्यागमेन निषिध्यते । कारणं ब्रह्मणस्तस्माद्ब्रह्म नोत्पाद्यमिष्यते ॥ १५६॥ आप्त्राप्ययोस्तु भेदश्चेदाप्त्रा चाप्यमवाप्यते । आप्तृस्वरूपमेवैतद्ब्रह्म नाप्यं कदाचन ॥ १५७॥ मलिनस्यैव संस्कारो दर्पणादेरिहेष्यते । व्योमवन्नित्यशुद्धस्य ब्रह्मणो नैव संस्क्रिया ॥ १५८॥ केन दुष्टेन युज्येत वस्तु निर्मलमक्रियम् । यद्योगादागतं दोषं संस्कारो विनिवर्तयेत् ॥ १५९॥ निर्गुणस्य गुणाधानमपि नैवोपपद्यते । केवलो निर्गुणश्चेति नैर्गुण्यं श्रूयते यतः ॥ १६०॥ सावयवस्य क्षीरादेर्वस्तुनः परिणामिनः । येन केन विकारित्वं स्यान्नो निष्कर्मवस्तुनः ॥ १६१॥ निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् । इत्येव वस्तुनस्तत्त्वं श्रुतियुक्तिव्यवस्थितम् ॥ १६२॥ तस्मान्न कर्मसाध्यत्वं ब्रह्मणोऽस्ति कुतश्चन । कर्मसाध्यं त्वनित्यं हि ब्रह्म नित्यं सनातनम् ॥ १६३॥ देहादिः क्षीयते लोके यथैवं कर्मणा चितः । तथैवामुष्मिको लोकः सञ्चितः पुण्यकर्मणा ॥ १६४॥ कृतकत्वमनित्यत्वे हेतुर्जागर्ति सर्वदा । तस्मादनित्ये स्वर्गादौ पण्डितः को नु मुह्यति ॥ १६५॥ जगद्धेतोस्तु नित्यत्वं सर्वेषामपि सम्मतम् । जगद्धेतुत्वमस्यैव वावदीति श्रुतिर्मुहुः ॥ १६६॥ ऐतदात्म्यमिदं सर्वं तत्सत्यमिति च श्रुतिः । अस्यैव नित्यतां ब्रूते जगद्धेतोः सतः स्फुटम् ॥ १६७॥ न कर्मणा न प्रजया धनेनेति स्वयं श्रुतिः । कर्मणो मोक्षहेतुत्वं साक्षादेव निषेधति ॥ १६८॥ प्रत्यग्ब्रह्मविचारपूर्वमुभयोरेकत्वबोधाद्विना कैवल्यं पुरुषस्य सिध्यति परब्रह्मात्मतालक्षणम् । न स्नानैरपि कीर्तनैरपि जपैर्नो कृच्छ्रचान्द्रायणै- र्नो वाप्यध्वरयज्ञदाननिगमैर्नो मन्त्रतन्त्रैरपि ॥ १६९॥ ज्ञानादेव तु कैवल्यमिति श्रुत्या निगद्यते । ज्ञानस्य मुक्तिहेतुत्वमन्यव्यावृत्तिपूर्वकम् ॥ १७०॥ विवेकिनो विरक्तस्य ब्रह्मनित्यत्ववेदिनः । तद्भावेच्छोरनित्यार्थे तत्सामग्र्ये कुतो रतिः ॥ १७१॥ तस्मादनित्ये स्वर्गादौ साधनत्वेन चोदितम् । नित्यं नैमित्तिकं चापि सर्वं कर्म ससाधनम् ॥ १७२॥ मुमुक्षुणा परित्याज्यं ब्रह्मभावमभीप्सुना । मुमुक्षोरपि कर्मास्तु श्रवणं चापि साधनम् ॥ १७३॥ हस्तवद्वयमेतस्य स्वकार्यं साधयिष्यति । यथा विजृम्भते दीपो ऋजूकरणकर्मणा ॥ १७४॥ तथा श्रवणजो बोधः पुंसो विहितकर्मणा । अतः सापेक्षितं ज्ञानमथवापि समुच्चितम् ॥ १७५॥ मोक्षस्य साधनमिति वदन्ति ब्रह्मवादिनः । मुमुक्षोर्युज्यते त्यागः कथं विहितकर्मणः ॥ १७६॥ इति शङ्का न कर्तव्या मूढवत्पण्डितोत्तमैः । कर्मणः फलमन्यत्तु श्रवणस्य फलं पृथक् ॥ १७७॥ वैलक्षण्यं च सामग्र्योश्चोभयत्राधिकारिणोः । कामी, कर्मण्यधिकृतो निष्कामी श्रवणे मतः ॥ १७८॥ अर्थी समर्थ इत्यादि लक्षणं कर्मिणो मतम् । परीक्ष्य लोकानित्यादि लक्षणं मोक्षकाङ्क्षिणः ॥ १७९॥ मोक्षाधिकारी संन्यासी गृहस्थः किल कर्मणि । कर्मणः साधनं भार्यास्रुक्स्रुवादिपरिग्रहः ॥ १८०॥ नैवान्यसाधनापेक्षा शुश्रूषोस्तु गुरुं विना । उपर्युपर्यहङ्कारो वर्धते कर्मणा भृशम् ॥ १८१॥ अहङ्कारस्य विच्छित्तिः श्रवणेन प्रतिक्षणम् । प्रवर्तकं कर्मशास्त्रं ज्ञानशास्त्रं निवर्तकम् ॥ १८२॥ इत्यादिवैपरीत्यं तत्साधने चाधिकारिणोः । द्वयोः परस्परापेक्षा विद्यते न कदाचन ॥ १८३॥ सामग्र्योश्चोभयोस्तद्वदुभयत्राधिकारिणोः । ऊर्ध्वं नयति विज्ञानमधः प्रापयति क्रिया ॥ १८४॥ कथमन्योन्यसापेक्षा कथं वापि समुच्चयः । यथाग्नेस्तृणकूटस्य तेजसस्तिमिरस्य च ॥ १८५॥ सहयोगो न घटते तथैव ज्ञानकर्मणोः । किमूपकुर्याज्ज्ञानस्य कर्म स्वप्रतियोगिनः ॥ यस्य संनिधिमात्रेण स्वयं न स्फूर्तिमृच्छति ॥ १८६॥ कोटीन्धनाद्रिज्वलितोऽपि वह्निः अर्कस्य नार्हत्युपकर्तुमीषत् । यथा तथा कर्मसहस्रकोटिः ज्ञानस्य किंतु स्वयमेव लीयते ॥ १८७॥ एककर्त्राश्रयौ हस्तौ कर्मण्यधिकृतावुभौ । सहयोगस्तयोर्युक्तो न तथा ज्ञानकर्मणोः ॥ १८८॥ कर्त्रा कर्तुमकर्तुं वाप्यन्यथा कर्म शक्यते । न तथा वस्तुनो ज्ञानं कर्तृतन्त्रं कदाचन ॥१८९ यथा वस्तु तथा ज्ञानं प्रमाणेन विजायते । नापेक्षते च यत्किञ्चित्कर्म वा युक्तिकौशलम् ॥ १९०॥ ज्ञानस्य वस्तुतन्त्रत्वे संशयाद्युदयः कथम् । अतो न वास्तवं ज्ञानमिति नो शङ्क्यतां बुधैः ॥ १९१॥ प्रमाणासौष्ठववृतं संशयादि न वास्तवम् । श्रुतिप्रमाणसुष्ठुत्वे ज्ञानं भवति वास्तवम् ॥ १९२॥ वस्तु तावत्परं ब्रह्म नित्यं सत्यं ध्रुवं विभु । श्रुतिप्रमाणे तज्ज्ञानं स्यादेव निरपेक्षकम् ॥ १९३॥ रूपज्ञानं यथा सम्यग्दृष्टौ सत्यां भवेत्तथा । श्रुतिप्रमाणे सत्येव ज्ञानं भवति वास्तवम् ॥ १९४॥ न कर्म यत्किञ्चिदपेक्षते हि रूपोपलब्धौ पुरुषस्य चक्षुः । ज्ञानं तथैव श्रवणादिजन्यं वस्तुप्रकाशे निरपेक्षमेव ॥ १९५॥ कर्तृतन्त्रं भवेत्कर्म कर्मतन्त्रं शुभाशुभम् । प्रमाणतन्त्रं विज्ञानं मायातन्त्रमिदं जगत् ॥ १९६॥ विद्यां चाविद्यां चेति सहोक्तिरियमुपकृदुदिता सद्भिः । सत्कर्मोपासनयोर्न त्वात्मज्ञानकर्मणोः क्वापि ॥ १९७॥ नित्यानित्यपदार्थबोधरहितो यश्चोभयत्र स्रगा- द्यर्थानामनुभूतिलग्नहृदयोऽनिर्विण्णबुद्धिर्जनः । तस्यैवास्य जडस्य कर्मं विहितं श्रुत्या विरज्याभितो मोक्षेच्छोर्न विधीयते तु परमानन्दार्थिनो धीमतः ॥ १९८॥ मोक्षेच्छया यदहरेव विरज्यतेऽसौ न्यासस्तदैव विहितो विदुषो मुमुक्षोः । श्रुत्या तयैव परया च ततः सुधीभिः प्रामाणिकोऽयमिति चेतसि निश्चितव्यः ॥ १९९॥ स्वापरोक्षस्य वेदादेः साधनत्वं निषेधति । नाहं वेदैर्न तपसेत्यादिना भगवानपि ॥ २००॥ प्रवृत्तिश्च निवृत्तिश्च द्वे एते श्रुतिगोचरे । प्रवृत्त्या बध्यते जन्तुर्निवृत्त्या तु विमुच्यते ॥ २०१॥ यन्न स्वबन्धोऽभिमतो मूढस्यापि क्वचित्ततः । निवृत्तिः कर्मसंन्यासः कर्तव्यो मोक्षकाङ्क्षिभिः ॥ २०२॥ न ज्ञानकर्मणोर्यस्मात्सहयोगस्तु युज्यते । तस्मात्त्याज्यं प्रयत्नेन कर्म ज्ञानेच्छुना ध्रुवम् ॥ २०३॥ इष्टसाधनताबुद्ध्या गृहीतस्यापि वस्तुनः । विज्ञाय फल्गुतां पश्चात्कः पुनस्तत्प्रतीक्षते ॥ २०४॥ उपरतिशब्दार्थो ह्युपरमणं पूर्वदृष्टवृत्तिभ्यः । सोऽयं मुख्यो गौणश्चेति च वृत्त्या द्विरूपतां धत्ते ॥ २०५॥ वृत्तेर्दृश्यपरित्यागो मुख्यार्थ इति कथ्यते । गौणार्थः कर्मसंन्यासः श्रुतेरङ्गतया मतः ॥ २०६॥ पुंसः प्रधानसिद्ध्यर्थमङ्गस्याश्रयणं ध्रुवम् । कर्तव्यमङ्गहीनं चेत्प्रधानं नैव सिध्यति ॥ २०७॥ संन्यस्येत्सुविरक्तः सन्निहामुत्रार्थतः सुखात् । अविरक्तस्य संन्यासो निष्फलोऽयाज्ययागवत् ॥ २०८॥ संन्यस्य तु यतिः कुर्यान्न पूर्वविषयस्मृतिम् । तां तां तत्स्मरणे तस्य जुगुप्सा जायते यतः ॥ २०९॥

verses 210-217 shraddhA

॥ १० ॥ श्रद्धा ॥ गुरुवेदान्तवाक्येषु बुद्धिर्या निश्चयात्मिका । सत्यमित्येव सा श्रद्धा निदानं मुक्तिसिद्धये ॥ २१०॥ श्रद्धावतामेव सतां पुमर्थः समीरितः सिध्यति नेतरेषाम् । उक्तं सुसूक्ष्मं परमार्थतत्त्वं श्रद्धत्स्व सोम्येति च वक्ति वेदः ॥ २११॥ श्रद्धाविहीनस्य तु न प्रवृत्तिः प्रवृत्तिशून्यस्य न साध्यसिद्धिः । अश्रद्धयैवाभिहताश्च सर्वे मज्जन्ति संसारमहासमुद्रे ॥ २१२॥ दैवे च वेदे च गुरौ च मन्त्रे तीर्थे महात्मन्यपि भेषजे च । श्रद्धा भवत्यस्य यथा यथान्त- स्तथा तथा सिद्धिरुदेति पुंसाम् ॥ २१३॥ अस्तीत्येवोपलब्धव्यं वस्तुसद्भावनिश्चयात् । सद्भावनिश्चयस्तस्य श्रद्धया शास्त्रसिद्धया ॥ २१४॥ तस्माच्छ्रद्धा सुसम्पाद्या गुरुवेदान्तवाक्ययोः । मुमुक्षोः श्रद्दधानस्य फलं सिध्यति नान्यथा ॥ २१५॥ यथार्थवादिता पुंसां श्रद्धाजननकारणम् । वेदस्येश्वरवाक्यत्वाद्यथार्थत्वे न संशयः ॥ २१६॥ मुक्तस्येश्वररूपत्वाद्गुरोर्वागपि तादृशी । तस्मात्तद्वाक्ययोः श्रद्धा सतां सिध्यति धीमताम् ॥ २१७॥

verses 218-225 Concentration

॥ ११ ॥ सम्यगाधानम् ॥ श्रुत्युक्तार्थावगाहाय विदुषा ज्ञेयवस्तुनि । चित्तस्य सम्यगाधानं समाधानमितीर्यते ॥ २१८॥ चित्तस्य साध्यैकपरत्वमेव पुमर्थसिद्धेर्नियमेन कारणम् । नैवान्यथा सिध्यति साध्यमीष- न्मनःप्रमादे विफलः प्रयत्नः ॥ २१९॥ चित्तं च दृष्टिं करणं तथान्य- देकत्र बध्नाति हि लक्ष्यभेत्ता । किञ्चित्प्रमादे सति लक्ष्यभेत्तु- र्बाणप्रयोगो विफलो यथा तथा ॥ २२०॥ सिद्धेश्चित्तसमाधानमसाधारणकारणम् । यतस्ततो मुमुक्षूणां भवितव्यं सदामुना ॥ २२१॥ अत्यन्ततीव्रवैराग्यं फललिप्सा महत्तरा । तदेतदुभयं विद्यात्समाधानस्य कारणम् ॥ २२२॥ बहिरङ्गं श्रुतिः प्राह ब्रह्मचर्यादि मुक्तये । शमादिषट्कमेवैतदन्तरङ्गं विदुर्बुधाः ॥ २२३॥ अन्तरङ्गं हि बलवद्बहिरङ्गाद्यतस्ततः । शमादिषट्कं जिज्ञासोरवश्यं भाव्यमान्तरम् ॥ २२४॥ अन्तरङ्गविहीनस्य कृतश्रवणकोटयः । न फलन्ति यथा योद्धुरधीरस्यास्त्रसम्पदः ॥ २२५॥

