पूर्वम्: १।१।१
अनन्तरम्: १।१।३
 
प्रथमावृत्तिः

सूत्रम्॥ अदेङ्गुणः॥ १।१।२

पदच्छेदः॥ अदेङ् १।१ गुणः १।१

समासः॥

अत् च एङ् च अदेङ्

अर्थः॥

अ ए ओ इति एतेषां वर्णानां गुणसंज्ञा भवति

उदाहरणम्॥

चेता, नेता, स्तोता, कर्ता, हर्ता, तरिता, भविता॥ जयति, नयति॥ पचन्ति, पठन्ति॥ पचे, यजे, देवेन्द्रः, सूर्योदयः, महर्षिः॥
काशिका-वृत्तिः
अदेङ् गुणः १।१।२

गुणशब्दः संज्ञात्वेन विधीयते, प्रत्येकम्, अदेङां वर्णानां सामान्येन तद्भावितानाम्, अतद्भावितानां च। तपरकरणं त्विह सर्वार्थम्। तरिता। चेता। स्तोता। जयन्ति। अहं पचे। गुणप्रदेशाः मिदेर् गुणः ७।३।८२ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
अदेङ् गुणः २५, १।१।२

अत् एङ् च गुणसंज्ञः स्यात्॥
न्यासः
अदेङ् गुणः। , १।१।२

"तपरकरणं त्विह सर्वार्थम्िति। सर्वस्मिन्नर्थः प्रयोजनं यस्य तत् तथोक्तम्। तुशब्दः पूर्वस्माद्विशेषं दर्शयति। तत्र ह्रैजर्थमेव, इह तु सर्वार्थम्, अकारार्थमेङर्थमपि। असति हि तपरकरणं अदेङामणत्वात् सवर्णानां ग्रहणं सति भिन्नकालानामप्येषा सञ्ज्ञा स्यात्। ततश्च "तरिता" इत्यत्रान्तरत्मयाद्दीर्घस्य दीर्घ एव गुणस्यात्।ननु च वृद्धिसञ्ज्ञा गुणसञ्ज्ञाया बाधिका भविष्यति, तत् कुतोऽयं प्रसङ्गः? नैतदस्ति। एकसञ्ज्ञाधिकारे हि सञ्ज्ञया सञ्ज्ञान्तरं बाध्यते, न चात्रेकसञ्ज्ञाधि-कारः। स्यादेतत्, असत्यप्येकसञ्ज्ञाधिकारे यथा "जीवति तु वंश्ये युवा"४।१।१६३ इति गोत्रसञ्ज्ञा युवसञ्ज्ञया बाध्यते, यथा च "लिट् च" ३।४।११५, "लिङाशिषि"३।४।११६इति चार्धधातुकसञ्ज्ञया सार्वधातुकसंज्ञा बाध्यते, तथा गुणसंज्ञा वृद्धिसञ्ज्ञया बाधिष्यते इति? अयुक्तमेतत। युवसञ्ज्ञाविधौ तुग्रहणं नियमार्थं क्रियते। ततो युक्तं यद्युवसञ्ज्ञया गोत्रसञ्ज्ञा बाध्यत इति। आर्धधातुकसञ्ज्ञाऽपि यत् सार्वधातुकसञ्ज्ञा बाध्यते तदपि युक्तमेव, "छन्दस्युभयथा" ३।४।११७ति वचनात्। यदि सार्व- धातुकार्धधातुकसञ्ज्ञयोः समावेशः स्यात्, न बाध्यबाधकभावः, तदा "छन्दस्युभयथा"३।४।११७ इति वचनमपार्थकं स्यात्। इह तु न किञ्चित् तथाविधं निबन्धनमस्ति, यतो वृद्धिसञ्ज्ञया गुणसञ्ज्ञा बाध्यते। अथापि कथञ्चिद्बाध्येत, एवमपि त्रिमात्रिकस्यापि गुण- सञ्ज्ञा स्यादेव। न हि सा तया शक्या बाधितुम्, तस्य अतद्विषयत्वात्। त्रिमात्रस्यापि गुणसञ्ज्ञायां सत्यां त्रिमात्रोऽपि गुणः प्रसज्यते। ऋकारस्य हि कालतो यथैकमत्रिकोऽकारोऽन्तरतमो न सम्भवति, तथा त्रिमात्रोऽपि, तत् कुत एतल्लभ्यते? ह्यस्वेनैवास्य गुणेन भवितव्यम् न हि त्रिमात्रेणाकारेणेति। किञ्च, यदि भिन्न- कालानामपि गुणसञ्ज्ञा स्यात्, "खट्वा इन्द्रः= खट्वेन्द्रः खट्वा उर्वी खट्वोर्वी" इत्यत्र त्रिमात्रत्वात् पूर्वोत्तरसमुदायात्मनः स्थानिनः "आद्()गुणः" ६।१।८४इति त्रिमात्रो गुणः स्यात्। खट्वा ईषा= खट्वेषा, खट्वा उढा=खट्वोढा" इत्यत्र चतुर्मा- मात्रित्वात् चतुर्मात्रः। तस्मात् सर्वार्थं तपरकरणं कर्तव्यम्। "तरिता" इत्यादि। "तृ? तप्लवनतरणयोः" (धा।पा।९६९), "चिञ् चयने" (धा।पा।१२५१), "ष्टुञ् स्तुतौ" (धा।पा।१०४३), एभ्यः "ण्लुल्()तृचौ"३।१।१३३ इति तृच्। "आर्धधातुकस्येड् वलादेः"७।२।३५ इतीट्, "सार्वधातुकार्धधातुकयोः" ७।३।८४ इति गुणः, सु, "ऋदुशनस्()"७।१।९४ इत्यादिना अनङ, "सर्वनामस्थाने च" ६।४।८ इति दीर्घः। एतानि त्रीणि यथाक्रमदेङां तद्भावितानामुदाहरणानि। "पठन्ति, पठन्" इत्यकारस्यात्द्भावितस्योदाहरणे। अत्रान्त्याकारस्य गुणसञ्ज्ञायां "अतो गुणे" ६।१।९४ पररूपत्वं भवति। पठन्निति शत्रन्तमेतत्। एकास्यातद्भावितस्यकार्योदाहरणम्- "अहं पचे" इत्यादि। ओकारस्यातद्भावितस् तन्न सम्भवतीति न प्रदश्र्यते।
बाल-मनोरमा
अदेङ्गुणः १९, १।१।२

अदेङ्गुणः। संज्ञाप्रस्तावात्संज्ञेति लभ्यते। अच्च एङ्? चेति समाहारद्वन्द्वः। तदाह--अदेङ् चेत्यादिना।

तत्त्व-बोधिनी
अदेङ्गुणः १८, १।१।२

अदेङ्गुणः। तपरकरणमिह सर्वार्थम्। तेन "गङ्गोदक"मित्यत्र त्रिमात्रो न। "तरती"त्यत्र त्वकार एव, नतु कदाचिदाकारः। नच प्रमाणत आन्तर्येण नियमसिद्धिः, रपरत्वे कृते एकस्याध्यर्धमात्रत्वादपरस्यार्धतृतीयमात्रत्वात्। गुणप्रदेशास्तु-"आद्गुणः" "अतो गुणे" इत्यादयः।