॥ बृहत्पाराशरहोराशास्त्रम् १-१० ॥

॥ ॐ ॥ श्रीगणेशाय नमः ॥ अथ बृहत्पाराशरहोराशास्त्रम् ॥ गजाननं भूतगणादिसेवितं कपित्थजम्बूफलसारभक्षणम् । उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वरपादपंकजम् ॥
सृष्टिक्रमकथनाध्यायः ॥ १॥ अथैकदा मुनिश्रेष्ठं त्रिकलज्ञं पराशरम् । पप्रच्छोपेत्य मैत्रेयः प्रणिपत्य कृताञ्जलिः ॥ १॥ भगवन् परमं पुण्यं गुह्यं वेदाङ्गमुत्तमम् । त्रिस्कन्धं ज्यौतिषं होरा गणितं संहितेति च ॥ २॥ एतेष्वपि त्रिषु श्रेष्ठा होरेति श्रूयते मुने । त्वत्तस्तां श्रोतुमिच्छामि कृपया वद मे प्रभो ॥ ३॥ कथं सृष्टिरियं जाता जगतश्च लयः कथम् । खस्थानां भूस्थतानां च सम्बन्धं वद विस्तरात् ॥ ४॥ साधु पृष्टं त्वया विप्र लोकानुग्रहकारिना । अथाहं परमं ब्रह्म तच्छक्तिं भारतीं पुनः ॥ ५॥ सूर्य नत्वा ग्रहपतिं जगदुत्पत्तिकारण्म् । वक्ष्यामि वेदनयनं यथा ब्रह्ममुखाच्छ्रुतम् ॥ ६॥ शान्ताय गुरुभक्ताय सर्वदा सत्यवादिने । आस्तिकाय प्रदतव्यं ततः श्रेयो ह्यवाप्स्यति ॥ ७॥ न देयं परशिष्याय नास्तिकाय शठय वा । दत्ते प्रतिदिनं दुःखं जायते नात्र संशयः ॥ ८॥ एकोऽव्यक्तात्मको विष्णुरनादिः प्रभुरीश्वरः । शुद्धसत्वो जगत्स्वामी निर्गुणस्त्रिगुणान्वितः ॥ ९॥ संसारकारकः श्रीमान्निमित्तात्मा प्रतापवान् । एकांशेन जगत्सर्व सृजत्यवति लीलया ॥ १०॥ त्रिपादं तस्य देवत्य ह्यमृतं तत्त्वदर्शिनः । विदन्ति तत्प्रमाणं च सप्रधानं तथैकपात् ॥ ११॥ व्यक्ताव्यक्तात्मको विष्णुर्वासुदेवस्तु गीयते । यदव्यक्तात्मको विष्णुः श्क्तितद्वयसमन्वितः ॥ १२॥ व्यक्तात्मकस्त्रिभिर्युक्तः कथ्यतेऽनन्तशक्तिमान् । सत्त्वप्रधाना श्रीशक्तिर्भूश्क्तिश्च रजोगुणा ॥ १३॥ शक्तिस्तृतीया या प्राक्ता नीलाख्या ध्वान्तरूपिणी । वासुदेवश्चतुर्थोऽभूच्छ्रीशक्त्या प्रेरितो यदा ॥ १४॥ संकर्षणश्च प्रद्युम्नोऽनिरुद्ध इति मूर्तिधृक् । तमःश्क्त्याऽन्विता विष्णुर्देवः संकर्षणाभिधः ॥ १५॥ प्रद्युम्नो रजसा शक्त्याऽनिरुध्हः सत्त्वया युतः । महान् संकर्षणाज्जातः प्रद्युम्नाद्यदहंअकृतिः ॥ १६॥ अनिरुद्धात् स्वयं जातो ब्रह्माहंकाकमूर्तिधृक् । सर्वषु सर्वशक्तिश्च स्वशक्त्याऽधिकया युतः ॥ १७॥ अहंकारस्त्रिध भूत्वा सर्वमेतद्विस्तरात् । सात्त्विको राजसश्चैव तामसश्चेदहंकृतिः ॥ १८॥ देवा वैकारिकाज्जातास्तैजसादिन्द्रियाणि । तामसच्चैवभू तानि खादीनि स्वस्वशक्तिभिः ॥ १९॥ श्रीशक्त्या सहितो विष्णुः सदा पाति जगत्त्रयम् । भूशक्त्या सृजते ब्रह्मा नीलशक्त्या शिवोऽत्ति हि ॥ २०॥ सर्वेषु चैव जीवेषु परमात्मा विराजते । सर्वं हि तदिदं ब्रह्मन् स्थितं हि परमात्मनि ॥ २१॥ सर्वेषु चैव जीवेषु स्थितंह्यंशद्वयं क्वचित् । जीवांशो ह्यधिकस्तद्वत् परमात्मांशकः किल ॥ २२॥ सूर्यादयो ग्रहाः सर्वे ब्रह्मकामद्विषादयः । एते चान्ये च बहवः परमात्मांशकाधिकाः ॥ २३॥ शक्तयश्च तथैतेषमधिकांशाः श्रियादयः । स्वस्वशक्तिषु चान्यासु ज्ञेया जीवांशकाधिकाः ॥ २४॥
अथावतारकथनाध्यायः ॥ २॥ रामकृष्णादयो ये ह्यवतारा रमापतेः । तेऽपि जीवांशसंयुक्ताः किंवा ब्रूहि मुनिश्वर ॥ १॥ रामः कृष्णश्च भो विप्र नृसिंहः सूकरस्तथा । एते पूर्णावताराश्च ह्यन्ये जीवांशकान्विताः ॥ २॥ अवताराण्यनेकानि ह्यजस्य परमात्मनः । जीवानां कर्मफलदो ग्रहरूपी जनार्दनः ॥ ३॥ दैत्यानां बलनाशाय देवानां बलबृद्धये । धर्मसंस्तापनार्थाय ग्रहाज्जाताः शुभाः क्रमात् ॥ ४॥ रामोऽवतारः सूर्यस्य चन्द्रस्य यदुनायकः । नृसिंहो भूमिपुत्रस्य बुद्धः सोमसुतस्य च ॥ ५॥ वामनो विबुधेज्यस्य भार्गवो भार्गवस्य च । कूर्मो भास्करपुत्रस्य सैंहिकेयस्य सूकरः ॥ ६॥ केतोर्मीनावतारश्च ये चान्ये तेऽपि खेटजाः । परात्मांशोऽधिको येषु ते सर्वे खेचराभिधः ॥ ७॥ जीवांशोह्यधिको येषु जीवास्ते चै प्रकीर्तितः । सूर्यादिभो ग्रहेभ्यश्च परमात्मांशनिःसृताः ॥ ८॥ रामकृष्णादयः सर्व ह्यवतारा भवन्ति चै । तत्रैव ते विलीयन्ते पुनः कार्योत्तर सदा ॥ ९॥ जीवांशनिःसृतास्तेषां तेभ्यो जाता नरादयः । तेऽपि तत्रैव लीयन्ते तेऽव्यक्ते समयन्ति हि ॥ १०॥ इदं ते कथितं विप्र सर्वं यस्मिन् भवेदिति । भूतान्यपि भविष्यन्ति तत्तज्जातन्ति तद्विदः ॥ ११॥ विना तज्ज्यैतिषं नान्यो ज्ञातुं शक्नोति कर्हिचित् । तत्मादवश्यमध्येयं भाह्मणेश्च विशेषतः ॥ १२॥ यो नरः शास्त्रमज्ञात्वा ज्यौतिषं खलु निन्दति । रौरवं नरकं भुक्त्वा चान्धत्वं चान्यजन्मनि ॥ १३॥
