॥ याजुषज्योतिषम् ॥

पंचसंवत्सरमयं युगाध्यक्षं प्रजापतिम् । दिनर्त्वयनमासांगं प्रणम्य शिरसा शुचिः ॥ १॥ ज्योतिषामयनं पुण्यं प्रवक्ष्याम्यनुपूर्वशः । विप्राणां सम्मतं लोके यज्ञकालार्थ सिद्धये ॥ २॥ वेद हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्व्या विहिताश्च यज्ञाः । तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद स वेद यज्ञान् ॥ ३॥ यथा शिखा मयूराणां नागानां मणयो यथा । तद्वद्वेदांगशास्त्राणां ज्यौतिषं मूर्धानि स्थितम् ॥ ४॥ ये बृहस्पतिना भुक्ता मीनात्प्रभृति राशयः । ते हृताः पंचभिर्भूता यः शेषः स परिग्रहः ॥ ०॥ माघशुक्लप्रपन्नस्य पौषकृष्णसमापिनः । युगस्य पंचवर्षस्य कालज्ञानं प्रचक्षते ॥ ५॥ स्वराक्रमेते सोमार्कौ यदा साकं सवासवौ । स्यात्तदादियुगं माघस्तपः शुक्लोऽयनं ह्युदक् ॥ ६॥ प्रपद्यते श्रविष्ठादौ सूर्याचन्द्रमसावुदक् । सार्पार्धे दक्षिणार्कस्तु माघश्रावणयोः सदा ॥ ७॥ धर्मवृद्धिरपां प्रस्थः क्षपाह्रास उदग्गतौ । दक्षिणे तौ विपर्यासः षण्मुहूर्त्ययनेन तु ॥ ८॥ प्रथमं सप्तमं चाहुरयनाद्यं त्रयोदशम् । चतुर्थं दशमं चैव द्विर्युग्मं बहुलेप्यृतौ ॥ ९॥ वसुस्त्वष्टा भवोऽजश्च मित्रः सर्पोऽश्विनौ जलम् । धाता कश्चायनाद्याः स्युरर्धपंचमभस्त्वृतुः ॥ १०॥ एकान्तरेऽह्नि मासे च पूर्वान् कृत्वादिमुत्तरः । अर्धयोः पंचवर्षाणामृदु पंचदशाष्टमौ ॥ ११॥ द्युहेयं पर्व चेत्पादे पादस्त्रिंशत्तु सैकिका । भागात्मनापवृज्यांशान् निर्दिशेदधिको यदि ॥ १२॥ निरेकं द्वादशाभ्यस्तं द्विगुणं गतसंज्ञिकम् । षष्ट्या षष्ट्या युतं द्वाभ्यां पर्वणां राशिरुच्यते ॥ १३॥ स्युः पादोऽर्धंत्रिपाद्याया त्रिद्वयेकऽह्नः कृतस्थितिम् । साम्येन्दोस्तृणोऽन्ये तु पर्वकाः पंच सम्मिताः ॥ १४॥ भांशाः स्युरष्टकाः कार्याः पक्षद्वादशकोद्गताः । एकादशगुणश्चोनः शुक्लेऽर्धं चैन्दवा यदि ॥ १५॥ नवकैरुद्गतोंशः स्यादूनः सप्तगुणो भवेत् । आवापस्त्वयुजेऽर्धं स्यात्पौलस्ये।आस्तंगतेऽपरम् ॥ १६॥ जावाद्यंशैः समं विद्यात् पूर्वार्धे पर्व सूत्तरे । भादानं स्याच्चतुर्दश्यां काष्ठानां देविना कलाः ॥ १७॥ जौ द्रा गः खे श्वे ही रो षा श्चिन्मूषक्ण्यः सूमाधाणः । रे मृ घाः स्वापोजः कृष्यो ह ज्येष्ठा इत्यृक्षा लिंगैः ॥ १८॥ कार्या भांशाष्टकास्थाने कला एकान्नविंशतिः । उनस्थाने त्रिसप्तति मुद्ववपेदूनसम्भवे ॥ १९॥ तिथिमेकादशाभ्यस्तां पर्वभांशसमन्विताम् । विभज्य भसमूहेन तिथिनक्षत्रमादिशेत् ॥ २०॥ याः पर्वाभादानकलास्तासु सप्तगुणां तिथिम् । युक्त्या तासां विजानीयात् तिथिभादानिकाः कलाः ॥ २१॥ अतीतपर्वभागेभ्यः शोधयेद् द्विगुणां तिथिम् । तेषु मण्डलभागेषु तिथिनिष्ठांगतो रविः ॥ २२॥ विषुवन्तं द्विरभ्यस्तं रूपोनं षड्गुणीकृतम् । पक्षा यदर्धं पक्षाणां तिथिः स विषुवान् स्मृतः ॥ २३॥ पलानि पंचाशदपां धृतानि तदाढकं द्रोणमतः प्रमेयम् । त्रिभिर्विहीनं कुड्वैस्तु कार्यं तन्नाडिकायास्तु भवेत् प्रमाणम् ॥ २४॥ एकादशभिरभ्यस्य पर्वाणि नवभिस्तिथिम् । युगलब्धं सपर्व स्याद् वर्तमानार्कभं क्रमात् ॥ २५॥ सूर्यर्क्षभागान् नवभिर्विभज्य शेषान् द्विरभ्यस्य दिनोपभुक्तिः । तिथेर्युता भुक्तिदिनेषु कालो योगो दिनैकादशकेन् तद्भम् ॥ २६॥ त्र्यंशो भशेषो दिवसांशभागश्चतुर्दशस्याप्यपनीय भिन्नम् । भार्धेऽधिके चाधिगते परोंऽशोद्वावुत्तमे तन्नवकैरवेत्य ॥ २७॥ त्रिंशत्यह्नां सषट्षष्टिरब्दः षट् चर्तवोऽयने । मासा द्वादश सौर्याः स्युरेतत् पंचगुणं युगम् ॥ २८॥ उदयावासवस्य स्युर्दिनराशि सपंचकः । ऋषेर्द्विषष्टिहीनः स्याद् विंशत्या चैकयास्तृणाम् ॥ २९॥ पंचत्रिंशं शतं पौष्णम् एकोनमयनोन्यृषेः । पर्वणां स्याच्चतुष्पादी काष्ठानां चैव ताः कलाः ॥ ३०॥ सावनेन्दुस्तृमासानां षष्टिः सैकद्विसप्तिका । द्युस्त्रिंशत् सावनः सार्धः सौरस्तृणां स पर्ययः ॥ ३१॥ अग्निः प्रजापतिः सोमो रुद्रोदितिबृहस्पती । सर्पाश्च पितरश्चैव भगश्चैवार्यमापि च ॥ ३२॥ सविता त्वष्टाथ वायुश्चेन्द्राग्नी मित्र एव च । इन्द्रो निॠतिरापो वै विश्वेदेवास्तथैव च ॥ ३३॥ विष्णुर्वसवो वरुणूऽजेकपात् तथैव च । अहिर्बुध्न्यस्तथा पूषा अश्विनौ यम एव च ॥ ३४॥ नक्षत्रदेवता एता एताभिर्यज्ञकर्मणि । यजमानस्य शास्त्रज्ञैर्नाम नक्षत्रजं स्मृतम् ॥ ३५॥ उग्राण्यार्द्रा च चित्रा च विशाखा श्रवणोश्वयुक् । क्रूरणि तु मघास्वाती ज्येष्टा मूलं यमस्य च ॥ ३६॥ द्यूनं द्विषष्टिभागेन ज्ञे (हे) यं सौरं सपार्वणम् । यत्कृतावुपजायेते मध्येऽन्ते चाधिमासकौ ॥ ३७॥ कला दश सविंशा स्याद् द्वे मुहुर्तस्य नाडिके । द्युस्त्रिंशत् तत्कलानां तु षट्शती त्र्यधिका भवेत् ॥ ३८॥ ससप्तमं भयुक् सोमः सूर्यो द्यूनि त्रयोदश । नवमानि तु पंचाह्नः काष्ठा पंचाक्षरा भवेत् ॥ ३९॥ यदुत्तरस्यायनतो गतं स्याच् छेषं तथा दक्षिणतोऽयनस्य । तदेकषष्ट्याद्विगुणं विभक्तं सद्वादशं स्याद् दिवसप्रमाणम् ॥ ४०॥ यदर्धं दिनभागानां सदा पर्वणि पर्वणि । ॠतुशेषं तु तद् विद्यात् संख्याय सह सर्वणाम् ॥ ४१॥ इत्युपायसमुद्देशो भूयोप्यह्नः प्रकल्पयेत् । ज्ञेयराशिं गताभ्यस्तं विभजेज्ज्ञानराशिना ॥ ४२॥ इत्येतन्मासवर्षाणां मुहूर्तोदयपर्वणाम् । दिनर्त्वयनमासांगं व्याख्यानं लगधोऽब्रवीत् ॥ ००॥ सोमसूर्यस्तृचरितं विद्वान् वेदविदश्नुते । सोमसूर्यस्तृचरितं लोकं लोके च सम्मतिम् ॥ ४३॥ ॥ इति याजुषज्योतिषं समाप्तम् ॥ Encoded and proofread by Sanjay Prabhakaran sanjaychettiar at gmail.com

% Text title            : yaajuShajyotiSham
% File name             : yaajuShajyotiSha.itx
% itxtitle              : yAjuShajyotiSham
% engtitle              : yAjuShajyotiSham
% Category              : jyotiSha, sociology_astrology
% Location              : doc_z_misc_sociology_astrology
% Sublocation           : sociology_astrology
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/astrology
% Transliterated by     : Sanjay Prabhakaran sanjaychettiar at gmail.com
% Proofread by          : Sanjay Prabhakaran sanjaychettiar at gmail.com
% Latest update         : May 21, 2009
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP