भृगु सूत्रम्
अथ तन्वादिद्वादश भावस्थित रवि फलमाह
तत्रादौ लग्ने रविफलं
आरोग्यं भवति ॥ १॥
पित्तप्रकृतिः नेत्ररोगी ॥ २॥
मेधावी सदाचारी वा ॥ ३॥
उष्णो दरवान् ॥ ४॥
मूर्खः पुत्रहीनः ॥ ५॥
तीक्ष्णबुद्धिः ॥ ६॥
अल्पभाषी प्रवासशीलः सुखी ॥ ७॥
स्वोच्चे कीर्तिमान् ॥ ८॥
बलिनिरीक्षिते विद्वान् ॥ ९॥
नीचे प्रतापवान् ॥ १०॥
ज्ञानद्वेषी दरिद्रः अन्धकः ॥ ११॥
शुभदृष्टे न दोषः ॥ १२॥
सिंहे स्वांशे नाथः ॥ १३॥
कुलीरे ज्ञानवान् ॥ १४॥
रोगी बुदबुदाक्षह्ः ॥ १५॥
मकरो हृद्रोगी ॥ १६॥
मीने स्त्रीजनसेवी ॥ १७॥
कन्यायां रवौ कन्याप्रजः दारहीनः कृतघ्नः ॥ १८॥
क्षेत्री शुभयुक्तहः आरोग्यवान् ॥ १९॥
पापयुते शत्रुनीचक्षेत्रे तृतीये वर्षे ज्वरपीडा ॥ २०॥
शुभदृष्टे न दोषः ॥ २१॥
लग्नाद्द्वितीये रविफलं
मुखरोगी ॥ २२॥
पञ्चविंशतिवर्षे राजदण्डेन द्रव्यच्छेदः ॥ २३॥
उच्चे स्वक्षेत्रे न दोषः ॥ २४॥
पापयुते नेत्ररोगी ॥ २५॥
स्वल्पविद्वान् रोगी ॥ २६॥
शुभवीक्षिते धनवान् दोषादीन् व्यपहरती ॥ २७॥
नेत्रसौख्यम् ॥ २८॥
स्वोच्चे स्वक्षेत्रे वा बहुधनवान् ॥ २९॥
बुधयुते पवनवाक् ॥ ३०॥
धनाधिपःस्वोच्चे वाग्मी ॥ ३१॥
शास्त्रज्ञः ज्ञानवान् नेत्रसौख्यं राजयोगश्च ॥ ३२॥
लग्नातृतीये रविफलं
बुद्धिमान् अनुजरहितः ज्येष्ठनाशः ॥ ३३॥
पञ्चमे वर्षे चतुरष्ट द्वादशवर्षे वा किञ्चित्पीडा ॥ ३४॥
पापयुते क्रूरकर्ता ॥ ३५॥
द्विभ्रातृमान् पराक्रमी ॥ ३६॥
युद्धे शूरश्च ॥ ३७॥
कीर्तिमान् निजधनभोगी ॥ ३८॥
शुभयुते सोदर वृद्धिः ॥ ३९॥
भावाधिपे बलयुते भ्रातृदीर्घायुः ॥ ४०॥
पापयुते पापेक्षणवंशान्नाशः ॥ ४१॥
शुभवीक्षणवशाद्धनवान् भोगी सुखीच ॥ ४२॥
लग्नाच्चतुर्थे रविफलं
हीनाङ्गः अहङ्कारी जनविरोधी उष्णदेही मनः पीडावान् ॥ ४३॥
द्वात्रिंशद्वर्षे सर्वकर्मानुकूलवान् ॥ ४४॥
बहुप्रतिष्ठासिद्धिः सत्तापदवी ज्ञानशौर्य सम्पन्नः ॥ ४५॥
धनधान्यहीनः ॥ ४६॥
भावाधिपे बलयुते स्वक्षेत्रत्रिकोणे केन्द्रे लक्षणापेक्षया
आन्दोलिकाप्राप्तिः ॥ ४७॥
पापयुते पापविक्षणवशाद्दुष्टस्थाने दुर्वाहनसिद्धिः ॥ ४८॥
क्षेत्रहीनः ॥ ४९॥
परगृह एव वासः ॥ ५०॥
लग्नात्पञ्चमे रविफलं
निर्धनः स्थूलदेही सप्तमे वर्षे पित्रारिष्टवान् ॥ ५१॥
मेधावी अल्प पुत्रः बुद्धिमान् ॥ ५२॥
भावाधिपे बलयुते पुत्रसिद्धिः ॥ ५३॥
राहुकेतुयुते सर्पशापात् सुतक्षयः ॥ ५४॥
कुजयुते शत्रुयुते मूलात् ॥ ५५॥
शुभदृष्टयुते न दोषः ॥ ५६॥
सूर्यशरभादिषु भक्तः ॥ ५७॥
बलयुते पुत्रसमृद्धिः ॥ ५८॥
लग्नात्षष्ठे रविफलं
अल्पज्ञातिः ॥ ५९॥
शत्रुवृद्धिः धनधान्यसमृद्धिः ॥ ६०॥
विंशतिवर्षे नेत्र वैपरीत्यं भवति ॥ ६१॥
शुभदृष्टयुते न दोषः ॥ ६२॥
अहिकानन पारकृन्मन्त्रसेवी ॥ ६३॥
कीर्तिमान् शोकरोगी महोष्णदेही ॥ ६४॥
शुभयुते भावाधिपे देहारोग्यम् ॥ ६५॥
ज्ञातिशत्रुबाहुल्यम् ॥ ६६॥
भावाधिपे दुर्बले शत्रुनाशः ॥ ६७॥
पितृदुर्बलः ॥ ६८॥
लग्नत्सप्तमे रविफलं
विवाहविलम्बनं स्त्रीद्वेषी परदाररतः दारद्वयवान् ॥ ६९॥
पञ्चविंशतिवर्षे देशान्तर प्रवेशः ॥ ७०॥
अभक्ष्य भक्षणः विनोदशीलः दारद्वेषी ॥ ७१॥
नाशान्तबुद्धिः ॥ ७२॥
स्वर्क्षेबलवति एकदारवान् ॥ ७३॥
शत्रुनीचवीक्षिते पापयुते वीक्षणैर्बहुदारवान् ॥ ७४॥
लग्नादष्टमे रविफलं
अल्पपुत्रः नेत्ररोगी ॥ ७५॥
दशमे वर्षे शिरोव्रणी ॥ ७६॥
शुभयुतदृष्टे तत्परिहारः ॥ ७७॥
अल्पधनवान् गोमहिष्यादिनाशः ॥ ७८॥
देहे रोगः ॥ ७९॥
ख्यातिमान् ॥ ८०॥
भावाधिपे बलयुते इष्टक्षेत्रवान् ॥ ८१॥
स्वोच्चेस्वक्षेत्रे दीर्घायुः ॥ ८२॥
लग्नान्नवमे रविफलं
सूर्यादिदेवताभक्तः ॥ ८३॥
धार्मिकः अल्पभाग्यः पितृद्वेषी सुतदारवान्
स्वोच्चे स्वक्षेत्रे तस्य पिता दीर्घायुः ॥ ८४॥
बहुधनवान् तपोध्यानशीलः गुरूदेवताभक्तः ॥ ८५॥
नीचारिपापक्षेत्रे पापैर्युते दृष्टे वा पितृनाशः ॥ ८६॥
शुभयुते वीक्षणवशाद् वा पिता दिर्घायुः ॥ ८७॥
लग्नाद्दशमे रविफलं
अष्टादशवर्षे विद्यादिकारेण प्रसिद्धो भवति
द्रव्यार्जनसमर्थश्च ॥ ८८॥
दृष्टत्रितः राजप्रियः सत्कर्मरतः राजशूरः ख्यातिमान् ॥ ८९॥
स्वोच्चे स्वक्षेत्रे बल परः ॥ ९०॥
कीर्तिप्रसिद्धिः ॥ ९१॥
तटाकक्षेत्रगोपुरादिब्राह्मण प्रतिष्ठासिद्धिः ॥ ९२॥
पापक्षेत्रे पापयुते पापदृष्टवशात् कर्मविघ्नकरः ॥ ९३॥
दुष्टकृतिः ॥ ९४॥
अनाचारः दुष्कर्मकृत्पापी ॥ ९५॥
लग्नादेकादशे रविफलं
बहुधान्यवान् पञ्चविंशतिवर्षे वाहनसिद्धिः ॥ ९६॥
धनवाग्जालद्रव्यार्जनसमर्थः प्रभु ज्वरितभृत्यजनस्नेहः ॥ ९७॥
पापयुते बहुधान्यव्ययः ॥ ९८॥
वाहनहीनः ॥ ९९॥
स्वक्षेत्रे स्वोच्चे अधिकप्राबल्यम् ॥ १००॥
वाहनेशयुते बहुक्षेत्रे वित्ताधिकारः ॥ १०१॥
वाहनयोगेन बहुभाग्यवान् ॥ १०२॥
लग्नाद्द्वादशे रविफलं
षट्त्रिंशद्वर्षे गुल्मरोगी ॥ १०३॥
अपात्रव्ययकारी पतितः धनहानिः ॥ १०४॥
गोहत्यादोषकृत् परदेशवासी ॥ १०५॥
भावाधिपे बलयुते वा देवतासिद्धिः ॥ १०६॥
शय्याखट्वङ्गादि सौख्यम् ॥ १०७॥
पापयुते अपात्रव्ययकारी सुखशय्याहीनः ॥ १०८॥
षष्ठेशयुते कुष्ठरोगयुतः शुभदृष्टियुते निवृत्तिः ॥ १०९॥
पापी रोगवृद्धिमान् ॥ ११०॥
अथ तन्वादिद्वादशभावस्थितचन्द्रफलमाह
तत्रादौ लग्ने चन्द्रफलं
रूपलावण्ययुक्तश्चपलः व्याधिना जलाच्चसौख्यः ॥ १॥
पञ्चदशवर्षे बहुयात्रावान् ॥ २॥
मेषवृषभकर्कलग्ने चन्द्रेशास्त्र परः ॥ ३॥
धनी सुखी नृपालः मृदुवाक् बुद्धिरहितः मृदुगात्रः बली ॥ ४॥
शुभदृष्टे बलवान् ॥ ५॥
बुद्धिमान् आरोग्यवान् वाग्जालकः धनी ॥ ६॥
लग्नेशे बलरहिते व्याधिमान् ॥ ७॥
शुभदृष्टे आरोग्यवान् ॥ ८॥
लग्नाद्द्वितीये चन्द्रफलं
शोभनवान् बहुप्रतापी धनवान अल्पसन्तोषी ॥ ९॥
अष्टादशवर्षे राजद्वरेण सेनाधिपत्योगः ॥ १०॥
पापयुतेविद्याहीनः ॥ ११॥
शुभयुते बहुविद्याधनवान् ॥ १२॥
एकेनैवपूर्णचन्द्रेण सम्पूर्णधनवान् ॥ १३॥
अनेक विद्यावान् ॥ १४॥
लग्नाद्तृतीये चन्द्रफलं
भगिनीसामान्यः वातशरीरी अन्नहीनः अल्पभाग्यः ॥ १५॥
चतुर्विंशतिवर्षे भाविरुपेन राजदण्डेन द्रव्यच्छेदः ॥ १६॥
गोमहिष्यादिहीनः ॥ १७॥
पिशुनः मेधावी सहोदर वृद्धि ॥ १८॥
लग्नाच्चतुर्थे चन्द्रफलं
राज्याभिषिक्तः अश्ववान् क्षीरसमृद्धिः धनधान्यसमृद्धिः
मातृरोगी ॥ १९॥
परस्त्रीस्तनपानकारी ॥ २०॥
मिष्ठान्नसम्पन्नः परस्त्रीलोलः सौख्यवान् ॥ २१॥
पूर्णचन्द्रं स्वक्षेत्रे बलवान् मातृदीर्घायुः क्षीणचन्द्रे पापयुते
मातृनाशः ॥ २२॥
वाहनहीनः बलयुते वाहनसिद्धिः ॥ २३॥
भावाधिपे स्वोच्चे अनेकाश्वादिवाहनसिद्धिः ॥ २४॥
लग्नात्पञ्चमे चन्द्रफलं
स्त्रीदेवतासिद्धिः भार्यारूपवती ॥ २५॥
क्वचित् कोपवती ॥ २६॥
स्तनमध्येलाञ्छनं भवति ॥ २७॥
चतुष्पादलाभः स्त्रीद्वयं बहुक्षीरलाभः सत्त्वयुतः
बहुश्रमोत्पन्नः चिन्तावान् स्त्रीप्रजावान् एकपुत्रवान् ॥ २८॥
स्त्रीदेवतोपासनावान् ॥ २९॥
शुभयुते वीक्षणवशादनुग्रहसमर्थः ॥ ३०॥
पापयुतेक्षणवशान्निग्रहसमर्थः ॥ ३१॥
पूर्णचन्द्रे बलवान् अन्नदानप्रीतिः अनेकबुधप्रसादैश्वर्यसम्पन्नः
सत्कर्मकृत् भाग्यसमृद्धिः राजयोगी ज्ञानवान् ॥ ३२॥
लग्नात्षष्ठे चन्द्रफलं
अधिकदारिद्र्यदेही ॥ ३३॥
षट्त्रिंशद्वर्षे विधवासङ्गमी तत्र पापयुते हीनपापकरः ॥ ३४॥
राहुकेतुयुते अर्थहीनः ॥ ३५॥
घोरः शत्रुकलहवान् सहोदरहीन अग्निमान्ददिरोगी ॥ ३६॥
तटाककूपादिषु जलादिगण्डः ॥ ३७॥
पापयुते रोगवान् ॥ ३८॥
क्षीणचन्द्रे पुर्णफलानि ॥ ३९॥
शुभयुते बलवान् अरोगी ॥ ४०॥
लग्नात्सप्तमे चन्द्रफलं
मृदुभाषी पार्श्वनेत्रः द्वात्रिंशद्वर्षे स्त्रीयुक्तः ॥ ४१॥
स्त्रीलोलः स्त्रीमूलेन ग्रन्थिशस्त्रादिपीडा ॥ ४२॥
राजप्रसादलाभः ॥ ४३॥
भावाधिपे बलयुते स्त्रीद्वयम् ॥ ४४॥
क्षीणचन्द्रे कलत्रनाशः पूर्णचन्द्रे बलयुते
स्वोच्चे एकदारवान् ॥ ४५॥
भोगलुब्धः ॥ ४६॥
लग्नादष्टमे चन्द्रफलं
अल्पवाहनवान् ॥ ४७॥
तडाकादिषुगण्डः ॥ ४८॥
स्त्रीमूलेनबन्धुजन परित्यागी ॥ ४९॥
स्वर्क्षे स्वोच्चे दीर्घायुः क्षीणे वा मध्यमायुः ॥ ५०॥
लग्नान्नवमे चन्द्रफलं
बहुश्रुतवान् पुण्यवान् ॥ ५१॥
तटाकगोपुरादिनिर्माण पुण्यकर्ता ॥ ५२॥
पुत्रभाग्यवान् ॥ ५३॥
पूर्णचन्द्रे बलयुते बहुभाग्यवान् ॥ ५४॥
पितृदीर्घयुः ॥ ५५॥
पापयुते पापक्षेत्रे भाग्यहीनः ॥ ५६॥
नष्टपितृमातृकः ॥ ५७॥
लग्नाद्दशमे चन्द्रफलं
विद्यावान् ॥ ५८॥
पापयुते सप्तविंशतिवर्षे विधवासङ्गमेन जनविरोधी ॥ ५९॥
अतिमेधावी ॥ ६०॥
सत्यकर्मनिरतः कीर्तिमान् दयावान् ॥ ६१॥
भावाधिपे बलयुते विशेसत्कर्मसिद्धिः ॥ ६२॥
पापनिरिक्षिते पापयुते वा दुष्कृतिः ॥ ६३॥
कर्मविघ्नकरः ॥ ६४॥
लग्नादेकादशे चन्द्रफलं
बहुश्रुतवान् पुत्रवान् उपकारि ॥ ६५॥
पञ्चादशवर्षेपुत्रर्णबहुप्राबल्ययोगः ॥ ६६॥
गुणाढ्यः ॥ ६७॥
भावाधिपे बलहीने बहुधन व्ययः ॥ ६८॥
बलयुते लाभवान् ॥ ६९॥
लाभेचन्द्रे निक्षेपलाभः ॥ ७०॥
शुक्रयुतेन नरवाहन योग ॥ ७१॥
बहुविद्यावान् ॥ ७२॥
क्षेत्रवान् अनेकजनरक्षणभाग्यवान् ॥ ७३॥
लग्नाद्द्वादशे चन्द्रफलं
दुर्भोजनः दुष्पात्रव्ययः कोपोद्भवव्यसन समृद्धिमान्
स्त्रीयोगयुक्तः अन्न हीनः ॥ ७४॥
शुभयुते विद्वान् दयावान् पापशत्रुयुते-
-पापलोकःशुभमित्रयुते श्रेष्ठलोकवान् ॥ ७५॥
अथ तन्वादिद्वादशभावस्थित भौमफलं
तत्रादौ लग्ने भौमफलं
देहे व्रणं भवति ॥ १॥
दृढगात्रः चौरबुभूषकः बृहन्नाभि रक्तपाणिः
क्रूरो बलवान् मूर्खः कोपवान् सभानशौर्य धनवान्
चापलवान् चित्तरोगी क्रोधी दुर्जनः ॥ २॥
स्वोच्चे स्वक्षेत्रे आरोग्यं दृढ्गात्रवान् राजसन्मान कीर्तिः ॥ ३॥
दीर्घायुः ॥ ४॥
पापशत्रुयुते अल्पायु ॥ ५॥
स्वल्पपुत्रवान् वातशूलादिरोगः दुर्मुखः ॥ ६॥
स्वोच्चे लग्नर्क्ष धनवान् ॥ ७॥
विद्यावान् नेत्रविलासवान् ॥ ८॥
तत्र पापयुते पापक्षेत्रे पापदृष्टियुते नेत्र रोगः ॥ ९॥
लग्नाद्वितीये भौमफलं
विद्याहीनः लाभवान् ॥ १०॥
पष्ठाधिपेनयुतः तिष्ठति चेन्नेत्रवैपरीत्यं भवति ॥ ११॥
शुभदृष्टे परिहारः ॥ १२॥
स्वोच्चे स्वक्षेत्रे विद्यावान् ॥ १३॥
नेत्र विलासः ॥ १४॥
तत्र पापयुतेक्षेत्रे पापदृष्टे नेत्ररोगः ॥ १५॥
लग्नात्तृतीये भौमफलं
स्वस्त्री व्यभिचारिणी ॥ १६॥
शुभदृष्टे न दोष अनुजहीनः ॥ १७॥
द्रव्यलाभः ॥ १८॥
राहुकेतुयुते वेश्यासङ्गमः ॥ १९॥
भ्रातृद्वेषी क्लेशयुतः शुभगः ॥ २०॥
अल्पसहोदरः ॥ २१॥
पापयुते पापवीक्षणेन भ्रातृनाशः ॥ २२॥
उच्चस्वक्षेत्रे शुभयुते भ्राता दीर्घायुः धैर्यविक्रमवान् ॥ २३॥
युद्धे शूरः ॥ २४॥
पापयुते मित्रक्षेत्रे धृतिमान् ॥ २५॥
लग्नाच्चतुर्थे भौमफलं
ग्रहच्छिद्रम् ॥ २६॥
अष्टमे वर्षे पित्रारिष्टं मातृरोगी ॥ २७॥
सौम्ययुते परगृहवासः ॥ २८॥
निरोगशरीरी क्षेत्रहीनः धनधान्यहीनः जीर्णगृहवासः ॥ २९॥
उच्चे स्वक्षेत्रे शुभयुते मित्रक्षेत्रे
वाहनवान् क्षेत्रवान् मातृदीर्घायुः ॥ ३०॥
नीचर्क्षे पापमृत्युयुते मातृनाशः ॥ ३१॥
सौम्ययुते वाहन निष्ठावान् ॥ ३२॥
बन्धुजनद्वेषी स्वदेशपरित्यागी वस्त्रहीनः ॥ ३३॥
लग्नात्पञ्चमे भौमफलं
निर्धनः पुत्राभावः दुर्मार्गी राजकोपः ॥ ३४॥
षष्ठवर्षे आयुधेन किञ्चिदण्डकालः ॥ ३५॥
दुर्वासन ज्ञानशीलवान् ॥ ३६॥
मायावादी ॥ ३७॥
तीक्षणधीः ॥ ३८॥
उच्चे स्वक्षेत्रे पुत्रसमृद्धिः अन्नदानप्रियः ॥ ३९॥
राजाधिकारयोगः शत्रुपीडा ॥ ४०॥
पापयुते पापक्षेत्रे पुत्रनाशः ॥ ४१॥
बुद्धि भ्रंशादिरोगः ॥ ४२॥
रन्ध्रेशे पापयुते पापी ॥ ४३॥
वीरः ॥ ४४॥
दत्त पुत्र योगः ॥ ४५॥
लग्नात्षष्ठे भौमफलं
प्रसिद्धः ॥ ४६॥
कार्यसमर्थः ॥ ४७॥
शत्रुहन्ता पुत्रवान् सप्तविंशति वर्षे कन्यकाश्वादि युत ऊढवान् ॥ ४८॥
शत्रुक्षयः ॥ ४९॥
पापर्क्षे पापयुते पूर्णफलानि ॥ ५०॥
वातशूलादिरोगः ॥ ५१॥
बुधक्षेत्र युते कुष्ठरोगः ॥ ५२॥
शुभदृष्टे परिहारः ॥ ५३॥
लग्नात्सप्तमे भौमफलं
स्वदार पीडा ॥ ५४॥
पापार्ते पापयुतेन च स्वर्क्षे स्वदार हानिः ॥ ५५॥
शुभयुते जीवति पत्यौ स्त्रीनाशः ॥ ५६॥
विदेशपरः ॥ ५७॥
उच्चमित्र स्वक्षेत्र शुभयुते पापक्षेत्रे ईक्षणवशात्कलत्र
नाशः ॥ ५८॥
अथवा चोरव्यभिचार मूलेन कलत्रान्तरं दुष्टस्त्रीसङ्गः ॥ ५९॥
भगचुम्बनवान ॥ ६०॥
चतुष्पाद मैथुनवान् मद्यपानाप्रियः ॥ ६१॥
मन्दयुते दृष्टे शिश्नचुम्बन परः ॥ ६२॥
केतुयुते रजस्वला स्त्री सम्भोगी ॥ ६३॥
तत्रशत्रुयुते बहुकलत्र-नाशः ॥ ६४॥
अवीरः अहङ्कारी वा शुभदृष्टे न दोषः ॥ ६५॥
लग्नादष्टमे भौमफलं
नेत्ररोगी अर्धायुः पित्रारिष्टं मूत्रकृच्छृरोगः ॥ ६६॥
अल्पपुत्रवान् वातशूलादिरोगः दारसुखयुतः ॥ ६७॥
शुभयुते देहारोग्यं दीर्घायु मुनष्यादि वृद्धिः ॥ ६८॥
पापक्षेत्रे पापयुते ईक्षणवशाद् वातक्षयादिरोगः
मुत्रकृच्छृधिक्यं वा ॥ ६९॥
मध्यमायुः ॥ ७०॥
भावाधिपबलयुते पूणोयुः ॥ ७१॥
लग्नान्नवमे भौमफलं
पित्रारिष्टम् ॥ ७२॥
भाग्यहीनः ॥ ७३॥
उच्चस्वक्षेत्रे गुरुदारगः ॥ ७४॥
लग्नाद्दशमे भौमफलं
जनवल्लभः ॥ ७५॥
भावाधिपे बलयुते भ्राता दीर्घायुः ॥ ७६॥
विशेष भाग्यवान् ध्यानशीलवान् गुरुभक्ति युतः ॥ ७७॥
पापयुते कर्मविघ्नवान् ॥ ७८॥
शुभयुते शुभक्षेत्रे कर्मसिद्धिः ॥ ७९॥
कीर्तिप्रतिष्ठावान् अष्टादशवर्षे द्रव्यार्जन समर्थः ॥ ८०॥
सर्वसमर्थः दृढगात्र चोरबुद्धिः पापयुते
पापक्षेत्रे कर्मविघ्नकरः ॥ ८१॥
दुष्कृतिः ॥ ८२॥
भाग्येश कर्मेशयुते महाराजयौवराज्ये पट्टभिषेकवान् ॥ ८३॥
गुरुयुते गजान्तैश्वर्यवान् ॥ ८४॥
भूसमृद्धिमान् ॥ ८५॥
लग्नादेकादशे भौमफलं
बहुकृत्यवान् धनी स्वगुणे राशुलाभवान् ॥ ८६॥
क्षेत्रेशयुते राजाधिपत्यवान् ॥ ८७॥
शुभद्वययुते माहाराजाधिपत्ययोगः ॥ ८८॥
भ्रातृवित्तवान् ॥ ८९॥
लग्नाद्द्वादशे भौमफलं
द्रव्याभावः वातपित्तदेहः ॥ ९०॥
पापयुते दाम्भिकः ॥ ९१॥
अथ तन्वादि द्वादश भावस्थित बुधफलमाह
तत्रादौ लग्ने बुधफलं
विद्यावान् विवाहादिबहुश्रुतवान् ॥ १॥
अनेकदेशे सार्वभौमः मन्त्रवादी पिशाचोच्चाटन
समर्थः मृदुभाषी विद्वान् क्षमीदयावान् ॥ २॥
सप्तविंशतिवर्षे तीर्थयात्रायोगः बहुलाभवान् बहुविद्यावान् ॥ ३॥
पापयुते पापक्षेत्रे देहेरोगः पित्तपाण्डुरोगः ॥ ४॥
शुभयुते शुभक्षेत्रे देहारोग्यम् ॥ ५॥
स्वर्णकान्तिदेहः ज्योतिषशास्त्र पठितः
अङ्गहीनः सज्जनद्वेषी नेत्ररोगी ॥ ६॥
सप्तदशवर्षे भ्रातृणामन्योन्यकलहः ॥ ७॥
वञ्चकः ॥ ८॥
उच्चस्वक्षेत्रे भ्रातृसौख्यम् ॥ ९॥
श्रेष्ठलोकं गमिष्यति ॥ १०॥
पापयुते पापदृष्टयुते नीचर्क्षे पापलोकं गमिष्यति ॥ ११॥
शय्यासुखवर्जितः क्षुद्रदेवतोपासकः ॥ १२॥
पापमन्दादियुते वामनेत्रे हानिः
षष्ठेशयुते नीचेशयुते वा न दोषः ॥ १३॥
अपात्रव्ययवान् ॥ १४॥
पापहा ॥ १५॥
शुभयुते निश्चयेन धनधान्यादिमान् धार्मिक बुद्धिः ॥ १६॥
अस्त्रवित् गणितशास्त्रज्ञः सौख्यवान् तर्कशास्त्रविद्दृढगात्रः ॥ १७॥
लग्नाद्द्वितीये बुधफलं
पुत्र समृद्धिः वाचालकः वेदशास्त्रविचक्षणः
सङ्कल्पसिद्धया संयुतः धनी गुणाढ्यः सद्गुणी
पञ्चदशवर्शे बहुविद्यावान् ॥ १८॥
बहुलाभप्रदः ॥ १९॥
पापयुते पापक्षेत्रे अरिनीचगे विद्याविहीनः ॥ २०॥
क्रूरत्ववान् पवनव्याधिः ॥ २१॥
शुभयुति वीक्षणाद्धनी ॥ २२॥
विद्यावान् ॥ २३॥
गुरुणा युते वीक्षिते वा गणितशास्त्राधिकारेण सम्पन्नः ॥ २४॥
लग्नात्तृतीये बुधफलं
भ्रातृमान् बहुसौख्यवान् ॥ २५॥
पञ्चदशवर्षे क्षेत्रपुत्रयुतः ॥ २६॥
धनलाभवान् ॥ २७॥
सद्गुणशाली ॥ २८॥
भावाधिपे बलयुते दीर्घायुः धैर्यवान् ॥ २९॥
भावाधिपे भ्रातृपीडा भीतिमान् ॥ ३०॥
बलयुते भ्राता दीर्घायुः ॥ ३१॥
लग्नाच्चतुर्थे बुधफलं
हस्तचापल्यवान् धैर्यवान् विशालाक्षः पितृमातृसौख्ययुतः ॥ ३२॥
ज्ञानवान् सुखी ॥ ३३॥
षोडशवर्षे द्रव्यापहाररूपेण अनेक वाहनवान् ॥ ३४॥
भावाधिपे बलयुते आन्दोलिका प्राप्तिः ॥ ३५॥
राहुकेतुशनियुते वाहनारिष्टवान् ॥ ३६॥
क्षेत्रसुखवर्जितः बन्धुकुलद्वेषी कपटी ॥ ३७॥
लग्नात्पञ्चमे बुधफलं
मातुलगण्डः मात्रादिसौख्यम्पुत्र विघ्नमेधावी
मधुरभाषी बुद्धिमान् ॥ ३८॥
भावाधिपे पापयुते बलहीने पुत्रनाशः ॥ ३९॥
अपुत्र दत्तपुत्रप्राप्तिः पापकर्मी मन्त्रवादी ॥ ४०॥
लग्नात्षष्ठे बुधफलं
राजपूज्यः विद्याविघ्नः दाम्भिकः विवादशूरः ॥ ४१॥
त्रिंशद्वर्षे बहुराजस्नेहो भवति ॥ ४२॥
पत्रादिलेखकः ॥ ४३॥
कुजर्क्षे नीलकुष्ठादिरोगी ॥ ४४॥
शनिराहुयुते केतुयुते वातशूलादिरोगी ज्ञातिशत्रुकलहः ॥ ४५॥
भावाधिपे बलयुते ज्ञातिप्रबलः ॥ ४६॥
अरिनीचर्क्षे ज्ञातिक्षयः ॥ ४७॥
लग्नात्सप्तमे बुधफलं
मातृसौख्यं अश्वाद्यारूढो धर्मज्ञः उदारमतिः ॥ ४८॥
दिगन्तविश्रुतिकीर्तिः राजपूज्यः ॥ ४९॥
तत्रशुभयुते चतुर्विंशतिवर्षे आन्दोलिकाप्राप्तिः ॥ ५०॥
कलत्रमतिः ॥ ५१॥
अभक्ष्यभक्षणः ॥ ५२॥
भावेशे बलयुते एकदारवान् ॥ ५३॥
दारेशे दुर्बले पापे पापर्क्षे कुजादियुते कलत्रनाशः ॥ ५४॥
स्त्रीजातके पतिनाशः कलत्रं कुष्ठरोगी ॥ ५५॥
अरूपवत् ॥ ५६॥
लग्नादष्टमे बुधफलं
आयुकारकः बहुक्षेत्रवान् ॥ ५७॥
सप्तपुत्रवान् ॥ ५८॥
पञ्चविंशतिवर्षे अनेकप्रतिष्ठासिद्धिः ॥ ५९॥
कीर्तिप्रसिद्धिः ॥ ६०॥
भावाधिपे बलयुतेपूर्णायुः ॥ ६१॥
अरिनीचपापयुते अल्पायुः ॥ ६२॥
अथवा उच्चस्वक्षेत्रे वा शुभयुते पूर्णायुः ॥ ६३॥
लग्नान्नवमे बुधफलं
बहुप्रजासिद्धिः ॥ ६४॥
वेदशास्त्रविशारदः सङ्गीत पाठकः दाक्षिण्यवान्
धार्मिकः प्रतापवान् बहुलाभवान् पितृ दीर्घायुः ॥ ६५॥
तपोध्यान-शीलवान् ॥ ६६॥
लग्नाद्दशमे बुधफलं
सत्कर्मसिद्धिः धैर्यवान् बहुलकीर्तिमान् बहुचितवान् ॥ ६७॥
अष्टाविंशतिवर्षे नेत्ररोगवान् ॥ ६८॥
उच्चस्वक्षेत्रे गुरुयुतेऽग्निष्टोमादि बहुकर्मवान् ॥ ६९॥
अरिपापयुते मूढकर्मविघ्नवान् दुष्कृतिः अनाचारः ॥ ७०॥
लग्नादेकादशे बुधफलं
बहुमङ्गलप्रदः ॥ ७१॥
अनेक प्रकारेण धनवान् ॥ ७२॥
एकोनविंशतिवर्षादुपरि क्षेत्रपुत्रधनवान् दयावान् ॥ ७३॥
पापर्क्षे पापयुते हीनमूलेन धनलोपः ॥ ७४॥
उच्चस्वक्षेत्रे शुभमूलेन धनवान् ॥ ७५॥
लग्नाद्द्वदशे बुधफलं
ज्ञानवान् ॥ ७६॥
वितरणशाली ॥ ७७॥
पापयुते चञ्चलञ्चित्तः ॥ ७८॥
नृपजनद्वेषी ॥ ७९॥
शुभयुतेन धर्ममूलेन धनव्ययः ॥ ८०॥
विद्याहीनः ॥ ८१॥
अत्र तन्वादिद्वादशभावस्थित गुरूफलमाह
तत्रादौ लग्ने गुरुफलं
स्वक्षेत्रे शब्दशास्त्राधिकारी ॥ १॥
त्रिवेदी बहुपुत्रवान् सुखी चिरायुः ज्ञानवान् ॥ २॥
उच्चे पुर्णफलानि ॥ ३॥
षोडशवर्षे महाराजयोगः ॥ ४॥
अरिनीचपापानां क्षेत्रे पापयुते वा नीचकर्मवान् ॥ ५॥
मनश्चलत्ववान् मध्यायुः पुत्रहीनः स्वजनपरित्यागी
कृतघ्नः गर्विष्ठः बहुजनद्वेषी साञ्चरवान् पापक्लेशभोगी ॥ ६॥
लग्नाद्द्वितीये गुरुफलं
धनवान् बुद्धिमान् इष्टभाषी षोडशवर्षे धनधान्यसमृद्धिः
बहुप्राबल्यवान् उच्चस्वक्षेत्रे धनुषि द्रव्यमान् ॥ ७॥
पापयुते विद्याविघ्नः ॥ ८॥
चोरवञ्चनवान् दुर्वचनः अनृतप्रियः ॥ ९॥
नीचक्षेत्रे पापयुते मद्यपानी भ्रष्टः ॥ १०॥
कुलनाशकः ॥ ११॥
कलत्रान्तरयुक्तः पुत्रहीनः ॥ १२॥
लग्नात्तृतीये गुरुफलं
अतिलुब्धः भ्रातृवृद्धिः दाक्षिण्यवान् सङ्कल्प सिद्धिकरः ॥ १३॥
बन्धुदोषकरः ॥ १४॥
अष्टशत्रिन्द्वर्षे यात्रासिद्धिः ॥ १५॥
भावाधिपे बलयुते भ्रातृदीर्घायुः ॥ १६॥
भावाधिपे पापयुते भ्रातृनाशः ॥ १७॥
धैर्यहीनः जडबुद्धिः दरिद्रः ॥ १८॥
लग्नाच्चतुर्थे गुरुफलं
सुखी क्षेत्रवान् बुद्धिमान् क्षीरसमृद्धिः सन्मनाः मेधावी ॥ १९॥
भावाधिपे बलयुते भृगुचन्द्रयुक्ते शुभवर्गेण नरवाहनयोगः ॥ २०॥
बहुक्षेत्रः अश्ववाहनयोगः गृहविस्तरवान् ॥ २१॥
पापयुतः पापिनः दृष्टवशात् क्षेत्रवाहनहीनः ॥ २२॥
परगृहवासः क्षेत्रहीनः मातृनाशः बन्धुद्वेषी ॥ २३॥
लग्नात्पञ्चमे गुरुफलं
बुद्धिचातुर्यवान् विशालेक्षणः वाग्मी प्रतापी अन्नदानप्रियः
कुलप्रियः अष्टादशवर्षे राजद्वारेण सेनाधिपत्य योगः ॥ २४॥
पुत्रसमृद्धिः ॥ २५॥
भावाधिपे बलयुते पापक्षेत्रे अरिनीचगे पुत्रनाशः ॥ २६॥
एकपुत्रवान् ॥ २७॥
धनवान् ॥ २८॥
राजद्वारे राजमूलेन धनव्ययः ॥ २९॥
राहु-केतुयुते सर्पशापात् सुतक्षयः ॥ ३०॥
शुभदृष्टे परिहारः ॥ ३१॥
लग्नात्षष्ठे गुरुफलं
शत्रुक्षयः ज्ञातिवृद्धिः पौत्रादिदर्शनं व्रणशरीरः
शुभयुते रोगाभावः ॥ ३२॥
पापयुते पापक्षेत्रे वातशैत्यादिरोगः ॥ ३३॥
मन्दक्षेत्रे राहुयुते महारोगः ॥ ३४॥
लग्नात्सप्तमे गुरुफलं
विद्या धनेशः बहुलाभप्रदः चिन्ताधिकः
विद्यवान् पातिव्रत्य भक्तियुत कलत्रः ॥ ३५॥
भावाधिपे बलहीने राहुकेतुशनिकुजयुते
पापवीक्षणाद्वाकलत्रान्तरम् ॥ ३६॥
शुभयुते उच्चस्वक्षेत्रे एकदारवान् कलत्रद्वारा
बहुवित्तवान् सुखी चतुस्त्रिम्शद्वर्षे प्रतिष्ठासिद्धिः ॥ ३७॥
लग्नादष्टमे गुरुफलं
अल्पायुः नीचकृत्यकारी ॥ ३८॥
पापयुते पतितः ॥ ३९॥
भावाधिपे शुभयुते रन्ध्रेदीर्घायुः ॥ ४०॥
बलहीने अल्पायुः ॥ ४१॥
पापयुते सप्तदशवर्षादुपरि विधवासङ्गमो भवति ॥ ४२॥
उच्चस्वक्षेत्रे दीर्घायुः बलहीनः अरोगी योगपौरुषः
विद्वान् वेदशास्त्रविचक्षणः ॥ ४३॥
लग्नान्नवमे गुरुफलं
धार्मिकः ॥ ४४॥
तपस्वी साधुतारूढः धनिकः पञ्चत्रिंशद्यज्ञकर्ता
पित्रुदीर्घायुः सत्कर्मसिद्धिः अनेकप्रतिष्ठावान् बहुजनपालकः ॥ ४५॥
लग्नाद्दशमे गुरुफलं
धार्मिक शुभकर्मकारी गीतापाठकः
योग्यतावान् प्रौढकीर्तिः बहुजनपूज्यः ॥ ४६॥
भावाधिपे बलयुते विशेषक्रतुसिद्धिः ॥ ४७॥
पापयुते पापक्षेत्रे कर्मविघ्नः ॥ ४८॥
दुष्कृतियात्रा लाभहीनः ॥ ४९॥
लग्नादेकादशे गुरुफलं
विद्वान् धनवान् बहुलाभवान् द्वात्रिंशद्वर्षे अश्वारूढः ॥ ५०॥
अनेक प्रतिष्ठासिद्धिः ॥ ५१॥
शुभपापयुते गजलाभः ॥ ५२॥
भाग्यवृद्धिः चन्द्रयुते निक्षेपलाभः ॥ ५३॥
लग्नाद्द्वादशे गुरुफलं
निर्धनः पठितः अल्पपुत्रः गणितशास्त्रज्ञः सम्भोगी ॥ ५४॥
ग्रन्थिव्रणी अयोग्यः ॥ ५५॥
शुभयुते उच्चस्वक्षेत्रे स्वर्गलोकप्राप्तिः ॥ ५६॥
पापयुते पापलोकप्राप्तिः ॥ ५७॥
धर्ममूलेन धनव्ययः ब्राह्मण स्त्री सम्भोगी गर्भिणी सङ्गमी ॥ ५८॥
अथ तन्वादिद्वादश भावस्थित भृगुफलमाह
तत्रादौ लग्ने भृगुफलं
गणितशास्त्रज्ञः ॥ १॥
दीर्घायुः दारप्रियः वस्त्रालङ्कारप्रियः रूपलावण्यप्रियः गुणवान् ॥ २॥
स्त्रीप्रियः धनीविद्वान् ॥ ३॥
शुभयुते अनेक भूषणवान् ॥ ४॥
स्वर्णकान्तिदेहः ॥ ५॥
पापवीक्षितयुते नीचास्तगते चोरवञ्चनवान् ॥ ६॥
वातश्लेष्मादिरोगवान् ॥ ७॥
भावाधिपे राहुयुते बृह द्विद्विजो भवति ॥ ८॥
वाहने शुभयुते गजान्तैश्वर्यवान् ॥ ९॥
स्वक्षेत्रे महाराजयोगः ॥ १०॥
रन्धरे षष्ठाष्ठव्ययाधिपेशुक्रे दुर्बले स्त्रीद्वयम् ॥ ११॥
चञ्चलभाग्यः ॥ १२॥
क्रूरबुद्धिः ॥ १३॥
लग्नाद्द्वितीये भृगुफलं
धनवान् कुटुम्बी सुभोजनः विनयवान् ॥ १४॥
नेत्रे विलासधनवान् सुमुखः ॥ १५॥
द्यावान् परोपकारी ॥ १६॥
द्वत्रिंषद्वर्षे उत्तमस्त्रीलाभः ॥ १७॥
भावाधिपे दुर्बलः दुःस्थाने नेत्रवैपरीत्यं भवति ॥ १८॥
शशियुते निशान्धः कुटुम्बहीनो नेत्ररोगी धननाशकरः ॥ १९॥
लग्नात्तृतीये भृगुफलं
अतिलुब्धः दाक्षिण्यवान् भ्रातृवृद्धिः सङ्कल्पसिद्धिः
पश्चात् सहोदराभावः ॥ २०॥
क्रमेण भ्रातृतत्परः वित्तभोगपरः ॥ २१॥
भावाधिपे बलयुते उच्चस्वक्षेत्रे भ्रातृवृद्धिः
दुःस्थाने पापयुते भ्रातृनाशः ॥ २२॥
लग्नाच्चतुर्थे भृगुफलं
शोभनवान् बुद्धिमान् भ्रातृसौख्यं सुखी क्षमावान् ॥ २३॥
त्रिंशद्वर्षे अश्ववाहनप्राप्तिः ॥ २४॥
क्षीरसमृद्धिः भावाधिपे बलयुते
अश्वान्दोलिकाकनकचतुरङ्गादिवृद्धिः ॥ २५॥
तत्रपापयुते पापक्षेत्रे अरिनीचगे बलहीने क्षेत्रवाहनहीनः ॥ २६॥
मातृक्लेशवान् ॥ २७॥
कलत्रान्तरभोगी ॥ २८॥
लग्नात्पञ्चमे भृगुफलं
बुद्धिमान् मन्त्री सेनापतिः ॥ २९॥
मातामही दृश्वा यौवनदार पुत्रवान् ॥ ३०॥
राजसन्मानी मन्त्री सुज्ञः स्त्रीप्रसन्नतावृद्धिः ॥ ३१॥
तत्रपापयुते पापक्षेत्रे अरिनीचगे बुद्धिजाड्ययुतः पुत्राशः ॥ ३२॥
तत्रशुभयुते बुद्धिमान् नीतिमत्पुत्रसिद्धिः वाहनयोगः ॥ ३३॥
लग्नाषष्ठे भृगुफलं
ज्ञातिप्रजासिद्धि शत्रुक्षयः पुत्रपौत्रवान् ॥ ३४॥
अपात्रव्ययकारी मायावादी रोगवान् आर्यपुत्रवान् ॥ ३५॥
भावाधिपे बलयुते शत्रुज्ञातिर्द्धिः शत्रुपापयुते नीचस्थे
भावेशेन्दुस्थे शत्रुज्ञातिनाशः ॥ ३६॥
लग्नात्सप्तमे भृगुफलं
अतिकामुकः मुखचुम्बकः ॥ ३७॥
अर्थवान् परदाररतः वाहनवान् सकलकार्यनिपुणः
स्त्रीद्वेषी सत्प्रधान जनबन्धुकलत्रः ॥ ३८॥
पापयुते शत्रुक्षेत्रे अरिनीचगे कलत्रनाशः ॥ ३९॥
विवाहद्वयम् ॥ ४०॥
बहुपापयुते अनेककलत्रान्तर प्राप्तिः ॥ ४१॥
पुत्रहीनः ॥ ४२॥
शुभयुते उच्चे स्वक्षेत्रे तुले कलत्रदेशे बहुवित्तवान् ॥ ४३॥
कलत्रमूलेन बहुप्राबल्ययोगः स्त्रीगोष्ठिः ॥ ४४॥
लग्नादष्टमे भृगुफलं
सुखी चतुर्थे वर्षे मातृगण्डः ॥ ४५॥
अर्धायुः रोगीहितदारवान् असन्तुष्टः ॥ ४६॥
शुभक्षेत्रे पुर्णायुः ॥ ४७॥
तत्र पापयुते अल्पायुः ॥ ४८॥
लग्नान्नवमे भृगुफलं
धार्मिकः तपस्वी अनुष्ठानपरः ॥ ४९॥
पादेबहूत्तमलक्षणः धर्मी भोगवृद्धिः सुतदारवान् ॥ ५०॥
पितृ दीर्घायुः ॥ ५१॥
तत्र पापयुते पित्ररिष्टवान् ॥ ५२॥
पापयुते पापक्षेत्रे अरिनीचगे धनहानिः ॥ ५३॥
गुरुदारगः ॥ ५४॥
शुभयुते भाग्यवृद्धिः ॥ ५५॥
महाराजयोगः ॥ ५६॥
वाहनकामेशयुते महाभाग्यवान् अश्वान्दोल्यादि वाहनवान् ॥ ५७॥
वस्त्रालङ्कारप्रियः ॥ ५८॥
लग्नाद्दशमे भृगुफलं
बहुप्रतापवान् पापयुते कर्मविघ्नकरः
गुरुबुधचन्द्रयुते अनेकवाहनारोहणवान् ॥ ५९॥
अनेकऋतुसिद्धिः ॥ ६०॥
दिगन्तविश्रुतकीर्तिः अनेकराजयोगः बहुभाग्यवान् वाचालः ॥ ६१॥
लग्नादेकादशे भृगुफलं
विद्वान् बहुधनवान् भूमिलाभवान् दयावान् शुभयुते
अनेक वाहनयोगः ॥ ६२॥
पापयुते पापमूलाद्धनलाभः ॥ ६३॥
शुभयुते शुभमुलात् नीचर्क्षे पापरन्ध्रेशादि योगे लाभहीनः ॥ ६४॥
लग्नाद्द्वादशे भृगुफलं
बहुलदारिद्र्यवान् ॥ ६५॥
पापयुते विषयलुब्धपरः ॥ ६६॥
शुभयुक्तश्चेत् बहुधनवान् ॥ ६७॥
शय्याखट्वाङ्गादिसौख्यवान् शुभलोकप्राप्तिः
पापयुते नरकप्राप्तिः ॥ ६८॥
अथ तन्वादिद्वादश भावस्थित शनिफलमाह
तत्रादौ लग्ने शनिफलं
वातपित्तदेहः ॥ १॥
उच्चे पुरग्रामाधिपः धनधान्य समृद्धिः ॥ २॥
स्वर्क्षे पितृधनवान् ॥ ३॥
वाहनेशकर्मेशक्षेत्रे बहुभाग्यम् ॥ ४॥
महाराजयोगः ॥ ५॥
चन्द्रमसा दृष्टे भिक्षुकी वृत्तिः ॥ ६॥
शुभदृष्टे निवृत्तः ॥ ७॥
लग्नाद्द्वितीये शनिफलं
द्रव्याभावः दारद्वयम् ॥ ८॥
पापयुते दारवञ्चनामठाधिपः अल्पक्षेत्रवान् नेत्ररोगी ॥ ९॥
लग्नात्तृतीये शनिफलं
भ्रातृहानिकारकः ॥ १०॥
अदृष्टः दुर्वृत्तः ॥ ११॥
उच्चस्वक्षेत्रे भ्रातृवृद्धिः ॥ १२॥
तत्रपापयुते भ्रातृद्वेषी ॥ १३॥
लग्नाच्चतुर्थे शनिफलं
मातृहानिः द्विमातृवान् ॥ १४॥
सौख्यहानिः निर्धनः ॥ १५॥
उच्चस्वक्षेत्रे न दोषः ॥ १६॥
अश्वादिआन्दोलाद्यवरोही ॥ १७॥