verses 226-296 mumukShutvam

॥ १२ ॥ मुमुक्षुत्वम् ॥ ब्रह्मात्मैकत्वविज्ञानाद्यद्विद्वान्मोक्तुमिच्छति । संसारपाशबन्धं तन्मुमुक्षुत्वं निगद्यते ॥ २२६॥ साधनानां तु सर्वेषां मुमुक्षा मूलकारणम् । अनिच्छोरप्रवृत्तस्य क्व श्रुतिः क्व नु तत्फलम् ॥ २२७॥ तीव्रमध्यममन्दातिमन्दभेदाच्चतुर्विधाः । मुमुक्षा तत्प्रकारोऽपि कीर्त्यते श्रूयतां बुधैः ॥ २२८॥ तापैस्त्रिभिर्नित्यमनेकरूपैः सन्तप्यमानो क्षुभितान्तरात्मा । परिग्रहं सर्वमनर्थबुद्ध्या जहाति सा तीव्रतरा मुमुक्षा ॥ २२९॥ तापत्रयं तीव्रमवेक्ष्य वस्तु दृष्ट्वा कलत्रं तनयान्विहातुम् । मध्ये द्वयोर्लोडनमात्मनो यत् सैषा मता माध्यमिकी मुमुक्षा ॥ २३०॥ मोक्षस्य कालोऽस्ति किमद्य मे त्वरा भुक्त्वैव भोगान्कृतसर्वकार्यः । मुक्त्यै यतिष्येऽहमथेति बुद्धि- रेषैव मन्दा कथिता मुमुक्षा ॥ २३१॥ मार्गे प्रयातुर्मणिलाभवन्मे लभेत मोक्षो यदि तर्हि धन्यः । इत्याशया मूढधियां मतिर्या सैषातिमन्दाभिमता मुमुक्षा ॥ २३२॥ जन्मानेकसहस्रेषु तपसाराधितेश्वरः । तेन निःशेषनिर्धूतहृदयस्थितकल्मषः ॥ २३३॥ शास्त्रविद्गुणदोषज्ञो भोग्यमात्रे विनिस्पृहः । नित्यानित्यपदार्थज्ञो मुक्तिकामो दृढव्रतः ॥ २३४॥ निष्टप्तमग्निना पात्रमुद्वास्य त्वरया यथा । जहाति गेहं तद्वच्च तीव्रमोक्षेच्छया द्विजः ॥ २३५॥ स एव सद्यस्तरति संसृतिं गुर्वनुग्रहात् । यस्तु तीव्रमुमुक्षुः स्यात्स जीवन्नेव मुच्यते ॥ २३६॥ जन्मान्तरे मध्यमस्तु तदन्यस्तु युगान्तरे । चतुर्थः कल्पकोट्यां वा नैव बन्धाद्विमुच्यते ॥ २३७॥ नृजन्म जन्तोरतिदुर्लभं विदु- स्ततोऽपि पुंस्त्वं च ततो विवेकः । लब्ध्वा तदेतत्त्रितयं महात्मा यतेत मुक्त्यै सहसा विरक्तः ॥ २३८॥ पुत्रमित्रकलत्रादिसुखं जन्मनि जन्मनि । मर्त्यत्वं पुरुषत्वं च विवेकश्च न लभ्यते ॥ २३९॥ लब्ध्वा सुदुर्लभतरं नरजन्म जन्तु- स्तत्रापि पौरुषमतः सदसद्विवेकम् । सम्प्राप्य चैहिकसुखाभिरतो यदि स्या- द्धिक्तस्य जन्म कुमतेः पुरुषाधमस्य ॥ २४०॥ खादते मोदते नित्यं शुनकः सूकरः खरः । तेषामेषां विशेषः को वृत्तिर्येषां तु तैः समा ॥ २४१॥ यावन्नाश्रयते रोगो यावन्नाक्रमते जरा । यावन्न धीर्विपर्येति यावन्मृत्युं न पश्यति ॥ २४२॥ तावदेव नरः स्वस्थः सारग्रहणतत्परः । विवेकी प्रयतेताशु भवबन्धविमुक्तये ॥ २४३॥ देवर्षिपितृमर्त्यर्णबन्धमुक्तास्तु कोटिशः । भवबन्धविमुक्तस्तु यः कश्चिद्ब्रह्मवित्तमः ॥ २४४॥ अन्तर्बन्धेन बद्धस्य किं बहिर्बन्धमोचनैः । तदन्तर्बन्धमुक्त्यर्थं क्रियतां कृतिभिः कृतिः ॥ २४५॥ कृतिपर्यवसानैव मता तीव्रमुमुक्षुता । अन्या तु रञ्जनामात्रा यत्र नो दृश्यते कृतिः ॥ २४६॥ गेहादिसर्वमपहाय लघुत्वबुद्ध्या सौख्येच्छया स्वपतिनाऽनलमाविविक्षोः । कान्ताजनस्य नियता सुदृढा त्वरा या सैषा फलान्तगमने करणं मुमुक्षोः ॥ २४७॥ नित्यानित्यविवेकश्च देहक्षणिकतामतिः । मृत्योर्भीतिश्च तापश्च मुमुक्षावृद्धिकारणम् ॥ २४८॥ शिरो विवेकस्त्वत्यन्तं वैराग्यं वपुरुच्यते । शमादयः षडङ्गानि मोक्षेच्छा प्राण इष्यते ॥ २४९॥ ईदृशाङ्गसमायुक्तो जिज्ञासुर्युक्तिकोविदः । शूरो मृत्युं निहन्त्येव सम्यग्ज्ञानासिना ध्रुवम् ॥ २५०॥ उक्तसाधनसम्पन्नो जिज्ञासुर्यतिरात्मनः । जिज्ञासायै गुरुं गच्छेत्समित्पाणिर्नयोज्ज्वलः ॥ २५१॥ श्रोत्रियो ब्रह्मनिष्ठो यः प्रशान्तः समदर्शनः । निर्ममो निरहङ्कारो निर्द्वन्द्वो निष्परिग्रहः ॥ २५२ अनपेक्षः शुचिर्दक्षः करुणामृतसागरः । एवंलक्षणसम्पन्नः स गुरुर्ब्रह्मवित्तमः ॥ उपासाद्यः प्रयत्नेन जिज्ञासोः स्वार्थसिद्धये ॥ २५३॥ जन्मानेकशतैः सदादरयुजा भक्त्या समाराधितो भक्तैर्वैदिकलक्षणेन विधिना सन्तुष्ट ईश स्वयम् । साक्षाच्छ्रीगुरुरूपमेत्य कृपया दृग्गोचरः सन्प्रभुः तत्त्वं साधु विबोध्य तारयति तान्संसारदुःखार्णवात् ॥ २५४॥ अविद्याहृदयग्रन्थिविमोक्षोऽपि भवेद्यतः । तमेव गुरुरित्याहुर्गुरुशब्दार्थवेदिनः ॥ २५५॥ शिव एव गुरुः साक्षात् गुरुरेव शिवः स्वयम् । उभयोरन्तरं किञ्चिन्न द्रष्टव्यं मुमुक्षुभिः ॥ २५६॥ बन्धमुक्तं ब्रह्मनिष्ठं कृतकृत्यं भजेद्गुरुम् । यस्य प्रसादात्संसारसागरो गोष्पदायते ॥ २५७॥ शुश्रूषया सदा भक्त्या प्रणामैर्विनयोक्तिभिः । प्रसन्नं गुरुमासाद्य प्रष्टव्यं ज्ञेयमात्मनः ॥ २५८॥ भगवन्करुणासिन्धो भवसिन्धोर्भवांस्तरिः । यमाश्रित्याश्रमेणैव परं पारं गता बुधाः ॥ २५९॥ जन्मान्तरकृतानन्तपुण्यकर्मफलोदयः । अद्य संनिहितो यस्मात्त्वत्कृपापात्रमस्म्यहम् ॥ २६०॥ सम्प्रीतिमक्ष्णोर्वदनप्रसाद- मानन्दमन्तःकरणस्य सद्यः । विलोकनं ब्रह्मविदस्तनोति छिनत्ति मोहं सुगतिं व्यनक्ति ॥ २६१॥ हुताशनानां शशिनामिनाना- मप्यर्बुदं वापि न यन्निहन्तुम् । शक्नोति तद्ध्वान्तमनन्तमान्तरं हन्त्यात्मवेत्ता सकृदीक्षणेन ॥ २६२॥ दुष्पारे भवसागरे जनिमृतिव्याध्यादिदुःखोत्कटे घोरे पुत्रकलत्रमित्रबहुलग्राहाकरे भीकरे । कर्मोत्तुङ्गतरङ्गभङ्गनिकरैराकृष्यमाणो मुहु- र्यातायातगतिर्भ्रमेण शरणं किञ्चिन्न पश्याम्यहम् ॥ २६३॥ केन वा पुण्यशेषेण तव पादाम्बुजद्वयम् । दृष्टवानस्मि मामार्तं मृत्योस्त्राहि दयादृशा ॥ २६४॥ वदन्तमेवं त्वं शिष्यं दृष्ट्यैव दयया गुरुः । दद्यादभयमेतस्मै मा भैष्टेति मुहुर्मुहुः ॥ २६५॥ विद्वन्मृत्युभयं जहीहि भवतो नास्त्येव मृत्युः क्वचि- न्नित्यस्य द्वयवर्जितस्य परमानन्दात्मनो ब्रह्मणः । भ्रान्त्या किञ्चिदवेक्ष्य भीतमनसा मिथ्या त्वया कथ्यते । मां त्राहीति हि सुप्तवत्प्रलपनं शून्यात्मकं ते मृषा ॥ २६६॥ निद्रागाढतमोवृतः किल जनः स्वप्ने भुजङ्गादिना ग्रस्तं स्वं समवेक्ष्य यत्प्रलपति त्रासाद्धतोऽस्मीत्यलम् । आप्तेन प्रतिबोधितः करतलेनाताड्य पृष्टः स्वयं किञ्चिन्नेति वदत्यमुष्य वचनं स्यात्तत्किमर्थं वद ॥ २६७॥ रज्जोस्तु तत्त्वमनवेक्ष्य गृहीतसर्प- भावः पुमानयमहिर्वसतीति मोहात् । आक्रोशति प्रतिबिभेति च कम्पते त- न्मिथ्यैव नात्र भुजगोऽस्ति विचार्यमाणे ॥ २६८॥ तद्वत्त्वयाप्यात्मन उक्तमेत- ज्जन्माप्ययव्याधिजराधिदुःखम् । मृषैव सर्वं भ्रमकल्पितं ते सम्यग्विचार्यात्मनि मुञ्च भीतिम् ॥ २६९॥ भवाननात्मनो धर्मानात्मन्यारोप्य शोचति । तदज्ञानकृतं सर्वं भयं त्यक्त्वा सुखी भव ॥ २७०॥ शिष्यः - श्रीमद्भिरुक्तं सकलं मृषेति दृष्टान्त एव ह्युपपद्यते तत् । दार्ष्टान्तिके नैव भवादिदुःखं प्रत्यक्षतः सर्वजनप्रसिद्धम् ॥ २७१॥ प्रत्यक्षेणानुभूतार्थः कथं मिथ्यात्वमर्हति । चक्षुषो विषयं कुम्भं कथं मिथ्या करोम्यहम् ॥ २७२॥ विद्यमानस्य मिथ्यात्वं कथं नु घटते प्रभो । प्रत्यक्षं खलु सर्वेषां प्रमाणं प्रस्फुटार्थकम् ॥ २७३॥ मर्त्यस्य मम जन्मादिदुःखभाजोऽल्पजीविनः । ब्रह्मत्वमपि नित्यत्वं परमानन्दता कथम् ॥ २७४॥ क आत्मा कस्त्वनात्मा च किमु लक्षणमेतयोः । आत्मन्यनात्मधर्माणामारोपः क्रियते कथम् ॥ २७५॥ किमज्ञानं तदुत्पन्नभयत्यागोऽपि वा कथम् । किमु ज्ञानं तदुत्पन्नसुखप्राप्तिश्च वा कथम् ॥ २७६॥ सर्वमेतद्यथापूर्वं करामलकवत्स्फुटम् । प्रतिपादय मे स्वामिन् श्रीगुरो करुणानिधे ॥ २७७॥ श्रीगुरुः - धन्यः कृतार्थस्त्वमहो विवेकः शिवप्रसादस्तव विद्यते महान् । विसृज्य तु प्राकृतलोकमार्गं ब्रह्मावगन्तुं यतसे यतस्त्वम् ॥ २७८॥ शिवप्रसादेन विना न सिद्धिः शिवप्रसादेन विना न बुद्धिः । शिवप्रसादेन विना न युक्तिः शिवप्रसादेन विना न मुक्तिः ॥ २७९॥ यस्य प्रसादेन विमुक्तसङ्गाः शुकादयः संसृतिबन्धमुक्ताः । तस्य प्रसादो बहुजन्मलभ्यो भक्त्येकगम्यो भवमुक्तिहेतुः ॥ २८०॥ विवेको जन्तूनां प्रभवति जनिष्वेव बहुषु प्रसादादेवैशाद्बहुसुकृतपाकोदयवशात् । यतस्तस्मादेव त्वमपि परमार्थावगमने कृतारम्भः पुंसामिदमिह विवेकस्य तु फलम् ॥ २८१॥ मर्त्यत्वसिद्धेरपि पुंस्त्वसिद्धे- र्विप्रत्वसिद्धेश्च विवेकसिद्धेः । वदन्ति मुख्यं फलमेव मोक्षं व्यर्थं समस्तं यदि चेन्न मोक्षः ॥ २८२॥ प्रश्नः समीचीनतरस्तवायं यदात्मतत्त्वावगमे प्रवृत्तिः । ततस्तवैतत्सकलं समूलं निवेदयिष्यामि मुदा श‍ृणुष्व ॥ २८३॥ मर्त्यत्वं त्वयि कल्पितं भ्रमवशात्तेनैव जन्मादयः तत्सम्भावितमेव दुःखमपि ते नो वस्तुतस्तन्मृषा । निद्रामोहवशादुपागतसुखं दुःखं च किं नु त्वया सत्यत्वेन विलोकितं क्वचिदपि ब्रूहि प्रबोधागमे ॥ २८४॥ नाशेषलोकैरनुभूयमानः प्रत्यक्षतोऽयं सकलप्रपञ्चः । कथं मृषा स्यादिति शङ्कनीयं विचारशून्येन विमुह्यता त्वया ॥ २८५॥ दिवान्धदृष्टेस्तु दिवान्धकारः प्रत्यक्षसिद्धोऽपि स किं यथार्थः । तद्वद्भ्रमेणावगतः पदार्थो भ्रान्तस्य सत्यः सुमतेर्मृषैव ॥ २८६॥ घटोऽयमित्यत्र घटाभिधानः प्रत्यक्षतः कश्चिदुदेति दृष्टेः । विचार्यमाणे स तु नास्ति तत्र मृदस्ति तद्भावविलक्षणा सा ॥ २८७॥ प्रादेशमात्रः परिदृश्यतेऽर्कः शास्त्रेण संदर्शितलक्षयोजनः । मानान्तरेण क्वचिदेति बाधां प्रत्यक्षमप्यत्र हि न व्यवस्था ॥ २८८॥ तस्मात्त्वयीदं भ्रमतः प्रतीतं मृषैव नो सत्यमवेहि साक्षात् । ब्रह्म त्वमेवासि सुखस्वरूपं त्वत्तो न भिन्नं विचिनुष्व बुद्धौ ॥ २८९॥ लोकान्तरे वात्र गुहान्तरे वा तीर्थान्तरे कर्मपरम्परान्तरे । शास्त्रान्तरे नास्त्यनुपश्यतामिह स्वयं परं ब्रह्म विचार्यमाणे ॥ २९०॥ तत्त्वमात्मस्थमज्ञात्वा मूढः शास्त्रेषु पश्यति । गोपः कक्षगतं छागं यथा कूपेषु दुर्मतिः ॥ २९१॥ स्वमात्मानं परं मत्वा परमात्मानमन्यथा । विमृग्यते पुनः स्वात्मा बहिः कोशेषु पण्डितैः ॥ २९२॥ विस्मृत्य वस्तुनस्तत्त्वमध्यारोप्य च वस्तुनि । अवस्तुतां च तद्धर्मान्मुधा शोचति नान्यथा ॥ २९३॥ आत्मानात्मविवेकं ते वक्ष्यामि श‍ृणु सादरम् । यस्य श्रवणमात्रेण मुच्यतेऽनात्मबन्धनात् ॥ २९४॥ इत्युक्त्वाभिमुखीकृत्य शिष्यं करुणया गुरुः । अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्चयन् ॥ २९५॥ सम्यक्प्राबोधयत्तत्त्वं शास्त्रदृष्टेन वर्त्मना । सर्वेषामुपकाराय तत्प्रकारोऽत्र दर्श्यते ॥ २९६॥

verses 297-309 Superimposition

॥ १३ ॥ अध्यारोपः ॥ वस्तुन्यवस्त्वारोपो यः सोऽध्यारोप इतीर्यते । असर्पभूते रज्ज्वादौ सर्पत्वारोपणं यथा ॥ २९७॥ वस्तु तावत्परं ब्रह्म सत्यज्ञानादिलक्षणम् । इदमारोपितं यत्र भाति खे नीलतादिवत् ॥ २९८॥ तत्कारणं यदज्ञानं सकार्यं सद्विलक्षणम् । अवस्त्वित्युच्यते सद्भिर्यस्य बाधा प्रदृश्यते ॥ २९९॥ अवस्तु तत्प्रमाणैर्यद्बाध्यते शुक्तिरौप्यवत् । न बाध्यते यत्तद्वस्तु त्रिषु कालेषु शुक्तिवत् ॥ ३००॥ शुक्तेर्बाधा न खल्वस्ति रजतस्य यथा तथा । अवस्तुसंज्ञितं यत्तज्जगदध्यासकारणम् ॥ ३०१॥ सदसद्भ्यामनिर्वाच्यमज्ञानं त्रिगुणात्मकम् । वस्तु तत्त्वावबोधैकबाध्यं तद्भावलक्षणम् ॥ ३०२॥ मिथ्यासम्बन्धतस्तत्र ब्रह्मण्याश्रित्य तिष्ठति । मणौ शक्तिर्यथा तद्वन्नैतदाश्रयदूषकम् ॥ ३०३॥ सद्भावे लिङ्गमेतस्य कार्यमेतच्चराचरम् । मानं श्रुतिः स्मृतिश्चाज्ञोऽहमित्यनुभवोऽपि च ॥ ३०४॥ अज्ञानं प्रकृतिः शक्तिरविद्येति निगद्यते । तदेतत्सन्न भवति नासद्वा शुक्तिरौप्यवत् ॥ ३०५॥ सतो भिन्नमभिन्नं वा न दीपस्य प्रभा यथा । न सावयवमन्यद्वा बीजस्याङ्कुरवत्क्वचित् ॥ ३०६॥ अत एतदनिर्वाच्यमित्येव कवयो विदुः । समष्टिव्यष्टिरूपेण द्विधाज्ञानं निगद्यते ॥ ३०७॥ नानात्वेन प्रतीतानामज्ञानानामभेदतः । एकत्वेन समष्टिः स्याद्भूरुहाणां वनं यथा ॥ ३०८॥ इयं समष्टिरुत्कृष्टा सत्त्वांशोत्कर्षतः पुरा । मायेति कथ्यते तज्ज्ञैः शुद्धसत्त्वैकलक्षणा ॥ ३०९॥

verses 310-317 Ishvara

॥ १४ ॥ ईश्वरः ॥ मायोपहितचैतन्यं साभासं सत्त्वबृंहितम् । सर्वज्ञत्वादिगुणकं सृष्टिस्थित्यन्तकारणम् ॥ ३१०॥ अव्याकृतं तदव्यक्तमीश इत्यपि गीयते । सर्वशक्तिगुणोपेतः सर्वज्ञानावभासकः ॥ ३११॥ स्वतन्त्रः सत्यसङ्कल्पः सत्यकामः स ईश्वरः । तस्यैतस्य महाविष्णोर्महाशक्तेर्महीयसः ॥ ३१२॥ सर्वज्ञत्वेश्वरत्वादिकारणत्वान्मनीषिणः । कारणं वपुरित्याहुः समष्टिं सत्त्वबृंहितम् ॥ ३१३॥ आनन्दप्रचुरत्वेन छादकत्वेन कोशवत् । सैषानन्दमयः कोश इतीशस्य निगद्यते ॥ ३१४॥ सर्वोपरमहेतुत्वात्सुषुप्तिस्थानमिष्यते । प्राकृतः प्रलयो यत्र श्राव्यते श्रुतिभिर्मुहुः ॥ ३१५॥ अज्ञानं व्यष्ट्यभिप्रायादनेकत्वेन भिद्यते । अज्ञानवृत्तयो नाना तत्तद्गुणविलक्षणाः ॥ ३१६॥ वनस्य व्यष्ट्यभिप्रायाद्भूरुहा इत्यनेकता । यथा तथैवाज्ञानस्य व्यष्टितः स्यादनेकता ॥ ३१७॥

verses 318-329 Pratyagatman

॥ १५ ॥ प्रत्यगात्मन् ॥ व्यष्टिर्मलिनसत्त्वैषा रजसा तमसा युता । ततो निकृष्टा भवति योपाधिः प्रत्यगात्मनः ॥ ३१८॥ चैतन्यं व्यष्ट्यवच्छिन्नं प्रत्यगात्मेति गीयते । साभासं व्यष्ट्युपहितं सत्तादात्म्येन तद्गुणैः ॥ ३१९॥ अभिभूतः स एवात्मा जीव इत्यभिधीयते । किञ्चिज्ज्ञत्वानीश्वरत्वसंसारित्वादिधर्मवान् ॥ ३२०॥ अस्य व्यष्टिरहङ्कारकारणत्वेन कारणम् । वपुस्तत्राभिमान्यात्मा प्राज्ञ इत्युच्यते बुधैः ॥ ३२१॥ प्राज्ञत्वमस्यैकाज्ञानभासकत्वेन सम्मतम् । व्यष्टेर्निकृष्टत्वेनास्य नानेकाज्ञानभासनम् ॥ ३२२॥ स्वरूपाच्छादकत्वेनाप्यानन्दप्रचुरत्वतः । कारणं वपुरानन्दमयः कोश इतीर्यते ॥ ३२३॥ अस्यावस्था सुषुप्तिः स्याद्यत्रानन्दः प्रकृष्यते । एषोऽहं सुखमस्वाप्सं न तु किञ्चिदवेदिषम् ॥ ३२४॥ इत्यानन्दसमुत्कर्षः प्रबुद्धेषु प्र्दृश्यते । समष्तेरपि च व्यष्तेरुभयोर्वनवृक्षवत् ॥ ३२५॥ अभेद एव नो भेदो जात्येकत्वेन वस्तुतः । अभेद एव ज्ञातव्यस्तथेशप्राज्ञयोरपि ॥ ३२६॥ सत्युपाध्योरभिन्नत्वे क्व भेदस्तद्विशिष्टयोः । एकीभावे तरङ्गाब्ध्योः को भेदः प्रतिबिम्बयोः ॥ ३२७॥ अज्ञानतदवच्छिन्नाभासयोरुभयोरपि । आधारं शुद्धचैतन्यं यत्तत्तुर्यमितीर्यते ॥ ३२८॥ एतदेवाविविक्तं सदुपाधिभ्यां च तद्गुणैः । महावाक्यस्य वाच्यार्थो विविक्तं लक्ष्य इष्यते ॥ ३२९॥

verses 330-333 Ishvara,the cause of the universe

॥ १६ ॥ ईश्वरः ॥ अनन्तशक्तिसम्पन्नो मायोपाधिक ईश्वरः । ईक्षामात्रेण सृजति विश्वमेतच्चराचरम् ॥ ३३०॥ अद्वितीयस्वमात्रोऽसौ निरुपादान ईश्वरः । स्वयमेव कथं सर्वं सृजतीति न शङ्क्यताम् ॥ ३३१॥ निमित्तमप्युपादानं स्वयमेव भवन्प्रभुः । चराचरात्मकं विश्वं सृजत्यवति लुम्पति ॥ ३३२॥ स्वप्राधान्येन जगतो निमित्तमपि कारणम् । उपादानं तथोपाधिप्राधान्येन भवत्ययम् ॥ ३३३॥

verses 334-337 Creation of the Five Elements

॥ १७ ॥ पञ्चभूतसृष्टिः ॥ यथा लूता निमित्तं च स्वप्रधानतया भवेत् । स्वशरीरप्रधानत्वेनोपादानं तथेश्वरः ॥ ३३४॥ तमःप्रधानप्रकृतिविशिष्टात्परमात्मनः । अभूत्सकाशादाकाशमाकाशाद्वायुरुच्यते ॥ ३३५॥ वायोरग्निस्तथैवाग्नेरापोऽद्भ्यः पृथिवी क्रमात् । शक्तेस्तमःप्रधानत्वं तत्कार्ये जाड्यदर्शनात् ॥ ३३६॥ आरभन्ते कार्यगुणान्ये कारणगुणा हि ते । एतानि सूक्ष्मभूतानि भूतमात्रा अपि क्रमात् ॥ ३३७॥

verses 338-341 The Subtle Body

॥ १८ ॥ सूक्ष्मदेहः ॥ एतेभ्यः सूक्ष्मभूतेभ्यः सूक्ष्मदेहा भवन्त्यपि । स्थूलान्यपि च भूतानि चान्योन्यांशविमेलनात् ॥ ३३८॥ अपञ्चीकृतभूतेभ्यो जातं सप्तदशाङ्गकम् । संसारकारणं लिङ्गमात्मनो भोगसाधनम् ॥ ३३९॥ श्रोत्रादिपञ्चकं चैव वागादीनां च पञ्चकम् । प्राणादिपञ्चकं बुद्धिमनसी लिङ्गमुच्यते ॥ ३४०॥ श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च जातानि । आकाशादीनां सत्त्वांशेभ्यो धीन्द्रियाण्यनुक्रमतः ॥ ३४१॥

verses 342-349 The Internal Organ

॥ १९ ॥ अन्तःकरणम् ॥ आकाशादिगताः पञ्च सात्त्विकांशाः परस्परम् । मिलित्वैवान्तःकरणमभवत्सर्वकारणम् ॥ ३४२॥ प्रकाशकत्वादेतेषां सात्त्विकांशत्वमिष्यते । प्रकाशकत्वं सत्त्वस्य स्वच्छत्वेन यतस्ततः ॥ ३४३॥ तदन्तःकरणं वृत्तिभेदेन स्याच्चतुर्विधम् । मनो बुद्धिरहङ्कारश्चित्तं चेति तदुच्यते ॥ ३४४॥ सङ्कल्पान्मन इत्याहुर्बुद्धिरर्थस्य निश्चयात् । अभिमानादहङ्कारश्चित्तमर्थस्य चिन्तनात् ॥ ३४५॥ मनस्यपि च बुद्धौ च चित्ताहङ्कारयोः क्रमात् । अन्तर्भावोऽत्र बोद्धव्यो लिङ्गलक्षणसिद्धये ॥ ३४६॥ चिन्तनं च मनोधर्मः सङ्कल्पादिर्यथा तथा । अन्तर्भावो मनस्येव सम्यक्चित्तस्य सिध्यति ॥ ३४७॥ देहादावहमित्येव भावो दृढतरो धियः । दृश्यतेऽहङ्कृतेस्तस्मादन्तर्भावोऽत्र युज्यते ॥ ३४८॥ तस्मादेव तु बुद्धेः कर्तृत्वं तदितरस्य करणत्वम् । सिद्ध्यत्यात्मन उभयं विद्यात्संसारकारणं मोहात् ॥ ३४९॥

verses 350-354 VijnAnamayakosha

॥ २० ॥ विज्ञानमयकोशः ॥ विज्ञानमयकोशः स्यात् बुद्धिर्ज्ञानेन्द्रियैः सह । विज्ञानप्रचुरत्वेनाप्याच्छादकतयात्मनः ॥ ३५०॥ विज्ञानमयकोशोऽयमिति विद्वद्भिरुच्यते । अयं महानहङ्कारवृत्तिमान्कर्तृलक्षणः ॥ ३५१॥ अहं ममेत्येव सदाभिमानं देहेन्द्रियादौ कुरुते गृहादौ । जीवाभिमानः पुरुषोऽयमेव कर्ता च भोक्ता च सुखी च दुःखी ॥ ३५२॥ स्ववासनाप्रेरित एव नित्यं करोति कर्मोभयलक्षणं च । भुङ्क्ते तदुत्पन्नफलं विशिष्टं सुखं च दुःखं च परत्र चात्र ॥ ३५३॥ नानायोनिसहस्रेषु जायमानो मुहुर्मुहुः । म्रियमाणो भ्रमत्येष जीवः संसारमण्डले ॥ ३५४॥

verses 355-374 Manomayakosha

॥ २१ ॥ मनोमयकोशः ॥ मनो मनोमयः कोशो भवेज्ज्ञानेन्द्रियैः सह । प्राचुर्यं मनसो यत्र दृश्यतेऽसौ मनोमयः ॥ ३५५॥ चिन्ताविषादहर्षाद्याः कामाद्या अस्य वृत्तयः । मनुते मनसैवैष फलं कामयते बहिः । यतते कुरुते भुङ्क्ते तन्मनः सर्वकारणम् ॥ ३५६॥ मनो ह्यमुष्य प्रवणस्य हेतु- रन्तर्बहिश्चार्थमनेन वेत्ति । श‍ृणोति जिघ्रत्यमुनैव चेक्षते वक्ति स्पृशत्यत्ति करोति सर्वम् ॥ ३५७॥ बन्धश्च मोक्षो मनसैव पुंसा- मर्थोऽप्यनर्थोऽप्यमुनैव सिध्यति । शुद्धेन मोक्षो मलिनेन बन्धो विवेकतोऽर्थोऽप्यविवेकतोऽन्यः ॥ ३५८॥ रजस्तमोभ्यां मलिनं त्वशुद्ध- मज्ञानजं सत्त्वगुणेन रिक्तम् । मनस्तमोदोषसमन्वितत्वा- ज्जडत्वमोहालसताप्रमादैः । तिरस्कृतं सन्न तु वेत्ति वास्तवं पदार्थतत्त्वं ह्युपलभ्यमानम् ॥ ३५९॥ रजोदोषैर्युक्तं यदि भवति विक्षेपकगुणैः प्रतीपैः कामाद्यैरनिशमभिभूतं व्यथयति । कथञ्चित्सूक्ष्मार्थावगतिमदपि भ्राम्यति भृशं मनोदीपो यद्वत्प्रबलमरुता ध्वस्तमहिमा ॥ ३६०॥ ततो मुमुक्षुर्भवबन्धमुक्त्यै रजस्तमोभ्यां च तदीयकार्यैः । वियोज्य चित्तं परिशुद्धसत्त्वं प्रियं प्रयत्नेन सदैव कुर्यात् ॥ ३६१॥ गर्भावासजनिप्रणाशनजराव्याध्यादिषु प्राणिनां यद्दुःखं परिदृश्यते च नरके तच्चिन्तयित्वा मुहुः । दोषानेव विलोक्य सर्वविषयेष्वाशां विमुच्याभित- श्चित्तग्रन्थिविमोचनाय सुमतिः सत्त्वं समालम्बताम् ॥ ३६२॥ यमेषु निरतो यस्तु नियमेषु च यत्नतः । विवेकिनस्तस्य चित्तं प्रसादमधिगच्छति ॥ ३६३॥ आसुरीं सम्पदं त्यक्त्वा भजेद्यो दैवसम्पदम् । मोक्षैककाङ्क्षया नित्यं तस्य चित्तं प्रसीदति ॥ ३६४॥ परद्रव्यपरद्रोहपरनिन्दापरस्त्रियः । नालम्बते मनो यस्य तस्य चित्तं प्रसीदति ॥ ३६५॥ आत्मवत्सर्वभूतेषु यः समत्वेन पश्यति । सुखं दुःखं विवेकेन तस्य चित्तं प्रसीदति ॥ ३६६॥ अत्यन्तं श्रद्धया भक्त्या गुरुमीश्वरमात्मनि । यो भजत्यनिशं क्षान्तस्तस्य चित्तं प्रसीदति ॥ ३६७॥ शिष्टान्नमीशार्चनमार्यसेवां तीर्थाटनं स्वाश्रमधर्मनिष्ठाम् । यमानुषक्तिं नियमानुवृत्तिं चित्तप्रसादाय वदन्ति तज्ज्ञाः ॥ ३६८॥ कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनाम् । पूतिपर्युषितादीनां त्यागः सत्त्वाय कल्पते ॥ ३६९॥ श्रुत्या सत्त्वपुराणानां सेवया सत्त्ववस्तुनः । अनुवृत्त्या च साधूनां सत्त्ववृत्तिः प्रजायते ॥ ३७०॥ यस्य चित्तं निर्विषयं हृदयं यस्य शीतलम् । तस्य मित्रं जगत्सर्वं तस्य मुक्तिः करस्थिता ॥ ३७१॥ हितपरिमितभोजी नित्यमेकान्तसेवी सकृदुचितहितोक्तिः स्वल्पनिद्राविहारः । अनुनियमनशीलो यो भजत्युक्तकाले स लभत इह शीघ्रं साधु चित्तप्रसादम् ॥ ३७२॥ चित्तप्रसादेन विनावगन्तुं बन्धं न शक्नोति परात्मतत्त्वम् । तत्त्वावगत्या तु विना विमुक्ति- र्न सिध्यति ब्रह्मसहस्रकोटिषु ॥ ३७३॥ मनःप्रमादः पुरुषस्य बन्धो मनःप्रसादो भवबन्धमुक्तिः । मनःप्रसादाधिगमाय तस्मा- न्मनोनिरासं विदधीत विद्वान् ॥ ३७४॥

verses 375-408 Pranamayakosha

॥ २२ ॥ प्राणमयकोशः ॥ पञ्चानामेव भूतानां रजोंशेभ्योऽभवन् क्रमात् । वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाण्यनु ॥ ३७५॥ समस्तेभ्यो रजोंशेभ्यो व्योमादीनां क्रियात्मकाः । प्राणादयः समुत्पन्नाः पञ्चाप्यान्तरवायवः ॥ ३७६॥ प्राणः प्राग्गमनेन स्यादपानोऽर्वाग्गमनेन च । व्यानस्तु विष्वग्गमनादुत्क्रान्त्योदान इष्यते ॥ ३७७॥ अशितान्नरसादीनां समीकरणधर्मतः । समान इत्यभिप्रेतो वायुर्यस्तेषु पञ्चमः ॥ ३७८॥ क्रियैव दिश्यते प्रायः प्राणकर्मेन्द्रियेष्वलम् । ततस्तेषां रजोंशेभ्यो जनिरङ्गीकृता बुधैः ॥ ३७९॥ राजसीं तु क्रियाशक्तिं तमःशक्तिं जडात्मिकाम् । प्रकाशरूपिणीं सत्त्वशक्तिं प्राहुर्महर्षयः ॥ ३८०॥ एते प्राणादयः पञ्च पञ्चकर्मेन्द्रियैः सह । भवेत्प्राणमयः कोशः स्थूलो येनैव चेष्टते ॥ ३८१॥ यद्यन्निष्पाद्यते कर्म पुण्यं वा पापमेव वा । वागादिभिश्च वपुषा तत्प्राणमयकर्तृकम् ॥ ३८२॥ वायुनोच्चालितो वृक्षो नानारूपेण चेष्टते । तस्मिन्विनिश्चले सोऽपि निश्चलः स्याद्यथा तथा ॥ ३८३॥ प्राणकर्मेन्द्रियैर्देहः प्रेर्यमाणः प्रवर्तते । नानाक्रियासु सर्वत्र विहिताविहितादिषु ॥ ३८४॥ कोशत्रयं मिलित्वैतद्वपुः स्यात्सूक्ष्ममात्मनः । अतिसूक्ष्मतया लीनस्यात्मनो गमकत्वतः ॥ ३८५॥ लिङ्गमित्युच्यते स्थूलापेक्षया सूक्ष्ममिष्यते । सर्वं लिङ्गवपुर्जातमेकधीविषयत्वतः ॥ ३८६॥ समष्टिः स्यात्तरुगणः सामान्येन वनं यथा । एतत्समष्ट्युपहितं चैतन्यं सफलं जगुः ॥ ३८७॥ हिरण्यगर्भः सूत्रात्मा प्राण इत्यपि पण्डिताः । हिरण्मये बुद्धिगर्भे प्रचकास्ति हिरण्यवत् ॥ ३८८॥ हिरण्यगर्भ इत्यस्य व्यपदेशस्ततो मतः । समस्त लिङ्गदेहेषु सूत्रवन्मणिपङ्क्तिषु । व्याप्य स्थितत्वात्सूत्रात्मा प्राणनात्प्राण उच्यते ॥ ३८९॥ नैकधीविषयत्वेन लिङ्गं व्यष्टिर्भवत्यथ । यदेतद्व्यष्ट्युपहितं चिदाभाससमन्वितम् ॥ ३९०॥ चैतन्यं तैजस इति निगदन्ति मनीषिणः । तेजोमयान्तःकरणोपाधित्वेनैव तैजसः ॥ ३९१॥ स्थूलात्सूक्ष्मतया व्यष्टिरस्य सूक्ष्मवपुर्मतम् । अस्य जागरसंस्कारमयत्वाद्वपुरुच्यते ॥ ३९२॥ स्वप्ने जागरकालीनवासनापरिकल्पितान् । तैजसो विषयान्भुङ्क्ते सूक्ष्मार्थान्सूक्ष्मवृत्तिभिः ॥ ३९३॥ समष्टेरपि च व्यष्टेः सामान्येनैव पूर्ववत् । अभेद एव ज्ञातव्यो जात्येकत्वे कुतो भिदा ॥ ३९४॥ द्वयोरुपाध्योरेकत्वे तयोरप्यभिमानिनोः । सूत्रात्मनस्तैजसस्याप्यभेदः पूर्ववन्मतः ॥ ३९५॥ एवं सूक्ष्मप्रपञ्चस्य प्रकारः शास्त्रसम्मतः । अथ स्थूलप्रपञ्चस्य प्रकारः कथ्यते श‍ृणु ॥ ३९६॥ तान्येव सूक्ष्मभूतानि व्योमादीनि परस्परम् । पञ्चीकृतानि स्थूलानि भवन्ति श‍ृणु तत्क्रमम् ॥ ३९७॥ खादीनां भूतमेकैकं सममेव द्विधा द्विधा । विभज्य भागं तत्राद्यं त्यक्त्वा भागं द्वितीयकम् ॥ ३९८॥ चतुर्धा सुविभज्याथ तमेकैकं विनिक्षिपेत् । चतुर्णां प्रथमे भागे क्रमेण स्वार्धमन्तरा ॥ ३९९॥ ततो व्योमादिभूतानां भागाः पञ्च भवन्ति ते । स्वस्वार्धभागेनान्येभ्यः प्राप्तं भागचतुष्टयम् ॥ ४००॥ संयोज्य स्थूलतां यान्ति व्योमादीनि यथाक्रमम् । अमुष्य पञ्चीकरणस्याप्रामाण्यं न शङ्क्यताम् ॥ ४०१॥ उपलक्षणमस्यापि तत्त्रिवृत्करणश्रुतिः । पञ्चानामपि भूतानां श्रूयतेऽन्यत्र सम्भवः ॥ ४०२॥ ततः प्रामाणिकं पञ्चीकरणं मन्यतां बुधैः । प्रत्यक्षादिविरोधः स्यादन्यथा क्रियते यदि ॥ ४०३॥ आकाशवाय्वोर्धर्मस्तु वह्न्यादावुपलभ्यते । यथा तथाकाशवाय्वोर्नाग्न्यादेर्धर्म ईक्ष्यते ॥ ४०४॥ अतोऽप्रामाणिकमिति न किञ्चिदपि चिन्त्यताम् । खांशव्याप्तिश्च खव्याप्तिर्विद्यते पावकादिषु ॥ ४०५॥ तेनोपलभ्यते शब्दः कारणस्यातिरेकतः । तथा नभस्वतो धर्मोऽप्यग्न्यादावुपलभ्यते ॥ ४०६॥ न तथा विद्यते व्याप्तिर्वह्न्यादेः खनभस्वतोः । सूक्ष्मत्वादंशकव्याप्तेस्तद्धर्मो नोपलभ्यते ॥ ४०७॥ कारणस्यानुरूपेण कार्यं सर्वत्र दृश्यते । तस्मात्प्रामाण्यमेष्टव्यं बुधैः पञ्चीकृतेरपि ॥ ४०८॥

verses 409-416 The quintuplication of the Elements

॥ २३ ॥ पञ्चीकरणम् ॥ अनेनोद्भूतगुणकं भूतं वक्ष्येऽवधारय । शब्दैकगुणमाकाशं शब्दस्पर्शगुणोऽनिलः ॥ ४०९॥ तेजः शब्दस्पर्शरूपैर्गुणवत्कारणं क्रमात् । आपश्चतुर्गुणः शब्दस्पर्शरूपरसैः क्रमात् ॥ ४१०॥ एतैश्चतुर्भिर्गन्धेन सह पञ्चगुणा मही । आकाशांशतया श्रोत्रं शब्दं गृह्णाति तद्गुणम् ॥ ४११॥ त्वङ्मारुतांशकतया स्पर्शं गृह्णाति तद्गुणम् । तेजोंशकतया चक्षू रूपं गृह्णाति तद्गुणम् ॥ ४१२॥ अबंशकतया जिह्वा रसं गृह्णाति तद्गुणम् । भूम्यंशकतया घ्राणं गन्धं गृह्णाति तद्गुणम् ॥ ४१३॥ करोति खांशकतया वाक् शब्दोच्चारणक्रियाम् । वाय्वंशकतया पादौ गमनादिक्रियापरौ ॥ ४१४॥ तेजोंशकतया पाणी वह्न्याद्यर्चनतत्परौ । जलांशकतयोपस्थो रेतोमूत्रविसर्गकृत् ॥ ४१५॥ भूम्यंशकतया पायुः कठिनं मलमुत्सृजेत् । श्रोत्रस्य दैवतं दिक्स्यात्त्वचो वायुर्दृशो रविः ॥ ४१६॥

verses 417-429 The deities presiding over the senses

॥ २४ ॥ इन्द्रियदेवताः ॥ जिह्वाया वरुणो दैवं घ्राणस्य त्वश्विनावुभौ । वाचोऽग्निर्हस्तयोरिन्द्रः पादयोस्तु त्रिविक्रमः ॥ ४१७॥ पायोर्मृत्युरुपस्थस्य त्वधिदैवं प्रजापतिः । मनसो दैवतं चन्द्रो बुद्धेर्दैवं बृहस्पतिः ॥ ४१८॥ रुद्रस्त्वहङ्कृतेर्दैवं क्षेत्रज्ञश्चित्तदैवतम् । दिगाद्या देवताः सर्वाः खादिसत्त्वांशसम्भवाः ॥ ४१९॥ सम्मिता इन्द्रियस्थानेष्विन्द्रियाणां समन्ततः । निगृह्णन्त्यनुगृह्णन्ति प्राणिकर्मानुरूपतः ॥ ४२०॥ शरीरकरणग्रामप्राणाहमधिदेवताः । पञ्चैते हेतवः प्रोक्ता निष्पत्तौ सर्वकर्मणाम् ॥ ४२१॥ कर्मानुरूपेण गुणोदयो भवे- द्गुणानुरूपेण मनःप्रवृत्तिः । मनोनुवृत्तैरुभयात्मकेन्द्रियै- र्निर्वर्त्यते पुण्यमपुण्यमत्र ॥ ४२२॥ करोति विज्ञानमयोऽभिमानं कर्ताहमेवेति तदात्मना स्थितः । आत्मा तु साक्षी न करोति किञ्चि- न्न कारयत्येव तटस्थवत्सदा ॥ ४२३॥ द्रष्टा श्रोता वक्ता कर्ता भोक्ता भवत्यहङ्कारः । स्वयमेतद्विकृतीनां साक्षी निर्लेप एवात्मा ॥ ४२४॥ आत्मनः साक्षिमात्रत्वं न कर्तृत्वं न भोक्तृता । रविवत्प्राणिभिर्लोके क्रियमाणेषु कर्मसु ॥ ४२५॥ न ह्यर्कः कुरुते कर्म न कारयति जन्तवः । स्वस्वभावानुरोधेन वर्तन्ते स्वस्वकर्मसु ॥ ४२६॥ तथैव प्रत्यगात्मापि रविवन्निष्क्रियात्मना । उदासीनतयैवास्ते देहादीनां प्रवृत्तिषु ॥ ४२७॥ अज्ञात्वैवं परं तत्त्वं मायामोहितचेतसः । स्वात्मन्यारोपयन्त्येतत्कर्तृत्वाद्यन्यगोचरम् ॥ ४२८॥ आत्मस्वरूपमविचार्य विमूढबुद्धि- रारोपयत्यखिलमेतदनात्मकार्यम् । स्वात्मन्यसङ्गचिति निष्क्रिय एव चन्द्रे दूरस्थमेघकृतधावनवद्भ्रमेण ॥ ४२९॥

verses 430-433 The Creation of the gross Universe

॥ २५ ॥ जगदुत्पत्तिः ॥ आत्मानात्मविवेकं स्फुटतरमग्रे निवेदयिष्यामः । इममाकर्णय विद्वन् जगदुत्पत्तिप्रकारमावृत्त्या ॥ ४३०॥ पञ्चीकृतेभ्यः खादिभ्यो भूतेभ्यस्त्वीक्षयेशितुः । समुत्पन्नमिदं स्थूलं ब्रह्माण्डं सचराचरम् ॥ ४३१॥ व्रीह्याद्योषधयः सर्वा वायुतेजोम्बुभूमयः । सर्वेषामप्यभूदन्नं चतुर्विधशरीरिणाम् ॥ ४३२॥ केचिन्मारुतभोजनाः खलु परे चन्द्रार्कतेजोऽशनाः केचित्तोयकणाशिनोऽपरिमिताः केचित्तु मृद्भक्षकाः । केचित्पर्णशिलातृणादनपराः केचित्तु मांसाशिनः केचिद्व्रीहियवान्नभोजनपरा जीवन्त्यमी जन्तवः ॥ ४३३॥

verses 434-456 The four different kinds of beings

॥ २६ ॥ चतुर्विधं भूतजातम् ॥ जरायुजाण्डजस्वेदजोद्भिज्जाद्याश्चतुर्विधाः । स्वस्वकर्मानुरूपेण जातास्तिष्ठन्ति जन्तवः ॥ ४३४॥ यत्र जाता जरायुभ्यस्ते नराद्या जरायुजाः । अण्डजास्ते स्युरण्डेभ्यो जाता ये विहगादयः ॥ ४३५॥ स्वेदाज्जाताः स्वेदजास्ते यूका लूक्षादयोऽपि च । भूमिमुद्भिद्य ये जाता उद्भिज्जास्ते द्रुमादयः ॥ ४३६॥ इदं स्थूलवपुर्जातं भौतिकं च चतुर्विधम् । सामान्येन समष्टिः स्यादेकधीविषयत्वतः ॥ ४३७॥ एतत्समष्ट्यवच्छिन्नं चैतन्यं फलसंयुतम् । प्राहुर्वैश्वानर इति विराडिति च वैदिकाः ॥ ४३८॥ वैश्वानरो विश्वनरेष्वात्मत्वेनाभिमानतः । विराट् स्याद्विविधत्वेन स्वयमेव विराजनात् ॥ ४३९॥ चतुर्विधं भूतजातं तत्तज्जातिविशेषतः । नैकधीविषयत्वेन पूर्ववद्व्यष्टिरिष्यते ॥ ४४०॥ साभासं व्यष्ट्युपहितं तत्तादात्म्यमुपागतम् । चैतन्यं विश्व इत्याहुर्वेदान्तनयकोविदाः ॥ ४४१॥ विश्वस्मिन्स्थूलदेहेऽत्र स्वाभिमानेन तिष्ठति । यतस्ततो विश्व इति नाम्ना सार्थो भवत्ययम् ॥ ४४२॥ व्यष्टिरेषास्य विश्वस्य भवति स्थूलविग्रहः । उच्यतेऽन्नविकारित्वात्कोशोऽन्नमय इत्ययम् ॥ ४४३॥ देहोऽयं पितृभुक्तान्नविकाराच्छुक्ल शोणितात् । जातः प्रवर्धतेऽन्नेन तदभावे विनश्यति ॥ ४४४॥ तस्मादन्नविकारित्वेनायमन्नमयो मतः । आच्छादकत्वादेतस्याप्यसेः कोशवदात्मनः ॥ ४४५॥ आत्मनः स्थूलभोगानामेतदायतनं विदुः । शब्दादिविषयान्भुङ्क्ते स्थूलान्स्थूलात्मनि स्थितः ॥ ४४६॥ बहिरात्मा ततः स्थूलभोगायतनमुच्यते । इन्द्रियैरुपनीतानां शब्दादीनामयं स्वयम् । देहेन्द्रियमनोयुक्तो भोक्तेत्याहुर्मनीषिणः ॥ ४४७॥ एकादशद्वारवतीह देहे सौधे महाराज इवाक्षवर्गैः । संसेव्यमानो विषयोपभोगा- नुपाधिसंस्थो बुभुजेऽयमात्मा ॥ ४४८॥ ज्ञानेन्द्रियाणि निजदैवतचोदितानि कर्मेन्द्रियाण्यपि तथा मन आदिकानि । स्वस्वप्रयोजनविधौ नियतानि सन्ति यत्नेन किङ्करजना इव तं भजन्ते ॥ ४४९॥ यत्रोपभुङ्क्ते विषयान्स्थूलानेष महामतिः । अहं ममेति सैषास्यावस्था जाग्रदितीर्यते ॥ ४५०॥ एतत्समष्टिव्यष्ट्योश्चोभयोरप्यभिमानिनोः । तद्विश्ववैश्वानरयोरभेदः पूर्ववन्मतः ॥ ४५१॥ स्थूलसूक्ष्मकारणाख्याः प्रपञ्चा ये निरूपिताः । ते सर्वेऽपि मिलित्वैकः प्रपञ्चोऽपि महान्भवेत् ॥ ४५२॥ महाप्रपञ्चावच्छिन्नं विश्वप्राज्ञादिलक्षणम् । विराडादीशपर्यन्तं चैतन्यं चैकमेव तत् ॥ ४५३॥ यदनाद्यन्तमव्यक्तं चैतन्यमजमक्षरम् । महाप्रपञ्चेन सहाविविक्तं सदयोऽग्निवत् ॥ ४५४॥ तत्सर्वं खल्विदं ब्रह्मेत्यस्य वाक्यस्य पण्डितैः । वाच्यार्थ इति निर्णीतं विविक्तं लक्ष्य इत्यपि ॥ ४५५॥ स्थूलाद्यज्ञानपर्यन्तं कार्यकारणलक्षणम् । दृश्यं सर्वमनात्मेति विजानीहि विचक्षण ॥ ४५६॥

verses 457-509 The nature of the Atman described

॥ २७ ॥ आत्मन् ॥ अन्तःकरणतद्वृत्तिद्रष्टृ नित्यमविक्रियम् । चैतन्यं यत्तदात्मेति बुद्ध्या बुध्यस्व सूक्ष्मया ॥ ४५७॥ एष प्रत्यक्स्वप्रकाशो निरंशोऽ- सङ्गः शुद्धः सर्वदैकस्वभावः । नित्याखण्डानन्दरूपो निरीहः साक्षी चेता केवलो निर्गुणश्च ॥ ४५८॥ नैव प्रत्यग्जायते वर्धते नो किञ्चिन्नापक्षीयते नैव नाशम् । आत्मा नित्यः शाश्वतोऽयं पुराणो नासौ हन्यो हन्यमाने शरीरे ॥ ४५९॥ जन्मास्तित्वविवृद्धयः परिणतिश्चापक्षतिर्नाशनं दृश्यस्यैव भवन्ति षड्विकृतयो नानाविधा व्याधयः । स्थूलत्वादि च नीलताद्यपि मितिर्वर्णाश्रमादिप्रथा दृश्यन्ते वपुषो न चात्मन इमे तद्विक्रियासाक्षिणः ॥ ४६०॥ अस्मिन्नात्मन्यनात्मत्वमनात्मन्यात्मतां पुनः । विपरीततयाध्यस्य संसरन्ति विमोहतः ॥ ४६१॥ भ्रान्त्या मनुष्योऽहमहं द्विजोऽहं तज्ज्ञोऽहमज्ञोऽहमतीव पापी । भ्रष्टोऽस्मि शिष्टोऽस्मि सुखी च दुःखी- त्येवं विमुह्यात्मनि कल्पयन्ति ॥ ४६२॥ अनात्मनो जन्मजरामृतिक्षुधा- तृष्णासुखक्लेशभयादिधर्मान् । विपर्ययेण ह्यतथाविधेऽस्मि- न्नारोपयन्त्यात्मनि बुद्धिदोषात् ॥ ४६३॥ भ्रान्त्या यत्र यदध्यासस्तत्कृतेन गुणेन वा । दोषेणाप्यणुमात्रेण स न सम्बध्यते क्वचित् ॥ ४६४॥ किं मरुर्मृगतृष्णाम्बुपूरेणार्द्रत्वमृच्छति । दृष्टिसंस्थितपीतेन शङ्खः पीतायते किमु ॥ ४६५॥ वातकल्पितनैल्येन व्योम किं मलिनायते । शिष्यः --- प्रत्यगात्मन्यविषयेऽनात्माध्यासः कथं प्रभो ॥ ४६६॥ पुरो दृष्टे हि विषयेऽध्यस्यन्ति विषयान्तरम् । तद्दृष्टं शुक्तिरज्ज्वादौ सादृश्याद्यनुबन्धतः ॥ ४६७॥ परत्र पूर्वदृष्टस्यावभासः स्मृतिलक्षणः । अध्यासः स कथं स्वामिन् भवेदात्मन्यगोचरे ॥ ४६८॥ नानुभूतः कदाप्यात्माननुभूतस्य वस्तुनः । सादृश्यं सिध्यति कथमनात्मनि विलक्षणे ॥ ४६९॥ अनात्मन्यात्मताध्यासः कथमेष समागतः । निवृत्तिः कथमेतस्य केनोपायेन सिध्यति ॥ ४७०॥ उपाधियोग उभयोः सम एवेशजीवयोः । जीवस्यैव कथं बन्धो नेश्वरस्यास्ति तत्कथम् ॥ ४७१॥ एतत्सर्वं दयादृष्ट्या करामलकवत्स्फुटम् । प्रतिपादय सर्वज्ञ श्रीगुरो करुणानिधे ॥ ४७२॥ श्रीगुरुः --- न तावदयमेकान्तेनात्माऽविषय इष्यते । अस्यास्मत्प्रत्ययार्थत्वादपरोक्षाच्च सर्वशः ॥ ४७३॥ प्रसिद्धिरात्मनोऽस्त्येव न कस्यापि न दृश्यते । प्रत्ययो नाहमस्मीति न ह्यस्ति प्रत्यगात्मनि ॥ ४७४॥ न कस्यापि स्वसद्भावे प्रमाणमभिकाङ्क्ष्यते । प्रमाणानां च प्रामाण्यं यन्मूलं किंनु बोधयेत् ॥ ४७५॥ मायाकार्यैस्तिरोभूतो नैष आत्मानुभूयते । मेघवृन्दैर्यथा भानुस्तथायमहमादिभिः ॥ ४७६॥ पुरस्थ एव विषये वस्तुन्यध्यस्यतामिति । नियमो न कृतः सद्भिर्भ्रान्तिरेवात्र कारणम् ॥ ४७७॥ दृगाद्यविषये व्योम्नि नीलतादि यथाबुधाः । अध्यस्यन्ति तथैवास्मिन्नात्मन्यपि मतिभ्रमात् ॥ ४७८॥ अनात्मन्यात्मताध्यासे न सादृश्यमपेक्ष्यते । पीतोऽयं शङ्ख इत्यादौ सादृश्यं किमपेक्षितम् ॥ ४७९॥ निरुपाधिभ्रमेष्वस्य नैवापेक्षा प्रदृश्यते । ष्वस्मिन्नैवा सोपाधिष्वेव तद्दृष्टं रज्जुसर्पभ्रमादिषु ॥ ४८०॥ तथापि किञ्चिद्वक्ष्यामि सादृश्यं श‍ृणु तत्परः । अत्यन्तनिर्मलः सूक्ष्म आत्मायमतिभास्वरः ॥ ४८१॥ बुद्धिस्तथैव सत्त्वात्मा साभासा भास्वरामला । सांनिध्यादात्मवद्भाति सूर्यवत्स्फटिको यथा ॥ ४८२॥ आत्माभासं ततो बुद्धिर्बुद्ध्याभासं ततो मनः । अक्षाणि मन आभासान्यक्षाभासमिदं वपुः । अत एवात्मताबुद्धिर्देहाक्षादावनात्मनि ॥ ४८३॥ मूढानां प्रतिबिम्बादौ बालानामिव दृश्यते । सादृश्यं विद्यते बुद्धावात्मनोऽध्यासकारणम् ॥ ४८४॥ अनात्मन्यहमित्येव योऽयमध्यास ईरितः । स्यादुत्तरोत्तराध्यासे पूर्वपूर्वस्तु कारणम् ॥ ४८५॥ सुप्तिमूर्छोत्थितेष्वेव दृष्टः संसारलक्षणः । अनादिरेषाविद्या तत्संस्कारोऽपि च तादृशः ॥ ४८६॥ अध्यासबाधागमनस्य कारणं श‍ृणु प्रवक्ष्यामि समाहितात्मा । यस्मादिदं प्राप्तमनर्थजातं जन्माप्ययव्याधिजराधिदुःखम् ॥ ४८७॥ आत्मोपाधेरविद्याया अस्ति शक्तिद्वयं महत् । विक्षेप आवृतिश्चेति याभ्यां संसार आत्मनः ॥ ४८८॥ आवृतिस्तमसः शक्तिस्तद्ध्यावरणकारणम् । मूलाविद्येति सा प्रोक्ता यया सम्मोहितं जगत् ॥ ४८९॥ विवेकवानप्यतियौक्तिकोऽपि श्रुतात्मतत्त्वोऽपि च पण्डितोऽपि । शक्त्या यया संवृतबोधदृष्टि- रात्मानमात्मस्थमिमं न वेद ॥ ४९०॥ विक्षेपनाम्नी रजसस्तु शक्तिः प्रवृत्तिहेतुः पुरुषस्य नित्यम् । स्थूलादिलिङ्गान्तमशेषमेतद्- यया सदात्मन्यसदेव सूयते ॥ ४९१॥ निद्रा यथा पूरुषमप्रमत्तं समावृणोतीयमपि प्रतीचम् । तथा वृणोत्यावृतिशक्तिरन्त- र्विक्षेपशक्तिं परिजृम्भयन्ती ॥ ४९२॥ शक्त्या महत्यावरणाभिधानया समावृते सत्यमलस्वरूपे । पुमाननात्मन्यहमेष एवे- त्यात्मत्वबुद्धिं विदधाति मोहात् ॥ ४९३॥ यथा प्रसुप्तिप्रतिभासदेहे स्वात्मत्वधीरेष तथा ह्यनात्मनः । जन्माप्ययक्षुद्भयतृट्छ्रमादी- नारोपयत्यात्मनि तस्य धर्मान् ॥ ४९४॥ विक्षेपशक्त्या परिचोद्यमानः करोति कर्माण्युभयात्मकानि । भुञ्जान एतत्फलमप्युपात्तं परिभ्रमत्येष भवाम्बुराशौ ॥४९५ ॥ अध्यासदोषात्समुपागतोऽयं संसारबन्धः प्रबलः प्रतीचः । यद्योगतः क्लिश्यति गर्भवास- जन्माप्ययक्लेशभयैरजस्रम् ॥ ४९६॥ अध्यासो नाम खल्वेष वस्तुनो योऽन्यथाग्रहः । स्वाभाविकभ्रान्तिमूलं संसृतेरादिकारणम् ॥ ४९७॥ सर्वानर्थस्य तद्बीजं योऽन्यथाग्रह आत्मनः । ततः संसारसम्पातः सन्ततक्लेशलक्षणः ॥ ४९८॥ अध्यासादेव संसारो नष्टेऽध्यासे न दृश्यते । तदेतदुभयं स्पष्टं पश्य त्वं बद्धमुक्तयोः ॥ ४९९॥ बद्धं प्रवृत्तितो विद्धि मुक्तं विद्धि निवृत्तितः । प्रवृत्तिरेव संसारो निवृत्तिर्मुक्तिरिष्यते ॥ ५००॥ आत्मनः सोऽयमध्यासो मिथ्याज्ञानपुरःसरः । असत्कल्पोऽपि संसारं तनुते रज्जुसर्पवत् ॥ ५०१॥ उपाधियोगसाम्येऽपि जीववत्परमात्मनः । उपाधिभेदान्नो बन्धस्तत्कार्यमपि किञ्चन ॥ ५०२॥ अस्योपाधिः शुद्धसत्त्वप्रधाना माया यत्र त्वस्य नास्त्यल्पभावः । सत्त्वस्यैवोत्कृष्टता तेन बन्धो नो विक्षेपस्तत्कृतो लेशमात्रः ॥ ५०३॥ सर्वज्ञोऽप्रतिबद्धबोधविभवस्तेनैव देवः स्वयं मायां स्वामवलम्ब्य निश्चलतया स्वच्छन्दवृत्तिः प्रभुः । सृष्टिस्थित्यदनप्रवेशयमनव्यापारमात्रेच्छया कुर्वन्क्रीडति तद्रजस्तम उभे संस्तभ्य शक्त्या स्वया ॥ ५०४॥ तस्मादावृतिविक्षेपौ किञ्चित्कर्तुं न शक्नुतः । स्वयमेव स्वतन्त्रोऽसौ तत्प्रवृत्तिनिरोधयोः ॥ ५०५॥ तमेव साधुकर्मेति श्रुतिर्वक्ति महेशितुः । निग्रहेऽनुग्रहे शक्तिरावृतिक्षेपयोर्यतः ॥ ५०६॥ रजसस्तमसश्चैव प्राबल्यं सत्त्वहानतः । जीवोपाधौ तथा जीवे तत्कार्यं बलवत्तरम् ॥ ५०७॥ तेन बन्धोऽस्य जीवस्य संसारोऽपि च तत्कृतः । सम्प्राप्तः सर्वदा यत्र दुःखं भूयः स ईक्षते ॥ ५०८॥ एतस्य संसृतेर्हेतुरध्यासोऽर्थविपर्ययः । अध्यासमूलमज्ञानमाहुरावृतिलक्षणम् ॥५०९ ॥

verses 510-519 Knowledge destroys Ignorance, not Action

॥ २८ ॥ अज्ञाननिवृत्तिः ॥ अज्ञानस्य निवृत्तिस्तु ज्ञानेनैव न कर्मणा । अविरोधितया कर्म नैवाज्ञानस्य बाधकम् ॥ ५१०॥ कर्मणा जायते जन्तुः कर्मणैव प्रलीयते । कर्मणः कार्यमेवैषा जन्ममृत्युपरम्परा ॥ ५११॥ नैतस्मात्कर्मणः कार्यमन्यदस्ति विलक्षणम् । अज्ञानकार्यं तत्कर्म यतोऽज्ञानेन वर्धते ॥ ५१२॥ यद्येन वर्धते तेन नाशस्तस्य न सिध्यति । येन यस्य सहावस्था निरोधाय न कल्पते ॥ ५१३॥ नाशकत्वं तदुभयोः को नु कल्पयितुं क्षमः । सर्वं कर्माविरोध्येव यतोऽज्ञानस्य सर्वदा ॥ ५१४॥ ततोऽज्ञानस्य विच्छित्तिः कर्मणा नैव सिध्यति । यस्य प्रध्वंसजनको यत्संयोगोऽस्ति तत्क्षणे ॥ ५१५॥ तयोरेव विरोधित्वं युक्तं भिन्नस्वभावयोः । तमःप्रकाशयोर्यद्वत्परस्परविरोधिता ॥ ५१६॥ अज्ञानज्ञानयोस्तद्वदुभयोरेव दृश्यते । न ज्ञानेन विनाऽज्ञाननाशः केनापि सिध्यति ॥ ५१७॥ तस्मादज्ञानविच्छित्त्यै ज्ञानं सम्पादयेत्सुधीः । आत्मानात्मविवेकेन ज्ञानं सिध्यति नान्यथा ॥ ५१८॥ युक्त्यात्मानात्मनोस्तस्मात्करणीयं विवेचनम् । अनात्मन्यात्मताबुद्धिग्रन्थिर्येन विदीर्यते ॥ ५१९॥

verses 520-611 Refutation of the false doctrines

॥ २९ ॥ कुमत खण्डनम् ॥ ५२०-६११ आत्मानात्मविवेकार्थं विवादोऽयं निरूप्यते । येनात्मानात्मनोस्तत्त्वं विविक्तं प्रस्फुटायते ॥ ५२०॥ मूढा अश्रुतवेदान्ताः स्वयं पण्डितमानिनः । ईशप्रसादरहिताः सद्गुरोश्च बहिर्मुखाः ॥ ५२१॥ विवदन्ति प्रकारं तं श‍ृणु वक्ष्यामि सादरम् । अत्यन्तपामरः कश्चित्पुत्र आत्मेति मन्यते ॥ ५२२॥ आत्मनीव स्वपुत्रेऽपि प्रबलप्रीतिदर्शनात् । पुत्रे तु पुष्टे पुष्टोऽहं नष्टे नष्टोऽहमित्यतः ॥ ५२३॥ अनुभूतिबलाच्चापि युक्तितोऽपि श्रुतेरपि । आत्मा वै पुत्रनामासीत्येवं च वदति श्रुतिः ॥ ५२४॥ दीपाद्दीपो यथा तद्वत्पितुः पुत्रः प्रजायते । पितुर्गुणानां तनये बीजाङ्कुरवदीक्षणात् ॥ ५२५॥ अतोऽयं पुत्र आत्मेति मन्यते भ्रान्तिमत्तमः । तन्मतं दूषयत्यन्यः पुत्र आत्मा कथं त्विति ॥ ५२६॥ प्रीतिमात्रात्कथं पुत्र आत्मा भवितुमर्हति । अन्यत्रापीक्ष्यते प्रीतिः क्षेत्रपात्रधनादिषु ॥ ५२७॥ पुत्राद्विशिष्टा देहेऽस्मिन्प्राणिनां प्रीतिरिष्यते । प्रदीप्ते भवने पुत्रं त्यक्त्वा जन्तुः पलायते ॥ ५२८॥ तं विक्रीणाति देहार्थं प्रतिकूलं निहन्ति च । तस्मादात्मा तु तनयो न भवेच्च कदाचन ॥ ५२९॥ गुणरूपादिसादृश्यं दीपवन्न सुते पितुः । अव्यङ्गाज्जायते व्यङ्गः सुगुणादपि दुर्गुणः ॥ ५३०॥ आभासमात्रास्ताः सर्वा युक्तयोऽप्युक्तयोऽपि च । पुत्रस्य पितृवद्गेहे सर्वकार्येषु वस्तुषु ॥ ५३१॥ स्वामित्वद्योतनायास्मिन्नात्मत्वमुपचर्यते । श्रुत्या तु मुख्यया वृत्त्या पुत्र आत्मेति नोच्यते ॥ ५३२॥ औपचारिकमात्मत्वं पुत्रे तस्मान्न मुख्यतः । अहम्पदप्रत्ययार्थो देह एव न चेतरः ॥ ५३३॥ प्रत्यक्षः सर्वजन्तूनां देहोऽहमिति निश्चयः । एष पुरुषोऽन्नरसमय इत्यपि च श्रुतिः ॥ ५३४॥ पुरुषत्वं वदत्यस्य स्वात्मा हि पुरुषस्ततः । आत्मायं देह एवेति चार्वाकेण विनिश्चितम् ॥ ५३५॥ तन्मतं दूषयत्यन्योऽसहमानः पृथग्जनः । देह आत्मा कथं नु स्यात्परतन्त्रो ह्यचेतनः ॥ ५३६॥ इन्द्रियैश्चाल्यमानोऽयं चेष्टते न स्वतः क्वचित् । आश्रयश्चक्षुरादीनां गृहवद्गृहमेधिनाम् ॥ ५३७॥ बाल्यादिनानावस्थावाञ्शुक्लशोणितसम्भवः । अतः कदापि देहस्य नात्मत्वमुपपद्यते ॥ ५३८॥ बधिरोऽहं च काणोऽहं मूक इत्यनुभूतितः । इन्द्रियाणि भवन्त्यात्मा येषामस्त्यर्थवेदनम् ॥ ५३९॥ इन्द्रियाणां चेतनत्वं देहे प्राणाः प्रजापतिम् । एतमेत्येत्यूचुरिति श्रुत्यैव प्रतिपाद्यते ॥ ५४०॥ यतस्तस्मादिन्द्रियाणां युक्तमात्मत्वमित्यमुम् । निश्चयं दूषयत्यन्योऽसहमानः पृथग्जनः ॥ ५४१॥ इन्द्रियाणि कथं त्वात्मा करणानि कुठारवत् । करणस्य कुठारादेश्चेतनत्वं न हीक्ष्यते ॥ ५४२॥ श्रुत्याधिदेवतामेवेन्द्रियेषूपचर्यते । न तु साक्षादिन्द्रियाणां चेतनत्वमुदीर्यते ॥ ५४३॥ अचेतनस्य दीपादेरर्थाभासकता यथा । तथैव चक्षुरादीनां जडानामपि सिध्यति ॥ ५४४॥ इन्द्रियाणां चेष्टयिता प्राणोऽयं पञ्चवृत्तिकः । सर्वावस्थास्ववस्थावान्सोऽयमात्मत्वमर्हति । अहं क्षुधावांस्तृष्णावानित्याद्यनुभवादपि ॥ ५४५॥ श्रुत्यान्योऽन्तर आत्मा प्राणमय इतीर्यते यस्मात् । तस्मात्प्राणस्यात्मत्वं युक्तं नो करणसंज्ञानां क्वापि ॥ ५४६॥ इति निश्चयमेतस्य दूषयत्यपरो जडः । भवत्यात्मा कथं प्राणो वायुरेवैष आन्तरः ॥ ५४७॥ बहिर्यात्यन्तरायाति भस्त्रिकावायुवन्मुहुः । न हितं वाऽहितं वा स्वमन्यद्वा वेद किञ्चन ॥ ५४८ ॥ जडस्वभावश्चपलः कर्मयुक्तश्च सर्वदा । प्राणस्य भानं मनसि स्थिते सुप्ते न दृश्यते ॥ ५४९॥ मनस्तु सर्वं जानाति सर्ववेदनकारणम् । यत्तस्मान्मन एवात्मा प्राणस्तु न कदाचन ॥ ५५०॥ सङ्कल्पवानहं चिन्तावानहं च विकल्पवान् । इत्याद्यनुभवादन्योऽन्तर आत्मा मनोमयः ॥ ५५१॥ इत्यादिश्रुतिसद्भावाद्युक्ता मनस आत्मता । इति निश्चयमेतस्य दूषयत्यपरो जडः ॥ ५५२॥ कथं मनस आत्मत्वं करणस्य दृगादिवत् । कर्तृप्रयोज्यं करणं न स्वयं तु प्रवर्तते ॥ ५५३॥ करणप्रयोक्ता यः कर्ता तस्यैवात्मत्वमर्हति । आत्मा स्वतन्त्रः पुरुषो न प्रयोज्यः कदाचन ॥ ५५४॥ अहं कर्तास्म्यहं भोक्ता सुखीत्यनुभवादपि । बुद्धिरात्मा भवत्येव बुद्धिधर्मो ह्यहङ्कृतिः ॥ ५५५॥ अन्योऽन्तर आत्मा विज्ञानमय इति वदति निगमः । मनसोऽपि च भिन्नं विज्ञानमयं कर्तृरूपमात्मानम् ॥ ५५६॥ विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च । इत्यस्य कर्तृता श्रुत्या मुखतः प्रतिपाद्यते । तस्माद्युक्तात्मता बुद्धेरिति बौद्धेन निश्चितम् ॥ ५५७॥ प्राभाकरतार्किकश्च तावुभावप्यमर्षया । तन्निश्चयं दूषयतो बुद्धिरात्मा कथं न्विति ॥ ५५८॥ बुद्धेरज्ञानकार्यत्वाद्विनाशित्वात्प्रतिक्षणम् । बुद्ध्यादीनां च सर्वेषामज्ञाने लयदर्शनात् ॥ ५५९॥ अज्ञोऽहमित्यनुभवादास्त्रीबालादिगोचरात् । भवत्यज्ञानमेवात्मा न तु बुद्धिः कदाचन ॥ ५६०॥ विज्ञानमयादन्यं त्वानन्दमयं परं तथात्मानम् । अन्योऽन्तर आत्मानन्दमय इति हि वदति वेदोऽपि ॥ ५६१॥ दुःखप्रत्ययशून्यत्वादानन्दमयता मता । अज्ञाने सकलं सुप्तौ बुद्ध्यादि प्रविलीयते ॥ ५६२॥ दुःखिनोऽपि सुषुप्त्यादावानन्दमयता ततः । सुप्तौ किञ्चिन्न जानामीत्यनुभूतिश्च दृश्यते ॥ ५६३॥ यत एवमतो युक्ता ह्यज्ञानस्यात्मता ध्रुवम् । इति तन्निश्चयं भाट्टा दूषयन्ति स्वयुक्तिभिः ॥ ५६४॥ कथमज्ञानमेवात्मा ज्ञानं चाप्युपलभ्यते । ज्ञानाभावे कथं विद्युरज्ञोऽहमिति चाज्ञताम् । अस्वाप्सं सुखमेवाहं न जानाम्यत्र किञ्चन ॥ ५६५॥ इत्यज्ञानमपि ज्ञानं प्रबुद्धेषु प्रदृश्यते । प्रज्ञानघन एवानन्दमय इत्यपि श्रुतिः ॥ ५६६॥ प्रब्रवीत्युभयात्मत्वमात्मनः स्वयमेव हि । आत्मातश्चिज्जडतनुः खद्योत इव सम्मतः ॥ ५६७॥ न केवलाज्ञानमयो घटकुड्यादिवज्जडः । इति निश्चयमेतेषां दूषयत्यपरो जडः ॥ ५६८॥ ज्ञानाज्ञानमयस्त्वात्मा कथं भवितुमर्हति । परस्परविरुद्धत्वात्तेजस्तिमिरवत्तयोः ॥ ५६९॥ सामानाधिकरण्यं वा संयोगो वा समाश्रयः । तमःप्रकाशवज्ज्ञानाज्ञानयोर्न हि सिध्यति ॥ ५७०॥ अज्ञानमपि विज्ञानं बुद्धिर्वापि च तद्गुणाः । सुषुप्तौ नोपलभ्यन्ते यत्किञ्चिदपि वापरम् ॥ ५७१॥ मात्रादिलक्षणं किं तु शून्यमेवोपलभ्यते । सुषुप्तौ नान्यदस्त्येव नाहमप्यासमित्यनु ॥ ५७२॥ सुप्तोत्थितजनैः सर्वैः शून्यमेवानुस्मर्यते । यत्ततः शून्यमेवात्मा न ज्ञानाज्ञानलक्षणः ॥ ५७३॥ वेदेनाप्यसदेवेदमग्र आसीदिति स्फुटम् । निरुच्यते यतस्तस्माच्छून्यस्यैवात्मता मता ॥ ५७४॥ असन्नेव घटः पूर्वं जायमानः प्रदृश्यते । न हि कुम्भः पुरैवान्तः स्थित्वोदेति बहिर्मुखः ॥ ५७५॥ यत्तस्मादसतः सर्वं सदिदं समजायत । ततः सर्वात्मना शून्यस्यैवात्मत्वं समर्हति ॥ ५७६॥ इत्येवं पण्डितम्मन्यैः परस्परविरोधिभिः । तत्तन्मतानुरूपाल्पश्रुतियुक्त्यनुभूतिभिः ॥ ५७७॥ निर्णीतमतजातानि खण्डितान्येव पण्डितैः । श्रुतिभिश्चाप्यनुभवैर्बाधकैः प्रतिवादिनाम् ॥ ५७८॥ यतस्तस्मात्तु पुत्रादेः शून्यान्तस्य विशेषतः । सुसाधितमनात्मत्वं श्रुतियुक्त्यनुभूतिभिः ॥ ५७९॥ न हि प्रमाणान्तरबाधितस्य याथार्थ्यमङ्गीक्रियते महद्भिः । पुत्रादिशून्यान्तमनात्मतत्त्व- मित्येव विस्पष्टमतः सुजातम् ॥ ५८०॥ शिष्यः । सुषुप्तिकाले सकले विलीने शून्यं विना नान्यदिहोपलभ्यते । शून्यं त्वनात्मा न ततः परः कोऽप्यात्माभिधानस्त्वनुभूयतेऽर्थः ॥ ५८१॥ यद्यस्ति चात्मा किमु नोपलभ्यते सुप्तौ यथा तिष्ठति किं प्रमाणम् । किं लक्षणोऽसौ स कथं न बाध्यते प्रबाध्यमानेष्वहमादिषु स्वयम् ॥ ५८२॥ एतत्संशयजातं मे हृदयग्रन्थिलक्षणम् । छिन्धि युक्तिमहाखड्गधारया कृपया गुरो ॥ ५८३॥ श्रीगुरुः । अतिसूक्ष्मतरः प्रश्नस्तवायं सदृशो मतः । सूक्ष्मार्थदर्शनं सूक्ष्मबुद्धिष्वेव प्रदृश्यते ॥ ५८४॥ श‍ृणु वक्ष्यामि सकलं यद्यत्पृष्टं त्वयाधुना । रहस्यं परमं सूक्ष्मं ज्ञातव्यं च मुमुक्षुभिः ॥ ५८५॥ बुद्ध्यादि सकलं सुप्तावनुलीनं स्वकारणे । अव्यक्ते वटवद्बीजे तिष्ठत्यविकृतात्मना ॥ ५८६॥ तिष्ठत्येव स्वरूपेण न तु शून्यायते जगत् । क्वचिदङ्कुररूपेण क्वचिद्बीजात्मना वटः । कार्यकारणरूपेण यथा तिष्ठत्यदस्तथा ॥ ५८७॥ अव्याकृतात्मनावस्थां जगतो वदति श्रुतिः । सुषुप्त्यादिषु तद्धेदं तर्ह्यव्याकृतमित्यसौ ॥ ५८८॥ इममर्थमविज्ञाय निर्णीतं श्रुतियुक्तिभिः । जगतो दर्शनं शून्यमिति प्राहुरतद्विदः ॥ ५८९॥ नासतः सत उत्पत्तिः श्रूयते न च दृश्यते । उदेति नरश‍ृङ्गात्किं खपुष्पात्किं भविष्यति ॥ ५९०॥ प्रभवति न हि कुम्भोऽविद्यमानो मृदश्चेत् प्रभवतु सिकताया वाथवा वारिणो वा । न हि भवति च ताभ्यां सर्वथा क्वापि तस्मा- द्यत उदयति योऽर्थोऽस्त्यत्र तस्य स्वभावः ॥ ५९१॥ अन्यथा विपरीतं स्यात्कार्यकारणलक्षणम् । नियतं सर्वशास्त्रेषु सर्वलोकेषु सर्वतः ॥ ५९२॥ कथमसतः सज्जायेतेति श्रुत्या निषिद्ध्यते तस्मात् । असतः सज्जननं नो घटते मिथ्यैव शून्यशब्दार्थः ॥ ५९३॥ अव्यक्तशब्दिते प्राज्ञे सत्यात्मन्यत्र जाग्रति । कथं सिध्यति शून्यत्वं तस्य भ्रान्तशिरोमणे ॥ ५९४॥ सुषुप्तौ शून्यमेवेति केन पुंसा तवेरितम् । हेतुनानुमितं केन कथं ज्ञातं त्वयोच्यताम् ॥ ५९५॥ इति पृष्टो मूढतमो वदिष्यति किमुत्तरम् । नैवानुरूपकं लिङ्गं वक्ता वा नास्ति कश्चन । सुषुप्तिस्थितशून्यस्य बोद्धा को न्वात्मनः परः ॥ ५९६॥ स्वेनानुभूतं स्वयमेव वक्ति स्वसुप्तिकाले स्थितशून्यभावम् । तत्र स्वसत्तामनवेक्ष्य मूढः स्वस्यापि शून्यत्वमयं ब्रवीति ॥ ५९७॥ अवेद्यमानः स्वयमन्यलोकैः सौषुप्तिकं धर्ममवैति साक्षात् । बुद्ध्याद्यभावस्य च योऽत्र बोद्धा स एव आत्मा खलु निर्विकारः ॥ ५९८॥ यस्येदं सकलं विभाति महसा तस्य स्वयंज्योतिषः सूर्यस्येव किमस्ति भासकमिह प्रज्ञादि सर्वं जडम् । न ह्यर्कस्य विभासकं क्षितितले दृष्टं तथैवात्मनो नान्यः कोऽप्यनुभासकोऽनुभविता नातः परः कश्चन ॥ ५९९॥ येनानुभूयते सर्वं जाग्रत्स्वप्नसुषुप्तिषु । विज्ञातारमिमं को नु कथं वेदितुमर्हति ॥ ६००॥ सर्वस्य दाहको वह्निर्वह्नेर्नान्योऽस्ति दाहकः । यथा तथात्मनो ज्ञातुर्ज्ञाता कोऽपि न दृश्यते ॥ ६०१॥ उपलभ्येत केनायं ह्युपलब्धा स्वयं ततः । उपलब्ध्यन्तराभावान्नायमात्मोपलभ्यते ॥ ६०२॥ बुद्ध्यादिवेद्यविलयादयमेक एव सुप्तौ न पश्यति श‍ृणोति न वेत्ति किञ्चित् । सौषुप्तिकस्य तमसः स्वयमेव साक्षी भूत्वात्र तिष्ठति सुखेन च निर्विकल्पः ॥ ६०३॥ सुषुप्तावात्मसद्भावे प्रमाणं पण्डितोत्तमाः । विदुः स्वप्रत्यभिज्ञानमाबालवृद्धसम्मतम् ॥ ६०४॥ प्रत्यभिज्ञायमानत्वं लिङ्गमत्रानुमापकम् । स्मर्यमाणस्य सद्भावः सुखमस्वाप्समित्ययम् ॥ ६०५॥ पुरानुभूतो नो चेत्तु स्मृतेरनुदयो भवेत् । इत्यादितर्कयुक्तिश्च सद्भावे मानमात्मनः ॥ ६०६॥ यत्रात्मनोऽकामयितृत्वबुद्धिः स्वप्नानवेक्षापि च तत्सुषुप्तम् । इत्यात्म सद्भाव उदीर्यतेऽत्र श्रुत्यापि तस्माच्छ्रुतिरत्र मानम् ॥ ६०७॥ अकामयितृता स्वप्नादर्शनं घटते कथम् । अविद्यमानस्य तत आत्मास्तित्वं प्रतीयते ॥ ६०८॥ एतैः प्रमाणैरस्तीति ज्ञातः साक्षितया बुधैः । आत्मायं केवलः शुद्धः सच्चिदानन्दलक्षणः ॥ ६०९॥ सत्त्वचित्त्वानन्दतादिलक्षणं प्रत्यगात्मनः । कालत्रयेऽप्य बाध्यत्वं सत्त्वं नित्यस्वरूपतः ॥ ६१०॥ शुद्धचैतन्यरूपत्वं चित्त्वं ज्ञानस्वरूपतः । अखण्डसुखरूपत्वादानन्दत्वमितीर्यते ॥ ६११॥