अथ ग्रहगुणस्वरूपाध्यायः ॥ ३॥ कथितं भवता प्रेम्णा ग्रहावतरणं मुने । तेषं गुणस्वरूपाद्यं कृपया कथ्यतां पुनः ॥ १॥ शृणु विप्र प्रवक्ष्यामि भग्रहाणां परिस्थितिम् । आकाशे यानि दृश्यन्ते ज्योतिर्बिम्बात्यनेकशः ॥ २॥ तेषु नक्षत्रसंज्ञानि ग्रहसंज्ञानि कानिचित् । तानि नक्षत्रनामानि स्थिरस्थानानि यानि चै ॥ ३॥ गच्छन्तो भानि गृह्णन्ति सततं ये तु ते ग्रहः । भचक्रस्य नगश्व्यंशा अश्विन्यादिसमाह्वयाः ॥ ४॥ तद्द्वादशविभागास्तु तुल्य मेषादिसंज्ञकाः । प्रसिद्धा राशयः सन्ति ग्रहास्त्वर्कादिसंज्ञकाः ॥ ५॥ राशीनामुदयो लग्नं तद्वशादेव जन्मिनाम् । ग्रहयोग्वियोगाभ्यां फलं चिन्त्यं शुभाशुभम् ॥ ६॥ संज्ञा नक्षत्रवृन्दानां ज्ञेयाः सामान्यशास्त्रतः । एतच्छास्त्रानुसारेण राशिकीटफलं ब्रुवे ॥ ७॥ यस्मिन् काले यतः खेटा यान्ति दृग्गणितैकताम् । तत एव स्फुटाः कार्याः दिक्कालौ च स्फुटौ विद ॥ ८॥ स्वस्वदेशोद्भवैः साध्यं लग्नं राश्युदयैः स्फुटम् । अथादौ वच्मि खेटानां जातिरूपगुणानहम् ॥ ९॥ अथ खेटा रविश्चन्द्रो मङ्गलश्च बुधस्तथा । गुरुः शुक्रः शनी राहुः केतुश्चैते यथाक्रमम् ॥ १०॥ तत्रार्कशनिभूपुत्राः क्षीणेन्दुराहुकेतवः । क्रूराः शेषग्रहा सौम्याः क्रूरः क्रूरयुतो बुधः ॥ ११॥ सर्वात्मा च दिवानाथो मनः कुमुदबान्धवः । सत्त्वं कुजो बुधैः प्रोक्तो बुधो वाणीप्रदायकः ॥ १२॥ देवेज्यो ज्ञानसुखदो भृगुर्वीर्यप्रदयकः । ऋषिभिः प्राक्तनैः प्रोक्तश्छायासूनुश्च दुःखदः ॥ १३॥ रविचन्द्रौ तु राजानौ नेता ज्ञेयो धरात्मजः । बुधो राजकुमारश्च सचिवौ गुरुभार्गवौ ॥ १४॥ प्रेष्यको रविपुत्रश्च सेना स्वर्भानुपुच्छकौ । एवं क्रमेण वै विप्र सूर्यादीन् प्रविचिन्तयेत् ॥ १५॥ रक्तश्यामो दिवाधीशो गौरगात्रो निशाकरः । नात्युच्चाङ्गः कुजो रक्तो दूर्वाश्यामो बुधस्तथा ॥ १६॥ गौरगात्रो गुरुर्ज्ञेयः शुक्रः श्यावस्तथैव च । कृष्णदेहो रवेः पुत्रो ज्ञायते द्विजसत्तम ॥ १७॥ वह्न्यम्बुशिखिजा विष्णुविढौजः शचिका द्विज । सूर्यादीनां खगानां च देवा ज्ञेयाः क्रमेण च ॥ १८॥ क्लीवौ द्वौ सौम्यसौरी च युवतीन्दुभृगू द्विज । नराः शेषाश्च विज्ञेया भानुर्भौमो गुरुस्तथा ॥ १९॥ अग्निभूमिनभस्तोयवायवः क्रमतो द्विज । भौमादीनां ग्रहाणां च तत्त्वानीति यथाक्रमम् ॥ २०॥ गुरुशुक्रौ विप्रवर्णौ कुजार्कौ क्षत्रियौ द्विज । शशिसोम्यौ वैश्यवर्णौ शनिः शूद्रो द्विजोत्तम् ॥ २१॥ जीवसूर्येन्द्रवः सत्त्वं बुधशुक्रौ रजस्तथा । सूर्यपुत्रभरापुत्रौ तमःप्रकृतिकौ द्विज ॥ २२॥ मधुपिङ्गलदृक्सूर्यश्चतुरस्रः शुचिर्द्विज । पित्तप्रकृतिको धीमान् पुमानल्पकचो द्विज ॥ २३॥ बहुवातकफः प्राज्ञश्चन्द्रो बृत्ततनुर्द्विज । शुभदृङ्मधुवाक्यश्च चञ्चलो मदनातुरः ॥ २४॥ क्रूरो रक्तेक्षणो भौमश्चपलोदारमूर्तिकः । पित्तप्रकृतिकः क्रोधी कृशमध्यतनुर्द्विज ॥ २५॥ वपुःश्रेष्ठः श्लिष्टवाक्च ह्यतिहास्यरुचिर्बुधः । पित्तवान् कफवान् विप्र मारुतप्रकृतिस्तथा ॥ २६॥ बृहद्गात्रो गुरुश्चैव पिङ्गलो मूर्द्धजेक्षणे । कफप्रकृतिको धीमान् सर्वशास्त्रविशारदः ॥ २७॥ सुखि कान्तवपु श्रेष्ठः सुलोचनो भृगोः सुतः । काव्यकर्ता कफाधिक्योऽनिलात्मा वक्रमूर्धजः ॥ २८॥ कृश्दीर्घतनुः शौरिः पिङ्गदृष्ट्यनिलात्मकः । स्थूलदन्तोऽलसः पंगुः खररोमकचो द्विज ॥ २९॥ धूम्राकारो नीलतनुर्वनस्थोऽपि भयंकरः । वातप्रकृतिको धीमान् स्वर्भानुस्तत्समः शिखी ॥ ३०॥ अस्थि रक्तस्तथा मज्जा त्वग् वसा वीर्यमेव च । स्नायुरेषामधीशाश्च क्रमात् सूर्यादयो द्विज ॥ ३१॥ देवालयजलं वह्निक्रीडादीनां तथैव च । कोशशय्योत्कराणान्तु नाथां सूर्यादयः क्रमात् ॥ ३२॥ अयनक्षणवारर्तुमासपक्षसमा द्विज । सूर्यादीनां क्रमाज्ज्ञेया निर्विशंकं द्विजोत्तम ॥ ३३॥ कटुक्षारतिक्तमिश्रमधुराम्लकषायकाः । क्रमेण सर्वे विज्ञेयाः सूर्यादीनां रसा इति ॥ ३४॥ बुधेज्यौ बलिनौ पूर्वे रविभौमौ च दक्षिणे । पश्चिमे सूर्यपुत्रश्च सितचन्द्रौ तथोत्तरे ॥ ३५॥ निशायां बलिनश्चन्द्रकुजसौरा भवन्ति हि । सर्वदा ज्ञो बली ज्ञेयो दिने शेषा द्विजोत्तम ॥ ३६॥ कृष्णे च बलिनः क्रूराः सौम्या वीर्ययुताः सिते । सौम्यायने सौम्यखेटो बली याम्यायनेऽपरः ॥ ३७॥ वर्षमासाहहोराणां पतयो बलिनस्तथा । शमंबुगुशुचंराद्या वृद्धितो वीर्यवत्तरः ॥ ३८॥ सूर्ये जनयति स्थूलान् दुर्भगान् सूर्यपुत्रकः । क्षीरोपेतांस्तथा चन्द्रः कटुकाद्यान् धरासुतः ॥ ३९॥ पुष्पवृक्षं भृगोः पुत्रे गुरुज्ञौ सफलाफलौ । नीरसान् सूर्यपुत्रश्च एवं ज्ञेयाः खगा द्विज ॥ ४०॥ राहुश्चाण्डालजातिश्च केतुर्जात्यन्तरस्तथा । शिखिस्वर्भानुमन्दानां वल्मीकः स्थानमुच्यते ॥ ४१॥ चित्रकन्था फनीन्द्रस्य केतुश्छिद्रयुतो द्विज! । सीसं रहोर्नीलमणिः केतोर्ज्ञेयो द्विजोत्तम ॥ ४२॥ गुरोः पीताम्बरं विप्र भृगोः क्षौमं तथैव च । रक्तक्षौमं भास्करस्य इन्दोः क्षौमं सितं द्विज ॥ ४३॥ बुधस्य कृष्णक्षौमं तु रक्तवस्त्रं कुजस्य च । वस्त्रं चित्रं शनेर्विप्र पट्तवस्त्रं तथैव च ॥ ४४॥ भृगोरृतुर्वसन्तश्च कुजभान्वोश्च ग्रीष्मकः । चन्द्रस्य वर्षा विज्ञेया शरच्चैव तथा विदः ॥ ४५॥ हेमन्तोऽपि गुरोर्ज्ञेयः शनेस्तु शिशिरो द्विज । अष्टौ मासाश्च स्वर्भानोः केतोर्मासत्रयं द्विज ॥ ४६॥ राह्वारपंगुचन्द्रश्च विज्ञेया धातुखेचराः । मूलग्रहौ सूर्यशुक्रौ अपरा जीवसंज्ञकाः ॥ ४७॥ ग्रहेषु मन्दो वृद्धोऽस्ति आयुर्वृद्धिप्रदायकः । नैसर्गिके बहुसमान् ददाति द्विजसत्तम ॥ ४८॥ मेषो वृषो मृगः कन्या कर्को मीनस्तथा तुला । सूर्यादीनां क्रमादेते कथिता उच्चराश्यः ॥ ४९॥ भागा दश त्रयोऽष्टाश्व्यस्तिथ्योऽक्षा भमिता नखाः । उच्चात् सप्तमभं नीचं तैरेवांशैः प्रकीर्तितम् ॥ ५०॥ रवेः सिम्हे नखांशाश्च त्रिकोणमपरे स्वभम् । उच्चमिन्दोर्वृषे त्र्यंशास्त्रिकोणमपरेंऽशकाः ॥ ५१॥ मेषेऽर्कांशास्तु भौमस्य त्रिकोणमपरे स्वभम् । उच्चं बुधस्य कन्यायामुक्तं पञ्चदशांशकाः ॥ ५२॥ ततः पञ्चांशकाः प्रोक्तं त्रिकोणमपरे स्वभम् । चापे दशांशा जीवस्य त्रिकोणमपरे स्वभम् ॥ ५३॥ तुले शुक्रस्य तिथ्यंशास्त्रिकोणमपरे स्वभम् । शनेः कुम्भे नखांशाश्च त्रिकोणमपरे स्वभम् ॥ ५४॥ त्रिकोणात् स्वात्सुखस्वाऽन्त्यधीधर्मायुःस्वतुङ्गपाः । सुहृदो रिपवश्वान्वे समाश्चोभयलक्षणाः ॥ ५५॥ दशवन्ध्वायसहजस्वान्त्यस्थास्तु परस्परम् । तत्काले मित्रतां यान्ति रिपवोऽन्यत्र संस्थिताः ॥ ५६॥ तत्काले च निसर्गे च मित्रं चेदधिमित्रकम् । मित्रं मित्रसमत्वे तु शत्रुः शत्रुसमत्वके ॥ ५७॥ समो मित्ररिपुत्वे तु शत्रुत्वे त्वधिशत्रुता । एवं विविच्य दैवज्ञो जातकस्य फलं वदेत् ॥ ५८॥ स्वोच्चे शुभं फलं पूर्ण त्रिकोणे पादवर्जितम् । स्वर्क्षेऽर्धं मित्रगेहे तु पादमात्रं प्रकीर्तितम् ॥ ५९॥ पादार्धं समभे प्रोक्तं शून्यं नीचास्तशत्रुभे । तद्वद्दुष्टफलं ब्रूयद् व्यत्ययेन विचक्षणः ॥ ६०॥ त्र्यंशाढ्यविश्वभागैश्च चतुर्भैः सहितो रविः । धूमो नाम महादोषः सर्वकर्मविनाशकः ॥ ६१॥ धूमो मण्डलतः शुद्धो व्यतीपातोऽत्र दोषदः । सषद्भोऽत्र व्यतीपातः परिवेषोऽतिदोषकृत् ॥ ६२॥ परिवेषश्च्युतश्चक्रादिन्द्रचापस्तु दोषदः । वित्र्यंशास्यष्टिभागाध्यश्चापः केतुखगोऽशुभः ॥ ६३॥ एकराशियुतः केतुः सूर्यतुल्यः प्रजायते । अप्रकाशग्रहाश्चैते पापा दोषप्रदाः स्मृताः ॥ ६४॥ सूर्येन्दुलग्नगेष्वेषु वंशायुर्ज्ञाननाशनम् । इति धूमादिदोषाणां स्थितिः पद्मासनोदिता ॥ ६५॥ रविवारादिशन्यन्तं गुलिकादि निरूप्यते । दिवसानष्टधा भक्त्वा वारेशाद् गणेयत् क्रमात् ॥ ६६॥ अष्ट्मोंऽशो निरीशः स्याच्छन्यंशो गुलिकःस्मृतः । रात्रिमप्यष्टधा कृत्वा वारेशात् पञ्चमादितः ॥ ६७॥ गणयेदष्टमः खण्डो निष्यतिः परिकीर्तितः । श्न्यंशो गुलिकः प्रोक्तो रव्यंशः कालसंज्ञकः ॥ ६८॥ भौमांशो मृत्युरादिष्टो गुर्वंशो यमघण्ट्कः । सोम्यांशोऽर्धप्रहरकः स्वस्वदेशोद्भवः स्फुटः ॥ ६९॥ गुलिकेष्टवशाल्लग्नं स्फुटं यत् स्वस्वदेशजम् । गुलिकं प्रोच्यते तस्माज्जातकस्य फलं वदेत् ॥ ७०॥ भांशपादसमैः प्राणैश्चराद्यर्कत्रिकोणभात् । उदयादिष्टकालान्तं यद्भं प्राणपदं हि तत् ॥ ७१॥ स्वेष्टकालं पलीकृत्य तिथ्याप्तं भादिकं च यत् । चरागद्विभसंस्थेऽर्के भनौ युङ् नवमे सुते ॥ ७२॥ स्फुटं प्राणपदाख्यं तल्लग्नं ज्ञेयं द्विजोत्तम । लग्नाद् द्विकोणे तुर्ये च राज्ये प्राणपदं तदा ॥ ७३॥ शुभं जन्म विजानीयात्तथैवैकादशेऽपि च । अन्यस्थाने स्थितं चेत् स्यात् तदा जन्माशुभं वदेत् ॥ ७४॥
अथ राशिस्वरूपाध्यायः ॥ ४॥ अहोरात्रस्य पूर्वान्त्यलोपाद् होराऽवशिष्यते । तस्य विज्ञानमात्रेण जातकर्मफलं वदेत् ॥ १॥ यदव्यक्तात्मको विष्णुः कालरुपो जनार्दनः । तस्याङ्गानि निबोध त्वं क्रमान्मेषादिराश्यः ॥ २॥ मेषो वृषश्च मिथुनः कर्कसिंहकुमारिकाः । तुलालिऽश्च धनुर्नक्रे कुम्भो मीनस्ततः परम् ॥ ३॥ शीर्षानने तथा बाहू हृत्क्रोडकटिबस्तयः । गुह्योरुयुगले जानुयुग्मे वै जङ्घके तथा ॥ ४॥ चरनौ द्वौ तथा मेषात् ज्ञेयाः शीर्षादयः क्रमात् । चरस्थिरद्विस्वभावाः क्रूराक्रूरौ नरस्त्रियौ ॥ ५॥ पित्तानिलत्रिधात्वौक्यश्लेष्मिकाश्च क्रियादयः । रक्तवर्णो बृहद्गात्रश्चतुष्पाद्रात्रिविक्रमी ॥ ६॥ पूर्ववासी नृपज्ञातिः शैलचारी रजोगुणी । पृष्ठोदयी पावकी च मेषराशिः कुजाधिपः ॥ ७॥ श्वेतः शुक्राधिपो दीर्घश्चतुष्पाच्छर्वरीबली । याम्येट् ग्राम्यो वणिग्भूमिरजः पृष्ठोदयो वृषः ॥ ८॥ शीर्षोदयी नृमिथुनं सगदं च सवीणकम् । प्रत्यग्वायुर्द्विपाद्रात्रिबली ग्रामव्रजोऽनिली ॥ ९॥ समगात्रो हरिद्विर्णो मिथुनाख्यो बुधाधिपः । पाटलो वनचारी च ब्राह्मणो निशि वीर्यवान् ॥ १०॥ बहुपादचरः स्थौल्यतनुः सत्त्वगुणी जली । पृष्ठोदयी कर्कराशिर्मृगांकाऽधिपतिः स्मृतः ॥ ११॥ सिंहः सूर्याधिपः सत्त्वी चतुष्पात् क्षत्रियो वनी । शीर्षोदयी बृहद्गात्रःपाण्डुः पूर्वेड् द्युवीर्यवान् ॥ १२॥ पार्वतीयाथ कन्याख्या राशिर्दिनबलान्विता । शीर्षोदया च मध्यांगा द्विपाद्याम्यचरा च सा ॥ १३॥ सा सस्यदहना वैश्या चित्रवर्णा प्रभञ्जिनी । कुमारी तमसा युक्ता बालभावा बुधाधिपा ॥ १४॥ शीर्षोदयी द्युवीर्याढ्यस्तुलः कृष्णो रजोगुणी । पश्चिमो भूचरो घाती शूद्रो मध्यतनुर्द्विपात् ॥ १५॥ शुक्राऽधिपोऽथ स्वल्पांगो बहुपाद्ब्राह्मणो बिली । सौम्यस्थो दिनवीर्याढ्यः पिशंगो जलभूवः ॥ १६॥ रोमस्वाढ्योऽतितीक्ष्णाग्रो वृश्चिकश्च कुजाधिपः । पृष्ठोदयी त्वथ धनुर्गुरुस्वामी च सात्त्विकः ॥ १७॥ पिंगलो निशिवीर्याढ्यः पावकः क्षत्रियो द्विपाद् । आदावन्ते चतुष्पादः समगात्रो धनुर्धरः ॥ १८॥ पूर्वस्थो वसुधाचारी तेजस्वी ब्रह्मणा कृतः । मन्दाधिपस्तमी भौमी याम्येट् च निशि वीर्यवान् ॥ १९॥ पृष्ठोदयी बृहद्गात्रः कर्बुरो वनभूचरः । आदौ चतुष्पदोन्ते तु विपदो जलगो मतः ॥ २०॥ कुम्भः कुम्भी नरो बभ्रुवर्णो मध्यतनुर्द्विपात् । द्युवीर्यो जलमध्यस्थो वातशीर्षोदयी तमः ॥ २१॥ शूद्रः पश्चिमदेशस्य स्वामी दैवाकरिः स्मृतः । मीनौ पुच्छास्यसंलग्नौ मीनराशिर्दिवाबली ॥ २२॥ जली सत्त्वगुणाढ्यश्च स्वस्थो जलचरो द्विजः । अपदो मध्यदेही च सौम्यस्थो ह्युभयोदयी ॥ २३॥ सुराचार्याधिपश्चेति राशीनां गदिता गुणाः । त्रिंशद्भागात्मकानां च स्थूलसूक्ष्मफलाय च ॥ २४॥ अथातः सम्प्रवक्ष्यामि शृणुष्व मुनिपुंगव । जन्मलग्नं च संशोध्य निषेकं परिशोधयेत् ॥ २५॥ तदहं सम्प्रवक्ष्यामि मैत्रेय त्वं विधारय । जन्मलग्नात् परिज्ञानं निषेकं सर्व्जन्तु यत् ॥ २६॥ यस्मिन् भावे स्थितो मन्दस्तस्य मान्देर्यदन्तरम् । लग्नभाग्यान्तरं योज्यं यच्च राश्यादि जायते ॥ २७॥ मासादि तन्मितं ज्ञेयं जन्मतः प्रक् निषेकजम् । यद्यदृश्यदलेङ्गेशस्तदेन्दोर्भुक्तभागयुक् ॥ २८॥ तत्काले साधयेल्लग्नं शोधयेत् पूर्ववत्तनुम् । तस्माच्छुभाशुभं वाच्यं गर्भस्थस्य विशेषतः ॥ २९॥ शुभाशुभं वदेत् पित्रोर्जीवनं मरणं तथा । एवं निषेकलग्नेन सम्यग् ज्ञेयं स्वकल्पनात् ॥ ३०॥
अथ विशेषलग्नाध्यायः ॥ ५॥ अथाहं सम्प्रवक्ष्यामि तवाग्रे द्विजसत्तम । भावहोराघटीसंज्ञलग्नानीति पृथक् पृथक् ॥ १॥ सूर्योदयं समारभ्य घटिकानां तु पंचकम् । प्रयाति जन्मपर्यन्तं भावलग्नं तदेव हि ॥ २॥ इष्टं घट्यादिकं भक्त्वा पंचभिर्भादिजं फलम् । योज्यमौदयिके सूर्ये भावलग्नं स्फुटं च तत् ॥ ३॥ तथा सार्धद्विघटिकामितादर्कोदयाद् द्विज । प्रयाति लग्नं तन्नाम होरालग्नं प्रचक्षते ॥ ४॥ इष्टघट्यादिकं द्विघ्नं पञ्चाप्तं भादिकं च यत् । योज्यमौदयिके भानौ होरालग्नं स्फुटं हि तत् ॥ ५॥ कथयामि घटीलग्नं सृनु त्वं द्विजसत्तम । सूर्योदयत् समारभ्य जन्मकालावधि क्रमात् ॥ ६॥ एकैकघटिकामानात् लग्नं यद्याति भादिकम् । तदेव घटिकालग्नं कथितं नारदादिभिः ॥ ७॥ राशयस्तु घटीतुल्याः पलार्धप्रमितांशकाः । योज्यमौदयिके भनौ घटीलग्नं स्फुटं हि तत् ॥ ८॥ क्रमादेषां च लग्नानां भावकोष्ठं पृथक् लिखेत् । ये ग्रहा यत्र भे तत्र ते स्थाप्या राशिलग्नवत् ॥ ९॥ वर्णदाख्यदशां भानां कथयाम्यथ तेऽग्रतः । यस्य विज्ञानमात्रेण वदेदायुर्भवं फलम् ॥ १०॥ ओजलग्नप्रसूतानां मेषादेर्गणयेत् क्रमात् । समलग्नप्रसूतानाम् मीनादेरपसव्यतः ॥ ११॥ मेषमीनादितो जन्मलग्नान्तं गणयेत् सुधीः । तथैव होरालग्नान्तं गणयित्वा ततः परम् ॥ १२॥ ओजत्वेन समत्वेन सयातीये उभे यदि । तर्हि संख्ये योजयीत वैजात्ये तु वियोजयेत् ॥ १३॥ मेषमीनादितः पश्चाद्यो राशिः स तु वर्णदः । एतत्प्रयोजनं वक्ष्ये सृणु त्वं द्विजपुंगवः । होरालग्नभयोर्नेया सबलाद्वर्णदा दशा ॥ १४॥ यत्संख्ये वर्णदो लग्नात् तत्तत्संख्याक्रमेण तु । क्रमयुत्क्रमभेदेन दशा स्यादोजयुग्मयो ॥ १५॥ पापदृष्टिः पापयोगो वर्ण्दस्य त्रिकोणके । यदि स्यात् तर्हि तद्राशिपर्यन्तं तस्य जीवनं ॥ १६॥ रुद्रशूले यथैवायुर्मरणादि निरूप्यते । तथैव वर्णदस्यपि त्रिकोणे पापसंगमे ॥ १७॥ वर्णदादपि भो विप्र लग्नवच्चिन्तयेत् फलम् । वर्णदात् सप्तमाद् भावत् कलत्रायुर्विचिन्तयेत् ॥ १८॥ एकादशादग्रजस्य तृतीयात्तु यवीयसः । सुतस्य पंचमे विद्यान्मातुश्चतुर्थभावत् ॥ १९॥ पितुश्च नवमाद् भावादयुरीवं विचिन्तयेत् । शूलराशिदशायां वै प्रवलायामरिष्टकम् ॥ २०॥ एवं तन्वादिभावानां कर्तव्या वर्णा दशा । पूर्ववच्च फलं ज्ञेयं देहिनां च शुभाशुभम् ॥ २१॥ ग्रहनां वर्णदा नैव राशीनां वर्ण्दा दशा । कृत्वार्कधा राशिदशां क्रमादन्तर्दशां वदेत् ॥ २२॥ एवमन्तर्दशादिं च कृत्वा तेन फलं वदेत् । क्रमव्युत्क्रमभेदेन लिखेदन्तर्दशामपि ॥ २३॥ स्वस्वदेशोद्भवं लग्नं जन्मलग्नमिमिहोच्यते । भावहोरादिलग्नानां सर्वत्रैव समक्रिया ॥ २४॥
अथ षोडशवर्गाध्यायः ॥ ६॥ श्रुता ग्रहगुणास्त्वत्तस्तथा राशिगुण मुने । श्रोतमिच्छामि भावानां भेदांस्तान् कृपया वद ॥ १॥ वर्गान् षोडश यानाह ब्रह्मा लोकपितामहः । तानहं सम्प्रवक्ष्यामि मैत्रेय स्रूयतामिति ॥ २॥ क्षेत्रं होरा च द्रेष्काणस्तुर्यांशः सप्तमांशकः । नवांशो दशमांशश्च सूर्याम्शः षोडशांशकः ॥ ३॥ विंशांशो वेदवाह्वंशो भांशस्त्रिंशांशकस्ततः । खवेदांशोऽक्षवेदांशः षष्ठ्यंशश्च ततः परम् ॥ ४॥ तत्क्षेत्रं तस्य खेटस्य राशेर्यो यस्य नायकः । सूर्येन्द्वोर्विषमे राशौ समे तद्विपरीतकम् ॥ ५॥ पितरश्चन्द्रहोरेशा देवाः सूर्यस्य कीर्तिताः । राशेरर्द्धं भवेद्धोरा ताश्चतुर्विंशतिः स्मृता । मेषादि तासां होराणां परिवृत्तिद्वयं भवेत् ॥ ६॥ राशित्रिभागाद्रेष्काणास्ते च षट्त्रिंशदीरिताः । परिवृत्तित्रयं तेषां मेषादेः क्रमशो भवेत् ॥ ७॥ स्वपंचनवमानां च राशीनां क्रमशश्च ते । नारदाऽगस्तिदुर्वासा द्रेष्काणेशाश्चरादिषु ॥ ८॥ स्वर्क्षादिकेन्द्रपतयस्तुर्यांशेशाः क्रियादिषु । सनकश्च सनन्दश्च कुमारश्च सनातनः ॥ ९॥ सप्तांशपास्त्वोजगृहे गणनीया निजेशतः । युग्मराशौ तु विज्ञेयाः सप्तमर्क्षादिनायकात् ॥ १०॥ क्षारक्षीरौ च दध्याज्यौ तथेक्षुरससम्भवः । मध्यशुद्धजलावोजे समे शुद्धजलादिकाः ॥ ११॥ नवांशेशाश्चरे तस्मात्स्थिरे तन्नवमादितः । उभये तत्पंचमादेरिति चिन्त्यं विचक्षणौः । देवा नृराक्षसाश्चैव चरादिषु गृहेषु च ॥ १२॥ दशमांशाः स्वतश्चैजे युग्म तन्नवमात् स्मृताः । दश पूर्वादिदिक्पाला इन्द्राऽग्नियमराक्षसाः ॥ १३॥ वरुणो मारुतश्चैव कुबेरेशानपद्मजाः । अनन्तश्च क्रमादीये समे वा व्युत्क्रमेण तु ॥ १४॥ द्वादशांशस्य गणना तत्तत्क्षेत्राद्विनिर्दिशेत् । तेषामघीशाः क्रमशो गणेशाऽश्वियमाहयाः ॥ १५॥ अजसिंहाऽश्वितो ज्ञेया षोडशांशाश्चरादिषु । अजविष्णू हरः सूर्ये ह्योजे युग्मे प्रतीपकम् ॥ १६॥ अथ विंशतिभागानामधिपा ब्रह्मणोदिताः । क्रियाच्चरे स्थिरे चापान् मृगुन्द्राद् द्विस्वभावके ॥ १७॥ काली गौरी लक्ष्मीविजया विमला सती । तारा ज्वालामुखी श्वेता ललिता बगलामुखी ॥ १८॥ प्रत्यङ्गिरा शची रौद्री भवानी वरदा जया । त्रिपुरा सुमुखी चेति विषमे परिचिन्तयेत् ॥ १९॥ समराशौ दया मेधा छिन्नशीर्षा पिशाचिनी । धूमावती च मातङ्गी बाला भद्रऽरुणानला ॥ २०॥ पिङ्गला छुच्छुका घोरा वाराही वैष्णवी सिता । भुवनेशी भैरवी च मङ्गला ह्यपराजिता ॥ २१॥ सिद्धांशकानामधिपाः सिंहादोजभगे ग्रहे । कर्कद्युग्मभगे खेटे स्कन्दः पर्शुधरोऽनलः ॥ २२॥ विश्वकर्मा भगो मित्रो मयोऽन्तकवृषध्वजाः । गोविन्दो मदनो भीमः सिंहादौ विषमे क्रमात् । कर्कादौ समभे भीमाद्विलोमेन विचिन्तयेत् ॥ २३॥ भांशाधिपाः क्रमाद्दस्रयमवह्निपितामहाः । चन्द्रेशादितिजीवाहिपितरो भगसंज्ञिताः ॥ २४॥ अर्यमार्कत्वष्ट्टमरुच्छक्राग्निमित्रवासवाः । निरृत्युदकविश्वेऽजगोविन्दो वसवोऽम्बुपः ॥ २५॥ ततोऽजपादहिर्बुध्न्यः पूषा चैव प्रकीर्तिताः । नक्षत्रेशास्तु भांशेशा मेषादिचरभक्रमात् ॥ २६॥ त्रिंशांशेशाश्च विषमे कुजर्कीज्यज्ञभार्गवाः । पंचपंचाष्टसप्ताक्षभागानां व्यत्ययात् समे ॥ २७॥ वह्निः समीरशक्रौ च धनदो जलदस्तथा । विषमेषु क्रमाज्ज्ञेयाः समराशौ विपर्ययात् ॥ २८॥ चत्वारिंशद्विभागानामधिपा विषमे क्रियात् । समभे तुलतो ज्ञेयाः स्वस्वाधिपसमन्विताः ॥ २९॥ विष्णुश्चन्द्रो मरीचिश्च त्वष्टा धाता शिवो रविः । यमो यक्षश्च गन्धर्वः कालो वरुण एव च ॥ ३०॥ तथाक्षवेदभागानामधिपाश्चरभे क्रियात् । स्थिरे सिंहाद् द्विभेचापात् विधीशविष्णवश्चरे ॥ ३१॥ ईशाच्युतसुरज्येष्ठा विष्णुकेशाः स्थिरे द्विभे । देवाः पंचदशावृत्त्या विज्ञेया द्विजसत्तम ॥ ३२॥ राशीन् विहाय खेटस्य द्विघ्नमंशाद्यमर्कहृत् । शेषं सैकं तद्राशेर्भपाः षष्ट्यंशापाः स्मृताः ॥ ३३॥ घोरश्च राक्षशो देवः कुबेरो यक्षकिन्नरौ । भ्रष्टः कुलघ्नो गरलो वह्निर्माया पुरीषकः ॥ ३४॥ अपाम्पतिर्मरुत्वांश्च कालः सर्पामृतेन्दुकाः । मृदुः कोमलहेरम्बब्रह्मविष्णुमहेश्वराः ॥ ३५॥ देवार्द्रौ कलिनाशश्च क्षितीशकमलाकरौ । गुलिको मृत्युकालश्च दावाग्निर्घोरसंज्ञकः ॥ ३६॥ यमश्च कण्टकसुधाऽमृतौ पूर्णनिशाकरः । विषदग्धकुलान्तश्च मुख्यो वंशक्षयस्तथा ॥ ३७॥ उत्पातकालसौम्याख्याः कोमलः शीतलाभिधः । करालदंष्ट्रचन्द्रास्यौ प्रवीणः कालपावकः ॥ ३८॥ दण्डभृन्निर्मलः सौम्यः क्रूरोऽतिशीतलोऽमृतः । पयोधिभ्रमणाख्यौ च चन्द्ररेखा त्वयुग्मपाः ॥ ३९॥ समे भे व्यत्ययाज्ज्ञेयाः षष्ट्यंशेशाः प्रकीर्तिताः । षष्ट्यांशस्वामिनस्त्वोजे तदीशादव्यत्पयः समे ॥ ४०॥ शुभषष्टयंशसंयुक्ता ग्रहाः शुभफलप्रदाः । क्रूरषष्ट्यंशासंयुक्ता नाशयन्ति खचारिणः ॥ ४१॥ वर्गभेदानहं वक्ष्ये मैत्रेय त्वं विधारय । षड्वर्गाः सप्तवर्गाश्च दिग्वर्गा नृपवर्गकाः ॥ ४२॥ भवन्ति वर्गसंयोगे षडवर्गे किंशुकादयः । द्वाभ्यां किंशुकनामा च त्रिभिर्व्यञ्जनमुच्यते ॥ ४३॥ चतुर्भिश्चामराख्यं च छत्रं पञ्चभिरेव च । षड्भिः कुण्डलयोगः स्यान्मुकुटाख्यं च सप्तभिः ॥ ४४॥ सप्तवर्गेऽथ दिग्वर्गे पारिजातादिसंज्ञकाः । पारिजातं भवेद्द्वाभ्यामुत्तमं त्रिभिरुच्यते ॥ ४५॥ चतुर्भिर्गोपुराख्यं स्याच्छरौः सिंहासनं तथा । पारावतं भवेत् षड्भिर्देवलोकं च सप्तभिः ॥ ४६॥ वसुभिर्ब्रह्मलोकाख्यं नवभिः शक्रवाहनम् । दिग्भिः श्रीधामयोगः स्यादथ षोडशवर्गके ॥ ४७॥ भेदकं च भवेद्द्वाभ्यां त्रिभिः स्यात् कुमुमाख्यकम् । चतुर्भिर्नागपुष्पं स्यात् पंचभिः कन्दुकाह्वयम् ॥ ४८॥ केरलाख्यं भवेत् षड्भिः सप्तभिः कल्पवृक्षकम् । अष्टभिश्चन्दनवं नवभिः पूर्णचन्द्रकम् ॥ ४९॥ दिग्भिरुच्चैःश्रवा नाम रुद्रैर्धन्वन्तरिर्भवेत् । सूर्यकान्तं भवेद् सूर्यैर्विश्वैः स्याद्विद्रुमाख्यकम् ॥ ५०॥ शक्रसिंहासनं शक्रैर्गोलोकं तिथिभिर्भवेत् । भूपैः स्रीवल्लभाख्यं स्याद्वर्गा भेदैरुदाहृताः ॥ ५१॥ स्वोच्चमूलत्रिकोणस्वभवनाधिपतेः शुभाः । स्वारुढात् केन्द्रनाथानां वर्गा ग्राह्याः सुधीमता ॥ ५२॥ अस्तंगता ग्रहजिता नीचगा दुर्बलाश्च ये । शयनादिगतास्तेभ्य उत्पन्ना योगनाशकाः ॥ ५३॥
अथ वर्गविवेकाध्यायः ॥ ७॥ अथ षोडशवर्गेषु विवेकं च वदाम्यहम् । लग्ने देहस्य विज्ञानं होरायां सम्पदादिकम् ॥ १॥ द्रेष्काणे भ्रातृजं सौख्यं तुर्यांशे भाग्यचिन्तनम् । पुत्रपौत्रादिकानां चै चिन्तनं सप्तमांशके ॥ २॥ नवमांशे कलत्राणां दशमांशे महत्फलम् । द्वादशांशे तथा पित्रोश्चिन्तनं षोडशांशके ॥ ३॥ सुखाऽसुखस्य विज्ञानं वाहनानां तथैव च । उपासनाया विज्ञानं साध्यं विंशतिभागके ॥ ४॥ विद्याया वेदबाह्वंशे भांशे चैव बलाऽबलम् । त्रिंशांशके रिष्टफलं खवेदांशे शुभाऽशुभम् ॥ ५॥ अक्षवेदांशके चैव षष्ट्यंशेऽखिलमीक्षयेत् । यत्र कुत्रापि सम्प्राप्तः क्रूरषष्ट्यंशकाधिपः ॥ ६॥ तत्र नाशो न सन्दे हो गर्गादीनां वचो यथा । यत्र कुत्रापि सम्प्राप्तः कलांशाधिपतिः शुभः ॥ ७॥ तत्र वृद्धिश्च पुष्टिश्च गर्गादिनां वचो यथा । इति षोडशवर्गाणां भेदास्ते प्रतिपादिताः ॥ ८॥ उदयादिषु भावेषु खेटस्य भवनेषु वा । वर्गविंशोपकं वीक्ष्य ज्ञेयं तेषां शुभाऽशुभम् ॥ ९॥ अथातः सम्प्रवक्ष्यामि वर्गविंशोपकं बलम् । यस्य विज्ञानमार्तेण विपाकं दृष्टिगोचरम् ॥ १०॥ गृहविंशोपकं वीक्ष्यं सूर्यादीनां खचारिणाम् । स्वगृहोच्चे बलं पूर्णं शून्यं तत्सप्तमस्थिते ॥ ११॥ ग्रहस्थितिवशाज्ज्ञेयं द्विराश्यधिपतिस्तथा । मध्येऽनुपाततो ज्ञेयं ओजयुग्मर्क्षभेदतः ॥ १२॥ सूर्यहोराफलं दद्युर्जीवार्कवसुधात्मजाः । चन्द्रास्फुजिदर्कपुत्राश्चन्द्रहोराफलप्रदाः ॥ १३॥ फलद्वयं बुधो दद्यात् समे चान्द्रं तदन्यके । रवेः फलं स्वहोरादौ फलहीनं विरामके ॥ १४॥ मध्येऽनुपातात् सर्वत्र द्रेष्काणेऽपि विचिन्तयेत् । गृहवत् तुर्यभागेपि नवांशादावपि स्वयम् ॥ १५॥ सूर्यः कुजफलं धत्ते भार्गवस्य निशापतिः । त्रिंशांशके विचिन्त्यौवमत्रापि गृहवत् स्मृतम् ॥ १६॥ लग्नहोरादृकाणांकभागसूर्यका इति । त्रिंशांशकश्च षड्वर्गा अत्र विंशोपकाः क्रमात् ॥ १७॥ रमनेत्राबिधपंचाश्विभूमयः सप्तवर्गके । ससप्तमांशके तत्र विश्वकाः पंच लोचनम् ॥ १८॥ त्रयः सार्द्धं द्वयं सार्द्धवेदा द्वौ रात्रिनायकः । स्थूलं फलं च संस्थाप्य तत्सूक्ष्मं च ततस्ततः ॥ १९॥ दशवर्गां दिगंशाढ्याः कलांशाः षष्टिभागकाः । त्रयं क्षेत्रस्य विज्ञेयः पंचषष्ट्यंशकस्य च ॥ २०॥ सार्द्धौकभागाः शेषाणां विश्वकाः परिकीर्तिता । अथ वक्ष्ये विशेषेण बलं विंशोपकाह्वयम् ॥ २१॥ क्रमात् षोडशवर्गाणां क्षेत्रादीनां पृथक् पृथक् । होरात्रिंशांशदृक्काणे कुचन्द्रशशिनः क्रमात् ॥ २२॥ कलांशस्य द्वयं ज्ञेयं त्रयं नन्दांशकस्य च । क्षेत्रे सार्द्धं च त्रितयं वेदाः षष्ट्यंशकस्य हि ॥ २३॥ अर्द्धमर्धं तु शेषाणां ह्येतत् स्वीयमुदाहृतम् । पूर्णं विंशोपकं विंशो धृतिः स्यादधिमित्रके ॥ २४॥ मित्रे पंचदश प्रोक्तं समे दश प्रकीर्तितम् । शत्रौ सप्ताधिशत्रौ च पंचविंशोपकं भवेत् ॥ २५॥ वर्गविश्वाः स्वविश्वघ्नाः पुनर्विंशतिभाजिताः । विश्वाफलोपयोग्यं तत्पञ्चोनं फलदो न हि ॥ २६॥ तदूर्ध्वं स्वल्पफलदं दशोर्ध्वं मध्यमं स्मृतम् । तिय्यूर्धं पूर्णफलदं बोध्यं सर्वं खचारिणाम् ॥ २७॥ अथाऽन्यदपि वक्ष्येऽहं मैत्रेय त्वं विधारय । खेताः पूर्णफलं दद्युः सूर्यात् सप्तमके स्थिताः ॥ २८॥ फलाभावं विजानीयात् समे सूर्यनभश्चरे । मध्येऽनुपातात् सर्वत्र ह्युदयास्तविंशोपकाः ॥ २९॥ वर्गविंशोपकं ज्ञेयं फलमस्य द्विजर्षभ । यच्च यत्र फलं बुद्ध्वा तत्फलं परिकीर्तितम् ॥ ३०॥ वर्गविंशोपकं चादावुदयास्तमतः परम् । पूर्णं पूर्णेतिपूर्नंस्यात् सर्वदौवं विचिन्तयेत् ॥ ३१॥ हीनं हीनेतिहीनं स्यात् स्वल्पेल्पात्यल्पकं स्मृतम् । मध्यं मध्येतिमध्यं स्याद्यावत्तस्य दशास्थितिः ॥ ३२॥ अथाऽन्यदपि वक्ष्यामि मैत्रेय स्रृणु सुव्रत् । लग्नतुर्यास्तवियतां केन्द्रसंज्ञा विशेषतः ॥ ३३॥ द्विपंचरन्ध्रलाभानां ज्ञेयं पणफराभिधम् । त्रिषष्ठभाग्यरिष्फानामापोक्लिममिति द्विज ॥ ३४॥ लग्नात् पंचमभाग्यस्य कोणसंज्ञा विधीयते । षष्ठाष्टव्ययभाबानां दुःसंज्ञास्त्रिकसंज्ञकाः ॥ ३५॥ चतुरस्रं तुर्यरन्ध्रं कथयान्ते द्विजोत्तम । स्वस्थादुपचयर्क्षाणि त्रिषडायाम्बराणि हि ॥ ३६॥ तनुर्धनं च सहजो बन्धुपुत्रारयस्तथा । युवतीरन्ध्रधर्माख्यकर्मालाभव्ययाः क्रमात् ॥ ३७॥ संक्षेपेणौतदुदितमन्यद् बुद्ध्यनुसारतः । किञ्चिद्विशेषं वक्ष्यामि यथा भह्ममुखार्च्छुतम् ॥ ३८॥ नवमेऽपि पितुर्ज्ञानं सूर्याच्च नवमेऽथवा । यत्किञ्चिद्दशमे लाभे तत्सूर्याद्दशमे भवे ॥ ३९॥ तुर्ये तनौ धने लाभे भाग्ये यच्चिन्तनं च तत् । चन्द्रात्तुर्ये तनौ लाभे भग्ये तच्चिन्तयेद् ध्रुवम् ॥ ४०॥ लग्नाद् दुश्चिक्यभवने यत्कुजाद्विक्रमेऽखिलम् । विचार्यं षष्ठभावस्य बुधात् षष्ठे विलोकयेत् ॥ ४१॥ पुत्रस्य च गुरोः पुत्रे जायायाः सप्तमे भृगोः । अष्टमस्य व्ययस्यापि मन्दान्मृत्यौ व्यये तथा ॥ ४२॥ यद्भावाद्यत्फलं चिन्त्यं तदीशात्तत्फलं विदुः । ज्ञेयं तस्य फलं तद्धि तत्र चिन्त्यं शुभाऽशुभम् ॥ ४३॥
अथ राशिदृष्टिकथनाध्यायः ॥ ८॥ अथ मेषादिराशीनां चरादीनां पृथक् पृथक् । दृष्टिभेदं प्रवक्ष्यामि शृणु त्वं द्विजसत्तम ॥ १॥ राशयोऽभिमुखं विप्र तथा पश्यन्ति पार्श्वभे । यथा चरः स्थिरानेवं स्थिरः पश्यति वै चरान् ॥ २॥ द्विस्वभावो विनाऽत्मानां द्विस्वभावान् प्रपश्यति । समीपस्थं परित्यज्य खेटास्तत्र गतास्तथा ॥ ३॥ चरेषु संस्थिताः खेटाः पश्यन्ति स्थिरसङ्गतान् । स्थिरेषु संस्थिता एवं पश्यन्ति चरसंस्थितान् ॥ ४॥ उभयस्थास्तु सूर्याद्या पश्यन्युभयसंस्थितान् । निकटस्थं विना खेटाः पश्यन्तीत्ययमागमः ॥ ५॥ दृष्टिचक्रमहं वक्ष्ये ययावद् ब्रह्मणोदितम् । तस्य विन्यासमात्रेण दृष्टिभेदः प्रकाश्यते ॥ ६॥ प्राचि मीषवृषौ लेख्यौ कर्कसिंहौ तथोत्तरे । तुलाऽली पश्चिमे विप्र मृगकुम्भौ च दक्षिणे ॥ ७॥ ईशकोणे तु मिथुनं वायव्ये कन्यकां तथा । नौरृर्त्यां चापमालिख्य वह्निकोणे छषं लिखेत् ॥ ८॥ एवं चतुर्भुजाकारं वृत्ताकारमथापि वा । दृष्टिचक्रं प्रविन्यस्यैवं ततो दृष्टिं विचारयेत् ॥ ९॥
अथारिष्टाध्यायः ॥ ९॥ आदौ जन्माङ्गतो विप्र रिष्टाऽरिष्टं विचारयेत् । ततस्तन्वादिभावानां जातकस्य फलं वदेत् ॥ १॥ चतुर्विंशतिवर्षाणि यावद् गच्छन्ति जन्मतः । जन्मारिष्टं तु तावत् स्यादायुर्दायुं न चिन्तयेत् ॥ २॥ षष्ठाष्टरिष्फगश्चन्द्रः क्रूरौः खेटैश्च वीक्षितः । जातस्य मृत्युदः सद्यस्त्वष्टर्षैः शुभक्षितः ॥ ३॥ शशिवन्मृत्युदाः सौम्याश्चेद्वक्राः क्रूरवीक्षिताः । शिशोर्जातस्य मासेन लग्ने सौम्यविवर्जिते ॥ ४॥ यस्य जन्मनि धीस्थाः स्युः सूर्यार्कीन्दुकुजाभधाः । तस्य त्वाशु जनित्री च भ्राता च निधनं व्रजेत् ॥ ५॥ पापेक्षितो युतो भौमो लग्नगो न शुभेक्षितः । मृत्युदस्त्वष्टमस्थोऽपि सौरेणार्केण वा युतः ॥ ६॥ चन्द्रसूर्यग्रहे राहुश्चन्द्रसूर्ययुतो यदि । सौरिभौमेक्षितं लग्नं पक्षमेकं स जीवति ॥ ७॥ कर्मस्थाने स्थितः सौरिः शत्रुस्थाने कलानिधिः । क्षितिजः सप्तमस्थाने सह मात्रा विपद्यते ॥ ८॥ लग्ने भास्करपुत्रश्च निधने चन्द्रमा यदि । तृतीयस्थो यदा जीवः स याति यममन्दिरम् ॥ ९॥ होरायां नवमे सूर्यः सप्तमस्थः शनैश्चरः । एकादशे गुरुः सुक्रो मासमेकं स जीवति ॥ १०॥ व्यये सर्वे ग्रहा नेष्टाः सूर्येशुक्रेन्दुराहवः । विशेषान्नाशकर्तारो दृष्ट्या वा भङ्गकारिणः ॥ ११॥ पापान्वितः शशी धर्मे द्यूनलग्नगतो यदि । शुभैरवेक्षितयुतस्तदा मृत्युप्रदः शिशोः ॥ १२॥ सन्ध्यायां चन्द्रहोरायां गण्डान्ते निधनाय वै । प्रत्येकं चन्द्रपापैश्च केन्द्रगैः स्याद्विनाशनम् ॥ १३॥ रवेस्तु मण्डलार्द्धास्तात् सायं संध्या त्रिनाडिका । तथैवार्द्धोदयात् पूर्वं प्रातः संध्या त्रिनाडिका ॥ १४॥ चक्रपूर्वापरार्द्धेषु क्रूरसौम्येषु कीटभे । लग्नगे निधनं याति नाऽत्र कार्या विचारणा ॥ १५॥ व्ययशत्रुगतैः क्रूरैर्मृत्युद्रव्यगतैरपि । पापमध्यगते लग्ने सत्यमेव मृतिं वदेत् ॥ १६॥ लग्नसप्तमगौ पापौ चन्द्रोऽपि क्रूरसंयुतः । यदा नावेक्षितः सौम्यैः शीघ्रान्मृत्युर्भवेत्तदा ॥ १७॥ क्षीणे शशिनि लग्नस्थे पापैः केन्द्राष्टसंस्थितैः । यो जातो मृत्युमाप्नोति स विप्रेश न संशयः ॥ १८॥ पापयोर्मध्यगश्चन्द्रो लग्नाष्टान्तिमसप्तमः । अचिरान्मृत्युमाप्नोति यो जातः स शिशुस्तदा ॥ १९॥ पापद्वयमध्यगते चन्द्रे लग्नसमाश्रिते । सप्ताष्टमेन पापेन मात्रा सह मृतः शिशुः ॥ २०॥ शनैश्चरार्कभौमेषु रिष्फधर्माष्टमेषु च । शभैरवीक्ष्यमाणेषु यो जातो निधनंगतः ॥ २१॥ यद्द्रेष्काणे च यामित्रे यस्य स्याद्दारुणो ग्रहः । क्षीणचन्द्रो विलग्नस्थः सद्यो हरति जीवतम् ॥ २२॥ आपोक्लिमस्थिताः सर्वे ग्रहा बलविवर्जिताः । षण्मासं व द्विमासं व तस्यायुः समुदाहृतम् ॥ २३॥ त्रिभिः पापग्रहैः सूतौ चन्द्रमा यदि दृश्यते । मातृनाशो भवेत्तस्य शुभर्दृष्टे शुभं वदेत्/ ॥ २४॥ धने राहुर्बुधः शुक्रः सौरिः सूर्यो यदा स्थितः । तस्य मातुर्भवेन्मृत्युर्मृते पितरि जायते ॥ २५॥ पापात्सप्तमरन्ध्रस्थे चन्द्रे पापसमन्विते । बलिभिः पापकैर्दृष्टे जातो भवति मातृहा ॥ २६॥ उच्चस्थो वाऽथ नीचस्थः सप्तमस्थो यदारविः । पानहीनो भवेद्बाल अजाक्षीरेण जीवति ॥ २७॥ चन्द्राच्चतुर्थगः पापो रिपुक्षेत्रे यदा भवेत् । तदा मातृवधं कुर्यात् केन्द्रे यदि शुभो न चेत् ॥ २८॥ द्वादशे रिपुभावे च यदा पापग्रहो भवेत् । तदा मातुर्भयं विद्याच्चतुर्थे दशमे पितुः ॥ २९॥ लग्ने क्रूरो व्यये क्रूरो धने सौम्यस्तथैव च । सप्तमे भवने क्रूरः परिवारक्षयंकरः ॥ ३०॥ लग्नस्थे च गुरौ सौरौ धने राहौ तृतीयगे । इति चेञ्जन्मकाले स्यान्माता तस्य न जीवति ॥ ३१॥ क्षीणचन्द्रात्त्रिकोणस्थैः पापैः सौम्यविवर्जितैः । माता परित्यजेद्बलं षण्मासाच्च न संशयः ॥ ३२॥ एकांशकस्थौ मन्दारौ यत्र कुत्रस्थितौ यदा । शशिकेन्द्रगतौ तौ वा द्विमातृभ्यां न जीवति ॥ ३३॥ लग्ने सन्दो मदे भौमः षष्ठस्थाने च चन्द्रमाः । इति चेज्जन्मकाले स्यात् पिता तस्य न जीवति ॥ ३४॥ लग्ने जीवो धने मन्दरविभौमबुधास्तथा । विवाहसमये तस्य बालस्य म्रियते पिता ॥ ३५॥ सूर्यः पापेन संयुक्तो ह्यथवा पापमध्यगः । सूर्यात् सप्तमगः पापस्तदा पितृवधो भवेत् ॥ ३६॥ सप्तमे भवने सूर्यः कर्मस्थो भूमनन्दनः । राहुर्व्यये च युस्यैव पिता कष्टेन जीवति ॥ ३७॥ दशमस्थो यदा भौमः शत्रुक्षेत्रसमास्रितः । म्रियते तस्य जातस्य पिता शीघ्रं न संशयः ॥ ३८॥ रिपुस्थाने यदा चन्द्रो लग्नस्थाने शनैश्चरः । कुजश्च सप्तमे स्थाने पिता तस्य न जीवति ॥ ३९॥ भौमांशकस्थिते भानौ शनिना च निरीक्षिते । प्राग्जन्मनो निवृत्तिः स्यान्मृत्युर्वाऽपि शिशोः पितुः ॥ ४०॥ चतुर्थे दशमे पापौ द्वादशे च यदा स्थितौ । पितरं मातरं हत्वा देशाद्देशान्तरं व्रजेत् ॥ ४१॥ राहुजीवौ रिपुक्षेत्रे लग्ने वाऽथ चतुर्थके । त्रयोविंशतिमे वर्षे पुत्रस्तातं न पश्यति ॥ ४२॥ भानुः पिता च जन्तूनां चन्द्रो माता तथैव च । पापदृष्टियुतो भानुः पापमध्यगतोऽपि वा ॥ ४३॥ पित्ररिष्टं विजानीयाच्छिशोर्जातस्य निश्चितम् । भानोः षष्ठष्टमर्क्षस्थैः पापैः सौम्यविवर्जितैः । सुखभावगतैर्वाऽपि पित्ररिष्टं विनिर्दिशेत् ॥ ४४॥ एवं चन्द्रात् स्थितैः पापैर्मातु कष्टं विचारयेत् । बलाऽबलविवेकेन कष्टं वा मृत्युमादिशेत् ॥ ४५॥
अथाऽरिष्टभंगाध्यायः ॥ १०॥ इत्यरिष्टं मया प्रोक्तं तद्भङ्गश्चापि कथ्यते । यत् समालोक्यं जातानां रिष्ताऽरिष्टं वदेद्बुधः ॥ १॥ एकोऽपि ज्ञार्यशुक्राणां लग्नात् केन्द्रगतो यदि । अरिष्टं निखिलं हन्ति तिमिरं भास्करो यथा ॥ २॥ एक एव बली जीवो लग्नस्थो रिष्टसंचयम् । हन्ति पापक्षयं भक्त्या प्रणाम इव शूलिनः ॥ ३॥ एक एव विलग्नेशः केन्द्रसंस्थो बलान्वितः । अरिष्टं निखिलं हन्ति पिनाकी त्रिपुरं यथा ॥ ४॥ शुक्लपक्षे क्षपाजन्म लग्ने सौम्यनिरीक्षिते । विपरीतं कृष्णपक्षे तथारिष्टविनाशनं ॥ ५॥ व्ययस्थाने यदा सूर्यस्तुलालग्ने तु जायते । जीवेत् स शतवर्षाणि दीर्घायुर्बालको भवेत् ॥ ६॥ गुरुभौमौ यदा युक्तौ गुरुदृऋटोऽथवा कुजः । हत्वाऽरिष्टमशेषं च जनन्याः शुभक्रद्भवेत् ॥ ७॥ चतुर्थदशमे पापः सौम्यमध्ये यदा भवेत् । पितुः सौख्यकरो योगः शुभैः केन्द्रत्रिकोणगैः ॥ ८॥ सौम्यान्तरगतैः पापैः शुभैः केन्द्रत्रिकोणगैः । सद्यो नाशयतेऽरिष्टं तद्भावोत्थफलं न तत् ॥ ९॥
Encoded and proofread by ajarve at fms30.cca.rockwell.com (Ahto Jarve)
% Text title            : bRihatpArAsharahorAshAstram.h 1-10
% File name             : par0110.itx
% itxtitle              : bRihatpArAsharahorAshAstram 1-10
% engtitle              : bRihatpArAsharahorAshAstram.h 1-10
% Category              : jyotisha, sociology_astrology, bRihatpArAshara
% Location              : doc_z_misc_sociology_astrology
% Sublocation           : sociology_astrology
% Subcategory           : bRihatpArAshara
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ahto Jarve ajarve at fms30.cca.rockwell.com
% Proofread by          : Ahto Jarve ajarve at fms30.cca.rockwell.com
% Latest update         : November 1, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP