पूर्वम्: १।१।१९
अनन्तरम्: १।१।२१
 
प्रथमावृत्तिः

सूत्रम्॥ आद्यन्तवदेकस्मिन्॥ १।१।२०

पदच्छेदः॥ आद्यन्तवत् एकस्मिन् ७।१

समासः॥

आदिश्च अन्तश्च आद्यन्तौ, इतरेतरद्वन्द्वः। आद्यन्तयोः इव आद्यन्तवत्, षष्ठ्यर्थे वतिप्रत्ययः (५।१।११५)

अर्थः॥

एकस्मिन्नपि आदौ इव, अन्तः इव कार्यं भवति

उदाहरणम्॥

औपगवः, आभ्याम्
काशिका-वृत्तिः
आद्यन्तवदेकस्मिन् १।१।२१

असहायसयाद्यन्तौपदिष्टानि कार्याणि न सिध्यन्ति इति अयमतिदेश आरभ्यते। सप्तम्यर्थे वतिः। आदाविव अन्ते इव एकस्मिन्नपि कार्यं भवति। यथा कर्तव्यम् इत्यत्र प्रत्ययाऽद्युदात्तत्वं भवति, एवम् औपगवम् इत्यत्र अपि यथा स्यात्। यथा वृक्षाभ्याम् इत्यत्र अतो ऽङ्गस्य दीर्घत्वम् एवम् आभ्याम्, इत्यत्र अपि यथा स्यात्। एकस्मिन्निति किम्। सभासन्नयने भवः साभासन्नयनः, आकारम् आश्रित्य वृद्धसंज्ञा न भवति।
लघु-सिद्धान्त-कौमुदी
आद्यन्तवदेकस्मिन् २८०, १।१।२०

एकस्मिन्क्रियमाणं कार्यमादाविवान्त इव स्यात्। सुपि चेति दीर्घः। आभ्याम्॥
न्यासः
आद्यन्तवदेकस्मिन्। , १।१।२०

"असहायस्य" इत्यादिना सूत्रारम्भस्य फलं दर्शयति। इति करणो हेतौ। यस्मादादेरन्तस्य यानि कार्याण्युपदिष्टानि, तान्यविद्यमानसहायस्य न सिध्यन्ति; तस्मादतिदेशोऽयमारभ्यते। द्वितीयादिकं हि सहायमपेक्ष्याद्यन्तशब्दौ प्रवत्र्तते। तथा हि - लोकः सति हि परस्मिन् सहाये पूर्वाभावे चादिरिति व्यपदिशति, सति च पूर्वस्मिन्पराभावे चान्त इति। अतस्तदुभयमसहाये नास्तीति। तत्राद्यन्तप्रतिबद्धानि कार्याणि न स्युः, यद्ययमतिदेशो आरभ्यते। "एकस्मिन्" इति वचनात् "आद्यन्तवत" इत्यत्र सप्तमीसमर्था- द्वतिर्गम्यत इत्याह- "सप्तम्यर्थे वतिः" इति। आद्यन्तयोरिवाद्यन्तवत्, "तत्र तस्येव" ५।१।११५ इति वतिः। "औपगवम्" इत्यत्राप्यादिव्यपदिष्टं कार्यमतिदेशस्य फलम्। प्रत्ययाद्युदात्तत्वं ह्रादेरुपदिष्टम्, "आद्युदात्तश्च" ३।१।३ इति वचनात्। " आभ्याम्" इति। अत्रान्तोपदिष्टं दीर्घत्वं ह्रन्तस्योपदिष्टम्, "अलोऽन्त्यस्य" १।१।५१ इति वचनात्। इदमो भ्याम्, त्यदाद्यत्वम्, ७।२।१०२, "अतो गुणे" ६।१।९४ पररूपत्वम्, "हलि लोपः" ७।२।११३ इतीद्रूपस्य लोपः, "सुपि च" ७।३।१०२ इति दीर्घः।
बाल-मनोरमा
आद्यन्तवदेकस्मिन् , १।१।२०

ननु इदम् भ्यामिति स्थिते त्यदाद्यत्वे पररूपे इदो लोपे च कृते अ-भ्याम् इति स्थिते अङ्गस्याकारात्मकत्वाददन्तत्वाभावात्कथं "सुपि चे"ति दीर्घ इत्यत आह-आद्यन्तवदे। आदित्वान्तत्वयोर्नित्यमन्यसापेक्षत्वादेकस्मिन् तत्प्रयुक्तकार्याणामप्राप्तौ तत्पाप्त्यर्थमिदमारभ्यते।एकशब्दोऽसहायवाची। "एके मुख्यान्यकेवलाः" इत्यमरः। सप्तम्यन्ता"त्तत्र तस्येवे"ति वतिः, एकस्मिन्नित्युपमेये सप्तमीदर्शनात्। वतिश्च द्वन्द्वान्ते श्रूयमाणत्वात्प्रत्येकं संबध्यते। तदाह-एकस्मिन्नित्यादि। तदादितदन्तयोः क्रियमाणं कार्यं तदादौ तदन्त इव च असहायेऽपि स्यादित्यर्थः। एकस्मिन्निति किम्?। दरिद्रातेरेरजिति न। आदिवत्त्वफलम्-औपगव इत्यादौ अण्प्रत्ययाद्युदात्तत्वम्। आभ्यामित्यादौ अन्तवत्त्वाद्दीर्घादिर्भवति। भाष्ये तु आद्यन्तवदित्यपनीय व्यपदेशिवदेकस्मिन्निति सूत्रपाठः शिक्षितः। तेन इयायेत्यादौ "एकाचो द्वे प्रथमस्ये"ति द्विर्भावः, धुगित्यत्र व्यपदेशिवत्त्वेन धात्ववयवत्वाद्भष्भावश्च सिध्यति। विशिष्टोऽपदेशो-व्यपदेश=मुख्यो व्यवहारः। सोऽस्यास्तीति व्यपदेशी। मुख्य इति यावत्। एकस्मिन् तदादित्वतदन्तत्वतदवयवत्वादिप्रयुक्तकार्यं स्यादिति फलितम्। ()इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ।२।४।३२।