verses 612-617 The eternal nature of the Atman

॥ ३० ॥ शाश्वतलक्षणम् ॥ अनुस्यूतात्मनः सत्ता जाग्रत्स्वप्नसुषुप्तिषु । अहमस्मीत्यतो नित्यो भवत्यात्मायमव्ययः ॥ ६१२॥ सर्वदाप्यासमित्येवाभिन्नप्रत्यय ईक्ष्यते । कदापि नासं नेत्यस्मादात्मनो नित्यता मता ॥ ६१३॥ आयातासु गतासु शैशवमुखावस्थासु जाग्रन्मुखा- स्वन्यास्वप्यखिलासु वृत्तिषु धियो दुष्टास्वदुष्टास्वपि । गङ्गाभङ्गपरम्परासु जलवत्सत्तानुवृत्तात्मन- स्तिष्ठत्येव सदा स्थिराहमहमित्येकात्मता साक्षिणः ॥ ६१४॥ प्रतिपदमहमादयो विभिन्नाः क्षणपरिणामितया विकारिणस्ते । न परिणतिरमुष्य निष्कलत्वा- दयमविकार्यत एव नित्य आत्मा ॥ ६१५॥ यः स्वप्नमद्राक्षमहं सुखं योऽ- स्वाप्सं स एवास्म्यथ जागरूकः । इत्येवमच्छिन्नतयानुभूयते सत्तात्मनो नास्ति हि संशयोऽत्र ॥ ६१६॥ श्रुत्युक्ताः षोडशकलाश्चिदाभासस्य नात्मनः । निष्कलत्वान्नास्य लयस्तस्मान्नित्यत्वमात्मनः ॥ ६१७॥

verses 618-622 The intelligent nature of the Atman

॥ ३१ ॥ चित्स्वरूपम् ॥ जडप्रकाशकः सूर्यः प्रकाशात्मैव नो जडः । बुद्ध्यादिभासकस्तस्माच्चित्स्वरूपस्तथा मतः ॥ ६१८॥ कुड्यादेस्तु जडस्य नैव घटते भानं स्वतः सर्वदा सूर्यादिप्रभया विना क्वचिदपि प्रत्यक्षमेतत्तथा । बुद्ध्यादेरपि न स्वतोऽस्त्यणुरपि स्फूर्तिर्विनैवात्मना सोऽयं केवलचिन्मयश्श्रुतिमतो भानुर्यथा रुङ्मयः ॥ ६१९॥ स्वभासने वान्यपदार्थभासने नार्कः प्रकाशान्तरमीषदिच्छति । स्वबोधने वाप्यहमादिबोधने तथैव चिद्धातुरयं परात्मा ॥ ६२०॥ अन्यप्रकाशं न किमप्यपेक्ष्य यतोऽयमाभाति निजात्मनैव । ततः स्वयंज्योतिरयं चिदात्मा न ह्यात्मभाने परदीप्त्यपेक्षा ॥ ६२१॥ यं न प्रकाशयति किञ्चिदिनोऽपि चन्द्रः नो विद्युतः किमुत वह्निरयं मिताभः । यं भान्तमेतमनुभाति जगत्समस्तं सोऽयं स्वयं स्फुरति सर्वदशासु चात्मा ॥ ६२२॥

verses 623-634 The blissful nature of the Atman

॥ ३२ ॥ आनन्दस्वरूपम् ॥ आत्मनः सुखस्वरूपादानन्दत्वं स्वलक्षणम् । परप्रेमास्पदत्वेन सुखरूपत्वमात्मनः ॥ ६२३॥ सुखहेतुषु सर्वेषां प्रीतिः सावधिरीक्ष्यते । कदापि नावधिः प्रीतेः स्वात्मनि प्राणिनां क्वचित् ॥ ६२४॥ क्षीणेन्द्रियस्य जीर्णस्य सम्प्राप्तोत्क्रमणस्य वा । अस्ति जीवितुमेवाशा स्वात्मा प्रियतमो यतः ॥ ६२५॥ आत्मातः परमप्रेमास्पदः सर्वशरीरिणाम् । यस्य शेषतया सर्वमुपादेयत्वमृच्छति ॥ ६२६॥ एष एव प्रियतमः पुत्रादपि धनादपि । अन्यस्मादपि सर्वस्मादात्मायं परमान्तरः ॥ ६२७॥ प्रियत्वेन मतं यत्तु तत्सदा न प्रियं नृणाम् । विपत्तावपि सम्पत्तौ यथात्मा न तथापरः ॥ ६२८॥ आत्मा खलु प्रियतमोऽसुभृतां यदर्था भार्यात्मजाप्तगृहवित्तमुखाः पदार्थाः । वाणिज्यकर्षण गवावनराजसेवा- भैषज्यकप्रभृतयो विविधाः क्रियाश्च ॥ ६२९॥ प्रवृत्तिश्च निवृत्तिश्च यच्च यावच्च चेष्टितम् । आत्मार्थमेव नान्यार्थं नातः प्रियतमः परः ॥ ६३०॥ तस्मादात्मा केवलानन्दरूपो यः सर्वस्माद्वस्तुनः प्रेष्ठ उक्तः । यो वा अस्मान्मन्यतेऽन्यं प्रियं यं सोऽयं तस्माच्छोकमेवानुभुङ्क्ते ॥ ६३१॥ शिष्यः । अपरः क्रियते प्रश्नो मयायं क्षम्यतां प्रभो । अज्ञवागपराधाय कल्पते न महात्मनाम् ॥ ६३२॥ आत्मान्यः सुखमन्यच्च नात्मनः सुखरूपता । आत्मनः सुखमाशास्यं यतते सकलो जनः ॥ ६३३॥ आत्मनः सुखरूपत्वे प्रयत्नः किमु देहिनाम् । एष मे संशयः स्वामिन् कृपयैव निरस्यताम् ॥ ६३४॥ verses 635-672 Atman the only way to happiness ॥ ३३ ॥ दुःखप्रदं वस्तु सुखं दातुं न समर्हति ॥ ६३५-६७२ श्रीगुरुः । आनन्दरूपमात्मानमज्ञात्वैव पृथग्जनः । बहिःसुखाय यतते न तु कश्चिद्विदन्बुधः ॥ ६३५॥ अज्ञात्वैव हि निक्षेपं भिक्षामटति दुर्मतिः । स्ववेश्मनि निधिं ज्ञात्वा को नु भिक्षामटेत्सुधीः ॥ ६३६॥ स्थूलं च सूक्ष्मं च वपुः स्वभावतो दुःखात्मकं स्वात्मतया गृहीत्वा । विस्मृत्य च स्वं सुखरूपमात्मनो दुःखप्रदेभ्यः सुखमज्ञ इच्छति ॥ ६३७॥ नहि दुःखप्रदं वस्तु सुखं दातुं समर्हति । किं विषं पिबतो जन्तोरमृतत्वं प्रयच्छति ॥ ६३८॥ आत्मान्यः सुखमन्यच्चेत्येवं निश्चित्य पामरः । बहिःसुखाय यतते सत्यमेव न संशयः ॥ ६३९॥ इष्टस्य वस्तुनो ध्यानदर्शनाद्युपभुक्तिषु । प्रतीयते य आनन्दः सर्वेषामिह देहिनाम् ॥ ६४०॥ स वस्तुधर्मो नो यस्मान्मनस्येवोपलभ्यते । वस्तुधर्मस्य मनसि कथं स्यादुपलम्भनम् ॥ ६४१॥ अन्यत्र त्वन्यधर्माणामुपलम्भो न दृश्यते । तस्मान्न वस्तुधर्मोऽयमानन्दस्तु कदाचन ॥ ६४२॥ नाप्येष धर्मो मनसोऽसत्यर्थे तददर्शनात् । असति व्यञ्जके व्यङ्ग्यं नोदेतीति न मन्यताम् ॥ ६४३॥ सत्यर्थेऽपि च नोदेति ह्यानन्दस्तूक्तलक्षणः । सत्यपि व्यञ्जके व्यङ्ग्यानुदयो नैव सम्मतः ॥ ६४४॥ दुरदृष्टादिकं नात्र प्रतिबन्धः प्रकल्प्यताम् । प्रियस्य वस्तुनो लाभे दुरदृष्टं न सिध्यति ॥ ६४५॥ तस्मान्न मानसो धर्मो निर्गुणत्वान्न चात्मनः । किं तु पुण्यस्य सांनिध्यादिष्टस्यापि च वस्तुनः ॥ ६४६॥ सत्त्वप्रधाने चित्तेऽस्मिंस्त्वात्मैव प्रतिबिम्बति । आनन्दलक्षणः स्वच्छे पयसीव सुधाकरः ॥ ६४७॥ सोऽयमाभास आनन्दश्चित्ते यः प्रतिबिम्बितः । पुण्योत्कर्षापकर्षाभ्यां भवत्युच्चावचः स्वयम् ॥ ६४८॥ सार्वभौमादिब्रह्मान्तं श्रुत्या यः प्रतिपादितः । स क्षयिष्णुः सातिशयः प्रक्षीणे कारणे लयम् ॥ ६४९॥ यात्येष विषयानन्दो यस्तु पुण्यैकसाधनः । ये तु वैषयिकानन्दं भुञ्जते पुण्यकारिणः ॥ ६५०॥ दुःखं च भोगकालेऽपि तेषामन्ते महत्तरम् । सुखं विषयसम्पृक्तं विषसम्पृक्तभक्तवत् ॥ ६५१॥ भोगकालेऽपि भोगान्ते दुःखमेव प्रयच्छति । सुखमुच्चावचत्वेन क्षयिष्णुत्वभयेन च ॥ ६५२॥ भोगकाले भवेन्नॄणां ब्रह्मादिपदभाजिनाम् । राजस्थानप्रविष्टानां तारतम्यं मतं यथा ॥ ६५३॥ तथैव दुःखं जन्तूनां ब्रह्मादिपदभाजिनाम् । न काङ्क्षणीयं विदुषा तस्माद्वैषयिकं सुखम् ॥ ६५४॥ यो बिम्बभूत आनन्दः स आत्मानन्दलक्षणः । शाश्वतो निर्द्वयः पूर्णो नित्य एकोऽपि निर्भयः ॥ ६५५॥ लक्ष्यते प्रतिबिम्बेनाभासानन्देन बिम्बवत् । प्रतिबिम्बो बिम्बमूलो विना बिम्बं न सिध्यति ॥ ६५६॥ यत्ततो बिम्ब आनन्दः प्रतिबिम्बेन लक्ष्यते । युक्त्यैव पण्डितजनैर्न कदाप्यनुभूयते ॥ ६५७॥ अविद्याकार्यकरणसङ्घातेषु पुरोदितः । आत्मा जाग्रत्यपि स्वप्ने न भवत्येष गोचरः ॥ ६५८॥ स्थूलस्यापि च सूक्ष्मस्य दुःखरूपस्य वर्ष्मणः । लये सुषुप्तौ स्फुरति प्रत्यगानन्दलक्षणः ॥ ६५९॥ न ह्यत्र विषयः कश्चिन्नापि बुद्ध्यादि किञ्चन । आत्मैव केवलानन्दमात्रस्तिष्ठति निर्द्वयः ॥ ६६०॥ प्रत्यभिज्ञायते सर्वैरेष सुप्तोत्थितैर्जनैः । सुखमात्रतया नात्र संशयं कर्तुमर्हसि ॥ ६६१॥ त्वयापि प्रत्यभिज्ञातं सुखमात्रत्वमात्मनः । सुषुप्तादुत्थितवता सुखमस्वाप्समित्यनु ॥ ६६२॥ दुःखाभावः सुखमिति यदुक्तं पूर्ववादिना । अनाघ्रातोपनिषदा तदसारं मृषा वचः ॥ ६६३॥ दुःखाभावस्तु लोष्टादौ विद्यते नानुभूयते । सुखलेशोऽपि सर्वेषां प्रत्यक्षं तदिदं खलु ॥ ६६४॥ सदयं ह्येष एवेति प्रस्तुत्य वदति श्रुतिः । सद्घनोऽयं चिद्घनोऽयमानन्दघन इत्यपि ॥ ६६५॥ आनन्दघनतामस्य स्वरूपं प्रत्यगात्मनः । धन्यैर्महात्मभिधीरैर्ब्रह्मविद्भिः सदुत्तमैः ॥ ६६६॥ अपरोक्षतयैवात्मा समाधावनुभूयते । केवलानन्दमात्रत्वेनैवमत्र न संशयः ॥ ६६७॥ स्वस्वोपाध्यनुरूपेण ब्रह्माद्याः सर्वजन्तवः । उपजीवन्त्यमुष्यैव मात्रामानन्दलक्षणाम् ॥ ६६८॥ आस्वाद्यते यो भक्ष्येषु सुखकृन्मधुरो रसः । स गुडस्यैव नो तेषां माधुर्यं विद्यते क्वचित् ॥ ६६९॥ तद्वद्विषयसांनिध्यादानन्दो यः प्रतीयते । बिम्बानन्दांशविस्फूर्तिरेवासौ न जडात्मनाम् ॥ ६७०॥ यस्य कस्यापि योगेन यत्र कुत्रापि दृश्यते । आनन्दः स परस्यैव ब्रह्मणः स्फूर्तिलक्षणः ॥ ६७१॥ यथा कुवलयोल्लासश्चन्द्रस्यैव प्रसादतः । तथानन्दोदयोऽप्येषां स्फुरणादेव वस्तुनः ॥ ६७२॥

verses 673-702 The non-dual nature of the Atman

॥ ३४ ॥ अद्वितीयत्वम् ॥ सत्त्वं चित्त्वं तथानन्दः स्वरूपं परमात्मनः । तथानन्दस्वरूपं निर्गुणस्य गुणायोगाद्गुणास्तु न भवन्ति ते ॥ ६७३॥ विशेषणं तु व्यावृत्त्यै भवेद्द्र्व्यान्तरे सति । परमात्माद्वितीयोऽयं प्रपञ्चस्य मृषात्वतः ॥ ६७४॥ वस्त्वन्तरस्याभावेन न व्यावर्त्यः कदाचन । केवलो निर्गुणश्चेति निर्गुणत्वं निरुच्यते ॥ ६७५॥ श्रुत्यैव न ततस्तेषां गुणत्वमुपपद्यते । उष्णत्वं च प्रकाशश्च यथा वह्नेस्तथात्मनः ॥ ६७६॥ सत्त्वचित्त्वानन्दतादि स्वरूपमिति निश्चितम् । अत एव सजातीयविजातीयादिलक्षणः ॥ ६७७॥ भेदो न विद्यते वस्तुन्यद्वितीये परात्मनि । प्रपञ्चस्यापवादेन विजातीयकृता भिदा ॥ ६७८॥ नेष्यते तत्प्रकारं ते वक्ष्यामि श‍ृणु सादरम् । अहेर्गुणविवर्तस्य गुणमात्रत्ववत् सतः ॥ ६७९॥ विवर्तस्यास्य जगतः सन्मात्रत्वेन दर्शनम् । अपवाद इति प्राहुरद्वैतब्रह्मदर्शिनः ॥ ६८०॥ व्युत्क्रमेण तदुत्पत्तेर्द्रष्टव्यं सूक्ष्मबुद्धिभिः । प्रतीतस्यास्य जगतः सन्मात्रत्वं सुयुक्तिभिः ॥ ६८१॥ चतुर्विधं स्थूलशरीरजातं तद्भोज्यमन्नादि तदाश्रयादि । ब्रह्माण्डमेतत्सकलं स्थविष्ठ- मीक्षेत पञ्चीकृतभूतमात्रम् ॥ ६८२॥ यत्कार्यरूपेण यदीक्ष्यते त- त्तन्मात्रमेवात्र विचार्यमाणे । मृत्कार्यभूतं कलशादि सम्य- ग्विचारितं सन्न मृदो विभिद्यते ॥ ६८३॥ अन्तर्बहिश्चापि मृदेव दृश्यते मृदो न भिन्नं कलशादि किञ्चन । ग्रीवादिमद्यत्कलशं तदित्थं न वाच्यमेतच्च मृदेव नान्यत् ॥ ६८४॥ स्वरूपतस्तत्कलशादिनाम्ना मृदेव मूढैरभिधीयते ततः । नाम्नो हि भेदो न तु वस्तुभेदः प्रदृश्यते तत्र विचार्यमाणे ॥ ६८५॥ तस्माद्धि कार्यं न कदापि भिन्नं स्वकारणादस्ति यतस्ततोऽङ्ग । यद्भौतिकं सर्वमिदं तथैव तद्भूतमात्रं न ततोऽपि भिन्नम् ॥ ६८६॥ तच्चापि पञ्चीकृतभूतजातं शब्दादिभिः स्वस्वगुणैश्च सार्धं वपूंषि सूक्ष्माणि च सर्वमेत- द्भवत्यपञ्चीकृतभूतमात्रम् ॥ ६८७॥ तदप्यपञ्चीकृतभूतजातं रजस्तमःसत्त्वगुणैश्च सार्धम् । अव्यक्तमात्रं भवति स्वरूपतः साभासमव्यक्तमिदं स्वयं च ॥ ६८८॥ आधारभूतं यदखण्डमाद्यं शुद्धं परं ब्रह्म सदैकरूपम् । सन्मात्रमेवास्त्यथ नो विकल्पः सतः परं केवलमेव वस्तु ॥ ६८९॥ एकश्चन्द्रः सद्वितीयो यथा स्या- द्दृष्टेर्दोषादेव पुंसस्तथैकम् । ब्रह्मास्त्येतद्बुद्धिदोषेण नाना दोषे नष्टे भाति वस्त्वेकमेव ॥ ६९०॥ रज्जोः स्वरूपाधिगमेन सर्पधी रज्ज्वां विलीना तु यथा तथैव । ब्रह्मावगत्या तु जगत्प्रतीति- स्तत्रैव लीना तु सह भ्रमेण ॥ ६९१॥ भ्रान्योदितद्वैतमतिप्रशान्त्या सदैकमेवास्ति सदाद्वितीयम् । ततो विजातीयकृतोऽत्र भेदो न विद्यते ब्रह्मणि निर्विकल्पे ॥ ६९२॥ यदास्त्युपाधिस्तदभिन्न आत्मा तदा सजातीय इवावभाति । स्वप्नार्थवत्तस्य मृषात्मकत्वा- त्तदप्रतीतौ स्वयमेष आत्मा । ब्रह्मैक्यतामेति पृथङ् न भाति ततः सजातीयकृतो न भेदः ॥ ६९३॥ घटाभावे घटाकाशो महाकाशो यथा तथा । उपाध्यभावे त्वात्मैष स्वयं ब्रह्मैव केवलम् ॥ ६९४॥ पूर्ण एव सदाकाशो घटे सत्यप्यसत्यपि । नित्यपूर्णस्य नभसो विच्छेदः केन सिध्यति ॥ ६९५॥ अच्छिन्नश्छिन्नवद्भाति पामराणां घटादिना । ग्रामक्षेत्राद्यवधिभिर्भिन्नेव वसुधा यथा ॥ ६९६॥ तथैव परमं ब्रह्म महतां च महत्तमम् । परिच्छिन्नमिवाभाति भ्रान्त्या कल्पितवस्तुना ॥ ६९७॥ तस्माद्ब्रह्मात्मनोर्भेदः कल्पितो न तु वास्तवः । अत एव मुहुः श्रुत्याप्येकत्वं प्रतिपाद्यते ॥ ६९८॥ ब्रह्मात्मनोस्तत्त्वमसीत्यद्वयत्वोपपत्तये । प्रत्यक्षादिविरोधेन वाच्ययोर्नोपपद्यते । तत्त्वम्पदार्थयोरैक्यं लक्ष्ययोरेव सिध्यति ॥ ६९९॥ शिष्यः - स्यात्तत्त्वम्पदयोः स्वामिनर्थः कतिविधो मतः । पदयोः को नु वाच्यार्थो लक्ष्यार्थ उभयोश्च कः ॥ ७००॥ वाच्यैकत्वविवक्षायां विरोधः कः प्रतीयते । लक्ष्यार्थयोरभिन्नत्वे स कथं विनिवर्तते ॥ ७०१॥ एकत्वकथने का वा लक्षणात्रोररीकृता । एतत्सर्वं करुणया सम्यक्त्वं प्रतिपादय ॥ ७०२॥

verses 703-708 The meaning of the words 'That' and 'Thou'

॥ ३५ ॥ तत्त्वम्पदयोरर्थः ॥ श‍ृणुष्वावहितो विद्वन्नद्य ते फलितं तपः । वाक्यार्थश्रुतिमात्रेण सम्यग्ज्ञानं भविष्यति ॥ ७०३॥ यावन्न तत्त्वम्पदयोरर्थः सम्यग्विचार्यते । तावदेव नृणां बन्धो मृत्युसंसारलक्षणः ॥ ७०४॥ अवस्था सच्चिदानन्दाखण्डैकरसरूपिणी । मोक्षः सिध्यति वाक्यार्थापरोक्षज्ञानतः सताम् ॥ ७०५॥ वाक्यार्थ एव ज्ञातव्यो मुमुक्षोर्भवमुक्तये । तस्मादवहितो भूत्वा श‍ृणु वक्ष्ये समासतः ॥ ७०६॥ अर्था बहुविधाः प्रोक्ता वाक्यानां पण्डितोत्तमैः । वाच्यलक्ष्यादिभेदेन प्रस्तुतं श्रूयतां त्वया ॥ ७०७॥ वाक्ये तत्त्वमसीत्यत्र विद्यते यत्पदत्रयम् । तत्रादौ विद्यमानस्य तत्पदस्य निगद्यते ॥ ७०८॥

verses 709-732 The direct meaning of the word 'That'

॥ ३६ ॥ तत्पदस्य सम्यगर्थः ॥ शास्त्रार्थकोविदैरर्थो वाच्यो लक्ष्य इति द्विधा । वाच्यार्थं ते प्रवक्ष्यामि पण्डितैर्य उदीरितः ॥ ७०९॥ समष्टिरूपमज्ञानं साभासं सत्त्वबृंहितम् । वियदादिविराडन्तं स्वकार्येण समन्वितम् ॥ ७१०॥ चैतन्यं तदवच्छिन्नं सत्यज्ञानादिलक्षणम् । सर्वज्ञत्वेश्वरत्वान्तर्यामित्वादिगुणैर्युतम् ॥ ७११॥ जगत्स्रष्टृत्वपातृत्वसंहर्तृत्वादिधर्मकम् । सर्वात्मना भासमानं यदमेयं गुणैश्च तत् ॥ ७१२॥ अव्यक्तमपरं ब्रह्म वाच्यार्थ इति कथ्यते । नीलमुत्पलमित्यत्र यथा वाक्यार्थसङ्गतिः ॥ ७१३॥ तथा तत्त्वमसीत्यत्र नास्ति वाक्यार्थसङ्गतिः । पटाद्व्यावर्तते नील उत्पलेन विशेषितः ॥ ७१४॥ शौक्ल्याद्व्यावर्तते नीलेनोत्पलं तु विशेषितम् । इत्थमन्योन्यभेदस्य व्यावर्तकतया तयोः ॥ ७१५॥ विशेषणविशेष्यत्वसंसर्गस्येतरस्य वा । वाक्यार्थत्वे प्रमाणान्तरविरोधो न विद्यते ॥ ७१६॥ अतः सङ्गच्छते सम्यग्वाक्यार्थो बाधवर्जितः । एवं तत्त्वमसीत्यत्र वाक्यार्थो न समञ्जसः ॥ ७१७॥ तदर्थस्य परोक्षत्वादिविशिष्टचितेरपि । त्वमर्थस्यापरोक्षत्वादिविशिष्टचितेरपि ॥ ७१८॥ तथैवान्योन्यभेदस्य व्यावर्तकतया तयोः । विशेषणविशेष्यत्वसंसर्गस्येतरस्य वा ॥ ७१९॥ वाक्यार्थत्वे विरोधोऽस्ति प्रत्यक्षादिकृतस्ततः । सङ्गच्छते न वाक्यार्थस्तद्विरोधं च वच्मि ते ॥ ७२०॥ सर्वेशत्वस्वतन्त्रत्वसर्वज्ञत्वादिभिर्गुणैः । सर्वोत्तमः सत्यकामः सत्यसङ्कल्प ईश्वरः ॥ ७२१॥ तत्पदार्थस्त्वमर्थस्तु किञ्चिज्ज्ञो दुःखजीवनः । संसार्ययं तद्गतिको जीवः प्राकृतलक्षणः ॥ ७२२॥ कथमेकत्वमनयोर्घटते विपरीतयोः । प्रत्यक्षेण विरोधोऽयमुभयोरुपलभ्यते ॥ ७२३॥ विरुद्धधर्माक्रान्तत्वात्परस्परविलक्षणौ । जीवेशौ वह्नितुहिनाविव शब्दार्थतोऽपि च ॥ ७२४॥ प्रत्यक्षादिविरोधः स्यादित्यैक्ये तयोः परित्यक्ते । श्रुतिवचनविरोधो भवति महान्स्मृतिवचनविरोधश्च ॥ ७२५॥ श्रुत्याप्येकत्वमनयोस्तात्पर्येण निगद्यते । मुहुस्तत्त्वमसीत्यस्मादङ्गीकार्यं श्रुतेर्वचः ॥ ७२६॥ वाक्यार्थत्वे विशिष्टस्य संसर्गस्य च वा पुनः । अयथार्थतया सोऽयं वाक्यार्थो न मतः श्रुतेः ॥ ७२७॥ अखण्डैकरसत्वेन वाक्यार्थः श्रुतिसम्मतः । स्थूलसूक्ष्मप्रपञ्चस्य सन्मात्रत्वं पुनः पुनः ॥ ७२८॥ दर्शयित्वा सुषुप्तौ तद्ब्रह्माभिन्नत्वमात्मनः । उपपाद्य सदैकत्वं प्रदर्शयितुमिच्छया ॥ ७२९॥ ऐतदात्म्यमिदं सर्वमित्युक्त्वैव सदात्मनोः । त्युक्तैव ब्रवीति श्रुतिरेकत्वं ब्रह्मणोऽद्वैतसिद्धये ॥ ७३०॥ सति प्रपञ्चे जीवे वाऽद्वैतत्वं ब्रह्मणः कुतः । अतस्तयोरखण्डत्वमेकत्वं श्रुतिसम्मतम् ॥ ७३१॥ विरुद्धांशपरित्यागात्प्रत्यक्षादिर्न बाधते । अविरुद्धांशग्रहणान्न श्रुत्यापि विरुध्यते ॥ ७३२॥

verses 733-759 The indirect meaning ascertained

॥ ३७ ॥ वाच्यार्थानुपपत्तिः ॥ लक्षणा ह्युपगन्तव्या ततो वाक्यार्थसिद्धये । वाच्यार्थानुपपत्त्यैव लक्षणाभ्युपगम्यते ॥ ७३३॥ सम्बन्धोऽनुपपत्त्या च लक्षणेति जगुर्बुधाः । गङ्गायां घोष इत्यादौ या जहल्लक्षणा मता ॥ ७३४॥ न सा तत्त्वमसीत्यत्र वाक्य एषा प्रवर्तते । गङ्गाया अपि घोषस्याधाराधेयत्वलक्षणः ॥ ७३५॥ सर्वो विरुद्धो वाक्यार्थस्तत्र प्रत्यक्षतस्ततः । गङ्गासम्बन्धवत्तीरे लक्षणा सम्प्रवर्तते ॥ ७३६॥ तथा तत्त्वमसीत्यत्र चैतन्यैकत्वलक्षणे । विवक्षिते तु वाक्यार्थेऽपरोक्षत्वादिलक्षणः ॥ ७३७॥ विरुध्यते भागमात्रो न तु सर्वो विरुध्यते । तस्माज्जहल्लक्षणायाः प्रवृत्तिर्नात्र युज्यते ॥ ७३८॥ वाच्यार्थस्य तु सर्वस्य त्यागे न फलमीक्ष्यते । नालिकेरफलस्येव कठिनत्वधिया नृणाम् ॥ ७३९॥ गङ्गापदं यथा स्वार्थं त्यक्त्वा लक्षयते तटम् । तत्पदं त्वम्पदं वापि त्यक्त्वा स्वार्थं यथाखिलम् ॥ ७४०॥ त्वमर्थं वा त्वदर्थं वा यदि लक्षयति स्वयम् । तदा जहल्लक्षणायाः प्रवृत्तिरुपपद्यते ॥ ७४१॥ न शङ्कनीयमित्यार्यैर्ज्ञातार्थे न हि लक्षणा । तत्पदं त्वम्पदं वापि श्रूयते च प्रतीयते ॥ ७४२॥ तदर्थश्च कथं तत्र सम्प्रवर्तेत लक्षणा । अत्र शोणो धावतीति वाक्यवन्न प्रवर्तते ॥ ७४३॥ अजहल्लक्षणा वापि सा जहल्लक्षणा यथा । गुणस्य गमनं लोके विरुद्धं द्रव्यमन्तरा ॥ ७४४॥ अतस्तमपरित्यज्य तद्गुणाश्रयलक्षणः । लक्ष्यादिर्लक्ष्यते तत्र लक्षणासौ प्रवर्तते ॥ ७४५॥ वाक्ये तत्त्वमसीत्यत्र ब्रह्मात्मैकत्वबोधके । परोक्षत्वापरोक्षत्वादिविशिष्टचितोर्द्वयोः ॥ ७४६॥ एकत्वरूपवाक्यार्थो विरुद्धांशाविवर्जनात् । न सिध्यति यतस्तस्मान्नाजहल्लक्षणा मता ॥ ७४७॥ तत्पदं त्वम्पदं चापि स्वकीयार्थविरोधिनम् । अंशं सम्यक्परित्यज्य स्वाविरुद्धांशसंयुतम् ॥ ७४८॥ त्वमर्थं वा त्वदर्थं वा सम्यग्लक्षयतः स्वयम् । भागलक्षणया साध्यं किमस्तीति न शङ्क्यताम् ॥ ७४९॥ अविरुद्धं पदार्थान्तरांशं स्वांशं च तत्कथम् । एकं पदं लक्षणया संलक्षयितुमर्हति ॥ ७५०॥ पदान्तरेण सिद्धायां पदार्थप्रमितौ स्वतः । तदर्थप्रत्ययापेक्षा पुनर्लक्षणया कुतः ॥ ७५१॥ तस्मात्तत्त्वमसीत्यत्र लक्षणा भागलक्षणा । वाक्यार्थस्य त्वखण्डैकरसतासिद्धये मता ॥ ७५२॥ भागं विरुद्धं सन्त्यज्याविरोधो लक्ष्यते यया । सा भागलक्षणेत्याहुर्लक्षणज्ञा विचक्षणाः ॥ ७५३॥ सोऽयं देवदत्त इति वाक्यं वाक्यार्थ एव वा । देवदत्तैक्यरूपस्ववाक्यार्थानवबोधकम् ॥ ७५४॥ देशकालादिवैशिष्ट्यं विरुद्धांशं निरस्य च । अविरुद्धं देवदत्तदेहमात्रं स्वलक्षणम् ॥ ७५५॥ भागलक्षणया सम्यग्लक्षयत्यनया यथा । तथा तत्त्वमसीत्यत्र वाक्यं वाक्यार्थ एव वा ॥ ७५६॥ परोक्षत्वापरोक्षत्वादिविशिष्टचितोर्द्वयोः । एकत्वरूपवाक्यार्थविरुद्धांशमुपस्थितम् ॥ ७५७॥ परोक्षत्वापरोक्षत्वसर्वज्ञत्वादिलक्षणम् । बुद्ध्यादिस्थूलपर्यन्तमाविद्यकमनात्मकम् ॥ ७५८॥ परित्यज्याविरुद्धांशं शुद्धचैतन्यलक्षणम् । वस्तु केवलसन्मात्रं निर्विकल्पं निरञ्जनम् ॥ ७५९॥

verses 760-794 The unified meaning

॥ ३८ ॥ अर्थसमन्वयः ॥ लक्षयत्यनया सम्यग्भागलक्षणया ततः । सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दमद्वयम् ॥ ७६०॥ निर्विशेषं निराभासमतादृशमनीदृशम् । अनिर्देश्यमनाद्यन्तमनन्तं शान्तमच्युतम् । अप्रतर्क्यमविज्ञेयं निर्गुणं ब्रह्म शिष्यते ॥ ७६१॥ उपाधिवैशिष्ट्यकृतो विरोधो ब्रह्मात्मनोरेकतयाधिगत्याम् । उपाधिवैशिष्ट्य उदस्यमाने न कश्चिदप्यस्ति विरोध एतयोः ॥ ७६२॥ तयोरुपाधिश्च विशिष्टता च तद्धर्मभाक्त्वं च विलक्षणत्वम् । भ्रान्त्या कृतं सर्वमिदं मृषैव स्वप्नार्थवज्जाग्रति नैव सत्यम् ॥ ७६३॥ निद्रासूतशरीरधर्मसुखदुःखादिप्रपञ्चोऽपि वा जीवेशादिभिदापि वा न च ऋतं कर्तुं क्वचिच्छक्यते । मायाकल्पितदेशकालजगदीशादिभ्रमस्तादृशः को भेदोऽस्त्यनयोर्द्वयोस्तु कतमः सत्योऽन्यतः को भवेत् ॥ ७६४॥ न स्वप्नजागरणयोरुभयोर्विशेषः संदृश्यते क्वचिदपि भ्रमजैर्विकल्पैः । यद्द्रष्टृदर्शनमुखैरत एव मिथ्या स्वप्नो यथा ननु तथैव हि जागरोऽपि ॥ ७६५॥ अविद्याकार्यतस्तुल्यौ द्वावपि स्वप्नजागरौ । द्रष्टृदर्शनदृश्यादिकल्पनोभयतः समा ॥ ७६६॥ अभाव उभयोः सुप्तौ सर्वैरप्यनुभूयते । न कश्चिदनयोर्भेदस्तस्मान्मिथ्यात्वमर्हतः ॥ ७६७॥ भ्रान्त्या ब्रह्मणि भेदोऽयं सजातीयादिलक्षणः । कालत्रयेऽपि हे विद्वन् वस्तुतो नैव कश्चन ॥ ७६८॥ यत्र नान्यत्पश्यतीति श्रुतिर्द्वैतं निषेधति । कल्पितस्य भ्रमाद्भूम्नि मिथ्यात्वावगमाय तत् ॥ ७६९॥ यतस्ततो ब्रह्म सदाद्वितीयं विकल्पशून्यं निरुपाधि निर्मलम् । निरन्तरानन्दघनं निरीहं निरास्पदं केवलमेकमेव ॥ ७७०॥ नैवास्ति काचन भिदा न गुणप्रतीति- र्नो वाक्प्रवृत्तिरपि वा न मनःप्रवृत्तिः । यत्केवलं परमशान्तमनन्तमाद्य- मानन्दमात्रमवभाति सदद्वितीयम् ॥ ७७१॥ यदिदं परमं सत्यं तत्त्वं सच्चित्सुखात्मकम् । अजरामरणं नित्यं सत्यमेतद्वचो मम ॥ ७७२॥ न हि त्वं देहोऽसावसुरपि च वाप्यक्षनिकरो मनो वा बुद्धिर्वा क्वचिदपि तथाहङ्कृतिरपि । न चैषां सङ्घातस्त्वमु भवति विद्वन् श‍ृणु परं यदेतेषां साक्षी स्फुरणममलं तत्त्वमसि हि ॥ ७७३॥ यज्जायते वस्तु तदेव वर्धते तदेव मृत्युं समुपैति काले । जन्मैव ते नास्ति तथैव मृत्यु- र्नास्त्येव नित्यस्य विभोरजस्य ॥ ७७४॥ य एष देहो जनितः स एव समेधते नश्यति कर्मयोगात् । त्वमेतदीयास्वखिलास्ववस्था- स्ववस्थितः साक्ष्यसि बोधमात्रः ॥ ७७५॥ यत्स्वप्रकाशमखिलात्मकमासुषुप्ते- रेकात्मनाहमहमित्यवभाति नित्यम् । बुद्धेः समस्तविकृतेरविकारि बोद्धृ यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७७६॥ स्वात्मन्यनस्तमयसंविदि कल्पितस्य व्योमादिसर्वजगतः प्रददाति सत्ताम् । स्फूर्तिं स्वकीयमहसा वितनोति साक्षात् यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७७७॥ सम्यक्समाधिनिरतैर्विमलान्तरङ्गे साक्षादवेक्ष्य निजतत्त्वमपारसौख्यम् । सन्तुष्यते परमहंसकुलैरजस्रं यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७७८॥ अन्तर्बहिः स्वयमखण्डितमेकरूप- मारोपितार्थवदुदञ्चति मूढबुद्धेः । मृत्स्नादिवद्विगतविक्रियमात्मवेद्यं यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७७९॥ श्रुत्युक्तमव्ययमनन्तमनादिमध्य- मव्यक्तमक्षरमनाश्रयमप्रमेयम् । आनन्दसद्घनमनामयमद्वितीयं यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७८०॥ शरीरतद्योगतदीयधर्मा- द्यारोपणं भ्रान्तिवशात्त्वयीदम् । न वस्तुतः किञ्चिदतस्त्वजस्त्वं मृत्योर्भयं क्वास्ति तवासि पूर्णः ॥ ७८१॥ यद्यद्दृष्टं भ्रान्तिमत्या स्वदृष्ट्या तत्तत्सम्यग्वस्तुदृष्ट्या त्वमेव । त्वत्तो नान्यद्वस्तु किञ्चित्तु लोके कस्माद्भीतिस्ते भवेदद्वयस्य ॥ ७८२॥ पश्यतस्त्वहमेवेदं सर्वमित्यात्मनाखिलम् । भयं स्याद्विदुषः कस्मात्स्वस्मान्न भयमिष्यते ॥ ७८३॥ तस्मात्त्वमभयं नित्यं केवलानन्दलक्षणम् । निष्कलं निष्क्रियं शान्तं ब्रह्मैवासि सदाद्वयम् ॥ ७८४॥ ज्ञातृज्ञानज्ञेयविहीनं ज्ञातुरभिन्नं ज्ञानमखण्डम् । ज्ञेयाज्ञेयत्वादिविमुक्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८५॥ अन्तःप्रज्ञत्वादिविकल्पैरस्पृष्टं यत्तद्दृशिमात्रम् । सत्तामात्रं समरसमेकं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८६॥ सर्वाकारं सर्वमसर्वं सर्वनिषेधावधिभूतं यत् । सत्यं शाश्वतमेकमनन्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८७॥ नित्यानन्दाखण्डैकरसं निष्कलमक्रियमस्तविकारम् । प्रत्यगभिन्नं परमव्यक्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८८॥ त्वं प्रत्यस्ताशेषविशेषं व्योमेवान्तर्बहिरपि पूर्णम् । ब्रह्मानन्दं परमद्वैतं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८९॥ ब्रह्मैवाहमहं ब्रह्म निर्गुणं निर्विकल्पकम् । इत्येवाखण्डया वृत्त्या तिष्ठ ब्रह्मणि निष्क्रिये ॥ ७९०॥ अखण्डामेवैतां घटितपरमानन्दलहरीं परिध्वस्तद्वैतप्रमितिममलां वृत्तिमनिशम् । अमुञ्चानः स्वात्मन्यनुपमसुखे ब्रह्मणि परे रमस्व प्रारब्धं क्षपय सुखवृत्त्या त्वमनया ॥ ७९१॥ ब्रह्मानन्दरसास्वादतत्परेणैव चेतसा । समाधिनिष्ठितो भूत्वा तिष्ठ विद्वन्सदा मुने ॥ ७९२॥ शिष्यः - अखण्डाख्या वृत्तिरेषा वाक्यार्थश्रुतिमात्रतः । श्रोतुः संजायते किं वा क्रियान्तरमपेक्षते ॥ ७९३॥ समाधिः कः कतिविधस्तत्सिद्धेः किमु साधनम् । समाधेरन्तरायाः के सर्वमेतन्निरूप्यताम् ॥ ७९४॥