लग्नेशेमन्दे मातृदीर्घयुः ॥ १८॥
सौख्यवान् ॥ १९॥
रन्ध्रेशयुक्ते मात्ररिष्टम् ॥ २०॥
सुखहानिः ॥ २१॥
लग्नात्पञ्चमे शनिफलं
पुत्रहीनः अतिदरिद्री दुर्वृत्तः दत्तपुत्री ॥ २२॥
स्वक्षेत्रे स्त्रीप्रजासिद्धिः ॥ २३॥
गुरुदृष्टे स्त्रीद्वयम् ॥ २४॥
तत्र प्रथमाऽपुत्रा द्वितीया पुत्रवती ॥ २५॥
बलयुते मन्दे स्त्रीभिर्युक्तः ॥ २६॥
लग्नात्षष्ठे शनिफलं
अल्पज्ञातिः शत्रुक्षयः ॥ २७॥
धनधान्यसमृद्धिः कुजयुते देशान्तर सञ्चारी ॥ २८॥
अल्पराजयोगः ॥ २९॥
भङ्गयोगात्क्वचित्सौख्यक्वचिद्योगभङ्गः ॥ ३०॥
रन्ध्रेशे मन्दे अरिष्टं वातरोगी शूलव्रणदेही ॥ ३१॥
लग्नात्सप्तमे शनिफलं
शरीरदोषकरः कृशकलत्रः वेश्यासम्भोगवान् अतिदुखीः
उच्चस्वक्षेत्रगते अनेकस्त्रीसम्भोगी ॥ ३२॥
केतुयुते स्त्रीसम्भोगी ॥ ३३॥
कुजयुते शिश्नचुम्बनपरः ॥ ३४॥
शुक्रयुते भगचुम्बनपरः ॥ ३५॥
परस्त्रीसम्भोगी ॥ ३६॥
लग्नादष्टमे शनिफलं
त्रिपादायुः दरिद्री शूद्रस्त्रीरतः सेवकः ॥ ३७॥
उच्चस्वक्षेत्रे दीर्घायुः ॥ ३८॥
अरिनीचगे भावाधिपे अल्पायुः ॥ ३९॥
कष्टान्नभोगी ॥ ४०॥
लग्नान्नवमे शनिफलं
पतितः जीर्णोद्धारकरः एकोनचत्वारिंशद्वर्षे
तटाकगोपुरनिर्माणकर्त्ता ॥ ४१॥
उच्चस्वक्षेत्रे पितृदीर्घायुः ॥ ४२॥
पापयुते दुर्बले पित्ररिष्टवान् ॥ ४३॥
लग्नाद्दशमे शनिफलं
पञ्चविंशतिवर्षे गङ्गास्नानी अतिलुब्धः पित्तशरीरी ॥ ४४॥
पापयुते कर्मविघ्नकरः शुभयुते कर्मसिद्धिः ॥ ४५॥
लग्नादेकादशे शनिफलं
बहुधनी विघ्नकरः भूमिलाभः राजपूजकः ॥ ४६॥
उच्चे स्वक्षेत्रे वा विद्वान् ॥ ४७॥
महाभाग्ययोगः बहुधनी वाहनयोगः ॥ ४८॥
लग्नाद्द्वादशे शनिफलं
पतितः विकलाङ्गः ॥ ४९॥
पापयुते नेत्रच्छेदः ॥ ५०॥
शुभयुते सुखी सुनेत्रः पुण्यलोकप्राप्तिः ॥ ५१॥
पापयुते नरक प्राप्तिः ॥ ५२॥
अपात्रव्ययकारी निर्धनः ॥ ५३॥
अथ तन्वादिद्वादश भावस्थित राहुकेत्वोः फलमाह
तत्रादौ लग्ने राहुकेत्वोः फलं
मृतप्रसूतिः ॥ १॥
मेषवृषभकर्कराशिस्थे द्यावान् ॥ २॥
बहुभोगी ॥ ३॥
अशुभे दृष्टे मुखलाञ्छनी ॥ ४॥
लग्नाद्द्वितीये राहुकेत्वोः फलं
निर्धनः देहव्याधिः पुत्रशोकः श्यामवर्णः ॥ ५॥
पापयुते चुबुके लाञ्छनम् ॥ ६॥
लग्नात्तृतीये राहुकेत्वोः फलं
तिलनिष्पावमुद्रकोद्रवसमृद्धिवान् ॥ ७॥
शुभयुते कण्ठलाञ्छनम् ॥ ८॥
लग्नाच्चतुर्थे राहुकेतुफलं
बहुभूषणसमृद्धिः जायाद्वयं सेवकः
मातृक्लेशः पापयुते निश्चयेन ॥ ९॥
शुभयुतदृष्टे न दोषः ॥ १०॥
लग्नात्पञ्चमे राहुकेत्वोः फलं
पुत्राभावः सर्पशापात् सुतक्षयः ॥ ११॥
नाग प्रतिष्ठया पुत्रप्राप्तिः ॥ १२॥
पवनव्याधिः दुर्मार्गी राजकोपः दुष्टग्रामवासी ॥ १३॥
लग्नात्षष्ठे राहुकेत्वोः फलं
धीरवान् अतिसुखी ॥ १४॥
इन्दुयुते राजस्त्रीभोगी ॥ १५॥
निर्धनः चोरः ॥ १६॥
लग्नात्सप्तमे राहुकेत्वोः फलं
दारद्वयं तन्मध्ये प्रथमस्त्रीनाशः
द्वितिये कलत्रे गुल्मव्याधिः ॥ १७॥
पापयुते गण्डोत्पत्तिः ॥ १८॥
शुभयुते गण्डनिवृत्तिः ॥ १९॥
नियमेन दारद्वयम् ॥ २०॥
शुभयुते एकमेव ॥ २१॥
लग्नादष्टमे राहुकेत्वोः फलं
अतिरोगी द्वत्रिंशद्वर्षायुष्मान ॥ २२॥
शुभयुते पञ्चचत्वारिंशद्वर्षे भावाधिपे बलयुते
स्वोच्चे षष्टिवर्षाणिवा जीवितम् ॥ २३॥
लग्नान्नवमे राहुकेत्वोः फलं
पुत्रहीनः शूद्रस्त्रीसम्भोगी सेवकः धर्महीनः ॥ २४॥
लग्नाद्दशमे राहुकेत्वोः फलं
वितन्तुसङ्गमः ॥ २५॥
दुर्ग्रामवासः ॥ २६॥
शुभयुते न दोषः ॥ २७॥
काव्यव्यसनः ॥ २८॥
लग्नादेकादशे राहुकेत्वोः फलं
पुत्रैः समृध्दः ॥ २९॥
धनधान्य समृध्दः ॥ ३०॥
लग्नाद्द्वादशे राहुकेत्वोः फलं
अल्पपुत्रः ॥ ३१॥
नेत्ररोगी पापगतिः ॥ ३२॥
इति भृगुसूत्राणि समाप्ता ।
Encoded by Radu Canahai clradu at yahoo.com
Proofread by Radu Canahai, Pradeep Date