इदम्--भिसिति स्थिते त्यदाद्यत्वे पररूपे "हलि लोपः" इति इदो लोपे अ-भिस् इति स्थिते "अतो भिस ऐ"सिति प्राप्ते--नेदमदसोरकोः। "अतो भिस ऐ"सित्यतो भिस ऐसित्यनुवर्तते। "अको"रिति षष्ठो। न विद्यते ककारो ययोरिति बहुव्रीहिः। तदाह--अककारयोरित्यादिना। एत्त्वमिति। "बहुवचने झलीत्यनेने"ति शेषः। ङयि विशेषमाह-अत्वमित्यादि। अत्वं ङेः स्मै इत्यन्वयः। इदम् एव इति स्थिते स्मैभावात्परत्वादनादेशे "विप्रतिषेधे यद्बाधितं तद्बाधितमेवे"ति न्यायेन पुनः स्मैभावो न स्यादित्यत आह--नित्यत्वादिति। कृतेऽकृतेऽप्यनादेशे प्रवृत्तियोग्यतया स्मैभावस्य नित्यत्वादनादेशात्प्रागेव स्मैभावे कृतेऽनादेशस्य हलि लोपेन बाध इति भावः। आभ्यामिति। पूर्ववत्। एभ्य इति। त्यदाद्यत्वं, पररूपत्वं, हलि लोपः, "बहुवचने झल्ये"दित्येत्त्वंचेति भावः। अस्मादिति। त्यदाद्यत्वं, पररूपत्वं हलि लोपःस "ङसिङ्योः" इति स्मादिति भावः। अस्येति। त्यदाद्यत्वं, पररूपत्वं, स्यादेशः, हलि लोपश्चेति भावः। अनयोरिति। त्यदाद्यत्वंस पररूपत्वम्, "अनाप्यकः" "ओसि चे"त्येत्त्वम्, अयादेशश्चेति भावः। एषामिति। आमि त्यदाद्यत्वं, पररूपत्वं, हलि लोपः, एत्त्वषत्वे इति भावः। अस्मिन्निति। अत्वं, पररूपत्वं, स्मिन्, हलि लोपश्चेति भावः। ए()इआति अत्वं, पररूपत्वं, हलि लोपः, एत्त्वषत्वे इति भावः। ककारयोगे त्विति। "अव्ययसर्वनाम्नामकच् प्राक् टे"रित्यनेन इदंशब्दस्य, अकचि सतीत्यर्थः। अयकमिति। अकचि सति निष्पन्नस्य इदकम्शब्दस्य "तन्मध्यपतिन्यायेन "इदमो मः" इत्यादाविदंग्रहणेन ग्रहणान्मत्वादिकमिति भावः। "अनाप्यकः" इति, "हलि लोपः" इति, "नेदमदसोरको"रिति च नेह प्रवर्तते। ककारयोगे तन्निषेधादित्याशयेनाह--इमकेन इमकाभ्यामिति। इत्यादीति। इमकैः। इमकस्यै। इमकेभ्यः। इमकस्मात्। इमकस्य, इमकयोः २, इमकेषाम्। इमकस्मिन् इमकेषु।

तत्त्व-बोधिनी
आद्यन्तवदेकस्मिन् ३०८, १।१।२०

आद्यन्तवत्। "सत्यन्यस्मिन् यस्य पूर्वो नास्ति स आदिः", "सत्यन्यस्मिन्यस्य परो नास्ति सोऽन्तः"इति लोके प्रसिद्धं, तदुभयमेकस्मिन्नसहाये न संभवतीति तत्राद्यन्तव्यपदिष्टानि कार्याणि नस्युरतोऽयमतिदेश आरभ्यते। नच परत्वात्, "सुपिचे"ति दीर्घे पश्चाद्धिलि लोपे सति आभ्यामित्यादि सिध्यतीति किमत्राद्यन्तवत्सूत्रोपन्यासेनेति शङ्क्यम्, नित्यत्वाद्धलि लोर इत्यस्य दीर्घात्पूर्वमेव प्रवृत्तेः। "एकस्मि"न्नित्युपमेये सप्तमीदर्शनात्सप्तम्यर्थ एव वतिरित्यभिप्रेत्याह--आदाविवान्त इवेति। आदिवत्किम्()। औपगवः। अत्राऽण आद्युदात्तत्वं यथा स्यात्। भाष्ये त्वादियविदित्यपनीय "व्यपदेशिवदेकस्मि"न्निति सूत्रमूहितम्। विशिष्टोऽपदेशो व्यपदेशः---मुख्यो व्यवहारः। सोऽस्यातीति व्यपदेशी, मुख्य इति यावत्। तेन तुल्यमेकस्मिन्नसगायेऽपि कार्यं स्यादित्यर्थः। तेन "इयाय""आरे"त्यादौ"एकाचः"इति द्वित्वं सिध्यति। अन्यथा आद्यन्तापदिष्टत्वाद्धित्वं न स्यादिति दिक्।