verses 795-818 The fitness of the aspirant

॥ ३९ ॥ अधिकारः ॥ श्रीगुरुः - मुख्यगौणादिभेदेन विद्यन्तेऽत्राधिकारिणः । तेषां प्रज्ञानुसारेणाखण्डा वृत्तिरुदेष्यति ॥ ७९५॥ उदेष्यते श्रद्धाभक्तिपुरःसरेण विहितेनैवेश्वरं कर्मणा सन्तोष्यार्जिततत्प्रसादमहिमा जन्मान्तरेष्वेव यः । नित्यानित्यविवेकतीव्रविरतिन्यासादिभिः साधनै- र्युक्तः सः श्रवणे सतामभिमतो मुख्याधिकारि द्विजः ॥ ७९६॥ अध्यारोपापवादक्रममनुसरता देशिकेनात्र वेत्रा वाक्यार्थे बोध्यमाने सति सपदि सतः शुद्धबुद्धेरमुष्य । नित्यानन्दाद्वितीयं निरुपमममलं यत्परं तत्त्वमेकं तद्ब्रह्मैवाहमस्मीत्युदयति परमाखण्डताकारवृत्तिः ॥ ७९७॥ अखण्डाकारवृत्तिः सा चिदाभाससमन्विता । आत्माभिन्नं परं ब्रह्म विषयीकृत्य केवलम् ॥ ७९८॥ बाधते तद्गताज्ञानं यदावरणलक्षणम् । अखण्डाकारया वृत्त्या त्वज्ञाने बाधिते सति ॥ ७९९॥ तत्कार्यं सकलं तेन समं भवति बाधितम् । तन्तुदाहे तु तत्कार्यपटदाहो यथा तथा ॥ ८००॥ तस्य कार्यतया चित्तवृत्तिर्भवति बाधिता । उपप्रभा यथा सूर्यं प्रकाशयितुमक्षमा ॥ ८०१॥ तद्वदेव चिदाभासचैतन्यं वृत्तिसंस्थितम् । स्वप्रकाशं परं ब्रह्म प्रकाशयितुमक्षमम् ॥ ८०२॥ प्रचण्डातपमध्यस्थदीपवन्नष्टदीधितिः । तत्तेजसाभिभूतं सल्लीनोपाधितया ततः ॥ ८०३॥ बिम्बभूतपरब्रह्ममात्रं भवति केवलम् । यथापनीते त्वादर्शे प्रतिबिम्बमुखं स्वयम् ॥ ८०४॥ मुखमात्रं भवेत्तद्वदेतच्चोपाधिसङ्क्षयात् । घटाज्ञाने यथा वृत्त्या व्याप्तया बाधिते सति ॥ ८०५,, घटं विस्फुरयत्येषः चिदाभास स्वतेजसा । न तथा स्वप्रभे ब्रह्मण्याभास उपयुज्यते ॥ ८०६॥ अत एव मतं वृत्तिव्याप्यत्वं वस्तुनः सताम् । न फलव्याप्यता तेन न विरोधः परस्परम् ॥ ८०७॥ श्रुत्योदितस्ततो ब्रह्म ज्ञेयं बुद्ध्यैव सूक्ष्मया । प्रज्ञामान्द्यं भवेद्येषां तेषां न श्रुतिमात्रतः ॥ ८०८॥ स्यादखण्डाकारवृत्तिर्विना तु मननादिना । श्रवणान्मननाद्ध्यानात्तात्पर्येण निरन्तरम् ॥ ८०९॥ बुद्धेः सूक्ष्मत्वमायाति ततो वस्तूपलभ्यते । मन्दप्रज्ञावतां तस्मात्करणीयं पुनः पुनः ॥ ८१०॥ श्रवणं मननं ध्यानं सम्यग्वस्तूपलब्धये । सर्ववेदान्तवाक्यानां षड्भिर्लिङ्गैः सदद्वये ॥ ८११॥ परे ब्रह्मणि तात्पर्यनिश्चयं श्रवणं विदुः । श्रुतस्यैवाद्वितीयस्य वस्तुनः प्रत्यगात्मनः ॥ ८१२॥ वेदान्तवाक्यानुगुणयुक्तिभिस्त्वनुचिन्तनम् । मननं तच्छ्रुतार्थस्य साक्षात्करणकारणम् ॥ ८१३॥ विजातीयशरीरादिप्रत्ययत्यागपूर्वकम् । सजातीयात्मवृत्तीनां प्रवाहकरणं यथा ॥ ८१४॥ तैलधारावदच्छिन्नवृत्त्या तद्ध्यानमिष्यते । तावत्कालं प्रयत्नेन कर्तव्यं श्रवणं सदा ॥ ८१५॥ प्रमाणसंशयो यावत्स्वबुद्धेर्न निवर्तते । प्रमेयसंशयो यावत्तावत्तु श्रुतियुक्तिभिः ॥ ८१६॥ आत्मयातार्थ्यनिश्चित्त्यै कर्तव्यं मननं मुहुः । विपरीतात्मधीर्यावन्न विनश्यति चेतसि । तावन्निरन्तरं ध्यानं कर्तव्यं मोक्षमिच्छता ॥ ८१७॥ यावन्न तर्केण निरासितोऽपि दृश्यप्रपञ्चस्त्वपरोक्षबोधात् । विलीयते तावदमुष्य भिक्षो- र्ध्यानादि सम्यक्करणीयमेव ॥ ८१८॥

verses 819-826 Samadhi, absolute and relative

॥ ४० ॥ सविकल्पः-निर्विकल्पः समाधिः ॥ सविकल्पो निर्विकल्प इति द्वेधा निगद्यते । समाधिः सविकल्पस्य लक्षणं वच्मि तच्छृणु ॥ ८१९॥ ज्ञात्राद्यविलयेनैव ज्ञेये ब्रह्मणि केवले । तदाकाराकारितया चित्तवृत्तेरवस्थितिः ॥ ८२०॥ सद्भिः स एव विज्ञेयः समाधिः सविकल्पकः । मृद एवावभानेऽपि मृण्मयद्विपभानवत् ॥ ८२१॥ सन्मात्रवस्तुभानेऽपि त्रिपुटी भाति सन्मयी । समाधिरत एवायं सविकल्प इतीर्यते ॥ ८२२॥ ज्ञात्रादिभावमुत्सृज्य ज्ञेयमात्रस्थितिर्दृढा । मनसो निर्विकल्पः स्यात्समाधिर्योगसंज्ञितः ॥ ८२३॥ जले निक्षिप्तलवणं जलमात्रतया स्थितम् । पृथङ् न भाति किं त्वम्भ एकमेवावभासते ॥ ८२४॥ यथा तथैव सा वृत्तिर्ब्रह्ममात्रतया स्थिता । पृथङ् न भाति ब्रह्मैवाद्वितीयमवभासते ॥ ८२५॥ ज्ञात्रादिकल्पनाभावान्मतोऽयं निर्विकल्पकः । वृत्तेः सद्भावबाधाभ्यामुभयोर्भेद इष्यते ॥ ८२६॥

verses 827-865 The internal nature of samadhi

॥ ४१ ॥ समाधिलक्षणम् ॥ समाधिसुप्त्योर्ध्यानं चाज्ञानं सुप्त्यां तु नेष्यते । सविकल्पो निर्विकल्पः समाधी द्वाविमौ हृदि ॥ ८२७॥ मुमुक्षोर्यत्नतः कार्यौ विपरीतनिवृत्तये । कृतेऽस्मिन्विपरीताया भावनाया निवर्तनम् ॥ ८२८॥ ज्ञानस्याप्रतिबद्धत्त्वं सदानन्दश्च सिध्यति । दृश्यानुविद्धः शब्दानुविद्धश्चेति द्विधा मतः ॥ ८२९॥ सविकल्पस्तयोर्यत्तल्लक्षणं वच्मि तच्छृणु । कामादिप्रत्ययैर्दृश्यैः संसर्गो यत्र दृश्यते ॥ ८३०॥ सोऽयं दृश्यानुविद्धः स्यात्समाधिः सविकल्पकः । अहम्ममेदमित्यादिकामक्रोधादिवृत्तयः ॥ ८३१॥ दृश्यन्ते येन संद्रष्ट्रा दृश्याः स्युरहमादयः । कामादिसर्ववृत्तीनां द्रष्टारमविकारिणम् ॥ ८३२॥ साक्षिणं स्वं विजानीयाद्यस्ताः पश्यति निष्क्रियः । कामादीनामहं साक्षी दृश्यन्ते ते मया यतः ॥ ८३३॥ इति साक्षितयात्मानं जानात्यात्मनि साक्षिणम् । दृश्यं कामादि सकलं स्वात्मन्येव विलापयेत् ॥ ८३४॥ नाहं देहो नाप्यसुर्नाक्षवर्गो नाहङ्कारो नो मनो नापि बुद्धिः । अन्तस्तेषां चापि तद्विक्रियाणां साक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८३५॥ वाचः साक्षी प्राणवृत्तेश्च साक्षी बुद्धेः साक्षी बुद्धिवृत्तेश्च साक्षी । चक्षुःश्रोत्रादीन्द्रियाणां च साक्षी साक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८३६॥ नाहं स्थूलो नापि सूक्ष्मो न दीर्घो नाहं बालो नो युवा नापि वृद्धः । नाहं काणो नापि मूको न षण्डः साक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८३७॥ नास्म्यागन्ता नापि गन्ता न हन्ता नाहं कर्ता न प्रयोक्ता न वक्ता । नाहं भोक्ता नो सुखी नैव दुःखी साक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८३८॥ नाहं योगी नो वियोगी न रागी नाहं क्रोधी नैव कामी न लोभी । नाहं बद्धो नापि युक्तो न मुक्तः साक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८३९॥ नान्तःप्रज्ञो नो बहिःप्रज्ञको वा नैव प्रज्ञो नापि चाप्रज्ञ एषः । नाहं श्रोता नापि मन्ता न बोद्धा साक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८४०॥ न मेऽस्ति देहेन्द्रियबुद्धियोगो न पुण्यलेशोऽपि न पापलेशः । क्षुधापिपासादिषडूर्मिदूरः सदा विमुक्तोऽस्मि चिदेव केवलः ॥ ८४१॥ अपाणिपादोऽहमवागचक्षु- रप्राण एवास्म्यमना ह्यबुद्धिः । व्योमेव पूर्णोऽस्मि विनिर्मलोऽस्मि सदैकरूपोऽस्मि चिदेव केवलः ॥ ८४२॥ इति स्वमात्मानमवेक्षमाणः प्रतीतदृश्यं प्रविलापयन्सदा । जहाति विद्वान्विपरीतभावं स्वाभाविकं भ्रान्तिवशात्प्रतीतम् ॥ ८४३॥ विपरीतात्मतास्फूर्तिरेव मुक्तिरितीर्यते । सदा समाहितस्यैव सैषा सिध्यति नान्यथा ॥ ८४४॥ न वेषभाषाभिरमुष्य मुक्ति- र्या केवलाखण्डचिदात्मना स्थितिः । तत्सिद्धये स्वात्मनि सर्वदा स्थितो जह्यादहन्तां ममतामुपाधौ ॥ ८४५॥ स्वात्मतत्त्वं समालम्ब्य कुर्यात्प्रकृतिनाशनम् । तेनैव मुक्तो भवति नान्यथा कर्मकोटिभिः ॥ ८४६॥ ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः । इत्येवैषा वैदिकी वाग्ब्रवीति क्लेशक्षत्यां जन्ममृत्युप्रहाणिम् ॥ ८४७॥ भूयो जन्माद्यप्रसक्तिर्विमुक्तिः क्लेशक्षत्यां भाति जन्माद्यभावः । क्लेशक्षत्या हेतुरात्मैकनिष्ठा तस्मात्कार्या ह्यात्मनिष्ठा मुमुक्षोः ॥ ८४८॥ क्लेशाः स्युर्वासना एव जन्तोर्जन्मादिकारणम् । ज्ञाननिष्ठाग्निना दाहे तासां नो जन्महेतुता ॥ ८४९॥ बीजान्यग्निप्रदग्धानि न रोहन्ति यथा पुनः । ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः ॥ ८५०॥ तस्मान्मुमुक्षोः कर्तव्या ज्ञाननिष्ठा प्रयत्नतः । निःशेषवासनाक्षत्यै विपरीतनिवृत्तये ॥ ८५१॥ ज्ञाननिष्ठातत्परस्य नैव कर्मोपयुज्यते । कर्मणो ज्ञाननिष्ठाया न सिध्यति सहस्थितिः ॥ ८५२॥ न कदापि सह स्थितिः परस्परविरुद्धत्वात्तयोर्भिन्नस्वभावयोः । कर्तृत्वभावनापूर्वं कर्म ज्ञानं विलक्षणम् ॥ ८५३॥ देहात्मबुद्धेर्विच्छित्त्यै ज्ञानं कर्म विवृद्धये । अज्ञानमूलकं कर्म ज्ञानं तूभयनाशकम् ॥ ८५४॥ ज्ञानेन कर्मणो योगः कथं सिध्यति वैरिणा । सहयोगो न घटते यथा तिमिरतेजसोः ॥ ८५५॥ निमेषोन्मेषयोर्वापि तथैव ज्ञानकर्मणोः । प्रतीचीं पश्यतः पुंसः कुतः प्राचीविलोकनम् । पुंसां प्रत्यक्प्रवणचित्तस्य कुतः कर्मणि योग्यता ॥ ८५६॥ ज्ञानैकनिष्ठानिरतस्य भिक्षो- र्नैवावकाशोऽस्ति हि कर्मतन्त्रे । तदेव कर्मास्य तदेव सन्ध्या तदेव सर्वं न ततोऽन्यदस्ति ॥ ८५७॥ बुद्धिकल्पितमालिन्यक्षालनं स्नानमात्मनः । तेनैव शुद्धिरेतस्य न मृदा न जलेन च ॥ ८५८॥ स्वस्वरूपे मनःस्थानमनुष्ठानं तदिष्यते । करणत्रयसाध्यं यत्तन्मृषा तदसत्यतः ॥ ८५९॥ विनिषिध्याखिलं दृश्यं स्वस्वरूपेण या स्थितिः । सा सन्ध्या तदनुष्ठानं तद्दानं तद्धि भोजनम् ॥ ८६०॥ विज्ञातपरमार्थानां शुद्धसत्त्वात्मनां सताम् । यतीनां किमनुष्ठानं स्वानुसन्धिं विनापरम् ॥ ८६१॥ तस्मात्क्रियान्तरं त्यक्त्वा ज्ञाननिष्ठापरो यतिः । सदात्मनिष्ठया तिष्ठेन्निश्चलस्तत्परायणः ॥ ८६२॥ कर्तव्यं स्वोचितं कर्म योगमारोढुमिच्छता । आरोहणं कुर्वतस्तु कर्म नारोहणं मतम् ॥ ८६३॥ योगं समारोहति यो मुमुक्षुः क्रियान्तरं तस्य न युक्तमीषत् । क्रियान्तरासक्तमनाः पतत्यसौ तालद्रुमारोहणकर्तृवद्ध्रुवम् ॥ ८६४॥ योगारूढस्य सिद्धस्य कृतकृत्यस्य धीमतः । नास्त्येव हि बहिर्दृष्टिः का कथा तत्र कर्मणाम् । दृश्यानुविद्धः कथितः समाधिः सविकल्पकः ॥ ८६५॥

verses 866-898 Deep concentration blended with the sruti

॥ ४२ ॥ श्रुत्यवगम्यं तथ्यम् ॥ शुद्धोऽहं बुद्धोऽहं प्रत्यग्रूपेण नित्यसिद्धोऽहम् । शान्तोऽहमनन्तोऽहं सततपरानन्दसिन्धुरेवाहम् ॥ ८६६॥ आद्योऽहमनाद्योऽहं वाङ्मनसासाध्यवस्तुमात्रोऽहम् । निगमवचोवेद्योऽहमनवद्याखण्डबोधरूपोऽहम् ॥ ८६७॥ विदिताविदितान्योऽहं मायातत्कार्यलेशशून्योऽहम् । केवलदृगात्मकोऽहं संविन्मात्रः सकृद्विभातोऽहम् ॥ ८६८॥ अपरोऽहमनपरोऽहं बहिरन्तश्चापि पूर्ण एवाहम् । अजरोऽहमक्षरोऽहं नित्यानन्दोऽहमद्वितीयोऽहम् ॥ ८६९॥ प्रत्यगभिन्नमखण्डं सत्यज्ञानादिलक्षणं शुद्धम् । श्रुत्यवगम्यं तथ्यं ब्रह्मैवाहं परं ज्योतिः ॥ ८७०॥ एवं सन्मात्रगाहिन्या वृत्त्या तन्मात्रगाहकैः । शब्दैः समर्पितं वस्तु भावयेन्निश्चलो यतिः ॥ ८७१॥ कामादिदृश्यप्रविलापपूर्वकं शुद्धोऽहमित्यादिकशब्दमिश्रः । दृश्येव निष्ठस्य य एष भावः शब्दानुविद्धः कथितः समाधिः ॥ ८७२॥ दृश्यस्यापि च साक्षित्वसमुल्लेखस्य चात्मनि । साक्षित्वात्समुल्लेखनमात्मनि निवर्तकमनोवस्था निर्विकल्प इतीर्यते ॥ ८७३॥ सविकल्पसमाधिं यो दीर्घकालं निरन्तरम् । सत्कारपूर्वकं कुर्यान्निर्विकल्पोऽस्य सिध्यति ॥ ८७४॥ निर्विकल्पकसमाधिनिष्ठया तिष्ठतो भवति नित्यता ध्रुवम् । उद्भवाद्यपगतिर्निरर्गला नित्यनिश्चलनिरन्तनिर्वृतिः ॥ ८७५॥ विद्वानहमिदमिति वा किञ्चि- द्बाह्याभ्यन्तरवेदनशून्यः । स्वानन्दामृतसिन्धुनिमग्न- स्तूष्णीमास्ते कश्चिदनन्यः ॥ ८७६॥ निर्विकल्पं परं ब्रह्म यत्तस्मिन्नेव निष्ठिताः । एते धन्या एव मुक्ता जीवन्तोऽपि बहिर्दृशाम् ॥ ८७७॥ यथा समाधित्रितयं यत्नेन क्रियते हृदि । तथैव बाह्यदेशेऽपि कार्यं द्वैतनिवृत्तये ॥ ८७८॥ तत्प्रकारं प्रवक्ष्यामि निशामय समासतः । अधिष्ठानं परं ब्रह्म सच्चिदानन्दलक्षणम् ॥ ८७९॥ तत्राध्यस्तमिदं भाति नामरूपात्मकं जगत् । सत्त्वं चित्त्वं तथानन्दरूपं यद्ब्रह्मणस्त्रयम् ॥ ८८०॥ अध्यस्तजगतो रूपं नामरूपमिदं द्वयम् । एतानि सच्चिन्दानन्दनामरूपाणि पञ्च च ॥ ८८१॥ एकीकृत्योच्यते मूर्खैरिदं विश्वमिति भ्रमात् । शैत्यं श्वेतं रसं द्राव्यं तरङ्ग इति नाम च ॥ ८८२॥ एकीकृत्य तरङ्गोऽयमिति निर्दिश्यते यथा । आरोपिते नामरूपे उपेक्ष्य ब्रह्मणः सतः ॥ ८८३॥ स्वरूपमात्रग्रहणं समाधिर्बाह्य आदिमः । सच्चिदानन्दरूपस्य सकाशाद्ब्रह्मणो यतिः ॥ ८८४॥ नामरूपे पृथक्कृत्वा ब्रह्मण्येव विलापयन् । अधिष्ठानं परं ब्रह्म सच्चिदानन्दमद्वयम् । यत्तदेवाहमित्येव निश्चितात्मा भवेद्ध्रुवम् ॥ ८८५॥ इयं भूर्न सन्नापि तोयं न तेजो न वायुर्न खं नापि तत्कार्यजातम् । यदेषामधिष्ठानभूतं विशुद्धं सदेकं परं सत्तदेवाहमस्मि ॥ ८८६॥ न शब्दो न रूपं न च स्पर्शको वा तथा नो रसो नापि गन्धो न चान्यः । यदेषामधिष्ठानभूतं विशुद्धं सदेकं परं सत्तदेवाहमस्मि ॥ ८८७॥ न सद्द्रव्यजातं गुणा न क्रिया वा न जातिर्विशेषो न चान्यः कदापि । यदेषामधिष्ठानभूतं विशुद्धं सदेकं परं सत्तदेवाहमस्मि ॥ ८८८॥ न देहो न चाक्षाणि न प्राणवायु- र्मनो नापि बुद्धिर्न चित्तं ह्यहंधीः । यदेषामधिष्ठानभूतं विशुद्धं सदेकं परं सत्तदेवाहमस्मि ॥ ८८९॥ न देशो न कालो न दिग्वापि सत्स्या- न्न वस्त्वन्तरं स्थूलसूक्ष्मादिरूपम् । यदेषामधिष्ठानभूतं विशुद्धं सदेकं परं सत्तदेवाहमस्मि ॥ ८९०॥ एतद्दृश्यं नामरूपात्मकं यः अधिष्ठानं तद्ब्रह्म सत्यं सदेति । गच्छंस्तिष्ठन्वा शयानोऽपि नित्यं कुर्याद्विद्वान्बाह्यदृश्यानुविद्धम् ॥ ८९१॥ अध्यस्तनामरूपादिप्रविलापेन निर्मलम् । अद्वैतं परमानन्दं ब्रह्मैवास्मीति भावयेत् ॥ ८९२॥ निर्विकारं निराकारं निरञ्जनमनामयम् । आद्यन्तरहितं पूर्णं ब्रह्मैवाहं न संशयः ॥ ८९३॥ निष्कलङ्कं निरातङ्कं त्रिविधच्छेदवर्जितम् । आनन्दमक्षरं मुक्तं ब्रह्मैवास्मीति भावयेत् ॥ ८९४॥ निर्विशेषं निराभासं नित्यमुक्तमविक्रियम् । प्रज्ञानैकरसं सत्यं ब्रह्मैवास्मीति भावयेत् ॥ ८९५॥ शुद्धं बुद्धं तत्त्वसिद्धं परं प्रत्यगखण्डितम् । स्वप्रकाशं पराकाशं ब्रह्मैवास्मीति भावयेत् ॥ ८९६॥ सुसूक्ष्ममस्तितामात्रं निर्विकल्पं महत्तमम् । केवलं परमाद्वैतं ब्रह्मैवास्मीति भावयेत् ॥ ८९७॥ इत्येवं निर्विकारादिशब्दमात्रसमर्पितम् । ध्यायतः केवलं वस्तु लक्ष्ये चित्तं प्रतिष्ठति ॥ ८९८॥

verses 899-908 Nirvikalpa samadhi, absolute concentration

॥ ४३ ॥ समाधिरकल्पकः ॥ ब्रह्मानन्दरसावेशादेकीभूय तदात्मना । वृत्तेर्या निश्चलावस्था स समाधिरकल्पकः ॥ ८९९॥ उत्थाने वाप्यनुत्थानेऽप्यप्रमत्तो जितेन्द्रियः । समाधिषट्कं कुर्वीत सर्वदा प्रयतो यतिः ॥ ९००॥ विपरीतार्थधीर्यावन्न निःशेषं निवर्तते । स्वरूपस्फुरणं यावन्न प्रसिद्ध्यत्यनर्गलम् । तावत्समाधिषट्केन नयेत्कालं निरन्तरम् ॥ ९०१॥ न प्रमादोऽत्र कर्तव्यो विदुषा मोक्षमिच्छता । प्रमादे जृम्भते माया सूर्यापाये तमो यथा ॥ ९०२॥ स्वानुभूतिं परित्यज्य न तिष्ठन्ति क्षणं बुधाः । स्वानुभूतौ प्रमादो यः स मृत्युर्न यमः सताम् ॥ ९०३॥ अस्मिन्समाधौ कुरुते प्रयासं यस्तस्य नैवास्ति पुनर्विकल्पः । सर्वात्मभावोऽप्यमुनैव सिद्ध्येत् सर्वात्मभावः खलु केवलत्वम् ॥ ९०४॥ सर्वात्मभावो विदुषो ब्रह्मविद्याफलं विदुः । जीवन्मुक्तस्य तस्यैव स्वानन्दानुभवः फलम् ॥ ९०५॥ योऽहं ममेत्याद्यसदात्मगाहको ग्रन्थिर्लयं याति स वासनामयः । समाधिना नश्यति कर्मबन्धो ब्रह्मात्मबोधोऽप्रतिबन्ध इष्यते ॥ ९०६॥ एष निष्कण्टकः पन्था मुक्तेर्ब्रह्मात्मना स्थितेः । शुद्धात्मनां मुमुक्षूणां यत्सदेकत्वदर्शनम् ॥ ९०७॥ तस्मात्त्वं चाप्यप्रमत्तः समाधी- न्कृत्वा ग्रन्थिं साधु निर्दह्य युक्तः । नित्यं ब्रह्मानन्दपीयूषसिन्धौ मज्जन्क्रीडन्मोदमानो रमस्व ॥ ९०८॥

verses 909-921 Yoga, or union with Brahman

॥ ४४ ॥ योगः ॥ निर्विकल्प समाधिर्यो वृत्तिनैश्चल्यलक्षणः । तमेव योग इत्याहुर्योगशास्त्रार्थकोविदाः ॥ ९०९॥ अष्टावङ्गानि योगस्य यमो नियम आसनम् । प्राणायामस्तथा प्रत्याहारश्चापि च धारणा ॥ ९१०॥ ध्यानं समाधिरित्येव निगदन्ति मनीषिणः । सर्वं ब्रह्मेति विज्ञानादिन्द्रियग्रामसंयमः ॥ ९११॥ यमोऽयमिति सम्प्रोक्तोऽभ्यसनीयो मुहुर्मुहुः । सजातीयप्रवाहश्च विजातीयतिरस्कृतिः ॥ ९१२॥ नियमो हि परानन्दो नियमात्क्रियते बुधैः । सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम् ॥ ९१३॥ आसनं तद्विजानीयादितरत्सुखनाशनम् । चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् ॥ ९१४॥ निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते । निषेधनं प्रपञ्चस्य रेचकाख्यः समीरणः ॥ ९१५॥ ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरीरितः । ततस्तद्वृत्तिनैश्चल्यं कुम्भकः प्राणसंयमः ॥ ९१६॥ अयं चापि प्रबुद्धानामज्ञानां प्राणपीडनम् । विषयेष्वात्मतां त्यक्त्वा मनसश्चिति मज्जनम् ॥ ९१७॥ प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुमुक्षुभिः । यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् ॥ ९१८॥ मनसो धारणं चैव धारणा सा परा मता । ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः ॥ ९१९॥ ध्यानशब्देन विख्याता परमानन्ददायिनी । निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः ॥ ९२०॥ वृत्तिविस्मरणं सम्यक्समाधिर्ध्यानसंज्ञकः । समाधौ क्रियमाणे तु विघ्ना ह्यायान्ति वै बलात् ॥ ९२१॥

verses 922-923 The obstacles to yoga

॥ ४५ ॥ योगविघ्नाः ॥ अनुसंधानराहित्यमालस्यं भोगलालसम् । भयं तमश्च विक्षेपस्तेजस्स्पन्दश्च शून्यता ॥ ९२२ एवं यद्विघ्नबाहुल्यं त्याज्यं तद्ब्रह्मविज्जनैः । विघ्नानेतान्परित्यक्त्वा प्रमादरहितो वशी । समाधिनिष्ठया ब्रह्म साक्षाद्भवितुमर्हसि ॥ ९२३॥

verses 924-937 Direct experience gained by right knowledge

॥ ४६ ॥ स्वानुभूतिः ॥ इति गुरुवचनाच्छ्रुतिप्रमाणा- त्परमवगम्य सतत्त्वमात्मयुक्त्या । प्रशमितकरणः समाहितात्मा क्वचिदचलाकृतिरात्मनिष्ठितोऽभूत् ॥ ९२४॥ बहुकालं समाधाय स्वस्वरूपे तु मानसम् । उत्थाय परमानन्दाद्गुरुमेत्य पुनर्मुदा ॥ ९२५॥ प्रणामपूर्वकं धीमान्सगद्गदमुवाच ह । नमो नमस्ते गुरवे नित्यानन्दस्वरूपिणे ॥ ९२६॥ मुक्तसङ्गाय शान्ताय त्यक्ताहन्ताय ते नमः । दयाधाम्ने नमो भूम्ने महिम्नः पारमस्य ते । नैवास्ति यत्कटाक्षेण ब्रह्मैवाभवमद्वयम् ॥ ९२७॥ किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् । यन्मया पूरितं विश्वं महाकल्पाम्बुना यथा ॥ ९२८॥ मयि सुखबोधपयोधौ महति ब्रह्माण्डबुद्बुदसहस्रम् । मायामयेन मरुता भूत्वा भूत्वा पुनस्तिरोधत्ते ॥ ९२९॥ नित्यानन्दस्वरूपोऽहमात्माहं त्वदनुग्रहात् । पूर्णोऽहमनवद्योऽहं केवलोऽहं च सद्गुरो ॥ ९३०॥ अकर्ताहमभोक्ताहमविकारोऽहमक्रियः । आनन्दघन एवाहमसङ्गोऽहं सदाशिवः ॥ ९३१॥ त्वत्कटाक्षवरचान्द्रचन्द्रिकापातधूतभवतापजश्रमः । प्राप्तवानहमखण्डवैभवानन्दमात्मपदमक्षयं क्षणात् ॥ ९३२॥ छायया स्पृष्टमुष्णं वा शीतं वा दुष्ठु सुष्ठु वा । न स्पृशत्येव यत्किञ्चित्पुरुषं तद्विलक्षणम् ॥ ९३३॥ न साक्षिणं साक्ष्यधर्मा संस्पृशन्ति विलक्षणम् । अविकारमुदासीनं गृहधर्माः प्रदीपवत् ॥ ९३४॥ रवेर्यथा कर्मणि साक्षिभावो वह्नेर्यथा वायसि दाहकत्वम् । रज्जोर्यथारोपितवस्तुसङ्ग- स्तथैव कूटस्थचिदात्मनो मे ॥ ९३५॥ इत्युक्त्वा स गुरुं स्तुत्वा प्रश्रयेण कृतानतिः । मुमुक्षोरुपकाराय प्रष्टव्यांशमपृच्छत ॥ ९३६॥ जीवन्मुक्तस्य भगवन्ननुभूतेश्च लक्षणम् । विदेहमुक्तस्य च मे कृपया ब्रूहि तत्त्वतः ॥ ९३७॥

verses 938-948 The seven states of the mind

॥ ४७ ॥ सप्तभूमिकाः ॥ श्रीगुरुः - वक्ष्ये तुभ्यं ज्ञानभूमिकाया लक्षणमादितः । ज्ञाते यस्मिंस्त्वया सर्वं ज्ञातं स्यात् पृष्टमद्य यत् ॥ ९३८॥ ज्ञानभूमिः शुभेच्छा स्यात्प्रथमा समुदीरिता । विचारणा द्वितीया तु तृतीया तनुमानसी ॥ ९३९॥ सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनामिका । पदार्थाभावना षष्ठी सप्तमी तुर्यगा स्मृता ॥ ९४०॥ स्थितः किं मूढ एवास्मि प्रेक्ष्येऽहं शास्त्रसज्जनैः । वैराग्यपूर्वमिच्छेति शुभेच्छा चोच्यते बुधैः ॥ ९४१॥ शास्त्रसज्जनसम्पर्कवैराग्याभ्यासपूर्वकम् । सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा ॥ ९४२॥ विचारणाशुभेच्छाभ्यामिन्द्रियार्थेषु रक्तता । यत्र सा तनुतामेति प्रोच्यते तनुमानसी ॥ ९४३॥ भूमिकात्रितयाभ्यासाच्चित्तेऽर्थविरतेर्वशात् । सत्त्वात्मनि स्थिते शुद्धे सत्त्वापत्तिरुदाहृता ॥ ९४४॥ दशाचतुष्टयाभ्यासादसंसर्गफला तु या । रूढसत्त्वचमत्कारा प्रोक्ता संसक्तिनामिका ॥ ९४५॥ भूमिकापञ्चकाभ्यासात्स्वात्मारामतया भृशम् । आभ्यन्तराणां बाह्यानां पदार्थानामभावनात् ॥ ९४६॥ परप्रयुक्तेन चिरप्रयत्नेनावबोधनम् । पदार्थाभावना नाम षष्ठी भवति भूमिका ॥ ९४७॥ षड्भूमिकाचिराभ्यासाद्भेदस्यानुपलम्भनात् । यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा क्षितिः ॥ ९४८॥

verses 949-978 The nature of knowledge

॥ ४८ ॥ ज्ञानलक्षणम् ॥ इदं ममेति सर्वेषु दृश्यभावेष्वभावना । जाग्रज्जाग्रदिति प्राहुर्महान्तो ब्रह्मवित्तमाः ॥ ९४९॥ विदित्वा सच्चिदानन्दमयीं दृश्यपरम्पराम् । नामरूपपरित्यागो जाग्रत्स्वप्नः समीर्यते ॥ ९५०॥ परिपूर्णचिदाकाशे मयि बोधात्मतां विना । न किञ्चिदन्यदस्तीति जाग्रत्सुप्तिः समीर्यते ॥ ९५१॥ मूलाज्ञानविनाशेन कारणाभासचेष्टितैः । बन्धो न मेऽतिस्वल्पोऽपि स्वप्नजाग्रदितीर्यते ॥ ९५२॥ कारणाज्ञाननाशाद्यद्द्रष्टृदर्शनदृश्यता । न कार्यमस्ति तज्ज्ञानं स्वप्नस्वप्नः समीर्यते ॥ ९५३॥ अतिसूक्ष्मविमर्शेन स्वधीवृत्तिरचञ्चला । विलीयते यदा बोधे स्वप्नसुप्तिरितीर्यते ॥ ९५४॥ चिन्मयाकारमतिभिर्धीवृत्तिप्रसरैर्गतः । आनन्दानुभवो विद्वन् सुप्तिजाग्रदितीर्यते ॥ ९५५॥ वृत्तौ चिरानुभूतान्तरानन्दानुभवस्थितौ । समात्मतां यो यात्येष सुप्तिस्वप्न इतीर्यते ॥ ९५६॥ दृश्यधीवृत्तिरेतस्य केवलीभावभावनात् । परं बोधैकतावाप्तिः सुप्तिसुप्तिरितीर्यते ॥ ९५७॥ परब्रह्मवदाभाति निर्विकारैकरूपिणी । सर्वावस्थासु धारैका तुर्याख्या परिकीर्तिता ॥ ९५८॥ इत्यवस्थासमुल्लासं विमृशन्मुच्यते सुखी । शुभेच्छादित्रयं भूमिभेदाभेदयुतं स्मृतम् ॥ ९५९॥ यथावद्भेदबुद्ध्येदं जगज्जाग्रदितीर्यते । अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते ॥ ९६०॥ पश्यन्ति स्वप्नवल्लोकं तुर्यभूमिसुयोगतः । पञ्चमीं भूमिमारुह्य सुषुप्तिपदनामिकाम् ॥ ९६१॥ शान्ताशेषविशेषांशस्तिष्ठेदद्वैतमात्रके । अन्तर्मुखतया नित्यं षष्ठीं भूमिमुपाश्रितः ॥ ९६२॥ परिश्रान्ततया गाढनिद्रा लुरिव लक्ष्यते । कुर्वन्नभ्यासमेतस्यां भूम्यां सम्यग्विवासनः ॥ ९६३॥ तुर्यावस्थां सप्तभूमिं क्रमात्प्राप्नोति योगिराट् । विदेहमुक्तिरेवात्र तुर्यातीतदशोच्यते ॥ ९६४॥ यत्र नासन्न सच्चापि नाहं नाप्यनहङ्कृतिः । केवलं क्षीणमनन आस्तेऽद्वैतेऽतिनिर्भयः ॥ ९६५॥ अन्तःशून्यो बहिःशून्यः शून्यकुम्भ इवाम्बरे । अन्तःपूर्णो बहिःपूर्णः पूर्णकुम्भ इवार्णवे ॥ ९६६॥ यथास्थितमिदं सर्वं व्यवहारवतोऽपि च । अस्तं गतं स्थितं व्योम स जीवन्मुक्त उच्यते ॥ ९६७॥ नोदेति नास्तमायाति सुखे दुःखे मनः प्रभा । यथाप्राप्तस्थितिर्यस्य स जीवन्मुक्त उच्यते ॥ ९६८॥ यो जागर्ति सुषुप्तिस्थो यस्य जाग्रन्न विद्यते । यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते ॥ ९६९॥ रागद्वेषभयादीनामनुरूपं चरन्नपि । योऽन्तर्व्योमवदत्यच्छः स जीवन्मुक्त उच्यते ॥ ९७०॥ यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते । कुर्वतोऽकुर्वतो वापि स जीवन्मुक्त उच्यते ॥ ९७१॥ यः समस्तार्थजालेषु व्यवहार्यपि शीतलः । परार्थेष्विव पूर्णात्मा स जीवन्मुक्त उच्यते ॥ ९७२॥ द्वैतवर्जितचिन्मात्रे पदे परमपावने । अक्षुब्धचित्तविश्रान्तः स जीवन्मुक्त उच्यते ॥ ९७३॥ इदं जगदयं सोऽयं दृश्यजातमवास्तवम् । यस्य चित्ते न स्फुरति स जीवन्मुक्त उच्यते ॥ ९७४॥ चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः । आत्ममात्रेण यस्तिष्ठेत्स जीवन्मुक्त उच्यते ॥ ९७५॥ देहत्रयातिरिक्तोऽहं शुद्धचैतन्यमस्म्यहम् । ब्रह्माहमिति यस्यान्तः स जीवन्मुक्त उच्यते ॥ ९७६॥ यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः । परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते ॥ ९७७॥ अहं ब्रह्मास्म्यहं ब्रह्मास्म्यहं ब्रह्मेति निश्चयः । चिदहं चिदहं चेति स जीवन्मुक्त उच्यते ॥ ९७८॥

verses 978-1006 Videhamukti, incorporeal liberation

॥ ४९ ॥ विदेहमुक्तिः ॥ जीवन्मुक्तिपदं त्यक्त्वा स्वदेहे कालसात्कृते । विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥ ९७९॥ मुक्तित्वं ततस्तत्सम्बभूवासौ यद्गिरामप्यगोचरम् । यच्छून्यवादिनां शून्यं ब्रह्म ब्रह्मविदां च यत् ॥ ९८०॥ विज्ञानं विज्ञानविदां मलानां च मलात्मकम् । पुरुषः साङ्ख्यदृष्टीनामीश्वरो योगवादिनाम् ॥ ९८१॥ शिवः शैवागमस्थानां कालः कालैकवादिनाम् । यत्सर्वशास्त्रसिद्धान्तं यत्सर्वहृदयानुगम् । यत्सर्वं सर्वगं वस्तु तत्तत्त्वं तदसौ स्थितः ॥ ९८२॥ ब्रह्मैवाहं चिदेवाहमेवं वापि न चिन्त्यते । चिन्मात्रमेव यस्तिष्ठेद्विदेहो मुक्त एव सः ॥ ९८३॥ यस्य प्रपञ्चभानं न ब्रह्माकारमपीह न । अतीतातीतभावो यो विदेहो मुक्त एव सः ॥ ९८४॥ चित्तवृत्तेरतीतो यश्चित्तवृत्त्यवभासकः । चित्तवृत्तिविहीनो यो विदेहो मुक्त एव सः ॥ ९८५॥ जीवात्मेति परात्मेति सर्वचिन्ताविवर्जितः । सर्वसङ्कल्पहीनात्मा विदेहो मुक्त एव सः ॥ ९८६॥ ओङ्कारवाच्यहीनात्मा सर्ववाच्यविवर्जितः । अवस्थात्रयहीनात्मा विदेहो मुक्त एव सः ॥ ९८७॥ अहिन्र्ल्वयनीसर्पनिर्मोको जीववर्जितः । वल्मीके पतितस्तिष्ठेत्तं सर्पो नाभिमन्यते ॥ ९८८॥ एवं स्थूलं च सूक्ष्मं च शरीरं नाभिमन्यते । प्रत्यग्ज्ञानशिखिध्वस्ते मिथ्याज्ञाने सहेतुके ॥ ९८९॥ नेति नेतीत्यरूपत्वादशरीरो भवत्ययम् । विश्वश्च तैजसश्चैव प्राज्ञश्चेति च ते त्रयः ॥ ९९०॥ विराट् हिरण्यगर्भश्चेश्वरश्चेति च ते त्रयः । विराड् ते त्रयम् ब्रह्माण्डं चैव पिण्डाण्डं लोका भूरादयः क्रमात् ॥ ९९१॥ स्वस्वोपाधिलयादेव लीयन्ते प्रत्यगात्मनि । तूष्णीमेव ततस्तूष्णीं तूष्णीं सत्यं न किञ्चन ॥ ९९२॥ कालभेदं वस्तुभेदं देशभेदं स्वभेदकम् । किञ्चिद्भेदं न तस्यास्ति किञ्चिद्वापि न विद्यते ॥ ९९३॥ जीवेश्वरेति वाक्ये च वेदशास्त्रेष्वहं त्विति । इदं चैतन्यमेवेत्यहं चैतन्यमित्यपि ॥ ९९४॥ इति निश्चयशून्यो यो विदेहो मुक्त एव सः । ब्रह्मैव विद्यते साक्षाद्वस्तुतोऽवस्तुतोऽपि च ॥ ९९५॥ तद्विद्याविषयं ब्रह्म सत्यज्ञानसुखात्मकम् । शान्तं च तदतीतं च परं ब्रह्म तदुच्यते ॥ ९९६॥ सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि । नाविद्यास्तीह नो माया शान्तं ब्रह्मैव तद्विना ॥ ९९७॥ प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् । विसृज्य ध्यानयोगेन ब्रह्माप्येति सनातनम् ॥ ९९८॥ यावद्यावच्च सद्बुद्धे स्वयं सन्त्यज्यतेऽखिलम् । तावत्तावत्परानन्दः परमात्मैव शिष्यते ॥ ९९९॥ यत्र यत्र मृतो ज्ञानी परमाक्षरवित्सदा । परे ब्रह्मणि लीयेत न तस्योत्कान्तिरिष्यते ॥ १०००॥ यद्यत्स्वाभिमतं वस्तु तत्त्यजन्मोक्षमश्नुते । असङ्कल्पेन शस्त्रेण छिन्नं चित्तमिदं यदा ॥ १००१॥ सर्वं सर्वगतं शान्तं ब्रह्म सम्पद्यते तदा । इति श्रुत्वा गुरोर्वाक्यं शिष्यस्तु छिन्नसंशयः ॥ १००२॥ ज्ञातज्ञेयः सम्प्रणम्य सद्गुरोश्चरणाम्बुजम् । स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः ॥ १००३॥ गुरुरेष सदानन्दसिन्धौ निर्मग्नमानसः । पावयन्वसुधां सर्वां विचचार निरुत्तरः ॥ १००४॥ इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् । निरूपितं मुमुक्षूणां सुखबोधोपपत्तये ॥ १००५॥ सर्ववेदान्तसिद्धान्तसारसङ्ग्रहनामकः । ग्रन्थोऽयं हृदयग्रन्थिविच्छित्त्यै रचितः सताम् ॥ १००६॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः सम्पूर्णः ॥ ॥ इति ॥ Encoded by Sunder Hattangadi Proofread by Sunder Hattangadi, Kalyana Krrit kalyanakrrit at gmail.com
% Text title            : sarvavedAntasiddhAntasArasa.ngrahaH
% File name             : ved.itx
% itxtitle              : sarvavedAntasiddhAntasArasaNgrahaH
% engtitle              : sarvavedAntasiddhAntasArasa.ngrahaH
% Category              : shankarAchArya
% Location              : doc_z_misc_shankara
% Sublocation           : shankara
% Texttype              : pramukha
% Author                : Shankaracharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi, Kalyana Krrit kalyanakrrit at gmail.com
% Indexextra            : (Scan, Text, Commentary)
% Latest update         : October 12, 1998, February 13, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org